All kośas › Anekārthatilaka
अनेकार्थतिलक Anekārthatilaka
910 verses · text only, tagging comes next
चतुर्थः काण्डः (2/2)
संस्कारलिप्सयोः ख्यातो विद्भिः अतिभयध्वनिः ।अनुग्रहे वीरवरे साध्वसे भयकारिणि ॥ १२१ ॥
4.121 · p. 76
अनुष्टुप्
पारायणं समासङ्गे कात्स्नर्ये पारगतावपि ।परायणमसंगोक्तावाश्रयेऽथ परायणः ॥ १२२ ॥
4.122 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तत्परे स्यात्पल्लवितं लाक्षारागे सपल्लवे ।तते प्रहसनं हासेऽप्याक्षेपे रूपकान्तरे ॥ १२३ ॥
4.123 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प (wrong syllable)
पाञ्चजन्यः पोटगले शङ्खे लक्ष्मीपतेरपि ।परिधायो जलस्थाने नितम्बपरिवारयोः ॥ १२४ ॥
4.124 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
पात्रटीरस्त्वयःकांस्ये जरत्पात्रे हुताशने ।पिङ्गाणके तथा वृक्षे तोयमन्त्रविशेषयोः ॥ १२५ ॥
4.125 · p. 77
अनुष्टुप्
पद्मलाच्छनशब्दोऽजे कुबेरे केशवे रवौ ।प्रचलाकः शराघाते शिखण्डेऽपि भुजङ्गमे ॥ १२६ ॥
4.126 · p. 77
अनुष्टुप्
भेके पिप्पलकं सूत्रे सीवने चूचुकेऽपि च ।पञ्चनखो गजे कूर्मे परपुष्टा पणस्त्रियाम् ॥ १२७ ॥
4.127 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
परपुष्टः पिके पर्वरीणं तु घृतकम्बले ।पर्णवृन्तरसे पर्णसिरायां पर्वणीष्यते ॥ १२८ ॥
4.128 · p. 77
अनुष्टुप्
पीलुपर्ण्योषधीभेदे बिम्बिकामूर्वयोरपि ।प्रजापतिर्नृपे सूर्ये पावके त्वष्टृवेधसः ॥ १२९ ॥
4.129 · p. 77
अनुष्टुप्
जामातर्यपि दक्षादौ पञ्चगुप्तस्तु कच्छपे ।चार्वाकदर्शने चाथ पारिजातः सुरद्रुमे ॥ १३० ॥
4.130 · p. 77
अनुष्टुप्
पारिभद्रोऽपि मन्दारे परिवर्त्तः पलायने ।युगान्ते भ्रमणे कूर्मराजे विनिमयेऽपि च ॥ १३१ ॥
4.131 · p. 77
अनुष्टुप्
पुष्पदन्तो जिने रुद्रगणे दिक्कुञ्जरान्तरे ।पुटभेदो नदीवक्त्रे पत्तनातोद्ययोरपि ॥ १३२ ॥
4.132 · p. 77
अनुष्टुप्
पिण्डीतको मरुबके तगरे मदनद्रुमे ।अथ पुष्करिणी नद्यां पद्मिनी दन्तियोषयोः ॥ १३३ ॥
4.133 · p. 77
अनुष्टुप्
खाते पुण्यजनः श्रीदे सज्जनेऽपि प्रकीर्णकः ।विस्तारे चामरे ग्रन्थविशेषेऽपि तुरङ्गमे ॥ १३४ ॥
4.134 · p. 78
अनुष्टुप्
पृष्ठशृङ्गी पुनः षण्ढे सैरिभेऽपि वृकोदरे ।पिण्डपुष्पं जपाशोकाब्जेषु पोटगलो झषे ॥ १३५ ॥
4.135 · p. 78
अनुष्टुप्
नले काशे पुरोडाशे(शो) हुतशेषे हविष्यपि ।सोमे पारशवः शूद्रातनये ब्राह्मणादपि ॥ १३६ ॥
4.136 · p. 78
अनुष्टुप्
लोहे पयोधरो नालिकेरे मेघे कशेरुके ।कुचेऽपि परीघातस्तु प्रहारास्त्रविशेषयोः ॥ १३७ ॥
4.137 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable)
प्लवङ्गमः कपौ भेके रविसूते पराक्रमः ।प्राणमात्रे (?) समुद्योगे पीठमर्दो विनिर्गते ॥ १३८ ॥
4.138 · p. 78
अनुष्टुप्
नाट्योक्तौ नाटकासक्ते खेचरे प्रविदारणं ।संग्रामे दारणे पारापतः कालरवे गिरौ ॥ १३९ ॥
4.139 · p. 78
अनुष्टुप्
फर्फरीकश्चपेटेऽपि फर्फरीकं तु मार्दवे ।फलोदयः सुरागारे वृद्धौ निर्वाणलाभयोः ॥ १४० ॥
4.140 · p. 78
अनुष्टुप्
भागधेयं करे भाग्ये भागधेयस्तु गोत्रजे ।भवेद्भोगवती सर्पनगरीतटिनीभिदोः ॥ १४१ ॥
4.141 · p. 78
अनुष्टुप्
भयानकध्वनिर्व्याघ्रे रसभेदे विधुंतुदे ।भीमे भ्रमरको भृङ्गे गिरिके चूर्णकुन्तले ॥ १४२ ॥
4.142 · p. 78
अनुष्टुप्
भट्टारको नृपे देवे मुनौ भार्याटिको मृगे ।भार्यया तेजिते चाथ भरद्वाजः खगान्तरे ॥ १४३ ॥
4.143 · p. 78
अनुष्टुप्
बृहस्पतिसुते भारद्वाजी वनपिचुद्रुमे ।भारद्वाजो मुनौ द्रोणे भृङ्गराजः खगान्तरे ॥ १४४ ॥
4.144 · p. 78
अनुष्टुप्
मार्कवे भस्मतूलं तु पांसुवृष्टौ हिमेऽपि च ।भद्रकाली तु गन्धोलीपार्वत्योरोषधीभिदि ॥ १४५ ॥
4.145 · p. 79
अनुष्टुप्
अथो (?) माणवको हारविशेषे बटुके शिशौ ।मूर्द्धाभिसिक्तो भूपाले क्षत्रिये सचिवे क्वचित् ॥ १४६ ॥
4.146 · p. 79
अनुष्टुप्
महीवीरो जिने सिंहे तार्क्ष्ये शूरे पिके पवौ ।मखवह्नौ महासेनो महासैन्याधिपे गुहे ॥ १४७ ॥
4.147 · p. 79
अनुष्टुप्
महाकालो महादेवे किंपाके प्रमथान्तरे ।व्यालान्तरे महामात्रो हस्त्यारोहेऽधिपाढ्ययोः ॥ १४८ ॥
4.148 · p. 79
अनुष्टुप्
मृष्टेरुको वदान्ये स्यान्मिष्टाशिन्यतिथिद्विषि ।अथो मरुबकः पुष्पे मदनद्रौ फणिज्जके ॥ १४९ ॥
4.149 · p. 79
अनुष्टुप्
महाशङ्खो निधौ संख्याविशेषे मनुजास्थिनि ।मल्लनागस्तु चाणक्ये त्रिदशेभे मलिम्लुचः ॥ १५० ॥
4.150 · p. 79
अनुष्टुप्
तस्करे मारुते दुष्टे मीनम्रीणस्तु खञ्जने ।दर्दुराम्रे मेघनादो वरुणे रावणात्मजे ॥ १५१ ॥
4.151 · p. 79
अनुष्टुप्
स्तनितेऽथ महानादो वर्षकाब्दे शयानके ।सुस्वने मुचकुन्दः स्यात् मुनौ दैत्यद्रुभेदयोः ॥ १५२ ॥
4.152 · p. 79
अनुष्टुप्
मालुधानो मातुलाहौ मालुधानी लतान्तरे ।मातुलानी कलापे स्याच्छणमातुलभार्ययोः ॥ १५३ ॥
4.153 · p. 79
अनुष्टुप्
महोदयो नृपे मोक्षे मधुपर्के पुरे रवौ ।मार्जालीयस्तु मार्जारे शूद्रे विग्रहशोधने ॥ १५४ ॥
4.154 · p. 79
अनुष्टुप्
महालयो बृहत्तीर्थे परमात्ममहेशयोः ।महारजतं कुसुम्भे सुवर्णे मधुसूदनः ॥ १५५ ॥
4.155 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
नटे मधुकरे विष्णावथ मातुलपुत्रकः ।धत्तूरस्य फले चापि मातुलस्य च नन्दने ॥ १५६ ॥
4.156 · p. 79
अनुष्टुप्
मेघपुष्पं तु नादेये सलिलौषधिभेदयोः ।महानीलो भृङ्गराजे गणिभिन्निधिभेदयोः ॥ १५७ ॥
4.157 · p. 80
अनुष्टुप्
यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि ।योजनगन्धा कस्तूर्यां वैदेह्यां व्यासमातरि ॥ १५८ ॥
4.158 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ज (wrong syllable)
राजराजो निशानाथे सार्वभौमकुबेरयोः ।रङ्गमाता तु कुट्टिन्यां तथा भूमिरुहामये ॥ १५९ ॥
4.159 · p. 80
अनुष्टुप्
रौहिणेयो बुधे वत्से तालाङ्के पर्वतान्तरे ।राजादनः पियालुद्रौ क्षीरिकायां त्रिपत्रके ॥ १६० ॥
4.160 · p. 80
अनुष्टुप्
रन्तर्द्धिकं दिने दृष्टं सुखस्नानेष्टमङ्गले ।राधरङ्क(ङ्कु)स्तु नाशीरे शीकरे जलदोपले ॥ १६१ ॥
4.161 · p. 80
अनुष्टुप्
रेरिहाणोऽम्बरे रुद्रे रागचूर्णस्तु मन्मथे ।खदिरे रक्तरेणुः स्यात्पलाशे कलिकोद्गमे ॥ १६२ ॥
4.162 · p. 80
अनुष्टुप्
सिन्दूरे रतनारीचः सीत्कृते कुकुरे स्मरे ।रोहिताश्वो हरिश्चन्द्रनृपजे जातोदसि ॥ १६३ ॥
4.163 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लक्ष्मीपतिः लवङ्गद्रौ पूगे कृष्णे रवौ नृपे ।लालाटिकः प्रभोर्भालदर्शिन्याश्लेषभिद्यपि ॥ १६४ ॥
4.164 · p. 80
अनुष्टुप्
मन्दे विरोचनो वह्नौ चन्द्रे प्रह्लादनन्दने ।बहुरूपो हरौ रुद्रे घूणके सरटे स्मरे ॥ १६५ ॥
4.165 · p. 80
अनुष्टुप्
वृन्दारकः सुरे वृक्षे मनोज्ञश्रेष्ठयोरपि ।वराटकः स्थूलरज्जौ पद्मबीजकपर्दयोः ॥ १६६ ॥
4.166 · p. 80
अनुष्टुप्
वाराबाणस्तु कूर्पासे कवचे वरचन्दनं ।कालीये देवदारुद्रौ ब्रह्मबन्धुर्द्विजाधमे ॥ १६७ ॥
4.167 · p. 80
अनुष्टुप्
विप्रस्य बान्धवो (वे) वातरूषोऽलं (?) चेन्द्रचापयोः ।विश्वकर्मा मुनौ भानौ त्रिदशानां च शिल्पिनि ॥ १६८ ॥
4.168 · p. 81
अनुष्टुप्
वितुन्नकं तु धन्याके जने झाटामलौषधे ।विनायको गुरौ तार्क्ष्ये हेरम्बे बुद्धविघ्नयोः ॥ १६९ ॥
4.169 · p. 81
अनुष्टुप्
वृषाकपायी श्रीस्वाहाशतावर्यद्रिजासु च ।बलाहकोऽम्बुदे शैले दैत्ये नागे हयान्तरे ॥ १७० ॥
4.170 · p. 81
अनुष्टुप्
वृषाकपिर्हरे विष्णौ शक्रे सूर्ये हुताशने ।विशारदः पुनः प्राज्ञे चतुरेऽथ विदूषकः ॥ १७१ ॥
4.171 · p. 81
अनुष्टुप्
निन्दकेऽपि विलक्षे स्याद्धूर्त्ते वैनाशिकः पुनः ।ऊर्णनाभक्षणिकयोर्निघ्ने वैतरिणी पुनः ॥ १७२ ॥
4.172 · p. 81
अनुष्टुप्
रक्षो मातरि वाहिन्यां वर्कराटो नखव्रणे ।कटाक्षे भास्वतः प्रातरुस्रे वातखुडाध्वनिः ॥ १७३ ॥
4.173 · p. 81
अनुष्टुप्
वामायां पिच्छलस्फोटे वात्यामारुतरक्तयोः ।वानप्रस्थो मधूकद्रौ आश्रमे किंशुकेऽपि ॥ १७४ ॥
4.174 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्धमानः शरावे स्यादेरण्डप्रश्नभेदयोः ।विष्णौ वीरजने विष्णुपदाख्या पद्मरवाब्धिषु ॥ १७५ ॥
4.175 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च ।वर्तरूको नदीभेदे काकनीले जलावटे ॥ १७६ ॥
4.176 · p. 81
अनुष्टुप्
विहेटनं तु हिंसायां मर्द्दनेऽपि विडम्बने ।विष्वक्सेना फलिन्यां स्याद्विष्वक्सेनस्तु केशवे ॥ १७७ ॥
4.177 · p. 81
अनुष्टुप्
वृहन्नलः पोटगले पार्थे विचकिलः पुनः ।मल्यां दमनके वातरायणः क्रकचे शरे ॥ १७८ ॥
4.178 · p. 81
अनुष्टुप्
शरसंक्रमणे ताले वातूले वरवर्णिनि ।हरिद्रारोचनानारीलाक्षाराकाप्रियङ्गुषु ॥ १७९ ॥
4.179 · p. 82
अनुष्टुप्
वैजयन्तो गुहे शक्रप्रासादध्वजयोरपि ।वैजयन्ती पताकायां व्यवहारः स्थितौ पणे ॥ १८० ॥
4.180 · p. 82
अनुष्टुप्
शालावृकः कपौ सारमेयजम्बुकयोरपि ।शिलाटकस्तिले चाट्टे शतानीको नृपे मुनौ ॥ १८१ ॥
4.181 · p. 82
अनुष्टुप्
शशिलेखा चन्द्रलेखावाकुच्योः वृत्तभिद्यपि ।अथो (?) शिखरिणी वृत्तरोमालीमल्लिकासु च ॥ १८२ ॥
4.182 · p. 82
अनुष्टुप्
पेयभिद्यबलारत्ने शुभ्रधामा सुधाकरे ।घनसारे चाब्धिफेने शातकुम्भोऽश्वमारके ॥ १८३ ॥
4.183 · p. 82
अनुष्टुप्
शातकुम्भं सुवर्णे स्याच्छीतभानुर्निशाकरे ।चन्द्रे शिलीमुखो बाणे भ्रमरे मक्षिकान्तरे ॥ १८४ ॥
4.184 · p. 82
अनुष्टुप्
शृङ्गाटकं पथां श्लेषे तथा पानीयकण्टके ।शिपिविष्टस्तु खल्वाटे दुश्चर्मणि च शङ्करे ॥ १८५ ॥
4.185 · p. 82
अनुष्टुप्
शरवाणिः पादचारे शरास्ये शरजीविनि ।शतपत्रं शुकाम्भोजदार्वाघाटेषु केकिनि ॥ १८६ ॥
4.186 · p. 82
अनुष्टुप्
शृगालिका शिवायां स्याद्भयादपि पलायिते ।शालंकायन ईशानप्रतीहारे मुनावपि ॥ १८७ ॥
4.187 · p. 82
अनुष्टुप्
सरस्वती नदीभेदे श्रुतदेव्यां सरित्सु च ।वसुधावरवर्णिन्योर्धेनुवाणीरमास्वपि ॥ १८८ ॥
4.188 · p. 82
अनुष्टुप्
सर्वतोमुखमाकाशे सलिले सर्वतोमुखः ।विधिक्षेत्रज्ञरुद्रेषु दृश्यते कीटकान्तरे ॥ १८९ ॥
4.189 · p. 82
अनुष्टुप्
संप्रयोगं रते दृष्टं मन्विते कार्मणे बुधैः ।समीरणो मरुबके पवने पथिकेऽपि च ॥ १९० ॥
4.190 · p. 83
अनुष्टुप्
सार्वभौमः पुरे काष्टागजे सकलभूभुजि ।समुदायो रणे वृन्दे सामिधेनी समीदृचोः ॥ १९१ ॥
4.191 · p. 83
अनुष्टुप्
सम्परायो मुखे चापि संग्रामोत्तरकालयोः ।स्तनयित्नुर्गदे धूमयोनौ मृत्यौ च गर्जिते ॥ १९२ ॥
4.192 · p. 83
अनुष्टुप्
सुयाम(मु)नो हरौ दुर्गे वत्सराजप्रसादयोः ।सोमवल्कः पुनः शुक्लखदिरे कट्फलौषधे ॥ १९३ ॥
4.193 · p. 83
अनुष्टुप्
समुद्रारुर्झषे सेतुबन्धग्राहविशेषयोः ।सालमारध्वनिवृक्षविशेषे हिङ्गुभिद्यपि ॥ १९५ ॥
4.195 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
सूत्रकण्ठः शुके विप्रे खञ्जरीटकपोतयोः ।अथ सारसनं नीव्यां कञ्चुके स्यादुरच्छदे ॥ १९६ ॥
4.196 · p. 83
अनुष्टुप्
सामयोनिर्द्विपे दृष्टः सामजे परमेष्ठिनि ।सदादानस्तु हेरम्बे गन्धद्विपसुरेभयोः ॥ १९७ ॥
4.197 · p. 83
अनुष्टुप्
सनातनः शिवे शम्भुविश्वेदेवाच्युतेषु च ।शाश्वते सुप्रतीकस्तु शोभनाङ्गे च दिग्गजे ॥ १९८ ॥
4.198 · p. 83
अनुष्टुप्
समुत्थानं निदाने स्यादुद्यमोत्थानयोरपि ।समापन्नं तु संप्राप्ते समाप्तौ नाशखेदयोः ॥ १९९ ॥
4.199 · p. 83
अनुष्टुप्
अथ संयमनं बन्धे व्रते संयमिनी पुरि ।सौदामिनी तडिद्भेदेऽप्सरोभेदे तडित्यपि ॥ २०० ॥
4.200 · p. 83
अनुष्टुप्
उक्तं संवदनं वादे समालोचे वशीकृतौ ।स्थिरदंष्ट्रः स्मृतः सर्पे शूकरेऽथ सदाफलः ॥ २०१ ॥
4.201 · p. 84
अनुष्टुप्
नालिकेरीफले यज्ञद्रुमे स्कन्धफलेऽपि च ।समाहारस्तु संक्षेपेऽप्येकत्रकरणे स्मृतः ॥ २०२ ॥
4.202 · p. 84
अनुष्टुप्
हरिचन्दनशब्दोऽयं कुङ्कुमे देवभूरुहे ।हैमवत्यभयास्वर्णक्षीरीदुर्गावचासु च ॥ २०३ ॥
4.203 · p. 84
अनुष्टुप्
हस्तिमल्लः सुनासीर(रे) द्विरदे गणनायके ।भद्रेऽपि हिमनाथस्तु चन्द्रे चन्द्रे हिमाचले ॥ २०४ ॥
4.204 · p. 84
अनुष्टुप्
हस्तिकर्णः पलाशद्रावेरण्डगणभेदयोः ।हेमपुष्पमशोकद्रौ जपापुष्पेऽपि चम्पके ॥ २०५ ॥
4.205 · p. 84
अनुष्टुप्
हेमपुष्पक इत्येष चम्पके हेमपुष्पिका ।यूथ्यां च हिङ्गुनिर्यासो निम्बे हिङ्गुरसे स्मृतः ॥ २०६ ॥
4.206 · p. 84
अनुष्टुप्
हरिताली नभोरेखादूर्वासिलतिकासु च ।हर्षयित्नुः सुते स्वर्णे तालभेदमयूरयोः ॥ २०७ ॥
4.207 · p. 84
अनुष्टुप्
हलाहलो विषे पल्लीभुजङ्गमविशेषयोः ।हिरण्यरेता ज्वलने चित्रके दिवसेश्वरे ॥ २०८ ॥
4.208 · p. 84
अनुष्टुप्
हारिकण्ठः पिके दृष्टो हारान्वितगले शुके ।हरिवाहन इत्येष पाकशासनसूर्ययोः ॥ २०९ ॥
4.209 · p. 84
अनुष्टुप्
क्षीराब्धिजो निशानार्थे क्षीराब्धिजा श्रियामपि ।क्षीराब्धिजं तु मुक्तायां समुद्रलवणेऽपि च ॥ २१० ॥
4.210 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब्धि (wrong syllable)
क्षुरमर्दक इत्येष नापिते पक्षिभिद्यपि ।अथ क्षीराब्धिजापुत्रः स्मरेऽश्वे भद्रकुञ्जरे ॥ २११ ॥
4.211 · p. 84
अनुष्टुप्
पाणिन्यहीन्द्रगुरुभागुरिभोजभेड-हेमामरादिसमुदीरितशास्त्रसारात् ।नानार्थरत्नतिलकं स च सिद्धशब्दं-रत्नाकरः(रं) समतनोत्सुमतिर्महीपः ॥ २१२ ॥
4.212 · p. 85
वसन्ततिलका
श्रीमान्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत्संप्रासूत सुतं महीपममलं सौभाग्यदेवी च यं ।संकीर्णाख्य इहोज्ज्वलः समुचिते विद्वद्गिरां पूर्णतांग्रन्थे तद्रचितेऽसमे यमभजत् काण्डश्चतुर्थः परम् ॥ २१३ ॥
4.213 · p. 85
शार्दूलविक्रीडितम्