कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

तृतीयः काण्डः (2/3)

जम्बूवृक्षेऽपि जम्बालं कर्द्दमे कर्द्दमान्तरे ।जङ्गलं पिशिते गर्त्ते निर्जलस्थानदेशयोः ॥ १२१ ॥
3.121 · p. 50
अनुष्टुप्
जीमूतो जलदे शैले जीवनं वृत्तिजन्मनोः ।संहतावुदके वृक्षे जम्बुकः फेरुपाशिनोः ॥ १२२ ॥
3.122 · p. 50
अनुष्टुप्
जगती भुवने भूमौ लोकेऽपि च्छन्दसां भिदि ।जठरं तूदरे चित्ते कठिने तालभिद्यपि ॥ १२३ ॥
3.123 · p. 50
अनुष्टुप्
टगरष्टङ्कणे वृक्षे केकराख्येऽथ टङ्कणः ।कोपेऽश्मदारणे टङ्के टट्टरी वक्रवाद्ययोः ॥ १२४ ॥
3.124 · p. 50
अनुष्टुप्
तरलश्चपले खड्गे हारमध्यमणौ बले ।भास्वरे त्रिदिवं ख्यातमाकाशसुरलोकयोः ॥ १२५ ॥
3.125 · p. 50
अनुष्टुप्
तुषारः शीकरे शीते तरस्वी वेगवत्तरे ।बलिष्ठे तिलक्रं वृक्षे चित्रके तिलकालके ॥ १२६ ॥
3.126 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
ललामे रुचके क्लोम्नि तैतिलं तिलपर्पटे ।गण्डके करणे चाथ तलिमं कुट्टिमे स्मृतम् ॥ १२७ ॥
3.127 · p. 50
अनुष्टुप्
तल्पे विताने तलिनं स्वल्पे तल्पेऽपि निर्मले ।तोदनं पीडने तोत्रे तरसं बलमांसयोः ॥ १२८ ॥
3.128 · p. 50
अनुष्टुप्
तेमनं व्यञ्जने क्लेदे तेमनी चुल्हिभिद्यपि ।तरणिस्तु तरीसूर्यकुमारीतरुणांशुषु ॥ १२९ ॥
3.129 · p. 50
अनुष्टुप्
यष्ट्यब्ध्योस्तरुणो यूनि नूतनैरण्डयोः सुमे ।तक्षकः पन्नगे तक्ष्णि वृक्षभेदेऽथ तण्डकः ॥ १३० ॥
3.130 · p. 50
अनुष्टुप्
खञ्जरीटे तरुस्कन्धे फेने मन्दिरदारुणि ।तारको नाविके दैत्ये तारकं नेत्रतारयोः ॥ १३१ ॥
3.131 · p. 50
अनुष्टुप्
नक्षत्रे च त्रिशङ्कुस्तु मार्जारे शलभे नृपे ।तूलिकालेख्यलेखिन्यां तूलतल्पशलाकयोः ॥ १३२ ॥
3.132 · p. 51
अनुष्टुप्
तमालो वरुणे खड्गे पुण्ड्रतापिच्छयोरपि ।तुम(मु)लं भीमसंग्रामे तुमुलस्तु बिभीतके ॥ १३३ ॥
3.133 · p. 51
अनुष्टुप्
दौर्वीणं मृष्टपत्रे स्याद्धरितालीरसे स्मृतं ।द्वितीया तिथिगेहिन्योर्द्रविणं तु पराक्रमे ॥ १३४ ॥
3.134 · p. 51
अनुष्टुप्
दृश्यते द्युम्नवद्द्रव्ये पित्तलौषधसंघयोः ।दारदः पारदे वत्सनागे हिङ्गुलवर्णयोः ॥ १३५ ॥
3.135 · p. 51
अनुष्टुप्
द्विजन्मा वौ रदे विप्रे द्वापरः संशये युगे ।देवनं तु जिगीषायां व्यवहारविहारयोः ॥ १३६ ॥
3.136 · p. 51
अनुष्टुप्
दुर्जातं व्यसनेऽसम्यग्जातवस्तुनि पठ्यते ।दीपितं भासिते दुग्धे तथा निर्भासितेऽपि च ॥ १३७ ॥
3.137 · p. 51
अनुष्टुप्
दुकूलं स्वम्बरे पट्टकूले भूर्जदलेऽपि च ।दायादस्तनये ज्ञातौ दिवौकाश्चातके सुरे ॥ १३८ ॥
3.138 · p. 51
अनुष्टुप्
दारको भेदके पुत्रे दीप्यकं त्वजमोदके ।यवान्यां दीपको वृत्तालंकारे पक्षिभिद्यपि ॥ १३९ ॥
3.139 · p. 51
अनुष्टुप्
दीपे दीप्तिकृति ख्यातौ द्विजातिः पक्षिविप्रयोः ।दुर्मुखः करिणां भेदे मुखरे कपिवाजिनोः ॥ १४० ॥
3.140 · p. 51
अनुष्टुप्
द्रोहाटो गर्द्दभे दृष्टो बिडालप्रतिकेऽपि च ।मृगलुब्धे चतुष्पद्यां दमथो दमदण्डयोः ॥ १४१ ॥
3.141 · p. 51
अनुष्टुप्
दुर्द्दरो (दर्द्दुरो) जलदे भेके शैले वाद्यस्य साधने ।दण्डारो मत्तमातङ्गे कुलालारीषुयन्त्रयोः ॥ १४२ ॥
3.142 · p. 51
अनुष्टुप्
दासेरः करभे चेटे दुर्वर्णं स्वर्णरूप्ययोः ।दहनश्चित्रके वह्नौ भल्लाते दुष्टचेष्टिते ॥ १४३ ॥
3.143 · p. 51
अनुष्टुप्
धेनुका धेनुहस्तिन्योर्धेनुको दानवान्तरे ।धेनुकं धेनुवृन्दे च नारीणां करणान्तरे ॥ १४४ ॥
3.144 · p. 52
अनुष्टुप्
धिषणस्त्रिदशाचार्ये धिषणा तु धियामपि ।धरणस्तरणौ शेषे धान्ये लोके स्तने गिरौ ॥ १४५ ॥
3.145 · p. 52
अनुष्टुप्
धरणं धारणे मानविशेषे धरणी भुवि ।धूसरो रासभे वर्णे धूमलः शकटाङ्गयोः ॥ १४६ ॥
3.146 · p. 52
अनुष्टुप्
धाराटश्चातके चाश्वे निर्दये निन्दकेऽपि च ।धवलो वृषभे शुभ्रे कर्पूरे तरुचन्द्रयोः ॥ १४७ ॥
3.147 · p. 52
अनुष्टुप्
धर्षणं सुरते दुःखे धर्षणी पुंश्चलीरयोः ।धावनं सुगतौ शौचे धनपो धनदाढ्ययोः ॥ १४८ ॥
3.148 · p. 52
अनुष्टुप्
निर्वेशस्तूपभोगे च मूर्च्छने वेतनेऽपि च ।निकायो वसतौ लक्ष्ये समूहे निगमः पुरे ॥ १४९ ॥
3.149 · p. 52
अनुष्टुप्
वेदे वणिक्पथे मार्गे निसर्गो विश्वनिर्मितौ ।स्वभावे निग्रहो दण्डे मर्यादायां च भर्त्सने ॥ १५० ॥
3.150 · p. 52
अनुष्टुप्
निवातस्त्वाश्रये गाढसन्नाहे पवनात्यये ।निर्यूहः शेखरे द्वारि निर्यासे नागदन्तके ॥ १५१ ॥
3.151 · p. 52
अनुष्टुप्
आपीडे निःक्रमो तुल्ये धीसामर्थ्ये च निर्गमे ।निःकृतस्त्वधमे विप्रलब्धे विप्रकृतेऽपि च ॥ १५२ ॥
3.152 · p. 52
अनुष्टुप्
नियमो निश्चये ज्ञाने यन्त्रणायां व्रतेऽवधौ ।निर्वाणं निर्वृतौ मोक्षे विनाशे दन्तिमज्जने ॥ १५३ ॥
3.153 · p. 52
अनुष्टुप्
न्यग्रोधस्तु वटे व्यामे निपाकः स्वेदपाकयोः ।असत्कर्मफले चापि नायको नेतरि स्मृतः ॥ १५४ ॥
3.154 · p. 52
अनुष्टुप्
प्रधाने मणिभेदे स्यान्नालिका कालनालयोः ।चुल्हीरन्ध्रे बिले वंशभाजने नर्त्तको नटे ॥ १५५ ॥
3.155 · p. 53
अनुष्टुप्
द्विरदे केलिके मत्स्ये नर्तकी नृत्यकृत्स्त्रियां ।निकृतिस्तु शठे शाठ्ये निस्त्रिंशः क्रूरखड्गयोः ॥ १५६ ॥
3.156 · p. 53
अनुष्टुप्
निषधः कठिने देशे निषधे स्वरे गिरौ (?) ।हस्तके करिभेदे च निवेशः पुरविवाहयोः ॥ १५७ ॥
3.157 · p. 53
metre not recognisednearly अनुष्टुप्
विन्यासेऽपि वरूथिन्यां नीकाशो निश्चये समे ।निर्देशः कथने वाक्ये निदेशः परिभाषणे ॥ १५८ ॥
3.158 · p. 53
अनुष्टुप्
समीपे शासने दृष्टे निर्माणं तु समञ्जसे ।विधाने सारनिर्मित्योर्नन्दकः कुलपालके ॥ १५९ ॥
3.159 · p. 53
अनुष्टुप्
हर्षके चक्रिणः खड्गे निषादः श्वपचे स्वरे ।नलदं वीरणीमूले मकरन्देऽपि दृश्यते ॥ १६० ॥
3.160 · p. 53
अनुष्टुप्
नरको निरये दैत्ये नालीकः शल्यबाणयोः ।अज्ञेऽब्जे कमलारण्ये निर्मोकः सर्पकञ्चुके ॥ १६१ ॥
3.161 · p. 53
अनुष्टुप्
मोक्षके खेऽपि सन्नाहे निषङ्गो योगतूणयोः ।नर्मठश्चूचूके षिङ्गे निशान्तं शान्तगेहयोः ॥ १६२ ॥
3.162 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चू (wrong syllable)
प्रभाते निर्वृतिः सौस्थ्ये मृत्यौ मोक्षे सुखेऽपि च ।निर्ग्रन्थः श्रमणे भिक्षौ निर्द्धने कदलीद्रुमे ॥ १६३ ॥
3.163 · p. 53
अनुष्टुप्
पतङ्गं पारते दृष्टं शलभे पतङ्गः (गः?) खगे ।पद्मके तरणौ सस्ये जीमूते रक्तचन्दने ॥ १६४ ॥
3.164 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
प्रसवः शाखिनां पुष्पे फले गर्भस्य मोचने ।अपत्येऽपि तथोत्पादे प्रभावः शक्तितेजसोः ॥ १६५ ॥
3.165 · p. 53
अनुष्टुप्
पर्वतः शैलदेवर्ष्योः पार्वती गिरिशस्त्रियां ।जीवन्त्यां सल्लकीवल्लीविशेषाद्रौपदीषु च ॥ १६६ ॥
3.166 · p. 54
अनुष्टुप्
पुष्करं भेषजे तीर्थे पद्मदन्तिकराग्रयोः ।द्वीपे तूर्यमुखे वारिव्योमखड्गफलाहिषु ॥ १६७ ॥
3.167 · p. 54
अनुष्टुप्
प्रभवः स्थानके मूले जन्महेतौ पराक्रमे ।प्रज्ञानं तु धियां चिह्ने प्रकारो भेदसाम्ययोः ॥ १६८ ॥
3.168 · p. 54
अनुष्टुप्
पुलाको भक्तिसिक्थेंऽशे संक्षेपक्षुद्रधान्ययोः ।पर्यङ्कः स्यात्परिकरे मञ्चके पृथुकोऽर्भके ॥ १६९ ॥
3.169 · p. 54
अनुष्टुप्
चिपिटेऽथ प्रकाशः स्यादुद्द्योते प्रकटे गदे ।प्रमाणं कारणे सत्यजल्पिते मानशास्त्रयोः ॥ १७० ॥
3.170 · p. 54
अनुष्टुप्
पुङ्गवः गवि भैषज्ये श्रेष्ठे शब्दोत्तरस्थितः ।पर्जन्यो वासवे पक्षिविशेषे गर्जदम्बुदे ॥ १७१ ॥
3.171 · p. 54
अनुष्टुप्
पर्याप्तं तु यथेच्छायां पूर्णे शक्तिनिषेधयोः ।प्रदरो व्यूहभङ्गेषुगदभेदप्रभीतिषु ॥ १७२ ॥
3.172 · p. 54
अनुष्टुप्
पललं पिशिते पङ्के पिण्याके रक्षसि स्मृतं ।परुषं कर्बुरे रूक्षे सदृशक्रूरवाक्ययोः ॥ १७३ ॥
3.173 · p. 54
अनुष्टुप्
पुद्गलः सुन्दराकारे कायात्मद्रविणेपु च ।पादपो भूरुहे पादपीठे पादरथे स्मृतः ॥ १७४ ॥
3.174 · p. 54
अनुष्टुप्
प्रधानं तु महामात्रे प्रकृतावात्मपूज्ययोः ।गीःपतौ पल्लवः षिङ्गविटपाञ्चललक्ष्मसु ॥ १७५ ॥
3.175 · p. 54
अनुष्टुप्
शृङ्गारे विस्तरेऽलक्तरागे किसलये बले ।पुलको मणिदोषे स्यात्कृमिभिद्यश्रुसंहतौ ॥ १७६ ॥
3.176 · p. 54
अनुष्टुप्
रोमाञ्चे सामयोन्यन्नपिण्डेऽश्महरितालयोः ।प्रवालो वल्लकीदण्डे विद्रुमे द्रुमपल्लवे ॥ १७७ ॥
3.177 · p. 55
अनुष्टुप्
प्रबलेऽथ पलाशः स्याद्रक्षोवर्णविशेषयोः ।च्छदने शाखिनां भेदे पाशे तालान्तरेऽपि च ॥ १७८ ॥
3.178 · p. 55
अनुष्टुप्
प्रघणोऽलिऽन्दके ताम्रकलशे लोहमुद्गरे ।प्रासादो देवतागारे पृथिवीपालमन्दिरे ॥ १७९ ॥
3.179 · p. 55
अनुष्टुप्
प्रणयः स्यात्प्रार्थनायां प्रीतिविश्रम्भयोरपि ।पुरुषः पूरुषे प्राणे पौरुषं तु पराक्रमे ॥ १८० ॥
3.180 · p. 55
अनुष्टुप्
ऊर्द्ध्वविस्तृतदोःपाणिनृमाने तेजसीष्यते ।पिण्डारो महिषीपाले भिक्षुकद्रुमभेदयोः ॥ १८१ ॥
3.181 · p. 55
अनुष्टुप्
पवित्रं तु कुशे पूते प्रगाढं गाढकृच्छ्रयोः ।पिचुलो निचुले नीरवायसे झाबुकद्रुमे ॥ १८२ ॥
3.182 · p. 55
अनुष्टुप्
पीतनं कुङ्कुमे पीतकाष्ठेऽपि हरितालके ।पिशुनं कुङ्कुमे ख्यातं पिशुनः सूचके खले ॥ १८३ ॥
3.183 · p. 55
अनुष्टुप्
पौलस्त्यो रावणे श्रीदे पङ्कारो वारिकुब्जके ।सोपाने शैवले सेतौ पटलं पिकटौघयोः ॥ १८४ ॥
3.184 · p. 55
अनुष्टुप्
तिलकच्छदिषोर्नेत्ररोगेऽध्याये परिच्छदे ।पाठीनः पाठके मीनविशेषे गुग्गुलद्रुमे ॥ १८५ ॥
3.185 · p. 55
अनुष्टुप्
पाकलं कुष्ठभैषज्ये पाकलः करिणां ज्वरे ।पाचलः पवने वह्नौ राधनद्रव्यपाकयोः ॥ १८६ ॥
3.186 · p. 55
अनुष्टुप्
पिङ्गलः फणिभिद्यर्कपरिपार्श्वे कपौ शनौ ।कपिले पिङ्गला नाडीवेश्ययोः करिणीभिदि ॥ १८७ ॥
3.187 · p. 55
अनुष्टुप्
पिण्याकः सिह्लके हिङ्गुवेरयोस्तिलचूर्णके ।पिनाकः पांशुवर्षे स्यात् शर्वचापत्रिशूलयोः ॥ १८८ ॥
3.188 · p. 56
अनुष्टुप्
पेचकः करिलाङ्गूलमूलेऽघूकेऽथ पुष्पकं ।कासीसे मृत्तिकाङ्गारशकटीनेत्ररोगयोः ॥ १८९ ॥
3.189 · p. 56
अनुष्टुप्
विमाने यक्षराजस्यायःकांस्येऽपि रसाञ्जने ।प्लवगो वानरे भेके रेवन्ते सायकेऽपि च ॥ १९० ॥
3.190 · p. 56
अनुष्टुप्
पन्नगः पद्मको(का)ष्ठेऽहौ प्रयागो यज्ञशक्रयोः ।अश्वे तीर्थेऽथ पुन्नागः पाण्डुनागे सितोत्पले ॥ १९१ ॥
3.191 · p. 56
अनुष्टुप्
द्रुमे नरे फले जात्याः पलिघः शालगोपुरे ।काचस्य कलशे कुम्भे परञ्जः क्षुरिकाफले ॥ १९२ ॥
3.192 · p. 56
अनुष्टुप्
तैलयन्त्रेऽप्यसौ फेने पिच्चटं त्रपुसीसयोः ।नेत्ररोगे परीष्टिः स्यात्परिचर्यापरीक्षयोः ॥ १९३ ॥
3.193 · p. 56
अनुष्टुप्
पूत्यण्डो गन्धकृत्कीटे गन्धैणेऽप्यथ पक्षिणी ।पौर्णमासीपतत्पत्न्योः शाकिनीरजनीभिदोः ॥ १९४ ॥
3.194 · p. 56
अनुष्टुप्
पत्तोर्णं धौतकौशेये पत्तोर्णः शोणके स्मृतः ।प्रमथा तु हरीतक्यां प्रमथः शिवसेवके ॥ १९५ ॥
3.195 · p. 56
अनुष्टुप्
फाल्गुनो मासभेदे स्यादर्जुनार्जुनवृक्षयोः ।नदीजे फाल्गुनी पौर्णमासीभेदे च फेनिलम् ॥ १९६ ॥
3.196 · p. 56
अनुष्टुप्
सफेने बदरे कामफलेऽरिष्टेऽथ फालकः ।चीरभेदे गतौ दिव्ये फेरवः फेररक्षसोः ॥ १९७ ॥
3.197 · p. 56
अनुष्टुप्
भूजम्बूः स्याच्च गोधूमे विकङ्कतफलेऽपि च ।भूतीकं भूतृणे दृष्टं यवान्यां कट्फलौषधे ॥ १९८ ॥
3.198 · p. 56
अनुष्टुप्
घनसारेऽपि भूनिम्बे भूकेशः शैवले द्रुमे ।भ्रामके(को) जम्बुके दुष्टे सूर्यावर्त्ताश्मभेदयोः ॥ १९९ ॥
3.199 · p. 57
अनुष्टुप्
भावाटः कामुके साधुनिवेशे भावके स्मृतः ।भारती पक्षिणीवाचो(चि) वृत्तौ वचसि भारतम् ॥ २०० ॥
3.200 · p. 57
अनुष्टुप्
पुराणद्वीपयोरङ्गे भरतो नटशास्त्रयोः ।मुनौ रामानुजे भूपे क्षेत्रेऽपि शबरे जिने ॥ २०१ ॥
3.201 · p. 57
अनुष्टुप्
भ्रातृव्यो भ्रातृजे शत्रौ भुवनं विष्टपे जले ।भूतात्मा विधौ देहे भ्रमरः षट्पदेऽभिके (?) ॥ २०२ ॥
3.202 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 भू (syllables merged)
करणे भ्रामरं क्षौद्रभेदे दृषदि भास्करः ।वह्नौ रवौ च भार्योरुः परनारीरते मृगे ॥ २०३ ॥
3.203 · p. 57
अनुष्टुप्
मल्लिका मृत्तिकापात्रे वाद्ये (?) मीने सुमान्तरे ।मोचकः कदलीशिग्रुद्रुममोक्तृविरागिषु ॥ २०४ ॥
3.204 · p. 57
अनुष्टुप्
मेचकस्तिमिरे कृष्णे श्यामले केकिचन्द्रके ।मोचाटः कदलीसारे चन्दने कृष्णजीरके ॥ २०५ ॥
3.205 · p. 57
अनुष्टुप्
मालती तु स्त्रियां जातीकाकमाचीसरित्स्वपि ।ज्योत्स्नानिशाविशल्यासु माकन्द्यामलकीफले ॥ २०६ ॥
3.206 · p. 57
अनुष्टुप्
माकन्दो मन्मथे चूते मुकुन्दः पारदे हरौ ।निधौ तालेऽथ मेनादो मार्जारे मेषकेकिनोः ॥ २०७ ॥
3.207 · p. 57
अनुष्टुप्
मञ्जरी वल्लरीस्थूलमुक्तयोस्तिलकद्रुमे ।मुदिरः कामुके मेघे महेन्द्रो वासवे गिरौ ॥ २०८ ॥
3.208 · p. 57
अनुष्टुप्
माठरो वाडवे व्यासे तिग्मरश्म्यनुगेऽपि च ।मुहिरो मूढिते कामे मिहिरोऽर्क्केऽब्दबुद्धयोः ॥ २०९ ॥
3.209 · p. 57
अनुष्टुप्
मुर्मुरः सूर्यतुरगे तुषाग्नौ मकरध्वजे ।मण्डलं वर्तुले देशे बिम्बे द्वादशराजके ॥ २१० ॥
3.210 · p. 58
अनुष्टुप्
कुष्ठभेदे शुनि स्थाने संघाते परिघावहौ ।मसूरा पण्ययोषायां व्रीहिभेदेऽथ मर्म्मरः ॥ २११ ॥
3.211 · p. 58
अनुष्टुप्
शुष्कपत्रध्वनौ वस्त्रे मर्मरी पीतदारुणि ।मुद्गरः कोरके शस्त्रे ताले लोष्टादिभेदने ॥ २१२ ॥
3.212 · p. 58
अनुष्टुप्
मन्थरो विपुले मन्दे मथिकोशेऽपि सूचके ।माधवो भूपतौ मासि वसन्ते गरुडध्वजे ॥ २१३ ॥
3.213 · p. 58
अनुष्टुप्
मदनो मन्मथे वृक्षे मधूच्छिष्टवसन्तयोः ।मन्दरस्त्रिदिवे सीरे मन्दारे मन्दशैलयोः ॥ २१४ ॥
3.214 · p. 58
अनुष्टुप्
मन्दिरं नगरे गेहे मन्दिरो मकरालये ।मन्दारः परिभद्रेऽर्क्कपर्णे देवद्रुमान्तरे ॥ २१५ ॥
3.215 · p. 58
अनुष्टुप्
यमकं च्छन्दसां भेदे यमको यमजे व्रते ।याजको याज्ञिके पृथ्वीपाले दन्तिनि यापनम् ॥ २१६ ॥
3.216 · p. 58
अनुष्टुप्
निराशे कालविक्षेपे वर्त्तने चाथ योजनं ।युक्तावपि चतुःक्रोश्यां परमात्मन्यपीष्यते ॥ २१७ ॥
3.217 · p. 58
अनुष्टुप्
रोहितो लोहिते मत्स्ये शक्रचापे मृगान्तरे ।रोहीतकद्रुमे धीरे रुधिरं कुङ्कुमेऽसृजि ॥ २१८ ॥
3.218 · p. 58
अनुष्टुप्
मङ्गले रजनीरात्रौ हरिद्रायां च रैवतः ।उज्जयन्ते सुवर्णालौ पिनाकिन्यपि वर्त्तते ॥ २१९ ॥
3.219 · p. 58
अनुष्टुप्
रूपकं नाटकाद्येषु वृत्तालङ्कारधूर्त्तयोः ।रोमन्थस्तु पशूद्गारे दृश्यते कीटवर्त्तने ॥ २२० ॥
3.220 · p. 59
अनुष्टुप्
रोहिणी गवि नक्षत्रे सोमवल्कोमयोर्गदे ।रोदनं क्रन्दने चास्रे रोचना वरयोषिति ॥ २२१ ॥
3.221 · p. 59
अनुष्टुप्
गोपित्ते रक्तकल्हारे रेवती मातृतारयोः ।सीरपाणिप्रियायां च राजीवो मृगमत्स्ययोः ॥ २२२ ॥
3.222 · p. 59
अनुष्टुप्
रजको धावके कीरे रथाङ्गश्चक्रकोकयोः ।रक्ताङ्गः पृथिवीपुत्रे कम्पिल्ले विद्रुमे स्मृतः ॥ २२३ ॥
3.223 · p. 59
अनुष्टुप्
रक्ताङ्गा रक्तिकावल्यां रजतो नददन्तयोः ।दुर्व्वर्णे धवले शैले शोणिते हारहस्तिनोः ॥ २२४ ॥
3.224 · p. 59
अनुष्टुप्
लूनकस्तु पशौ भिन्ने भवेदौषधभिद्यपि ।लोचको मांसपिण्डे स्यात्कदलीनीलवस्त्रयोः ॥ २२५ ॥
3.225 · p. 59
अनुष्टुप्
कज्जले कर्णपूरे च ज्यायां भ्रूश्लथचर्मणि ।नेत्रतारेऽपि निर्बुद्धौ महिलाभालभूषणे ॥ २२६ ॥
3.226 · p. 59
अनुष्टुप्
लक्ष्मणो राघवे श्रीदे लक्ष्मणं नामचिह्नयोः ।लक्ष्मणा त्वौषधीभेदे दृश्यते सारसस्त्रियाम् ॥ २२७ ॥
3.227 · p. 59
अनुष्टुप्
लासको नर्त्तके चापि मयूरे लवणो रसे ।राक्षसे लवणा भायां लोहितो मङ्गले नदे ॥ २२८ ॥
3.228 · p. 59
अनुष्टुप्
लोहितं कुङ्कुमे युद्धे गोशीर्षे रक्तचन्दने ।रक्तेऽथ ललितं रम्ये हारभेदेऽपि वाञ्छिते ॥ २२९ ॥
3.229 · p. 59
अनुष्टुप्
लोमशा शाकिनीभेदे जटिलाकाकजङ्घयोः ।लोमशो रोमले मेषविशेषे मुनिभिद्यपि ॥ २३० ॥
3.230 · p. 59
अनुष्टुप्
विधानं वैरिणां भेदे विधावभ्यर्चने धने ।दन्तिनां कवले सन्धौ वेतनोपाययोरपि ॥ २३१ ॥
3.231 · p. 59
अनुष्टुप्
व्यायतं विपुले गाढे व्यापृतेऽतिशये स्मृतं ।व्रततिर्विस्तृतौ वल्ल्यां व्याघातो योगविघ्नयोः ॥ २३२ ॥
3.232 · p. 60
अनुष्टुप्
प्रहारेऽथ विनीतः स्याद्वाणिज्ये विजितेन्द्रिये ।शिक्षिते कुशले चाश्वे वृश्चिको राशिकीटयोः ॥ २३३ ॥
3.233 · p. 60
अनुष्टुप्
विमानं नाकिनां याने साप्तभौमिकमन्दिरे ।बाहुजः क्षत्रिये कीरे स्वयंजाततिले स्मृतः ॥ २३४ ॥
3.234 · p. 60
अनुष्टुप्
व्यलीकं पीडनेऽकार्ये व्यङ्गवैलक्ष्ययोरपि ।विग्रहो विस्तरे युद्धे वाक्यखण्डनदेहयोः ॥ २३५ ॥
3.235 · p. 60
अनुष्टुप्
विविक्तं विजने पूतेऽप्यसम्बाधे विवेकिनि ।विषाणं दन्तिनां दन्ते शृङ्गे कोलरदे तटे ॥ २३६ ॥
3.236 · p. 60
अनुष्टुप्
वेष्टनं मुकुटे वाटे युध्युष्णीषे च विक्रमः ।क्रान्तौ शक्तौ विलोमः स्यात्प्रतीपे वरुणेऽप्यहौ ॥ २३७ ॥
3.237 · p. 60
अनुष्टुप्
वामनो भूरुहे विगो स्वर्वेऽप्याशगजान्तरे ।विद्रुमः पल्लवे वृक्षे प्रवालमणिरक्तयोः ॥ २३८ ॥
3.238 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable)
वराकः संयुगे शोच्ये वर्णकः स्याद्विलेपने ।चन्दने चारणे चाथ वर्त्तकोऽश्वखुरे खगे ॥ २३९ ॥
3.239 · p. 60
अनुष्टुप्
वसुको रोमके वित्ते (?) शिवमल्यर्कपर्णयोः ।विवेकस्तु जलद्रोण्यां विचारैकान्तयोरपि ॥ २४० ॥
3.240 · p. 60
अनुष्टुप्