कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

तृतीयः काण्डः (3/3)

वाल्हिकस्तुरगे देशे वाल्हिकं हिङ्गुवेरयोः ।वैजिकः प्रथमाङ्कूरे शिग्रुतैले च कारणे ॥ २४१ ॥
3.241 · p. 60
अनुष्टुप्
वञ्चको नकुले धूर्ते जम्बुके विशिखः शरे ।वैशाखः खञ्जके मासे विशाखो याचके गुहे ॥ २४२ ॥
3.242 · p. 60
अनुष्टुप्
विशिखा पदवीकुत्स्योर्विशाखा भकटिल्लयोः ।व्यञ्जनं तेमने कादौ वासन्तः कोकिले विटे ॥ २४३ ॥
3.243 · p. 61
अनुष्टुप्
चूते चोष्ट्रे च वासन्ती माधवीयूथिकाभिदोः ।तथैव पाटलावृक्षे विधाता कामवेधसोः ॥ २४४ ॥
3.244 · p. 61
अनुष्टुप्
वयःस्थामलकी ब्राह्मीकाकोलीशाल्मलीषु च ।गुडूच्यां च तथैलायां वमथुर्वमने गदे ॥ २४५ ॥
3.245 · p. 61
अनुष्टुप्
वनश्वा गन्धमार्जारे शार्दूले विप्रतारके ।विटपो बिस्तरे स्तम्बे पल्लवे खड्गिशाखयोः ॥ २४६ ॥
3.246 · p. 61
अनुष्टुप्
वृक्षेऽपि वृषभस्त्वादिजिनेन्द्रे गवि पुंगवे ।वल्लूरं विपिनक्षेत्रे वाहनोषरयोः स्मृतम् ॥ २४७ ॥
3.247 · p. 61
अनुष्टुप्
कोलमांसे शुष्कफले वल्लरं क्षेत्रकुञ्जयोः ।शाद्वले वृक्षमञ्जर्योर्बिडालो विहगान्तरे ॥ २४८ ॥
3.248 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शु (wrong syllable)
नेत्रगोलेऽपि मार्जारे विहायः खविहङ्गयोः ।बुक्कसः श्वपचे नीचे विबुधः पण्डिते सुरे ॥ २४९ ॥
3.249 · p. 61
अनुष्टुप्
वनजं कमले दृष्टं वनजो मुस्तके गजे ।वनजा मुद्गपर्ण्यां च वरिष्ठं वरताम्रयोः ॥ २५० ॥
3.250 · p. 61
अनुष्टुप्
वासरो रागभेदेऽह्नि वारुणी मदिरादिशोः ।वर्द्धनं च्छेदने वृद्धौ वैकुण्ठो विष्णुशक्रयोः ॥ २५१ ॥
3.251 · p. 61
अनुष्टुप्
शुश्रूषा परिचर्यायां श्रोतुमिच्छाकथानयोः ।शिशुको बालके वृक्षविशेषशिशुमारयोः ॥ २५२ ॥
3.252 · p. 61
अनुष्टुप्
श्रवणं तु श्रुतौ कर्णे श्रवणस्तारकान्तरे ।शिशिरं शीतले शीते तालभेदर्तुभेदयोः ॥ २५३ ॥
3.253 · p. 62
अनुष्टुप्
शम्बरं सलिले चित्रे शम्बरो मृगदैत्ययोः ।मीनेऽद्रौ शबरो वारि म्लेच्छभेदमहेशयोः ॥ २५४ ॥
3.254 · p. 62
अनुष्टुप्
शम्याको याचके कीले वियाते चतुरङ्गुले ।शार्ककः शर्करापिण्डे फेने क्षीरस्य शीतकः ॥ २५५ ॥
3.255 · p. 62
अनुष्टुप्
शीतकालेऽलसे सुस्थे शङ्खकाख्या शिरोरुजि ।शङ्खे च वलये सीपे श्रीपर्णी तु द्रुमान्तरे ॥ २५६ ॥
3.256 · p. 62
अनुष्टुप्
श्रीपर्णं वह्निमन्थेऽब्जे शिखरं पुलके तटे ।पक्वदाडिमबीजाभमाणिक्याग्रद्रुमाग्रयोः ॥ २५७ ॥
3.257 · p. 62
अनुष्टुप्
शर्करा कर्परांशेऽश्मदेशभेदसितासु च ।शुषिरं विवरे वाद्ये शकुन्तो भासपक्षिणोः ॥ २५८ ॥
3.258 · p. 62
अनुष्टुप्
शृगालो जम्बुके दैत्ये शाल्मलिद्वीपवृक्षयोः ।शामलः पिप्पले नीले शार्दूलः पशुभिद्यपि ॥ २५९ ॥
3.259 · p. 62
अनुष्टुप्
व्याघ्रे रक्षोविशेषे स्यात्प्राधान्ये चोत्तरस्थितः ।शैलूषस्तु नटे बिल्वे शर्वरी रात्रियोषयोः ॥ २६० ॥
3.260 · p. 62
अनुष्टुप्
शकुनं विहगे ख्यातं माङ्गल्ये शुभलक्षणे ।शकलं वल्कले खण्डे शिलन्ध्रो मीनवृक्षयोः ॥ २६१ ॥
3.261 · p. 62
अनुष्टुप्
शिल(ली)न्ध्रं कवके रम्भापुष्पेऽपि त्रिपुटे स्मृतम् ।शिल(ली)न्ध्री पक्षिणीभेदे दृष्टा किञ्चुलके मृदि ॥ २६२ ॥
3.262 · p. 62
अनुष्टुप्
षड्ग्रन्था तु वचासट्योः षड्ग्रन्थो भूरुहान्तरे ।षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् ॥ २६३ ॥
3.263 · p. 62
अनुष्टुप्
समीका नीलिकावल्लयोः समीको नाकुवृक्षयोः ।सुमुखः फणिनां भेदे पण्डिते गरुडात्मजे ॥ २६४ ॥
3.264 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वक्रतुण्डान्तरे चाथ संहृतं मिलिते दृढे ।सुषमं तु समे रम्ये सुषीमः शिशिरे तरौ ॥ २६५ ॥
3.265 · p. 63
अनुष्टुप्
सुन्दरे सुषमोत्कृष्टप्रभाकालभिदोरपि ।सम्पर्कः सुरते पृक्तौ सरणिः श्रेणिमार्गयोः ॥ २६६ ॥
3.266 · p. 63
अनुष्टुप्
साधनं दापने सिद्धौ मृतदाहे गतौ धने ।उपायेऽनुगमे शिश्ने सैन्ये साधकमानयोः ॥ २६७ ॥
3.267 · p. 63
अनुष्टुप्
समयोऽवसरे भाषा सम्पदोर्नियमेऽपि च ।क्रियाकारेऽपि सङ्केते निर्देशे यमसंविदोः ॥ २६८ ॥
3.268 · p. 63
अनुष्टुप्
सुमनाः पण्डिते पुष्पे मालतीत्रिदिवौकसोः ।सन्तानो नाकिनां वृक्षे सन्ततौ गोत्रपुत्रयोः ॥ २६९ ॥
3.269 · p. 63
अनुष्टुप्
सदनं मन्दिरे तोये स्यन्दनं प्रस्रवे जले ।स्यन्दनस्तु रथे वृक्षे संव्यानं च्छादनेऽम्बरे ॥ २७० ॥
3.270 · p. 63
अनुष्टुप्
समितिः संगमे युद्धे सभायां समरेऽपि च ।समाधिर्नियमध्यानमौनेषु च समर्थने ॥ २७१ ॥
3.271 · p. 63
अनुष्टुप्
संगरो गरले कष्टे क्रियाकारविनाशयोः ।अङ्गीकारेऽपि संग्रामे संगरं तु शमीफले ॥ २७२ ॥
3.272 · p. 63
अनुष्टुप्
सारङ्गो हरिणे शैले कुञ्जरे चातके खगे ।शबले चिञ्चिरीके च सम्भोगे रतभोगयोः ॥ २७३ ॥
3.273 · p. 63
अनुष्टुप्
शुण्डायां सर्वगो रूद्रे सर्वर्गं सलिले स्मृतं ।सरटस्तु शठे भूषाविशेषे कृकलासयोः ॥ २७४ ॥
3.274 · p. 64
अनुष्टुप्
सम्बाधः संकटे योनौ सुवर्णं भर्मकर्षयोः ।सुवर्णा लोमखे विस्ते कृष्णागरुणि संभ्रमः ॥ २७५ ॥
3.275 · p. 64
अनुष्टुप्
संवेगयत्नयोर्भीतौ सुदामा शैलमेघयोः ।संस्तरः प्रस्तरे यज्ञे सेनानीः सैन्यपे गुहे ॥ २७६ ॥
3.276 · p. 64
अनुष्टुप्
सुपर्वा त्रिदशे वंशे बाणे धूमेऽपि पर्वणि ।सुकर्मा सत्क्रिये योगविशेषे सुरशिल्पिनि ॥ २७७ ॥
3.277 · p. 64
अनुष्टुप्
सावित्री देवताभेदे सावित्रः पार्वतीपतौ ।सम्भारः संभृतौ वृन्दे सौवीरं काञ्जिकेऽञ्जने ॥ २७८ ॥
3.278 · p. 64
अनुष्टुप्
हारको गद्यविज्ञानभिदोः कितवचोरयोः ।हसन्ती शाकिनीभेदे मल्लिकाङ्गारपात्रयोः ॥ २७९ ॥
3.279 · p. 64
अनुष्टुप्
हरेणुः कुलयोषायां रेणुकायां सतीनके ।हरिणी रोचनावृत्तमृगीस्वर्णप्रभासु च ॥ २८० ॥
3.280 · p. 64
अनुष्टुप्
हायनो वत्सरव्रीहिकिरणेषु तथौषधे ।हिरण्यं कनके मानभेदे धातुवराट्योः ॥ २८१ ॥
3.281 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हृदयं वक्षसि स्वान्ते हरिणः पाण्डुरे मृगे ।हृषितो रम्यरोमाञ्चजातहर्षेपु हायनः ॥ २८२ ॥
3.282 · p. 64
अनुष्टुप्
वत्सरव्रीहिकीलासु हिरण्यं द्रविणे क्षये ।अकुप्ये कनके मानभेदे धातुवराटयोः ॥ २८३ ॥
3.283 · p. 64
अनुष्टुप्
हेरम्बो महिषे शौर्यगर्जिते गणनायके ।हुडुकस्तु मदोन्मत्ते वाद्यभिज्जलपक्षिणोः ॥ २८४ ॥
3.284 · p. 64
अनुष्टुप्
हारीतः पक्षिणां भेदे मुनौ छद्मनि दृश्यते ।हेरुकस्तु महाकालगणबुद्धविशेषयोः ॥ २८५ ॥
3.285 · p. 65
अनुष्टुप्
क्षत्रियं द्रोहकृद्रोगे क्षेत्रोत्पन्नतृणादिषु ।अन्यदेहचिकित्सार्हे क्षत्रियः पारदारिके ॥ २८६ ॥
3.286 · p. 65
अनुष्टुप्
क्षेपणी जालभेदे स्यान्नौकादण्डे शरान्तरे ।क्षुरकः पादपे पत्रे क्षुवथुः क्षुतकासयोः ॥ २८७ ॥
3.287 · p. 65
अनुष्टुप्
क्षुल्लको दुःखिते स्तोके कनिष्ठे खलशंखयोः ।क्षारको जालके पाशे पक्षिणां पिटके रसे ॥ २८८ ॥
3.288 · p. 65
अनुष्टुप्
क्षणदो गणके दृष्टः क्षणदं सलिले स्मृतं ।क्षणदा तु विभावर्यां क्षेत्रज्ञो निपुणात्मनोः ॥ २८९ ॥
3.289 · p. 65
अनुष्टुप्
श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत्सन्प्रासूत सुतं महीपममलं सौभाग्यदेवी च यं ।ग्रन्थे तद्रचितेऽज्ञजाड्यविपिनोदर्चिस्त्रिवर्णाभिधोभूयो भूषणतां बभार रुचिरः काण्डस्तुरीयाग्रजः ॥ २९० ॥
3.290 · p. 65
शार्दूलविक्रीडितम्