कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

प्रथमः काण्डः

महीपविरचितः अनेकार्थतिलकः

॥ नमो भगवत्यै सरस्वत्यै ॥

या संस्मृता प्राणभृतां क्षणेन संसाधयेदिष्टसमस्तसिद्धिं ।विश्वस्य सृष्टिस्थितिनाशहेतुः सा भारती यच्छतु वाञ्छितं वः ॥ १ ॥
1.1 · p. 1
इन्द्रवज्रा
कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरः ।विरच्यते चतुःकाण्ड्या रम्योऽनेकार्थसंग्रहः ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
मुख्योऽत्र शब्दः प्रथमं स्वं युक्त्यालंकृतः कृतः ।परस्त्वर्थान्तराख्यायी सप्तम्यन्त इति स्थितिः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
अकाराद्यादिभिः शब्दैः क्षान्तैरेकाक्षराभिधः ।ग्रन्थेस्मिन्प्रथमः काण्ड आविरस्ति सुविस्तरात् ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
अः कृष्णे विनतासूनौ आ विधातरि मन्मथे ।आ अव्ययं स्मृतौ वाक्ये स्यादाः सन्तापकोपयोः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
आङ् सीमायामभिव्याप्तौ क्रियायोगेषदर्थयोः ।इः स्मरेऽर्थेऽव्ययं खेदे कोपोक्तावी भुवि श्रियाम् ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
उः शम्भावुत्प्रकाशे स्यान्मोक्षे भावोर्द्ध्वशक्तिषु ।उ क्रोधे बन्धने लोभे विभागेऽव्ययं गुरौ ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पालने रक्षणे च स्यादः पृथिव्यां देवमातरि ।ऋ दैत्यमातरि स्यात्तु देव्यामॄस्तु लतान्तरे ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वाराह्यामे महीध्रे च विष्णावैरद्रिजापतौ ।ओर्धातर्यौरनन्ते स्यादं ब्रह्मण्यः कपालिनि ॥ ९ ॥
1.9 · p. 1
अनुष्टुप्
कं सुखे सलिले शीर्षे कः स्वर्गस्मरवह्निषु ।सुहृत्सूर्ययमोद्योतकेकि(की)ब्रह्मात्मवायुषु ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
कुर्भूमौ कुत्सिते शब्दे पापीयसि निवारणे ।ईषदर्थेऽथ किं प्रश्ने वितर्काश्चर्ययोरपि ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्
कुत्सनाक्षेपनिन्दासु किम् कियत्यपि दृश्यते ।खं पुनर्गगने बिन्दाविन्द्रिये चन्द्रमण्डले ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
वर्णखण्डसुखस्वर्गशून्यसंवित्सुखौ रवौ ।गं गीते गस्तु गन्धर्वे गणनायकगीतयोः ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
गौर्वज्रेऽप्सु वृषे धेनौ वाचि दिग्बाणयोर्गिरि ।भूमयूखसुखस्वर्गसत्यवह्न्यक्षिमातृषु ॥ १४ ॥
1.14 · p. 2
अनुष्टुप्
गीस्तु वाचि सरस्वत्यां दुर्गायां ककुभिः स्मृता ।घो घटे हनने रुद्रे घा किङ्किण्यां घनस्वने ॥ १५ ॥
1.15 · p. 2
अनुष्टुप्
ङ शब्दो विषये भीमे चश्चन्द्रे तस्करे तरौ ।चाव्ययं तु समाहारे पादपूर्त्तौ समुच्चये ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
परस्परार्थे साकल्ये कारणेऽवधृतावपि ।पक्षान्तरे समाने स्याच्चुश्चकोरे चतुष्पथे ॥ १७ ॥
1.17 · p. 2
अनुष्टुप्
छः सूर्ये छेदके चारे छं तु छन्दसि निर्मले ।जो जिष्णौ विगते जीवे जूशब्दाम्बरवाचि च ॥ १८ ॥
1.18 · p. 2
अनुष्टुप्
पिशाच्यां जवने कीटे जो नष्टे चारुमारुते ।ज्ञः स्याद्विचक्षणे चन्द्रपुत्रे मुनिविरिञ्चयोः ॥ १९ ॥
1.19 · p. 2
अनुष्टुप्
ञः शब्दो गायने गूढरूपके घर्घरध्वनौ ।टः शब्दे पवने भूमौ करण्टे टं पुनर्गवि ॥ २० ॥
1.20 · p. 2
अनुष्टुप्
ठो घटे सुस्वने रुद्रे चन्द्रमण्डलशून्ययोः ।डः ध्वनौ गिरिशे जापे ढोऽगुणे ध्वनिढङ्कयोः ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्
णो मोक्षे निष्फले स्पष्टे तः क्रोडे चौरपुच्छयोः ।युद्धेऽथ ता महीलक्ष्म्योस्त्वक् चर्मणि च वल्कले ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्
त्विट् प्रभायां जिगीषायां व्यवसाये रुचौ गिरि ।तृट् तृष्णेवमता विद्भिः पिपासालिप्सयोरपि ॥ २३ ॥
1.23 · p. 3
अनुष्टुप्
तु स्मृतौ च समाहारे साकल्ये कारणेऽव्ययं ।थो भीषणे भरेऽद्रौ दं पत्न्यां दा दातृदानयोः ॥ २४ ॥
1.24 · p. 3
अनुष्टुप्
बन्धे विखण्डने चाथ दृक् स्याद्दर्शननेत्रयोः ।द्युर्वह्नौ दिवसे द्यौस्तु नाके नभसि धं धने ॥ २५ ॥
1.25 · p. 3
अनुष्टुप्
धो धीरे धनदेऽपि स्यादश्ववारकचित्रयोः ।धीर्धियामिषुधौ धा च गुह्यकेशे च धातरि ॥ २६ ॥
1.26 · p. 3
अनुष्टुप्
धूस्तु धूर्ते भरे कम्पे रथास्ये नस्तु संविदि ।अस्मानस्माकमस्मभ्यं स्थाने निर्बन्धबुद्धयोः ॥ २७ ॥
1.27 · p. 3
अनुष्टुप्
नु स्तुतौ तु वितर्क्के स्याद्विकल्पेऽनुशयेऽव्ययं ।प्रश्नेऽथ निर्नरे भूपे निर्निश्चयनिषेधयोः ॥ २८ ॥
1.28 · p. 3
अनुष्टुप्
क्रीताद्यर्थे चये ना न नो निषेधेऽव्ययानि च ।नौस्तरण्यां च नी नद्यां न्यक् निम्ने नीचकार्त्स्न्ययोः ॥ २९ ॥
1.29 · p. 3
अनुष्टुप्
पः पातरि पयःपाने प्रौढे पवनमार्गयोः ।पूः शरीरे पुरे चाथ फो जञ्जानिलफेनयोः ॥ ३० ॥
1.30 · p. 3
अनुष्टुप्
फूः फूत्कृतौ च वातूले बः पद्मे वरुणे घटे ।विट् प्रवेशे नरे वैश्ये वाक् भारत्यां वचस्यपि ॥ ३१ ॥
1.31 · p. 3
अनुष्टुप्
वः शम्भौ वरुणे वा तु स्यादौपम्ये गणेऽव्ययं ।विः खगे खेऽपि भं धिष्ण्ये भोऽलिशुक्रयोः ॥ ३२ ॥
1.32 · p. 4
अनुष्टुप्metre not read in every line
भी प्रभावे मयूखे भूरुत्पत्तिस्थितिभूमिषु ।भीर्भये मो विधौ चन्द्रे शिवे शिरसि मा श्रियाम् ॥ ३३ ॥
1.33 · p. 4
अनुष्टुप्
माने मातरि मा शब्दो निषेधार्थेऽव्ययं स्मृतौ ।मू शब्दस्तु ग्रहे बन्धे मास्तु मासे निशाकरे ॥ ३४ ॥
1.34 · p. 4
अनुष्टुप्
यो वेधसि यमे वाते यमम्भसि पशावपि ।यातर्यपि खट्वाङ्गे लक्ष्म्यां यानेऽथ रः स्मरे ॥ ३५ ॥
1.35 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 या (syllables merged)
तीव्रे वैश्वानरे शब्दे रामे वज्रे नरेऽथ राः ।कनके विभवे मेघे स्थानके रुस्तु रक्षणे ॥ ३६ ॥
1.36 · p. 4
अनुष्टुप्
भये दिनाधिपे शब्दे री गते रुक् प्रभेच्छयोः ।किरणे रुज्व्यथायां च रे हूताव्ययं स्मृतौ (तम्) ॥ ३७ ॥
1.37 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ला दाने लूश्च लवने ल इन्द्रे चलनेऽमृते ।लिर्लावे लीर्द्रवे श्लेषे कङ्कणे दृढबन्धने ॥ ३८ ॥
1.38 · p. 4
अनुष्टुप्
श्रीः प्रभाभारतीलक्ष्मीसंपत्सु सरलद्रवे ।शं सुखे स्याच्च कल्याणे शीः शये शुः सुधाकरे ॥ ३९ ॥
1.39 · p. 4
अनुष्टुप्
षूः प्रसूतौ च षः श्रेष्ठे सः परोक्षेथ सा श्रियां ।सन् शोभने प्रशस्ते स्याद्विद्यमाने च सत्यपि ॥ ४० ॥
1.40 · p. 4
अनुष्टुप्
सत्यपूजितयोश्चाथ स्वः स्वर्गपरलोकयोः ।स्वो ज्ञातावात्मनि स्वं तु निजेर्थे हः शिवे करे ॥ ४१ ॥
1.41 · p. 4
अनुष्टुप्
वीरे भयङ्करे ह स्यात्सम्बुद्धौ पादपूरणे ।हा शुग्दुःखविषादेषु ही विषादेपि विस्मये ॥ ४२ ॥
1.42 · p. 4
अनुष्टुप्
दुःखहेतौ च हुं स्वल्पे परप्रश्नवितर्कयोः ।हि हेतौ पादपूर्त्तौ च विशेषेऽप्यवधारणे ॥ ४३ ॥
1.43 · p. 5
अनुष्टुप्
हे हूतावपि सम्बुद्धौ हं खेदे रोषभाषणे ।अव्ययं क्ष्मा भुवि ज्यायां क्षः क्षेत्रे रक्षसि क्षमे ॥ ४४ ॥
1.44 · p. 5
अनुष्टुप्
श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत्सन् प्रासूतसुतं महीपममलं सौभाग्यदेवी च यं ।तत्सृष्टेतिमुदे विदामनुपमे नानार्थनामालयेग्रन्थेऽस्मिन्प्रथमः पृथौ समभवत्काण्डोऽयमेकाक्षरः ॥ ४५ ॥
1.45 · p. 5
शार्दूलविक्रीडितम्