All kośas › Anekārthatilaka
अनेकार्थतिलक Anekārthatilaka
910 verses · text only, tagging comes next
द्वितीयः काण्डः (3/4)
युगं युग्मे रथाद्यङ्गे वृद्धिनामौषधेऽपि च ।पञ्चशाखचतुष्के च कृतादौ दिवसान्तरे ॥ २४१ ॥
2.241 · p. 27
अनुष्टुप्
योगो युक्तौ च संगत्यां कर्मणा लब्धलाभयोः ।देहदार्ढ्यप्रयोगे च विष्कम्भादौ तथात्मनि ॥ २४२ ॥
2.242 · p. 27
अनुष्टुप्
उपाये भेषजे विद्भिर्दृष्टः संनहने धने ।विश्रब्धघातिनि ध्याने युक्तिर्न्याये च योजने ॥ २४३ ॥
2.243 · p. 27
अनुष्टुप्
यज्ञो वैश्वानरे विष्णौ मखे चात्मनि शङ्करे ।यष्टिर्दण्डे समाहारास्त्रभागीमधुयष्टिषु ॥ २४४ ॥
2.244 · p. 28
अनुष्टुप्
यूथी तु मागधीपुष्पभेदयोश्च कुरण्टके ।यानं युग्ये गतौ योनिर्भगे कारणताम्रयोः ॥ २४५ ॥
2.245 · p. 28
अनुष्टुप्
यतिर्भिक्षौ विरामे च युतं युक्ते पृथग्भवे ।यन्ता सूते हस्तिपके यक्षः श्रीदेऽपि गुह्यके ॥ २४६ ॥
2.246 · p. 28
अनुष्टुप्
यमोऽहिंसाषु ध्वाङ्क्षे संयमे यमजेऽन्तके ।यमनेऽथ यथाशब्दोऽव्ययं तुल्ये निदर्शने ॥ २४७ ॥
2.247 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सा (syllables merged)
राका स्पष्टरजःकन्यापौर्णमासिभिदोर्निशि ।कच्छ्वां नद्यन्तरे रेको हीने शङ्काविरेकयोः ॥ २४८ ॥
2.248 · p. 28
अनुष्टुप्
रङ्कस्तु कृपणे मल्ले रेखा स्यादल्पके च्छले ।उल्लेखेऽपि तथा भोगे रङ्गः संगीतयुध्भुवोः ॥ २४९ ॥
2.249 · p. 28
अनुष्टुप्
रागेऽपि रङ्गत्रपुणि रागः क्लेशादिके नृपे ।मत्सरे लोहितादौ च गान्धाराद्यनुरागयोः ॥ २५० ॥
2.250 · p. 28
अनुष्टुप्
रोकं बिले चरे वेगे वारिक्रयणभेदयोः ।रोकोंऽशौ च रुचिः शोभास्पृहाभिष्वङ्गदीप्तिषु ॥ २५१ ॥
2.251 · p. 28
अनुष्टुप्
राजी तु पङ्क्तौ रेखायां रुजा त्वामयभङ्गयोः ।रथः पदि शरीरे स्यात्स्यन्दने वेतसद्रुमे ॥ २५२ ॥
2.252 · p. 28
अनुष्टुप्
रीढावमाननागत्योः राढा देशान्तरे युतौ ।रोही रोहीतके प्लक्षे वटवृक्षेऽपि पिप्पले ॥ २५३ ॥
2.253 · p. 28
अनुष्टुप्
राधा तु वध्यामलकी विष्णुक्रान्तासु सङ्गरे ।गोपीविद्युद्विशाखासु राधो वैशाष(ख)मासि च ॥ २५४ ॥
2.254 · p. 28
अनुष्टुप्
रमस्तु मन्मथे कान्ते रक्ताशोके रमा श्रियां ।रुमा सुग्रीवभार्यायां लवणे लवणाकरे ॥ २५५ ॥
2.255 · p. 28
अनुष्टुप्
रामो दाशरथे चारौ जामदग्न्ये हलायुधे ।वृषान्तरे सिते श्यामे रामा सीतावरस्त्रियोः ॥ २५६ ॥
2.256 · p. 29
अनुष्टुप्
रसस्तु पारदे रागे शृङ्गारादौ घृतादिषु ।गुणे द्रवे जले धातौ विषे वीर्ये रसा भुवि ॥ २५७ ॥
2.257 · p. 29
अनुष्टुप्
रथ्या मार्गे लताभेदे प्रतोल्यां रथसंहतौ ।रक्तं तु रुधिरे रागिण्यरुणे कुङ्कुमे रहः ॥ २५८ ॥
2.258 · p. 29
अनुष्टुप्
एकान्ते मैथुने रिष्टं क्षेमाभावे शुभाशिषु ।रूक्षोऽस्निग्धे कठोरे च राष्ट्रमुत्पातदेशयोः ॥ २५९ ॥
2.259 · p. 29
अनुष्टुप्
रूपं श्लोके पशौ नाटकादौ सौन्दर्यशब्दयोः ।ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके मृगे ॥ २६० ॥
2.260 · p. 29
अनुष्टुप्
राशिः समूहे मेषादौ रश्मिर्भासि च दोरके ।रणो घोषे च सङ्ग्रामे रत्नमुत्कृष्टकाचयोः ॥ २६१ ॥
2.261 · p. 29
अनुष्टुप्
लेखस्तु दैवते लेख्ये लेखा पङ्क्तौ लिपावपि ।लक्ष्मीः श्रीरिव शोभायां रमासंपत्प्रियङ्गुषु ॥ २६२ ॥
2.262 · p. 29
अनुष्टुप्
लघुर्मनोज्ञे निःसारे शीघ्रे चागुरुकृष्णयोः ।लक्ष्यं तु वेध्ये संख्यायां लक्षश्छद्मनि लक्ष्मणि ॥ २६३ ॥
2.263 · p. 29
अनुष्टुप्
लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ।लोकः प्रजाविष्टपयोर्लेपो जग्धौ विलेपने ॥ २६४ ॥
2.264 · p. 29
अनुष्टुप्
लिङ्गं चिह्ने शिवस्याङ्गे सांख्योक्तविकृतावपि ।मेहने चानुमानेऽथ लोलः काङ्क्षान्विते चले ॥ २६५ ॥
2.265 · p. 29
अनुष्टुप्
लिप्तं भुक्ते विलिप्ते च लाजा (जः) स्यादार्द्रतण्डुले ।लाजं तूशीरके लाजा भ्रष्टध्याने स्युरक्षते ॥ २६६ ॥
2.266 · p. 29
अनुष्टुप्
वर्णो विप्रादिके कीर्त्तौ द्युतौ गीतक्रमे व्रते ।शुक्लादिस्तुतिवेषेषु चित्राक्षरकुथास्वपि ॥ २६७ ॥
2.267 · p. 30
अनुष्टुप्
अङ्गरागे गुणे रूपे भेदे तालान्तरे शरे ।स्वर्णे वर्णं कुङ्कुमे तु स्याद्बाणो वृक्षान्तरे शरे ॥ २६८ ॥
2.268 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शरस्यावयवे दैत्ये कथाकादम्बरीकृति ।वाणिर्मेषे सरस्वत्यां व्यूतौ च क्रयविक्रये ॥ २६९ ॥
2.269 · p. 30
अनुष्टुप्
वेला सेवाङ्गुलिच्छेदे काले सिन्धुजलोन्नतौ ।वित्तं विचारिते द्रव्ये वीर्यं तेजःप्रभावयोः ॥ २७० ॥
2.270 · p. 30
अनुष्टुप्
बले बीजे वरो वर्णे देवादेरीप्सिते वृतौ ।जामातरि विटे श्रेष्ठे वरं तु वरचन्दने ॥ २७१ ॥
2.271 · p. 30
अनुष्टुप्
विधुर्नारायणे चन्द्रे वज्रं भिदुरहीरयोः ।बाले वेरं शरीरे च वृन्ताके चन्दने जले ॥ २७२ ॥
2.272 · p. 30
अनुष्टुप्
प्रशस्ये तालभेदे च वामा तु वरयोषिति ।वारिः सरस्वतीघट्योर्दन्तिबन्धनमन्दिरे ॥ २७४ ॥
2.274 · p. 30
अनुष्टुप्
वृष्णिस्तु यादवे मेषे वाजी बाणे खगाश्वयोः ।विद्धं भेद्ये च सादृश्ये वपुः शस्तशरीरयोः ॥ २७५ ॥
2.275 · p. 30
अनुष्टुप्
वाहो युग्ये वृषे मेध्ये वृषस्कन्धे तुरङ्गमे ।व्यूहः सङ्घे वितर्के च चमूविन्यासवेगयोः ॥ २७६ ॥
2.276 · p. 30
अनुष्टुप्
वृषो धर्मे पशौ राशौ श्रेष्ठे शब्दोत्तरस्थितः ।मूष(C षि)के वासके शृङ्ग्यां पुंविशेषेऽपि शुक्रले ॥ २७७ ॥
2.277 · p. 30
अनुष्टुप्Latin letters: C
विधिर्वेधसि कर्त्तव्ये दैवे कालप्रकारयोः ।वप्रो रेणौ तटे शाले केदारे शिखरे चये ॥ २७८ ॥
2.278 · p. 31
अनुष्टुप्
वधूः पत्न्यां स्नुषानारीनवोढासारिवासु च ।वर्षं संवत्सरे लोके धातुर्वर्षणयोरपि ॥ २७९ ॥
2.279 · p. 31
अनुष्टुप्
बिम्बं बिम्बीफले यन्त्रे मण्डलप्रतिबिम्बयोः ।वर्त्तिर्गात्रानुलेपन्यां दशायां दीपकस्य च ॥ २८० ॥
2.280 · p. 31
अनुष्टुप्
बको रक्षोविशेषे स्याच्छिवभल्लीबकोटयोः ।श्रीदे वींषा (वींखा) पुनः शूकशम्बागत्योश्च नर्त्तने ॥ २८१ ॥
2.281 · p. 31
अनुष्टुप्
बीजं रेतसि तत्त्वे स्यात्सारे चाङ्कूरकारणे ।निदानाधानयोश्चापि वाजशब्दस्तु निःस्वने ॥ २८२ ॥
2.282 · p. 31
अनुष्टुप्
वेगे पक्षे मुनौ वाजं यज्ञान्ने सलिले घृते ।व्रजो मार्गे कुले गोष्ठे वर्णो ताले वणिग्जने ॥ २८३ ॥
2.283 · p. 31
अनुष्टुप्
करणेऽपि च वाणिज्ये वेणुर्वंशे नृपान्तरे ।वटो वृक्षे गुणे गोले साम्ये भक्ष्यवराटयोः ॥ २८४ ॥
2.284 · p. 31
अनुष्टुप्
व्यालः सर्पे खले सिंहे श्वापदे दुष्टकुञ्जरे ।विश्वं कृत्स्ने जगच्छुण्ठ्योर्व्यक्तः स्यात्पण्डिते स्फुटे ॥ २८५ ॥
2.285 · p. 31
अनुष्टुप्
वसुः सूर्ये नृपे वह्नौ योक्त्रे यूथे सुरान्तरे ।शुष्के द्रव्ये धने वृद्धौषधे रत्ने रुचि स्मृतः ॥ २८६ ॥
2.286 · p. 31
अनुष्टुप्
बलो हलायुधे काके रूपे दैत्यान्तरे बलं ।स्थौल्ये स्थामनि सेनायां काले बोले बलाध्वनि ॥ २८७ ॥
2.287 · p. 31
अनुष्टुप्
ओषधे रत्नदीधित्योर्बिलं रन्ध्रनिकुञ्जयोः ।बिलः शक्रहये बाली मेढिभूषाविशेषयोः ॥ २८८ ॥
2.288 · p. 31
अनुष्टुप्
बालः केशे शिशौ वज्रे पुच्छे बालं जले स्मृतं ।वङ्गे कासतृणे चाथ वेधाविधिमनीषिणोः ॥ २८९ ॥
2.289 · p. 32
अनुष्टुप्
बलिः पूजोपहारे स्याद्दण्डचामरदण्डयोः ।जठरावयवे दैत्यविशेषे गन्धकौषधे ॥ २९० ॥
2.290 · p. 32
अनुष्टुप्
वेगः प्रवाहे किंपाके रये वेतसि वेतसे ।वङ्गा देशविशेषे स्याद्वङ्गो वृन्ताकतूलयोः ॥ २९१ ॥
2.291 · p. 32
अनुष्टुप्
वङ्गं त्रपुणि सीसे च वृषा [ षः] स्यादाटरूपके ।वृषा शक्रे हये पुंसि व्यङ्गो हीनाङ्गभेकयोः ॥ २९२ ॥
2.292 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बभ्रुः पृथौ मुनौ पिङ्गे नकुलेऽग्नौ हरौ शिवे ।वत्सं वक्षसि वत्सस्तु तर्णकाब्देषु नीवृति ॥ २९३ ॥
2.293 · p. 32
अनुष्टुप्
विष्टिः कर्मकरे भद्राजूमूल्यप्रेपणेषु च ।व्यासः प्रपञ्चे विस्तारे सुनौ वित्तिस्तु सम्भवे ॥ २९४ ॥
2.294 · p. 32
अनुष्टुप्
लाभे ज्ञाने विचारे स्याद्वृतिर्वरणवाटयोः ।वनं प्रस्रवणे गेहे प्रवासे काननेऽम्भसि ॥ २९५ ॥
2.295 · p. 32
अनुष्टुप्
वानं शुष्कफले क्षामे प्रोते गन्धे कटे गतौ ।ब्रह्मा विप्रे विधौ वेदे ज्ञाने योगे तपस्यपि ॥ २९६ ॥
2.296 · p. 32
अनुष्टुप्
वीतिस्तु प्रजने दीप्तौ धावनेऽश्वे शने गतौ ।वर्त्म नेत्रे छदे मार्गे वर्ष्म देहप्रमाणयोः ॥ २९७ ॥
2.297 · p. 32
अनुष्टुप्
आकारे सुन्दरे वेणी केशबन्धप्रवाहयोः ।वस्नं मूल्ये धने वृन्तं स्तनास्ये पुष्पबन्धने ॥ २९८ ॥
2.298 · p. 32
अनुष्टुप्
वार्त्ता तूदन्तवार्त्ताकीकृप्यादिषु च वर्त्तने ।वार्त्तं तु वृत्तिविशदे कुशला रोगफल्गुषु ॥ २९९ ॥
2.299 · p. 32
अनुष्टुप्
विदा ज्ञाने धियां बिन्दुः शून्ये पृषतविज्ञयोः ।वेदिरङ्गुलिमुद्रायां बुधे भूषितभूतले ॥ ३०० ॥
2.300 · p. 32
अनुष्टुप्
शुकः स्याद्व्यासजे कीरे रक्षोऽमात्ये कृतौ शुकं ।ग्रन्थिपर्णे शिरीषेऽथ श्लोकः पद्ये यशस्यपि ॥ ३०१ ॥
2.301 · p. 33
अनुष्टुप्
शाकः शक्तौ नृपे द्वीपे वृक्षे हरितके स्मृतः ।शूकः शलाकेऽनुक्रोशे शुङ्गाभिषवयोरपि ॥ ३०२ ॥
2.302 · p. 33
अनुष्टुप्
शोके शौकं तटे कीरगणे स्त्रीकरणान्तरे ।शको देशेऽन्त्यजे भूपे शाणो माने कषेऽपि च ॥ ३०३ ॥
2.303 · p. 33
अनुष्टुप्
शङ्कुः प्रहरणे सङ्ख्यारुद्रमेण्ढ्रेषु कीलके ।यादोभेदे शिफा मांसीजटामातृसरित्स्वपि ॥ ३०४ ॥
2.304 · p. 33
अनुष्टुप्
शफं खुरे वृक्षमूले शङ्खोऽस्थन्यसुरे निधौ ।कम्बौ श्रीमान् धनाधीशे स्वर्णे तिलकपादपे ॥ ३०५ ॥
2.305 · p. 33
अनुष्टुप्
शुचिर्ग्रीष्मे सिते वह्नौ शृङ्गाराषाढमासयोः ।शुद्धेऽनुपहते च स्यादुपधाशुद्धमन्त्रिणि ॥ ३०६ ॥
2.306 · p. 33
अनुष्टुप्
शठो धत्तूरके धूर्त्ते मध्यस्थपुरुषेऽलसे ।शोणो हयान्तरे रक्ते श्योनाकनदवह्निषु ॥ ३०७ ॥
2.307 · p. 33
अनुष्टुप्
शिवं भद्रे सुखे तोये शिवो योगे श्रुतौ हरे ।गुग्गुले जम्बुके कीले पुण्डरीके दुमोक्षयोः ॥ ३०८ ॥
2.308 · p. 33
अनुष्टुप्
शिवा हरीतकीफेरुपत्नीकात्यायनीषु च ।आमलक्यां शृगालेऽपि शुद्धः केवलपूतयोः ॥ ३०९ ॥
2.309 · p. 33
अनुष्टुप्
शेषो नाशे बलेऽनन्ते स्वीकारेतरवस्तुनि ।श्यामा गुन्द्रा सोमवल्लीनीलीकृष्णातृ[त्रि]वृत्स्वपि ॥ ३१० ॥
2.310 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
फलिनीसारिवन्द्यास्वप्रसूतस्त्रियां निशि ।वल्गुल्यां च शरं वारि शरो विशिखमुञ्जयोः ॥ ३११ ॥
2.311 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शरुर्वज्रे शरे कोपे शारिस्तु द्यूतसाधने ।शकुनौ गजपर्याणे शद्रिर्जिष्णुतडित्वतोः ॥ ३१२ ॥
2.312 · p. 34
अनुष्टुप्
शम्भुर्ब्रह्महरार्हत्सु शुभः योगे शुभं सुखे ।शुभा हृद्यास्नुहीक्षीरीशुद्धापथ्यासु पठ्यते ॥ ३१३ ॥
2.313 · p. 34
अनुष्टुप्
श्लाघा निन्दानघोषास्त्यभिलाषमहिलास्वपि ।शृङ्गं विषाणसामर्थ्यसानुषूत्कर्षचिह्नयोः ॥ ३१४ ॥
2.314 · p. 34
अनुष्टुप्
शृङ्गस्तु मस्तके कूर्चे शृङ्गी शूरे पशौ गिरौ ।शृङ्गी मीनान्तरे स्वर्णे विषायामृपभौषधे ॥ ३१५ ॥
2.315 · p. 34
अनुष्टुप्
शार्ङ्गं कार्मुकमात्रेऽपि लक्ष्मीनाथशरासने ।शाखी महीरुहे वेदे राजभेदे नरेऽपि च ॥ ३१६ ॥
2.316 · p. 34
अनुष्टुप्
शिखी दीपे द्रुमे बाणे वह्नौ केतुग्रहे हये ।चूडावति वलीवर्दे ताम्रचूडमयूरयोः ॥ ३१७ ॥
2.317 · p. 34
अनुष्टुप्
शबिर्भूर्जे नृपे ताले शोषः शोषणयक्ष्मणोः ।शाखा वृक्षभुजे बाहौ वेदाङ्गे तालभिद्यपि ॥ ३१८ ॥
2.318 · p. 34
अनुष्टुप्
पक्षान्तरेऽन्तिके चाथ शिखा चूडाग्रमात्रयोः ।केकिचूडाशिफाज्वालाघृणिलाङ्गलिकासु च ॥ ३१९ ॥
2.319 · p. 34
अनुष्टुप्
शरद्वर्षात्यये वर्षे शस्तं क्षेमप्रशस्तयोः ।शितिर्भूर्जे सिते नीले शितं तीक्ष्णे कृशे श्रुतम् ॥ ३२० ॥
2.320 · p. 34
अनुष्टुप्
शास्त्रे चाकर्णने शान्तो दान्ते दीर्घे रसान्तरे ।शौण्डी च विकपिष्पल्योः शौण्डो मत्तप्रसिद्धयोः ॥ ३२१ ॥
2.321 · p. 34
अनुष्टुप्
शम्बस्तु मुशलाग्रस्थलोहे वज्रेऽथ धूमले ।शक्तिः शस्त्रे बले वाण्यामुत्साहादावुमाश्रियोः ॥ ३२२ ॥
2.322 · p. 34
अनुष्टुप्
श्रुतिः कर्णे श्रुतौ वेदे गीतादिध्वनिवार्त्तयोः ।श्येनः पक्षिभिदि श्वेते शादः कर्दमशिष्ययोः ॥ ३२३ ॥
2.323 · p. 34
अनुष्टुप्
शुक्रो हुताशने मासभेदे दैत्यगुरौ सिते ।शुक्रं नेत्रगदे बीजे शुभ्रं दीप्ते सितेऽभ्रके ॥ ३२४ ॥
2.324 · p. 35
अनुष्टुप्
षडः पेयान्तरे भेदे षण्डः स्याद्विड्वरे वने ।षष्ठी गौरीनिषेकादिसंख्यातिथिविभक्तिषु ॥ ३२५ ॥
2.325 · p. 35
अनुष्टुप्
स्तोकस्तु चातके स्वल्पे स्तोमः स्यान्निकरे मखे ।स्थाणुः कीले शिवे सूनुः सूर्ये पुत्रेऽनुजे द्रुमे ॥ ३२६ ॥
2.326 · p. 35
अनुष्टुप्
सूना वधालये जिह्वातले सूनं सुमेऽङ्कुरे ।सीरः सूर्ये हले स्कन्धो विज्ञानादिषु पञ्चसु ॥ ३२७ ॥
2.327 · p. 35
अनुष्टुप्
प्रकाण्डे नृपतौ व्यूहे देहे सेवातमण्डले ।सौम्यो धिष्ण्ये बुधे रम्ये सन्धा स्थितिप्रतिज्ञयोः ॥ ३२८ ॥
2.328 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)
संविदाचारसङ्केतक्रियाकारेषु तोषणे ।ज्ञाने नाम्नि प्रतिज्ञायां सङ्ग्रामालापयोरपि ॥ ३२९ ॥
2.329 · p. 35
अनुष्टुप्
सूतः प्रसूतसारथ्योः पारदे तक्ष्णि मागधे ।ब्राह्मण्यां क्षत्रियाज्जाते सुतः पुत्रे नृपेऽपि च ॥ ३३० ॥
2.330 · p. 35
अनुष्टुप्
सीता सीरध्वजापत्ये सुरसिन्धुवरस्त्रियोः ।सस्याधिदेवतालक्ष्म्योर्भुवि लाङ्गलपद्धतौ ॥ ३३१ ॥
2.331 · p. 35
अनुष्टुप्
सितो बद्धे कवौ शुभ्रे सातिर्दानावसानयोः ।सृष्टिः खभावनिर्मित्योः स्फुटो व्यक्तप्रफुल्लयोः ॥ ३३२ ॥
2.332 · p. 35
अनुष्टुप्
सलिः सर्पविशेषे स्यात्कीले कलियुगेऽपि च ।मूर्खे भङ्गे गदे सगा वर्गे निर्माणमोहयोः ॥ ३३३ ॥
2.333 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स (wrong syllable)
उत्साहेऽनुमतौ त्यागे स्वभावे निश्चये स्मृतः ।सुखा प्रचेतसः पुर्यां सुखं स्वर्गेऽपि शर्मणि ॥ ३३४ ॥
2.334 · p. 35
अनुष्टुप्
सत्त्वं वित्ते क्रियाकारेऽप्यात्मभावस्वभावयोः ।पिशाचादौ गुणे प्राणे प्राणिद्रव्यबलेषु च ॥ ३३५ ॥
2.335 · p. 36
अनुष्टुप्
सालो वृक्षान्तरे दुर्गे स्थूलः पीने जडे स्मृतः ।सिन्धुर्देशे नदे नद्यामब्धौ दन्तिमदे मदे ॥ ३३६ ॥
2.336 · p. 36
अनुष्टुप्
सह्यः शैले नृपे सह्यं सोढव्यायोग्ययोरपि ।स्वरः शब्देऽपि षड्जादौ स्वरुः कुलिशबाणयोः ॥ ३३७ ॥
2.337 · p. 36
अनुष्टुप्
सत्त्ररमाच्छादने यागे गृहे दाने वने धने ।साधुस्त्वार्ये मुनौ सिद्धिर्योगे निष्पत्तिमोक्षयोः ॥ ३३८ ॥
2.338 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सोमः समीरे कर्पूरे यागेऽप्सु पितृदैवते ।ओषध्यां तद्रसे चन्द्रे कपौ किंपुरुषेश्वरे ॥ ३३९ ॥
2.339 · p. 36
अनुष्टुप्
दिव्यौषधे शिवे विष्णौ दिननाथे बिडौजसि ।सिंहो मृगाधिपे राशौ श्रेष्ठे स्यादुत्तरस्थितः ॥ ३४० ॥
2.340 · p. 36
अनुष्टुप्
सुधा पृथ्वीस्नुहागङ्गेष्टिकामूर्वामृतेषु च ।विकारे चाश्मनां सूदः सूपकारे घृतादिषु ॥ ३४१ ॥
2.341 · p. 36
अनुष्टुप्
सव्यं तु दक्षिणे वामे सङ्ख्यैकादिविचारयोः ।सेव्यमुशीरे सेवार्हे स्वामी परिवृढे गुहे ॥ ३४२ ॥
2.342 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 व्य (wrong syllable)
स्वस्ति त्वाशिषि पुण्ये स्यादविनाशादिभव्ययोः ।सती कात्यायनी साध्योः साक्षात्प्रत्यक्षतुल्ययोः ॥ ३४३ ॥
2.343 · p. 36
अनुष्टुप्
हरिर्विष्णौ यमे सिंहे तार्क्ष्ये भेके शुकेऽनिले ।इन्द्रे चन्द्रे कपावंशौ वर्णाश्वाहीनभीरुषु ॥ ३४४ ॥
2.344 · p. 36
अनुष्टुप्
अरुणे वरुणे वंशे पावके पारदे द्विपे ।स्वर्णे लोकान्तरे शुक्रे गिरिशेऽसौ गुहे शनौ ॥ ३४५ ॥
2.345 · p. 37
अनुष्टुप्
हारो मुक्तागणे चाजौ क्षेत्रमानविशेषयोः ।यष्टिकादिचये चारौ हीरो वज्रहराहिषु ॥ ३४६ ॥
2.346 · p. 37
अनुष्टुप्
हीरा पिपीलिकालक्ष्म्योर्हरो वेसररुद्रयोः ।वह्नौ होरा तु राशीनामर्द्धे लग्ने श्रुतेऽपि च ॥ ३४७ ॥
2.347 · p. 37
अनुष्टुप्
होमिः क्षीरे घृते वह्नौ हार्यस्तु कलिभूरुहि ।हर्त्तव्येऽथ हेला स्याद्विलासावज्ञयोरपि ॥ ३४८ ॥
2.348 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ह (syllables merged)
हेलिः सूर्ये परिष्वङ्गे हालः स्यात्सातवाहने ।हाला मद्ये हलः सीरे हली कृषकसीरिणोः ॥ ३४९ ॥
2.349 · p. 37
अनुष्टुप्
हंसो राज्ञि रवौ धर्मे विष्णौ जीवे शिवे सिते ।तपस्विन्यश्वखगयोः प्राधान्ये चोत्तरस्थितः ॥ ३५० ॥
2.350 · p. 37
अनुष्टुप्
हस्तो माने भुजे केशात्कलापे धिष्ण्यशुण्डयोः ।हविर्घृते च होतव्ये हिंसा चौर्यादिनाशयोः ॥ ३५१ ॥
2.351 · p. 37
अनुष्टुप्
हेतिर्ज्वालास्त्रयोरुस्रे हरिद्दिशि हयान्तरे ।तृणभेदे भवेद्वर्णे हितं पथ्ये धृते गते ॥ ३५२ ॥
2.352 · p. 37
अनुष्टुप्
हनुः कपोलावयवे हरिद्रायुधभेदयोः ।मरणामययोर्हारी रम्ये हारान्विते शुके ॥ ३५३ ॥
2.353 · p. 37
अनुष्टुप्
हन्त हर्षे विषादे स्याद्वाक्यारम्भानुकम्पयोः ।हठोऽम्बुपर्ण्यां प्रसभे हीनो दीनेऽप्यपूरके ॥ ३५४ ॥
2.354 · p. 37
अनुष्टुप्
क्षत्ता शूद्राक्षत्रियायां जाते सारथिवेधसोः ।नियुक्ते दासजे द्वाःस्थे क्षीवो मत्तनृशंसयोः ॥ ३५५ ॥
2.355 · p. 38
अनुष्टुप्
क्षणः कालान्तरे मध्ये परतन्त्रत्वपर्वणे ।उत्सवेऽवसरे क्ष्वेडा सिंहनादशलाकयोः ॥ ३५६ ॥
2.356 · p. 38
अनुष्टुप्
क्ष्वेडस्तु गरले वक्रे ध्वाने कर्णामयेऽपि च ।क्ष्वेडं दुरासदे पुष्पे लोहितार्कफले स्मृतम् ॥ ३५७ ॥
2.357 · p. 38
अनुष्टुप्
क्षमा तु क्षान्तिमेदिन्योः क्षमः शक्ते क्षमावति ।युक्ते तालभिदि क्षेमो मङ्गले लब्धरक्षणे ॥ ३५८ ॥
2.358 · p. 38
अनुष्टुप्
मोक्षे क्षारो रसे काचे गुडे च लवणादिषु ।क्षुद्रा व्यङ्गानटीवेश्याचाङ्गेरीसरघासु च ॥ ३५९ ॥
2.359 · p. 38
अनुष्टुप्
क्षरं वारि क्षरो मेघे क्षुद्रशब्दस्तु निर्धने ।नृशंसे कृपणे स्वल्पे निःकृष्टच्छलयोरपि ॥ ३६० ॥
2.360 · p. 38
अनुष्टुप्