कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

द्वितीयः काण्डः (1/4)

इत्यनेकार्थतिलके एकाक्षरसंज्ञः प्रथमः काण्डः ।

अथ द्वितीयं काण्डम् ।

अकाराद्यादिभिः शब्दैः अस्मिन् वर्णद्वयाभिधः ।द्वितीयोऽनुपमः काण्डः क्रमादारभ्यतेऽधुना ॥ १ ॥
2.1 · p. 6
अनुष्टुप्
अर्घः पूजाविधौ मूल्येऽप्यब्जो धन्वन्तरौ तरौ ।चन्द्रे शङ्खेऽपि जम्बालेऽब्जं तु नीरजसंख्ययोः ॥ २ ॥
2.2 · p. 6
अनुष्टुप्
अक्षो बिभीतके कर्षे रावणौ शकटात्मनोः ।रथस्यावयवे तुच्छे व्यवहारवराटयोः ॥ ३ ॥
2.3 · p. 6
अनुष्टुप्
पाशके चाक्षमाकाशेन्द्रियसौवर्चलेष्वलिः ।हालामधुलिहोरभ्रमभ्रके गगने घने ॥ ४ ॥
2.4 · p. 6
अनुष्टुप्
अंशुर्दिनेश्वरे रश्मावन्त्यस्त्वन्त्यभवेधमे ।अर्को वृक्षान्तरे शक्रे स्फटिके सूर्यताम्रयोः ॥ ५ ॥
2.5 · p. 6
अनुष्टुप्
अकं दुःखाघयोरङ्कचिह्ने रूपकभूषयोः ।उत्संगे नाटकाद्यंशे समीपस्थानमन्तुषु ॥ ६ ॥
2.6 · p. 6
अनुष्टुप्
अध्वा तु समये वर्त्मन्यजो विष्णौ रघूद्वहे ।विरिञ्चे मन्मथे रुद्रे मेषेऽदोत्र परत्र च ॥ ७ ॥
2.7 · p. 6
अनुष्टुप्
अगो वृक्षे रवौ शैले सर्पेघं वृजिने घने ।व्यसनाशर्मणोरर्चा प्रतिमापूजयोरपि ॥ ८ ॥
2.8 · p. 6
अनुष्टुप्
अन्तःस्वरूपे निकटे प्रान्तेऽवयवनाशयोः ।निश्चयेऽपि भवेदब्धिः पारावारतडागयोः ॥ ९ ॥
2.9 · p. 7
अनुष्टुप्
अग्रं श्रेष्ठेऽधिके चोर्द्ध्वपलमाने पुरःस्मृतं ।संघाते प्रथमे भिक्षा प्रकारप्रान्तयोरपि ॥ १० ॥
2.10 · p. 7
अनुष्टुप्
अरोजिनेऽरं चक्रांगे शीघ्रगे सत्वरे स्मृतं ।अस्तः शैलान्तरे क्षिप्ते स्यादस्रः कोणकेशयोः ॥ ११ ॥
2.11 · p. 7
अनुष्टुप्
अस्रं तु रुधिरेप्यश्रुण्यर्हन् तीर्थंकरे गुरौ ।अर्थः कार्येऽभिधे ये चाभिप्राये विषये धने ॥ १२ ॥
2.12 · p. 7
अनुष्टुप्
निवृत्तौ कारणे वस्तुन्यंह्रिर्यद्वृक्षपादयोः ।अणुर्व्रीह्यल्पयोरद्रावर्त्तिस्त्वटनिपीडयोः ॥ १३ ॥
2.13 · p. 7
अनुष्टुप्
अब्दः संवत्सरे मेघे गिरौ वासवमुस्तयोः ।अहिर्वप्रे रवौ वृत्रे राहावध्वगसर्पयोः ॥ १४ ॥
2.14 · p. 7
अनुष्टुप्
अद्रिः सूर्ये धरेऽविस्तु मेषेऽर्के कम्बले गिरौ ।अन्दूश्च निगडे भूषाभिद्यर्च्चीरश्मिकीलयोः ॥ १५ ॥
2.15 · p. 7
अनुष्टुप्
अट्टो हट्टे चतुष्केऽश्मभेदेर्यः प्रभुवैश्ययोः ।अण्डं कोशे च मुष्के चानु सादृश्येऽप्यनन्तरे ॥ १६ ॥
2.16 · p. 7
अनुष्टुप्
अर्द्धः खण्डे बुधैर्दृष्टमर्द्धं मानसमांशयोः ।अलं मण्डनसामर्थ्यनिषेधेष्वथ मङ्गले ॥ १७ ॥
2.17 · p. 7
अनुष्टुप्
प्रश्नानन्तर्यकार्त्स्न्येषु प्रारम्भेऽथो तथाव्ययं ।अधि स्यादधिके स्वामिन्यपि प्रश्ने समुच्चये ॥ १८ ॥
2.18 · p. 7
अनुष्टुप्
शङ्कासम्भावनागर्हास्वन्नं भक्ते शितेपि च ।अति स्मृतौ प्रशंसायामाधिक्ये लङ्घने जवे ॥ १९ ॥
2.19 · p. 8
अनुष्टुप्
अङ्गादेशेङ्गमाधारे प्रधाने चान्तिके तनौ ।शिक्षाद्यवयवोपायेष्वङ्गसम्बोधनेव्ययम् ॥ २० ॥
2.20 · p. 8
अनुष्टुप्
आजिः क्षणे समक्ष्मायां युध्याधिर्बन्धकाशयोः ।मानसार्त्तावधिष्ठाने व्यसनेऽपि प्रयुज्यते ॥ २१ ॥
2.21 · p. 8
अनुष्टुप्
आत्मा यत्ने धृतौ चित्ते बुद्धौ शीलशरीरयोः ।विरिञ्चेऽर्क्केऽनिले विष्णावार्यावृत्ते च मातरि ॥ २२ ॥
2.22 · p. 8
अनुष्टुप्
दुर्गायां च भवेदास्यं मुखे मुखबिले रहे ।आज्यं घृते च श्रीवासेप्याप्तिः सम्बन्धलाभयोः ॥ २३ ॥
2.23 · p. 8
अनुष्टुप्
आशीरिष्टप्रशंसायां दंष्ट्रायां पवनाशिनां ।आज्ञा निदेशे निर्देशे नृपादिशपथेऽपि च ॥ २४ ॥
2.24 · p. 8
अनुष्टुप्
आलिः पालिः सखीश्रेणीष्वनर्थे विमले द्रुणे ।आराद्व्यवहिते दूरे समीपे विस्मयेऽव्ययम् ॥ २५ ॥
2.25 · p. 8
अनुष्टुप्
आप्तो लब्धे हिते सत्येप्यार्यः सुकृतपूज्ययोः ।आगो मन्तावघे वाशा तृष्णायां ककुभिः स्मृता ॥ २६ ॥
2.26 · p. 8
अनुष्टुप्
इला चन्द्रजभार्यायामुर्वीवाचोर्गविश्रियां ।इरा जलमहीमद्यसुवाणीष्वशनेऽपि च ॥ २७ ॥
2.27 · p. 8
अनुष्टुप्
इडा गविजले भूमौ स्वर्गनाड्योर्बुधस्त्रियां ।इन्द्रो भूपे रवौ शक्रे योगभेदेन्तरात्मनि ॥ २८ ॥
2.28 · p. 8
अनुष्टुप्
इष्टं तु वाञ्छिते पूज्ये यागे चेनः प्रभौ रवौ ।इत्यव्ययं प्रकारादिसमाप्तिक्रमहेतुषु ॥ २९ ॥
2.29 · p. 9
अनुष्टुप्
इष्टिर्यागे च वाञ्छायामीहानृषि समुद्यमे ।ईतिः प्रवासेऽजन्ये स्यादीशः शम्भौ क्षमे हरौ ॥ ३० ॥
2.30 · p. 9
अनुष्टुप्
उरो वक्षसि मुख्ये स्यादुग्रमुत्कटशर्वयोः ।शूद्रायां क्षत्रियाज्जातेप्युषः सायंप्रभातयोः ॥ ३१ ॥
2.31 · p. 9
अनुष्टुप्
उमातसीशचीगौरीदुर्गाकीर्तिषु भाश्रियोः ।भारत्युपमयोरुष्ट्रा मृद्भाण्डकरभस्त्रियोः ॥ ३२ ॥
2.32 · p. 9
अनुष्टुप्
ऊर्णलोमनिमेषस्य लोमावर्ते भ्रुवोन्तरे ।ऊर्जो मासे बलेप्यूर्तिः रक्षणे च स्मृतावृतं ॥ ३३ ॥
2.33 · p. 9
अनुष्टुप्
सत्ये जले शिलोञ्छे स्यादृणं देयाम्बुदुर्गयोः ।ऋतिर्घृणा गतिस्पर्द्धाकल्याणसुरमातृषु ॥ ३४ ॥
2.34 · p. 9
अनुष्टुप्
ऋक्षं धिष्ण्ये भवेदृक्षो भल्लूके स्यादृषिर्मुनौ ।श्रुतावृतुवसंतादौ स्त्रीणां पुष्पेषु दृश्यते ॥ ३५ ॥
2.35 · p. 9
अनुष्टुप्
एनः पापे गदे मन्तावेकः केवलपूज्ययोः ।एवं प्रकारे चौपम्ये एवौपम्येवधारणे ॥ ३६ ॥
2.36 · p. 9
अनुष्टुप्
ओजो बले गुणे धातुतेजोऽबष्टम्भदीप्तिषु ।ओघो नृत्यान्तरे सङ्घे जलवेगोपदेशयोः ॥ ३७ ॥
2.37 · p. 9
अनुष्टुप्
कणाजीरकपिप्पल्योः कुणिः कुकरवृक्षयोः ।कर्क्कः कर्क्केतने कुम्भे दर्पणानलराशिषु ॥ ३८ ॥
2.38 · p. 9
अनुष्टुप्
श्वेताश्वे कन्दुके काकं रतबन्धे च योषितां ।काकवृन्देऽथ काकः स्यात् एकदृग्द्रुमभेदयोः ॥ ३९ ॥
2.39 · p. 9
अनुष्टुप्
पङ्गौ मानेथ काका स्यात् काकोलीकाकजङ्घयोः ।काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि ॥ ४० ॥
2.40 · p. 10
अनुष्टुप्
विहङ्गे काकनासायां कुञ्जो हनुनिकुञ्जयोः ।मन्दिरे दन्तिनां दन्ते कोकः स्याद्वृकभेकयोः ॥ ४१ ॥
2.41 · p. 10
अनुष्टुप्
चक्रवाके च खर्जूरीद्रुमे किष्कुस्तु कुत्सिते ।प्रकोष्ठे पञ्चशाखे च वितस्तौ प्रतिमण्ठके ॥ ४२ ॥
2.42 · p. 10
अनुष्टुप्
कचः शुष्कव्रणे बन्धे केशवाक्पतिपुत्रयोः ।काचः शिक्ये मणौ वृक्षे नेत्ररोगे मृदीष्यते ॥ ४३ ॥
2.43 · p. 10
अनुष्टुप्
कच्छस्तटे तरण्यङ्गेनूपप्रायद्रुभेदयोः ।कम्बुः स्याद्वलये शङ्खे कपर्दग्रीवयोर्गजे ॥ ४४ ॥
2.44 · p. 10
अनुष्टुप्
कर्चूरे नलके कम्बिर्देवीभूषाविशेषयोः ।वंशवल्ल्यां करे कर्मक्रियाकारकभेदयोः ॥ ४५ ॥
2.45 · p. 10
अनुष्टुप्
कञ्जो धातरि केशे स्यात्कञ्जं पीयूषपद्मयोः ।कुजो महीसुते वृक्षे मण्ठके नरकासुरे ॥ ४६ ॥
2.46 · p. 10
अनुष्टुप्
कटुस्तिक्ते रसे निम्बप्रियङ्गुकटुकासु च ।मत्सरेऽथ क्रमः शक्तिः परिपाटीपदेषु च ॥ ४७ ॥
2.47 · p. 10
अनुष्टुप्
कुटो गेहे शिलाकुट्टे वृक्षे कुम्भे कठो मुनौ ।ऋग्भेदे वेदवित्पाठे कण्ठस्तु मदनद्रुमे ॥ ४८ ॥
2.48 · p. 10
अनुष्टुप्
संनिधाने गले घोषे कीर्तिर्यशसि कर्दमे ।प्रासादे विस्तरे क्रोडः शनावुत्सङ्गकोलयोः ॥ ४९ ॥
2.49 · p. 10
अनुष्टुप्
कार्यं प्रयोजने हेतौ कामी तु कमनीयके ।पारापते चक्रवाके कृष्णं मरिचलोहयोः ॥ ५० ॥
2.50 · p. 10
अनुष्टुप्
कृष्णो वर्णे पिके विष्णौ व्यासे काकेर्जुने कलौ ।कृष्णा तु पिप्पलीनील्योर्द्रौपदीहारदूरयोः ॥ ५१ ॥
2.51 · p. 11
अनुष्टुप्
कद्रुः सुवर्णवर्णे स्यात्कद्रूः पन्नगमातरि ।कल्या कल्याणभारत्यां कल्यं मद्यप्रभातयोः ॥ ५२ ॥
2.52 · p. 11
अनुष्टुप्
सज्जे निरामये केशः पाशिन्यब्जे कचे सुरे ।काशो रोगे तृणे काश्यं सोमे मद्यकशार्हयोः ॥ ५३ ॥
2.53 · p. 11
अनुष्टुप्
कुशः श्रीरामजे दर्भे पापिष्ठेऽपि कुशं जले ।कुशी लोहविकारे स्यात्कीशो दिग्वसने कपौ ॥ ५४ ॥
2.54 · p. 11
अनुष्टुप्
कोशो दिव्येवने पेश्यां परिवारे च कुड्मले ।जातीकोषे धनागारे चषके योनिशम्बयोः ॥ ५५ ॥
2.55 · p. 11
अनुष्टुप्
क्रिया तु निष्कृतावर्चाकर्मणोः संप्रधारणे ।आरम्भोपायचेष्टासु क्रतौ शिक्षाचिकित्सयोः ॥ ५६ ॥
2.56 · p. 11
अनुष्टुप्
कान्तिः शोभेच्छयोश्चाथ कन्तुः कामकुशूलयोः ।कान्तो रम्ये प्रिये कान्ता योपारेषाप्रियङ्गुषु ॥ ५७ ॥
2.57 · p. 11
अनुष्टुप्
कृतं फलेऽपि पर्याप्ते हिंसिते विहिते युगे ।काव्यं ग्रन्थे च काव्योभे (?) ज्ञे काव्या पूतनाधियोः ॥ ५८ ॥
2.58 · p. 11
अनुष्टुप्
कालः वर्णे महाकाले समये मरणे यमे ।काली नवाम्बुदे कीटे कालिका परिवादयोः ॥ ५९ ॥
2.59 · p. 11
अनुष्टुप्
कीलोऽग्नितेजसि स्तम्भे शङ्कौ कीला हतारतौ ।कीर्णः क्षिप्ते हते छन्ने कर्णोरित्रेऽर्कजे श्रुतौ ॥ ६० ॥
2.60 · p. 11
अनुष्टुप्
कूटाख्या शिखरे दम्भे तुच्छे निश्चलयन्त्रयोः ।सीदाङ्गे नगरद्वारायोधनानृतराशिषु ॥ ६१ ॥
2.61 · p. 11
अनुष्टुप्
कामाख्यातिशये काम्ये वाञ्छायां मकरध्वजे ।काञ्ची तु नगरीभेदमेखलारक्तिकास्वपि ॥ ६२ ॥
2.62 · p. 11
अनुष्टुप्
काण्डं बाणे क्षणे नाले संघश्लाघाधमेषु च ।एकान्ते सलिले वर्गे स्तम्बे स्कन्धे च शाखिनाम् ॥ ६३ ॥
2.63 · p. 12
अनुष्टुप्
कुण्डः कुम्भ्यां जलाधारभेदे देवजलाशये ।जाराज्जीवत्पतेः पुत्रे क्रीडा केल्यामनादरे ॥ ६४ ॥
2.64 · p. 12
अनुष्टुप्
कला काले च चन्द्रांशे शिल्पे च कलनांशयोः ।अर्थवृद्धौ कलं स्पष्टे रुचिरे मधुरे स्वरे ॥ ६५ ॥
2.65 · p. 12
अनुष्टुप्
कुम्भो वेश्यापतौ राशौ करिकुम्भस्थले घटे ।कोलं स्याद्बदरे कोलो भेके खञ्जे च सूकरे ॥ ६६ ॥
2.66 · p. 12
अनुष्टुप्
क्रौञ्चः शैले खगे द्वीपे कलिः स्यात्कलहे युगे ।बिमीतकद्रुमे शूरेप्याजौ कक्षस्तु वीरुधि ॥ ६७ ॥
2.67 · p. 12
अनुष्टुप्
कच्छे शुष्कवने पापे बाहुमूले तृणेपि च ।कक्षा बृहतिकोद्योगेभनाडीमेखलास्वपि ॥ ६८ ॥
2.68 · p. 12
अनुष्टुप्
कटः कलिञ्जे समये शवे शवरथे भृशे ।दन्तिगण्डे क्रियाकारे कट्यां गण्डश्मशानयोः ॥ ६९ ॥
2.69 · p. 12
अनुष्टुप्
कल्पो न्याये विधौ शास्त्रे संवर्त्ते ब्रह्मवासरे ।कल्पद्रुमे विकल्पैऽथ कूपो वाटेपि कुपके ॥ ७० ॥
2.70 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
मृन्माने तोलभेदे स्याद्गर्त्तेब्धौ गुणवृक्षके ।काष्ठा दिशि प्रकर्षे भूकालमाननिशासु च ॥ ७१ ॥
2.71 · p. 12
अनुष्टुप्
कारा प्रसेविके हेमकारिकाबन्धशालयोः ।करो मेधोपले दन्तिशुण्डाप्रत्यायपाणिषु ॥ ७२ ॥
2.72 · p. 12
अनुष्टुप्
किरणे करणे चाथ कुष्ठं(ष्ठं) भेषजरोगयोः ।कुलं स्वजातिसन्दोहे समूहे देहगेहयोः ॥ ७३ ॥
2.73 · p. 12
अनुष्टुप्
कायः कदैवते देहे लक्ष्ये सङ्घस्वभावयोः ।कूर्चो विकत्थने दम्भे श्मश्रुणि स्थाद्भ्रुवोन्तरे ॥ ७४ ॥
2.74 · p. 13
अनुष्टुप्
कष्टं तु गहने कृच्छ्रे कृष्टिर्धीमति कर्षणे ।कोष्ठं निजे कुशूले च कुक्षावन्तर्गृहस्य च ॥ ७५ ॥
2.75 · p. 13
अनुष्टुप्
कूलं स्तूपे तटे सैन्ये सरस्यग्रनितम्बयोः ।केतुर्ग्रहे पताकायां कलङ्कोत्पातयोस्त्विषि ॥ ७६ ॥
2.76 · p. 13
अनुष्टुप्
कोटिरग्रे च संख्यायामटन्याधिक्ययोः फले ।कन्दोऽब्दे सूरणे मूले कुन्दो यन्त्रे निधौ द्रुमे ॥ ७७ ॥
2.77 · p. 13
अनुष्टुप्
कोथस्तु शटिते नेत्ररुग्भेदे मथनेपि च ।कुथस्तालान्तरे दर्भे प्रातःस्नानरतद्विजे ॥ ७८ ॥
2.78 · p. 13
अनुष्टुप्
रोगे कीटभिदि स्यादास्तरणे करिकम्बले ।कन्था पुरे प्रावरणे कविः शुक्रे विधौ मुनौ ॥ ७९ ॥
2.79 · p. 13
अनुष्टुप्
हयोपकरणे वाचस्पतिवाग्गुम्फकारयोः ।कङ्कस्तु लोहपृष्ठेपि यमे ब्राह्मणलिङ्गिनि ॥ ८० ॥
2.80 · p. 13
अनुष्टुप्
किल प्रश्ने वितर्के च प्रसिद्धौ पादपूरणे ।वृत्तान्ते क्रीडने सत्ये किमु प्रश्नवितर्कयोः ॥ ८१ ॥
2.81 · p. 13
अनुष्टुप्
खरस्तु गर्दभे तिग्मे दुःस्पर्शे कोणपान्तरे ।खरुस्तुरङ्गमे दर्पे रुद्रदन्तसितेषु च ॥ ८२ ॥
2.82 · p. 13
अनुष्टुप्
खल्लो निम्ने खगे वस्त्रे त्वचि खल्ली गदान्तरे ।खलः स्यात् खलके ताले पिण्याके राशिनीचयोः ॥ ८३ ॥
2.83 · p. 13
अनुष्टुप्
खर्जूरिक्षुविशेषे स्यात्कण्डूकीटविशेषयोः ।खर्जूरी भूरुहे चाथ खर्वो ह्रस्वे च वामने ॥ ८४ ॥
2.84 · p. 13
अनुष्टुप्
खेटोधमे कफे ग्रामे दुनेतारामृगव्ययोः ।खेटस्तृणे प्रहारे स्यात्कफेटङ्कान्धकूपयोः ॥ ८५ ॥
2.85 · p. 14
अनुष्टुप्
खाटिः किणे शवरथे खण्डोऽर्द्धमणिदोषयोः ।ऐक्षवेऽथ खगो मेधे ग्रहेर्क्के पक्षिबाणयोः ॥ ८६ ॥
2.86 · p. 14
अनुष्टुप्
देवे खङ्गः(ड्ग) कृपाणे स्यात्खड्गि(ड्गी)शृङ्गेपि गण्डके ।खलु वारणजिज्ञासावाक्यभूषासु सान्त्वने ॥ ८७ ॥
2.87 · p. 14
अनुष्टुप्
गौरी गोरोचनीपाशिपत्नीचण्डीप्रियङ्गुषु ।पौर्णमासीमहानद्योरप्रसूतस्त्रियां निशि ॥ ८८ ॥
2.88 · p. 14
अनुष्टुप्
गुडः कुञ्जरसन्नाहे गोलकेक्षुविकारयोः ।गुडा स्नहीगुटिकयोर्गौडं स्याद्गृद्धनाभिके ॥ ८९ ॥
2.89 · p. 14
अनुष्टुप्
पामरेथ गजो माने द्विपे गञ्जा सुरागृहे ।गञ्जो भाण्ड्गृहे रीढाखन्योर्गुञ्जा कलध्वनौ ॥ ९० ॥
2.90 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ग (syllables merged)
पटहेपि लताभेदे गोष्ठं गोस्थानके स्मृतं ।तालान्तरे वने गोष्ठी संलापे परिषद्यपि ॥ ९१ ॥
2.91 · p. 14
अनुष्टुप्
गण्डस्तु गण्डके योगे कपोले खनिचिह्नयोः ।गन्धो गर्वे गन्धके चामोदे सम्बन्धलेशयोः ॥ ९२ ॥
2.92 · p. 14
अनुष्टुप्
गोपो योगीश्वरे भूपे बल्लवे ग्रामयुक्तके ।गुरुर्जीवे च पित्रादौ दुर्जरे महति क्षमे ॥ ९३ ॥
2.93 · p. 14
अनुष्टुप्
निषेकादिकरे गौरश्चन्द्रे पीतेरुणे सिते ।कर्पूरे निर्मले गौरं किञ्जल्के श्वेतसर्षपे ॥ ९४ ॥
2.94 · p. 14
अनुष्टुप्
गुणो भीमे हृषीके ज्यारज्जुशौर्यादितन्तुषु ।सूदे प्रधाने सन्ध्यादौ निर्दोषे रूपसत्त्वयोः ॥ ९५ ॥
2.95 · p. 15
अनुष्टुप्
गोधा जीवविशेषे स्याद्वप्रे(C *प्र) ज्याघातवारणे ।गोत्रो महीधरे गोत्रं सम्भाव्यबोधवर्त्मनोः ॥ ९६ ॥
2.96 · p. 15
अनुष्टुप्metre not read in every lineLatin letters: Cnearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable)
छत्रेऽरण्येऽन्वये नाम्नि क्षेत्रे गोत्रा गवां गणे ।भूमौ चाथ गिरिर्गर्भे कन्दुके पूज्यशैलयोः ॥ ९७ ॥
2.97 · p. 15
अनुष्टुप्
नेत्ररोगे तरोः सारे गाथा वाग्मेदवृत्तयोः ।गुच्छः कलापे हारे स्यात्स्तम्बस्तबकयोरपि ॥ ९८ ॥
2.98 · p. 15
अनुष्टुप्
गर्भः सन्धौ बले कुक्षौ बाले पनसकण्टके ।मध्ये ग्रामः पुनः शब्दात् संघे संवसथे स्वरे ॥ ९९ ॥
2.99 · p. 15
अनुष्टुप्
ग्रहस्तु ग्रहणेऽर्क्कादौ निर्बन्धेऽपि गणो बले ।सैन्यान्तरे समूहे स्यात्संख्यायां प्रथमेपि च ॥ १०० ॥
2.100 · p. 15
अनुष्टुप्
गुल्मो विकारे सेनायां वृक्षघट्टविशेषयोः ।गतिर्ज्ञानेपि यात्रायामुपायदृशयोः पथि ॥ १०१ ॥
2.101 · p. 15
अनुष्टुप्
ग्रस्तं ग्रासीकृते गुप्ते विलुप्तपदजल्पिते ।गदा शस्त्रे गदो रोगे वासुदेवानुजे स्मृतः ॥ १०२ ॥
2.102 · p. 15
अनुष्टुप्
गुप्तिः कारागृहे गुप्तरक्षयोरन्तके यमे ।गोप्यो दासीसुते गूढे गुहः स्कन्दे च गह्वरे ॥ १०३ ॥
2.103 · p. 15
अनुष्टुप्
घनः स्यात्कर्कशे मेघे विस्तारे मुस्तकाङ्गयोः ।बहुले मुद्गरे मन्दे वृन्दवाद्यविशेषयोः ॥ १०४ ॥
2.104 · p. 15
अनुष्टुप्
धर्मः स्यादातपे तापे ग्रीष्मोष्मस्वेदवारिषु ।घोषो गोपरवाभीरपल्लीकांस्येषु घोषके ॥ १०५ ॥
2.105 · p. 16
अनुष्टुप्
घृतं क्षीराज्यदीप्तेषु घृणा दयाजुगुप्सयोः ।घटा गोष्ठीघटनयोर्दन्तिसंधट्टनेपि च ॥ १०६ ॥
2.106 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
घटो दन्तिशिरःकूटे समाधौ कलसे लसे (?) ।घोण्टा तु बदरे पूगे घृणिर्ज्वालांशुवीचिषु ॥ १०७ ॥
2.107 · p. 16
अनुष्टुप्
चण्डा धनहरीशङ्खपुष्प्योश्चण्डी शिवस्त्रियां ।चण्डोऽतिकोपने तिग्मे यमदासेऽसुरान्तरे ॥ १०८ ॥
2.108 · p. 16
अनुष्टुप्
चक्रं वृन्दे जलावर्त्ते रथाङ्गे बलराष्ट्रयोः ।दुष्टे दम्भान्तरे शस्त्रे चक्रः कोकविहङ्गमे ॥ १०९ ॥
2.109 · p. 16
अनुष्टुप्
चित्रा दन्त्यों सुभद्रायां नक्षत्रौषधिभेदयोः ।दिव्यस्त्रीसर्पयोराखुपर्ण्यां च चित्रमद्भुते ॥ ११० ॥
2.110 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कर्बूरे तिलकेपि स्यादालेख्ये नभसो(सि) रसौ ।चन्द्रः सुवर्णे कर्पूरे मेचके रजनीपते ॥ १११ ॥
2.111 · p. 16
अनुष्टुप्
कम्पिल्ये सलिले काम्ये चौरोपि दस्युसुगन्धयोः ।चीरं तु गोस्तने वस्त्रे चूडायां सीसपत्रके ॥ ११२ ॥
2.112 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चर्चा देव्यां च चिन्तायां निन्दास्थासकयोरपि ।चक्री कृष्णे रथे कोके कुलाले चक्रिषूरगे ॥ ११३ ॥
2.113 · p. 16
अनुष्टुप्
छदः पत्रे पतत्रे स्याद्ग्रन्थिपर्णतमालयोः ।छिद्रं तु विवरे व्याजे व्यक्ते दूषणगर्त्तयोः ॥ ११४ ॥
2.114 · p. 16
अनुष्टुप्
छन्दो वशेप्यभिप्राये छन्दः पद्येच्छयोः श्रुतौ ।छाया प्रतितनावालीशोभयोरर्कयोषिति ॥ ११५ ॥
2.115 · p. 17
अनुष्टुप्
उत्कोचे नातपे कान्तौ पालनेऽपि तमस्यपि ।छल्ली द्रुवल्कले पुष्पविशेषे वीरुधीष्यते ॥ ११६ ॥
2.116 · p. 17
अनुष्टुप्
सन्तानेथ छलं पत्रे स्खलिते व्याजवेषयोः ।छेको मृगान्तरे दक्षे विश्वस्ते नीडजे स्मृतः ॥ ११७ ॥
2.117 · p. 17
अनुष्टुप्
ज्येष्ठः स्यादग्रजे मासे पूज्ये पूज्यतरेपि च ।ज्येष्ठा तु गृहगोधायां नक्षत्रौषधिभेदयोः ॥ ११८ ॥
2.118 · p. 17
अनुष्टुप्
जडो मूर्खे हिमग्रस्ते जिष्णुः शक्रेऽर्जुने हरौ ।वसुष्वपि रवौ रामे जयशीलेऽमरद्रुमे ॥ ११९ ॥
2.119 · p. 17
अनुष्टुप्
जनी वध्वां जनो लोके जगद्भेदे पृथग्जने ।जटा केशविकारे स्यान्मांसीपादपमूलयोः ॥ १२० ॥
2.120 · p. 17
अनुष्टुप्