All kośas › Anekārthatilaka
अनेकार्थतिलक Anekārthatilaka
910 verses · text only, tagging comes next
चतुर्थः काण्डः (1/2)
॥ इत्यनेकार्थतिलके तृतीयः काण्डः ॥
अथ चतुर्थं काण्डम् ।
अथ संकीर्णवर्णाख्यश्चतुर्थोऽत्र विरच्यते ।काण्डोऽयममलैः शब्दैरकाराद्यादिभिः क्रमात् ॥ १ ॥
4.1 · p. 66
अनुष्टुप्
अपवर्गः क्रियाशेषे त्यागे साफल्यमोक्षयोः ।अवष्टम्भस्तु संरम्भारम्भस्तम्भेषु हाटके ॥ २ ॥
4.2 · p. 66
अनुष्टुप्
अभिजातः स्थितौ प्राज्ञे न्याय्ये रूपकुलीनयोः ।अभिमानध्वनिः (?) प्रीतौ गर्वेऽपि ज्ञानहिंसयोः ॥ ३ ॥
4.3 · p. 66
अनुष्टुप्
अभिषङ्गस्तथाक्रोशे शपथेऽपि पराभवे ।अवदातः सिते रम्ये स्वर्णवर्णविशुद्धयोः ॥ ४ ॥
4.4 · p. 66
अनुष्टुप्
अङ्गारकः कुजे दृष्ट उल्मुकांशे कुरण्टके ।अङ्गारकेक्षुकाण्डे स्यात्किंशुकस्य च कोरके ॥ ६ ॥
4.6 · p. 66
अनुष्टुप्
अध्यारूढं समारूढेऽप्यधिकेऽपि च वर्त्तते ।अङ्गारिणी हसन्त्यां च मार्त्तण्डत्यक्तदिश्यपि ॥ ७ ॥
4.7 · p. 66
अनुष्टुप्
अङ्कपाली परिष्वङ्गे धात्रीकोट्यांर्गद्रुहि ।अभिनिष्टानमिच्छन्ति विसर्जनीयवर्णयोः ॥ ८ ॥
4.8 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र्ज (wrong syllable)
अवग्रहणमिच्छन्ति प्रतिरोधेऽप्यनादरे ।अपावृतः स्वतन्त्रे स्थात्पिहिते तालभिद्यपि ॥ ९ ॥
4.9 · p. 66
अनुष्टुप्
अतिमुक्तः कलाहीने वासन्त्यां तिनिशे स्मृतः ।अवध्वस्तं परित्यक्ते निन्दिते चावचूर्णिते ॥ १० ॥
4.10 · p. 66
अनुष्टुप्
अपदेशो भवेल्लक्षे(क्ष्ये) निमित्तव्याजयोरपि ।अन्तावसायी शब्दोऽयं चाण्डाले नापिते स्मृतः ॥ ११ ॥
4.11 · p. 66
अनुष्टुप्
अपभ्रंशोऽवपाते स्याद्भाषाभेदापशब्दयोः ।अधिवासो गृहे वासेऽप्यग्रजन्मा द्विजेऽग्रजे ॥ १२ ॥
4.12 · p. 67
अनुष्टुप्
अष्टापदं सुवर्णे चाष्टापदः स[श]रभे मतः ।लूतापर्वतभिच्चन्द्रमल्लीसारीफलेषु च ॥ १३ ॥
4.13 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भवेदग्निशिखाख्या च लाङ्गल्यां कुङ्कुमेऽपि च ।मुनिजेऽग्निमुखे विप्रे भल्लाते चित्रके सुरे ॥ १४ ॥
4.14 · p. 67
अनुष्टुप्
दुर्जनेऽनुमतिः शिष्ये पूर्णिमाभिदनुज्ञयोः ।अरुष्करं फले भल्लातकस्य व्रणकृत्यपि ॥ १५ ॥
4.15 · p. 67
अनुष्टुप्
अधिष्ठानं पुरे चक्रप्रभावाध्यासनेषु च ।अनूचानो विवेकज्ञसाङ्गवेदविदोरपि ॥ १६ ॥
4.16 · p. 67
अनुष्टुप्
अम्बरीषो नृपे भ्राष्ट्रे किशोरे बुधसूर्ययोः ।आम्रातेऽपि महेशेऽलंबुषस्तु छर्द्दनेऽपि च ॥ १७ ॥
4.17 · p. 67
अनुष्टुप्
अलम्बुषा पक्षिभेदे गण्डीर्यापणयोषयोः ।अथाभिष्यन्द आश्रा[स्रा]वेऽतिवृद्धौ नयनामये ॥ १८ ॥
4.18 · p. 67
metre not recognisednearly अनुष्टुप्
आवेशनं शिल्पिशालावेशयोर्भूतमन्दिरे ।भवेदाच्छादनं वस्त्रे संपिधानेऽपवारणे ॥ १९ ॥
4.19 · p. 67
अनुष्टुप्
आक्षेपको मरुद्व्याधौ व्याधे स्यान्निन्दकेऽपि च ।आकल्पकस्तमोमोहग्रन्थावु[न्थिषू]त्कलिकामुदोः ॥ २० ॥
4.20 · p. 67
अनुष्टुप्metre not read in every line
आसुतीबलशब्दोऽयं कल्यपाले च यज्वनि ।आत्माधीनः सुते श्याले प्राणाधारे विदूषके ॥ २२ ॥
4.22 · p. 67
अनुष्टुप्
आशाबन्धः समाश्वासे तथा मर्कटवासके ।आडम्बरस्तु संरम्भे बृंहिते तूर्यनिःस्वने ॥ २३ ॥
4.23 · p. 68
अनुष्टुप्
पराक्रमवृते श्याले पुत्रे चायोधनं वधे ।आजावास्कन्दनं शोषे तिरस्कारसमीकयोः ॥ २५ ॥
4.25 · p. 68
अनुष्टुप्
इक्षुगन्धा पोटगले क्रोष्टीगोक्षुरयोः क्षुरे ।इष्टगन्धः सुगन्धे स्यादिष्टान्धं तु वालके ॥ २६ ॥
4.26 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
इन्दुलेखा विधोः खण्डे सोमवल्ल्यमृतांशुषु ।ईहामृगो वृके रूपकान्तरे जन्तुभिद्यपि ॥ २७ ॥
4.27 · p. 68
अनुष्टुप्
उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ।मन्देऽथोपनषद्धर्मे वेदान्ते सद्रहस्ययोः ॥ २८ ॥
4.28 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
उपासनं शराभ्यासे शुश्रूषायां तथासने ।उपह्वरं पुनः पार्श्वे रहःस्थानेऽप्युपक्रमः ॥ २९ ॥
4.29 · p. 68
अनुष्टुप्
प्रारम्भेऽपि चिकित्सायामुपधायां च विक्रमे ।उपलब्धिर्भवेज्ज्ञाने तथा प्राप्तिमनीषयोः ॥ ३० ॥
4.30 · p. 68
अनुष्टुप्
उदुम्बरं भवेत्कुष्ठभेदे ताम्रेऽप्युदुम्बरः ।अनोकु(क)हस्तरौ ताले देहल्यां पिण्डकेऽपि च ॥ ३१ ॥
4.31 · p. 68
अनुष्टुप्
उपतापं गदे विन्द्यादुपतप्तेऽप्यशर्मणि ।उद्घाटकं घटीयन्त्रे दृश्यते चोपवारणे ॥ ३२ ॥
4.32 · p. 68
अनुष्टुप्
उपाहतोऽनलोत्पाते तथा चारोपिते स्मृतः ।उदास्थितः प्रतीहारे प्रणध्यध्यक्षयोरपि ॥ ३३ ॥
4.33 · p. 68
अनुष्टुप्
उपरागपदं दृष्टं राहुग्रस्तेन्दुभास्करे (?) ।विमाने दुर्जये राहावुपसर्गो गदे(द)भिदि ॥ ३४ ॥
4.34 · p. 68
अनुष्टुप्
प्रादावुच्चिङ्गटो मीनभेदे कोपनपूरुषे ।उद्दन्तुरो भवेत्तुङ्गे करालोत्कटदन्तयोः ॥ ३५ ॥
4.35 · p. 69
अनुष्टुप्
एडमूकध्वनिर्दृष्टः (?) शठे वाक्श्रुतिवर्जिते ।भवेदेकपदं मार्गे तदात्वेऽप्येककुण्डलः ॥ ३७ ॥
4.37 · p. 69
अनुष्टुप्
रेवतीरमणे गौरीवरे किंपुरुषेश्वरे ।ऐरावतः शक्रगजे नारङ्गे दिग्गजे द्रुमे ॥ ३८ ॥
4.38 · p. 69
अनुष्टुप्
कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ।कला(ल)धौतध्वनिः (?) स्वर्णे रजते च केलध्वनौ ॥ ४१ ॥
4.41 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 के (wrong syllable)
कृष्णवृन्ता पुनर्माषपर्णीपाटलिवृक्षयोः ।पद्मे कामगुणो रागे स्मृतः सुरतभोगयोः ॥ ४३ ॥
4.43 · p. 69
अनुष्टुप्
कशेरुकं जले कन्दे पृष्ठस्यास्थनि कथ्यते ।करवीरोऽसुरे खड्गे श्मशाने हयमारके ॥ ४४ ॥
4.44 · p. 69
अनुष्टुप्
अङ्गुष्ठे करवीरी तु पुत्रिण्यामदितावपि ।सद्गव्यां कर्णिकारस्तु कृतमाले द्रुमोत्पले ॥ ४५ ॥
4.45 · p. 70
अनुष्टुप्
कथाप्रसङ्ग इत्येष वातूलविषवैद्ययोः ।कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके ॥ ४७ ॥
4.47 · p. 70
अनुष्टुप्
कृष्णसारः स्नुहावृक्षे शिंशिपामृगभेदयोः ।कूष्माण्डकस्तु मार्जारे कूष्माण्डगणभेदयोः ॥ ४८ ॥
4.48 · p. 70
अनुष्टुप्
कलकण्ठः पिके पारापते हंसे च केकिनि ।कालकण्ठः पिके खञ्जरीटे रुद्रमयूरयोः ॥ ४९ ॥
4.49 · p. 70
अनुष्टुप्
कालपृष्ठो मृगे कङ्के कर्णचापे धनुष्यपि ।कर्णपूरोऽवतंसे च नीलपद्मशिरीपयोः ॥ ५० ॥
4.50 · p. 70
अनुष्टुप्
कादम्बरी पुनर्मद्ये कोकिलाशास्त्रभेदयोः ।वाणीसारिकयोः कादम्बरं दधिसरे स्मृतम् ॥ ५१ ॥
4.51 · p. 70
अनुष्टुप्
सीधुमद्यभिदोः कुम्भीनसी लवणमातरि ।कुम्भीनसस्त्वहौ कुम्भयोनिर्द्रोणे मुनावपि ॥ ५२ ॥
4.52 · p. 70
अनुष्टुप्
कुमुद्वती कैरविणीकुशपत्न्योः कलध्वनिः ।पारापते कलायुक्ते परपुष्टे च केकिनि ॥ ५३ ॥
4.53 · p. 70
अनुष्टुप्
कुरुविन्दः पुनः पद्मरागे कल्माषमुस्तयोः ।दर्पणे हिङ्गुलव्रीहिभिदोः कर्कटकस्त्वहौ ॥ ५४ ॥
4.54 · p. 70
अनुष्टुप्
बिल्वे कुचन्दनं वृक्षे पत्राङ्गे रक्तचन्दने ।कृकवाकुस्ताम्रचूडे कृकलासमयूरयोः ॥ ५५ ॥
4.55 · p. 70
अनुष्टुप्
अथ कौकु(क्कु)टिको दूरे रितचक्षुषि दाम्भिके ।कदम्भरा तु गोलोम्यां (गोलायां) वर्षाभूगजयोषयोः ॥ ५६ ॥
4.56 · p. 71
अनुष्टुप्
कटम्भरप्रसारिण्योः काकरूको दिगम्बरे ।स्त्रीजिते पेचके दम्भे भीते कोशातकः कचे ॥ ५७ ॥
4.57 · p. 71
अनुष्टुप्
घोषे कोशातकी ज्योत्स्नीपटोल्योश्च कुटंनटः ।शोणके स्याद्दासपुरेऽप्यथ कार्यपुटध्वनिः ॥ ५८ ॥
4.58 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दा (wrong syllable)
उन्मत्ते क्षपणेऽनर्थकरे हस्तकभिद्यपि ।कुण्डकीटस्तु दाशीशे जारतो ब्राह्मणीसुते ॥ ५९ ॥
4.59 · p. 71
अनुष्टुप्
कृष्णवर्त्मा दुराचारे वीतिहोत्रे विधुंतुदे ।कामचारी पुनः कम्रे कलविङ्के चरेऽपि च ॥ ६० ॥
4.60 · p. 71
अनुष्टुप्
किष्कुपर्वा पोटगले तथेक्षुत्वचिसारयोः ।कटखादक इत्येष काचकुम्भे च खादके ॥ ६१ ॥
4.61 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
फेरवे कोकिले कक्षावेक्षको रङ्गजीविनि ।द्वारपाले कवौ षिङ्गे शुद्धान्तोद्यानपालयोः ॥ ६२ ॥
4.62 · p. 71
अनुष्टुप्
कृमिकण्टकस्तु चित्राविडङ्गोदुम्बरेषु च ।कट्टिलकस्तु पर्णासे वर्षाभूकारवेल्लयोः ॥ ६३ ॥
4.63 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्ट (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
खण्डपर्शुः शिवे राहौ रामे चूर्णप्रलेपनि ।किराते भेषजे चाथ खर्वशाखः कपौ क्षुपे ॥ ६५ ॥
4.65 · p. 71
अनुष्टुप्
गोजागरिकमुद्दिष्टं मङ्गले भक्ष्यकारके ।स्याद्गाढमुष्टिः कृपणे कृपाणादिषु भण्यते ॥ ६६ ॥
4.66 · p. 71
अनुष्टुप्
गन्धवाहा तु नासायां गन्धवाहोऽनिले मृगे ।गोरक्षजम्बूः गोधूमे गोरक्षे तन्दुलेऽपि च ॥ ६७ ॥
4.67 · p. 72
अनुष्टुप्
वृक्षे गोमेदकं रत्ने काकोले पत्रकेऽपि च ।गोकुणिको वक्रनेत्रे पङ्कस्थे गव्युपेक्षके ॥ ६८ ॥
4.68 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
गोकण्टको गवां पद्भिर्निम्ने गोरक्षकेऽपि च ।वृक्षे गन्धवती हालाकस्तूरीभूसुतीषु च ॥ ६९ ॥
4.69 · p. 72
अनुष्टुप्
गिरिसारध्वनि(?)र्लिङ्गे लोहे मलयपर्वते ।ग्रामम्रद्ग(द्गु)रिका शृङ्गीयुद्धयोर्गन्धमादनः ॥ ७० ॥
4.70 · p. 72
अनुष्टुप्
गन्धके वानरे शैले भ्रमरे गन्धमादनी ।सुरायामौषधीभेदे गदयित्नुः स्मरास्त्रयोः ॥ ७१ ॥
4.71 · p. 72
अनुष्टुप्
अथो (?) घनरसो वारि मोरटेऽथ धनाधनः ।घातके मत्तमातङ्गे वर्षुकाब्दे निरन्तरे ॥ ७२ ॥
4.72 · p. 72
अनुष्टुप्
शक्रे घर्घर्रिका सिन्धुभेदे वादिन्नधान्ययोः ।घोषवेषारिका ख्याता गणिकावल्लिभेदयोः ॥ ७३ ॥
4.73 · p. 72
अनुष्टुप्
चन्द्रहासो दशग्रीवे खड्गेऽसौ चिलमीलिका ।खद्योते दृश्यते कण्ठीभेदेऽपि तडिद्भिदि ॥ ७४ ॥
4.74 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चक्रवाटः क्रियारोहे पर्यन्ते च शिखाद्रुमे ।चक्रवाडः चक्रवालौ समूहे पर्वतान्तरे ॥ ७५ ॥
4.75 · p. 72
अनुष्टुप्
चीर्णपर्णस्तु खर्जूरे निम्बे चूडामणिध्वनिः (?) ।काकचिञ्चाफले शीर्षमणिशास्त्रविशेषयोः ॥ ७६ ॥
4.76 · p. 72
अनुष्टुप्
चन्द्रकान्तो मणौ विन्द्याच्चन्द्रकान्तं तु कैरवे ।चित्रगुप्तो यमे तस्य लेष(ख)केऽथ चतुष्पथः ॥ ७७ ॥
4.77 · p. 72
अनुष्टुप्
द्विजातौ चत्वरेऽपि स्याच्चक्रपादो मतङ्गजे ।रथे चर्मण्वती सिन्धुविशेषे कदलीद्रुमे ॥ ७८ ॥
4.78 · p. 73
अनुष्टुप्
चतुष्पदस्तु रङ्गादौ नारीणां करणान्तरे ।चिरञ्जीवी त्वजे काके चित्रभानुर्दिनेश्वरे ॥ ७९ ॥
4.79 · p. 73
अनुष्टुप्
चित्रके दहने चक्रधरः श्रीपतिसर्पयोः ।चण्डालिका तु पार्वत्यां किंद(न)रौषधिभेदयोः ॥ ८० ॥
4.80 · p. 73
अनुष्टुप्
अथो (?) चित्ररथो विद्याधरे गन्धर्वसूर्ययोः ।चन्द्रोदयो निशानाथोदयोल्लोचौषधेषु च ॥ ८१ ॥
4.81 · p. 73
अनुष्टुप्
छत्रभङ्गस्तु वैधव्ये स्वातन्त्र्ये नृपतिक्षये ।छत्रोदयो महीपानामुदये तालभिद्यपि ॥ ८२ ॥
4.82 · p. 73
अनुष्टुप्
भवेज्जनपदो लोके विषये पुटभेदने ।मार्गे जैवातृकश्चन्द्रे भैषज्यायुष्मतोः कृशे ॥ ८३ ॥
4.83 · p. 73
अनुष्टुप्
जीवितेशो धवे काले जलसूचिर्जलौकसि ।शृङ्गाटकङ्कयोस्त्रोटि(ट्यां?) पाठीनशिशुमारयोः ॥ ८४ ॥
4.84 · p. 73
अनुष्टुप्
जघन्यजोऽनुजे शूद्रे जलरुण्डो भुजङ्गमे ।पयोरेणौ जलावर्त्ते तथा कम्बुवराटयोः ॥ ८५ ॥
4.85 · p. 73
अनुष्टुप्
अथो (?) जलकरंकः स्याज्जलवल्लीतडित्त्वतोः ।नालिकेरफले वृक्षे जीवपुष्पं फणिज्जके ॥ ८६ ॥
4.86 · p. 73
अनुष्टुप्
भूपे दमनके जीवंजीवोऽद्रौ विचकोरयोः ।जर्जरीकं बहुच्छिद्रे जर्जरीको जरत्तरे ॥ ८७ ॥
4.87 · p. 73
अनुष्टुप्
तर्त्तरीकं बहित्रे स्यात्तर्त्तरीकस्तु पारगे ।तन्दुरीणः कचे कीटे बर्बरे तन्दुलोदके ॥ ८८ ॥
4.88 · p. 73
अनुष्टुप्
दासेरकस्तु करभे दासीपुत्रे नियामके ।देवमणिः शिवे वाजि गलावर्त्तेऽपि कौस्तुभे ॥ ८९ ॥
4.89 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
दन्दशूकध्वनिदृष्टो दीर्घपृष्ठेऽपि रक्षसि ।दुरोदरो द्यूतकरे पणे द्यूते पिपासके ॥ ९० ॥
4.90 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
दाक्षायणी तु पार्वत्यां रोहिण्यामुडुपूच्यते ।दिवाभीतो भवेच्चौरे पेचके कुमुदाकरे ॥ ९१ ॥
4.91 · p. 74
अनुष्टुप्
देवसेना स्मृता शक्रकन्यानिर्जरसेनयोः ।दिवाकीर्तिर्ध्वनि(?)र्घूके चण्डाले नापितेऽपि च ॥ ९२ ॥
4.92 · p. 74
अनुष्टुप्
देवताडोऽनले राहौ कृतान्तेऽथ दलाढकः ।कुन्देऽरण्यतिले दन्तिश्रवणे नागकेसरे ॥ ९३ ॥
4.93 · p. 74
अनुष्टुप्
शिरीषे गैरिके बृक्षे फेने दन्तशवध्वनिः ।नागरङ्गेऽपि जम्बीरे कपित्थे दशनच्छदः ॥ ९४ ॥
4.94 · p. 74
अनुष्टुप्
निश्वासे चुम्बने चोष्ठे द्वैमातुर इभानने ।भूपे दिगम्बरो रुद्रे क्षपणे ध्वान्तनग्नयोः ॥ ९५ ॥
4.95 · p. 74
अनुष्टुप्
धनञ्जयोऽनले पार्थे ककुभे देहमारुते ।नागभेदे गजे क्षत्रे धृतराष्ट्रो नृपान्तरे ॥ ९६ ॥
4.96 · p. 74
अनुष्टुप्
सर्पे खगान्तरे चापि हंसतालविशेषयोः ।धुन्धुमारस्तु भेषज्ये गृहधूमे नृपान्तरे ॥ ९७ ॥
4.97 · p. 74
अनुष्टुप्
वर(रु)णे तिनिशे धूमकेतुरुत्पातबर्हिषोः ।धराधरो हरौ शेषे पर्वतेऽथ धुरन्धरः ॥ ९९ ॥
4.99 · p. 74
अनुष्टुप्
धुर्ये वनद्रुमे धर्मराजः सूर्ये युधिष्ठिरे ।बुद्धे दण्डधरे धार्त्तराष्ट्रः कौरवसर्पयोः ॥ १०० ॥
4.100 · p. 75
अनुष्टुप्
निश्चारकोऽनिले स्वैरे पुरीषस्य क्षये स्मृतः ।निर्ग्रन्थकः कलाहीने क्षपणेऽपि परिच्छदे ॥ १०१ ॥
4.101 · p. 75
अनुष्टुप्
नागवारिकशब्दोऽयं राजकुञ्जरहस्तिपे ।गणस्थराजे गरुडे दृश्यते चित्रमेखले ॥ १०२ ॥
4.102 · p. 75
अनुष्टुप्
नारायणोऽच्युते तालभेदे नारायणी पुनः ।शतावर्युमयोर्लक्ष्म्यां नदीकान्तोऽपि हिज्जले ॥ १०३ ॥
4.103 · p. 75
अनुष्टुप्
सिन्दुवारे समुद्रे स्याद्वृक्षतालविशेषयोः ।नदीकान्ता महीजम्बूकाकजङ्घालतास्वपि ॥ १०४ ॥
4.104 · p. 75
अनुष्टुप्
अथ निःसरणं मोक्षे निर्याणे मरणेऽपि च ।उपाये तालभेदेऽथ निर्भर्त्सनमलक्तके ॥ १०५ ॥
4.105 · p. 75
अनुष्टुप्
खलीकारे निशाचारी शिवासत्योर्निशाचरः ।जम्बुके कौशिके चौरे दन्दशूकेऽपि रक्षसि ॥ १०६ ॥
4.106 · p. 75
अनुष्टुप्
नन्द्यावर्त्तं पुनर्वेश्मविशेषे नगरद्रुमे ।नियामकः कर्णधारे पोतवाहे नियन्तरि ॥ १०७ ॥
4.107 · p. 75
अनुष्टुप्
नक्षत्रनेमी रेवत्यां चन्द्रे निरसनध्वनिः ।निषूदने तथा निष्ठीवने निस्तरणं पुनः ॥ १०८ ॥
4.108 · p. 75
अनुष्टुप्
निस्तारे तरणे दृष्टमुपायेऽथ निरूपणं ।विलोकने विचारे स्यान्निदेशेऽपि निदर्शने ॥ १०९ ॥
4.109 · p. 75
अनुष्टुप्
निराकृतिर्निराकारे वेदहीननिषेधयोः ।दृष्टं निशमनं धीरैः श्रवणेऽपि निरीक्षणे ॥ ११० ॥
4.110 · p. 75
अनुष्टुप्
नीलकण्ठः पीतसारे महादेवमयूरयोः ।नारकीटोऽश्मनः कीटे मित्रद्रोहे विशारदे ॥ १११ ॥
4.111 · p. 75
अनुष्टुप्
नन्दिघोषः पार्थरथे बन्दिघोषे निपड्वरः ।जम्बाले मन्मथे नीलाम्बरो हलिनि राक्षसे ॥ ११२ ॥
4.112 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
परिवापो जलस्थाने पर्युप्तौ च परिच्छदे ।वपने परिवारोऽसिकोशे परिजने स्मृतः ॥ ११३ ॥
4.113 · p. 76
अनुष्टुप्
परिग्रहः स्यात्स्वीकारे शापे पत्न्यां परिच्छदे ।परिबर्हः परीवारे भूपालोचितवस्तुनि ॥ ११४ ॥
4.114 · p. 76
अनुष्टुप्
अथ पुष्पलकः कीले गन्धैणे क्षपणेऽपि च ।पूतिकाष्ठं च सरले देवदारुमहीरुहे ॥ ११५ ॥
4.115 · p. 76
अनुष्टुप्
पारीरणो भवेद्दण्डे कच्छपे पटशाटके ।परवाणिर्बुधे दृष्टो धर्माध्यक्षेऽपि वत्सरे ॥ ११६ ॥
4.116 · p. 76
अनुष्टुप्
पुण्डरीकं सितच्छत्रे भेषजे च सितोत्पले ।पुण्डरीकस्तु दिङ्गागे राजिलाहौ कमण्डलौ ॥ ११७ ॥
4.117 · p. 76
अनुष्टुप्
व्याघ्रे गणधरे दन्तिज्वरे यागे मृगाधिपे ।कोशकारविशेषे स्यात्सितवर्णाम्रवृक्षयोः ॥ ११८ ॥ युग्मं ॥
4.118 · p. 76
अनुष्टुप्
प्रतिशिष्टः प्रतिक्षिप्ते प्रेषितेऽपि निराकृतौ ।पुरस्कृतोऽभिशस्ते पूजिते चाग्रगामिनि ॥ ११९ ॥
4.119 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पितामहः सुरज्येष्ठे पितुस्ताते प्रतिश्रयः ।समित्याश्रययोर्गेहे प्रतियत्न उपग्रहे ॥ १२० ॥
4.120 · p. 76
अनुष्टुप्