कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

तृतीयः काण्डः (1/3)

इत्यनेकार्थतिलके द्वितीयः काण्डः ॥

अथ तृतीयं काण्डम् ॥

अकाराद्यादिभिः शब्दैरस्मिन्वर्णत्रयाभिधः ।तृतीयः क्रियते काण्डः क्रमात्पण्डितमण्डनम् ॥ १ ॥
3.1 · p. 39
अनुष्टुप्
अभितोऽभिमुखे शीघ्रे पार्श्वे कार्त्स्न्येऽपि चाव्ययं ।अनूकमन्वये शीलेऽप्यनूको गतजन्मनि ॥ २ ॥
3.2 · p. 39
अनुष्टुप्
अशोको वञ्जुले वीतशोके कङ्केल्लिसूतयोः ।अशोका कटुरोहिण्या मलीकं वितथेऽप्रिये ॥ ३ ॥
3.3 · p. 39
अनुष्टुप्
ललाटे करणेऽयोगः कर्कशोद्यमकूटयोः ।वियोगे विधुरेऽपि स्यादमोघः सफले स्मृतः ॥ ४ ॥
3.4 · p. 39
अनुष्टुप्
अमोघा तु हरीतक्यां विडङ्गेऽप्यवटः बिले ।कूपे खिले महारण्ये दृष्टः कुहकजीविनि ॥ ५ ॥
3.5 · p. 39
अनुष्टुप्
अनन्तं विपुले वारि व्योम्न्यनन्तो हरौ बले ।शेषेऽनन्ता महीहैमवतीदूर्वामृतासु च ॥ ६ ॥
3.6 · p. 39
अनुष्टुप्
अर्बुदः पर्वते मांसे संख्यायां मांसकीलके ।अक्षरं गगने वर्णे तपस्यध्वरधर्मयोः ॥ ७ ॥
3.7 · p. 39
अनुष्टुप्
निर्वाणेऽपि परब्रह्ममूलकारणयोरपि ।अभयं वीरणीमूले निर्भयेऽपि मनोहरे ॥ ८ ॥
3.8 · p. 39
अनुष्टुप्
अभया तु हरीतक्यामजिरं प्राङ्गणेऽनिले ।दर्दुरे विषये कायेप्यत्ययः कृच्छ्रनाशयोः ॥ ९ ॥
3.9 · p. 39
अनुष्टुप्
दोषे दण्डेऽतिक्रमे स्यादभीषुः प्रग्रहत्विषोः ।अङ्कुरं रुधिरे रोम्णि नवोत्थाने तरौ जले ॥ १० ॥
3.10 · p. 39
अनुष्टुप्
अरिष्टः फेनिले निम्बे लशुने काकशङ्कयोः ।दैत्येऽरिष्टं शुभेऽक्षेमे सूतिकागारतक्रयोः ॥ ११ ॥
3.11 · p. 40
अनुष्टुप्
अङ्गजं रुधिरे केशेऽङ्गजो मन्मथपुत्रयोः ।अञ्जनं कज्जले याने सौवीरेऽपि रसाञ्जने ॥ १२ ॥
3.12 · p. 40
अनुष्टुप्
अञ्जनो दिग्गजे शैलेऽञ्जना मारुतिमातरि ।अमरस्त्वस्थिसंहारे स्नुहीवृक्षे सुरे कवौ ॥ १३ ॥
3.13 · p. 40
अनुष्टुप्
अमृतं गगने हृद्ये स्वर्णे तोये रसायने ।कैवल्ये गोरसे यज्ञे शेषे माक्षीकवर्णयोः ॥ १४ ॥
3.14 · p. 40
अनुष्टुप्
सुधायाचितयोरन्नेऽमृतो धन्वन्तरौ सुरे ।अमृता मागधी पथ्यागुडूच्यामलकीषु च ॥ १५ ॥
3.15 · p. 40
अनुष्टुप्
अनयः व्यसने नाशेऽशुभे देवेऽपि पामरे ।अथावधिर्बिले सीमावधानसमयेषु च ॥ १६ ॥
3.16 · p. 40
अनुष्टुप्
अरुणो भास्करे रक्ते निःशब्दे कपिले बुधे ।सन्ध्यारागे रवेःसूतेऽव्यक्तरागेऽपि चारुणा ॥ १७ ॥
3.17 · p. 40
अनुष्टुप्
नृ[त्रि]वृत्यतिविषाश्यामामञ्जिष्ठास्वपि दृश्यते ।अम्बरं गगने वस्त्रे सुरभिद्रव्यतूलयोः ॥ १८ ॥
3.18 · p. 40
अनुष्टुप्
अर्जुनो धवले चक्षूरोगे हैहयकेकिनोः ।तृणे द्रुमे चैकपुत्रे मातुर्मध्यमपाण्डवे ॥ १९ ॥
3.19 · p. 40
अनुष्टुप्
आप्लुतः स्नातके स्नातेऽप्याकल्पः कल्पवेषयोः ।आतङ्को रुजि सन्तापे मुरजध्वनिशङ्कयोः ॥ २० ॥
3.20 · p. 40
अनुष्टुप्
आशुगः पवने बाणे रवौ चारोह उच्यये ।दैर्घ्ये माने गजारोहे स्त्रीकट्यां च समुच्चये ॥ २१ ॥
3.21 · p. 41
अनुष्टुप्
आयतिः संहतौ भावे स्वाधीनोत्तरकालयोः ।आत्मभूर्मदने शम्भौ वासुदेवमहेशयोः ॥ २२ ॥
3.22 · p. 41
अनुष्टुप्
आसत्तिः संगमे लाभेऽप्याका[क?]रो निकरे मणौ ।खन्यामानद्धमाख्यातं मुरजादिकनद्धयोः ॥ २३ ॥
3.23 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आशयः स्यादभिप्रायेऽप्याश्रये पनसद्रुमे ।आदित्यः त्रिदशे भानावाम्नायः कुलआगमे ॥ २४ ॥
3.24 · p. 41
अनुष्टुप्
आनर्त्तो नृत्यसदने समरे जनदेशयोः ।आयस्तः कष्टिते क्षिप्ते तेजिते कुपिते हते ॥ २५ ॥
3.25 · p. 41
अनुष्टुप्
आक्रन्दः क्रन्दनारावे भूपे दारुणसंयुगे ।आकर्षः पाशके द्यूतभिदाकर्षणयोरपि ॥ २६ ॥
3.26 · p. 41
अनुष्टुप्
आषाढो व्रतिनां दण्डे मासे मलयपर्वते ।आनकः पटहे भेर्यां मृदङ्गे मेघनिःस्वने ॥ २७ ॥
3.27 · p. 41
अनुष्टुप्
इक्ष्वाकुः कटुतुम्बिन्यां भूपभेदेऽप्यथेतरः ।अन्यस्मिन्पामरेऽपि स्यादिष्वासं चापधन्विनोः ॥ २८ ॥
3.28 · p. 41
अनुष्टुप्
इष्वासः विशिखक्षेपे इन्द्रियं रेतसि स्मृतं ।हृषीके वेरिणं शून्योषरयोश्च निराश्रये ॥ २९ ॥
3.29 · p. 41
अनुष्टुप्
उन्माथः स्याद्वधे कूटयन्त्रे दृष्टस्य घातके ।उर्वरा पृथिवी सर्वसस्याढ्यधरयोरपि ॥ ३० ॥
3.30 · p. 41
अनुष्टुप्
उत्थानमुद्गमे सैन्ये पौरुषोद्यमयोर्युधि ।उदारः दक्षिणे दातर्युदरं हृदि संयुगे ॥ ३१ ॥
3.31 · p. 41
अनुष्टुप्
उच्छ्रितं तून्नते ख्यातं ज्ञातमात्रप्रवृद्धयोः ।उदानो जठरावर्त्ते सर्पवायुविशेषयोः ॥ ३२ ॥
3.32 · p. 42
अनुष्टुप्
उद्यानं सरणेऽरण्यविशेषेऽपि प्रयोजने ।सुरवतर्त्मन्यथोत्तंसः कर्णपूरेऽपि शेखरे ॥ ३३ ॥
3.33 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्थितं तु समुत्पन्ने सञ्जाते वृद्धिमत्यपि ।उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्युदाहृतम् ॥ ३४ ॥
3.34 · p. 42
अनुष्टुप्
उदूढः पृथुलेप्यूढेऽप्युपलः प्रस्तरे मणौ ।उत्कटश्चोद्भटे क्षीवेऽप्युदर्चिः पावकद्रुवोः ॥ ३५ ॥
3.35 · p. 42
अनुष्टुप्
अतियन्यनुजे वीरेऽप्युरगः पन्नगेऽर्भके ।उल्लाघः निर्गदे वृक्षे निपुणे शुचिहृष्टयोः ॥ ३६ ॥
3.36 · p. 42
अनुष्टुप्
उन्मत्तः कितवोन्मादमुचुकुन्देषु पल्लवे ।उत्पलं तूपलोऽद्रौ मासशून्याब्जभेदयोः ॥ ३७ ॥
3.37 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उष्णीषं शेखरे शीर्षवेष्टने लक्षणान्तरे ।उच्छ्वासः प्राणने गद्यबन्धमिच्छ्वासयोरपि ॥ ३८ ॥
3.38 · p. 42
अनुष्टुप्
ऊर्णायुः कम्बले मेषे श्वेतवर्णोर्णनाभयोः ।ऋषभो वृषभे नाम्नः परःश्रेष्ठे जिनेश्वरे ॥ ३९ ॥
3.39 · p. 42
अनुष्टुप्
कर्णरन्ध्रे स्वरे कोलपुच्छे भेषजभिद्यपि ।ऋषभी दृश्यते शुकश(शि)म्बीपुरुषाकृतियोषयोः ॥ ४० ॥
3.40 · p. 42
अनुष्टुप्metre not read in every line
ऊशीरं चमरे दण्डशयनासनभेदयोः ।कौतुकं मङ्गले कामे गीतादौ च कुतूहले ॥ ४१ ॥
3.41 · p. 42
अनुष्टुप्
प्रमोदे विषयाभोगे विवाहपटलेऽपि च ।कुण्डली वरुणे व्याले मयूरे कुण्डलान्विते ॥ ४२ ॥
3.42 · p. 42
अनुष्टुप्
केसरी तुरगे सिंहे पुन्नागे नागकेसरे ।करणं साधने काये कायस्थेन्द्रियकर्मसु ॥ ४३ ॥
3.43 · p. 42
अनुष्टुप्
योगीनामासनादौ च गीतनाट्यविशेषयोः ।बालवादौ च करणः ख्यातः शूद्राविशोः सुते ॥ ४४ ॥
3.44 · p. 43
अनुष्टुप्
कुटजस्तरुभेदे स्यादगस्त्यद्रोणयोरपि ।करटः करिणां गण्डे दुर्मुखे काकवाद्ययोः ॥ ४५ ॥
3.45 · p. 43
अनुष्टुप्
मृतश्राद्धे कुसुम्भेऽथ कीलालं रुधिरे जले ।क्षीरे पुष्परसे मण्डे घृतमद्यामृतेषु च ॥ ४६ ॥
3.46 · p. 43
अनुष्टुप्
कम्बलं कमले नीरे कम्बलो नागसास्नयोः ।वैकक्ष्ये चेन्द्रिये कीटे कुन्तलो विषयान्तरे ॥ ४७ ॥
3.47 · p. 43
अनुष्टुप्
धम्मिल्लहलयोस्तक्ष्णि कुन्तहस्तास्त्रभेदयोः ।कषायः सुरभौ रागे रसे वर्णद्रवाङ्गयोः ॥ ४८ ॥
3.48 · p. 43
अनुष्टुप्
कषायं बदरे स्निग्धे काकिणी तु वराटके ।गुञ्जायां पणतुर्यांशे कल्याणं हेम्नि मङ्गले ॥ ४९ ॥
3.49 · p. 43
अनुष्टुप्
नगरे कसिपुर्वस्त्रे प्राकारे वल्भने यतौ ।करीरः कलशे वृक्षविशेषे वैणवाङ्कुरे ॥ ५० ॥
3.50 · p. 43
अनुष्टुप्
कलमो लेखनीशालिभिदोरङ्कूरचौरयोः ।कपिलः कुकुरे पिङ्गे पावके वासवे मुनौ ॥ ५१ ॥
3.51 · p. 43
अनुष्टुप्
कपिला रेणुकायां च गोभेदे शिंशिपाद्रुमे ।वल्ल्यां च करिणीभेदे कामलो रोगकामिनोः ॥ ५२ ॥
3.52 · p. 43
अनुष्टुप्
वसन्ते मरुदेशे स्यात्कुम्भिलो मीनचोरयोः ।श्लोकच्छायाहरे श्याले कुलालः कुकुरै द्रुमे ॥ ५३ ॥
3.53 · p. 43
अनुष्टुप्
कुम्भकारे तथा घूके किट्टालो लोहकुम्भयोः ।कन्दलं कलहे शब्दे न्यङ्कुभेदोपरागयोः ॥ ५४ ॥
3.54 · p. 43
अनुष्टुप्
कलापेऽपि नवाङ्कूरे कलङ्कोऽङ्कापवादयोः ।अयोमले कुसुम्भं तु लट्वाहेश्नोः कमण्डलौ ॥ ५५ ॥
3.55 · p. 44
अनुष्टुप्
कलत्रं भूभुजां दुर्गस्थाने नीव्यङ्कभार्ययोः ।कोहलस्तु मुनौ मद्ये कोमलं मृदुतोययोः ॥ ५६ ॥
3.56 · p. 44
अनुष्टुप्
कमले भेषजे पङ्के शीर्षे पद्मेऽम्बुताम्रयोः ।कमलो हरिणे रोगे सुधांशौ कमला श्रियाम् ॥ ५७ ॥
3.57 · p. 44
अनुष्टुप्
कलापस्तूणके बर्हे मेखलायां च सञ्चये ।कुशलं सुकृते क्षेमे पर्याप्तो कुशलोऽखले ॥ ५८ ॥
3.58 · p. 44
अनुष्टुप्
कर्कशो निर्दये तिग्मे कम्पिल्ये कासमर्दके ।दृढे साहसिके खड्गे परुषे चेक्षुमत्तयोः ॥ ५९ ॥
3.59 · p. 44
अनुष्टुप्
कौशिको गुग्गुले शक्रे घूके सर्पधरे सुनौ ।कोशज्ञे नकुले ताले कौशिकी सरिदन्तरे ॥ ६० ॥
3.60 · p. 44
अनुष्टुप्
कपोतः पक्षिणां भेदे पारापतविहङ्गमे ।कापोतं तु कपोतानां संहतौ मञ्जनेऽञ्जने ॥ ६१ ॥
3.61 · p. 44
अनुष्टुप्
कुमारो बालके स्कन्दे युवराजेऽश्ववारके ।वरणानोकहे कीरे कुमारी तटिनीभिदि ॥ ६२ ॥
3.62 · p. 44
अनुष्टुप्
जम्बूद्वीपांशपार्वत्योः केटिरुर्नकुले स्मृतः ।शक्रगोपे सुनासीरे कुटा(ट्टा)रं केवले रते ॥ ६३ ॥
3.63 · p. 44
अनुष्टुप्
कनकं चम्पके स्वर्णे धत्तूरे नागकेसरे ।कालीये किंशुके दृष्टं काञ्चनारेऽथ कण्टकः ॥ ६४ ॥
3.64 · p. 44
अनुष्टुप्
४५[ 3. 75]नरके (नखे?) शाखिनामङ्गे रोमाञ्चे वेणुवैरिणोः ।कुमुदं कैरवे दैत्यनागयोर्दिग्गजे कपौ ॥ ६५ ॥
3.65 · p. 45
अनुष्टुप्metre not read in every line
कु(क)कुभो भूरुहे वीणाप्रसेवे रोगभिद्यपि ।कानीनः कन्यकाजाते व्यासे चम्पापतावपि ॥ ६६ ॥
3.66 · p. 45
अनुष्टुप्
कृतान्तोऽन्तकसिद्धान्तदैवाकुशलकर्मसु ।करको मेघपाषाणे पात्रभेदे कमण्डलौ ॥ ६७ ॥
3.67 · p. 45
अनुष्टुप्
दाडिमेऽपि खगे बाहौ कारकं कर्तृकर्मणोः ।कटुकं कटुरोहिण्यां तिक्ते व्योषेऽथ कञ्चुकः ॥ ६८ ॥
3.68 · p. 45
अनुष्टुप्
चोले वर्द्धापके वारवाणे निर्मोकवृक्षयोः ।कदम्बः शिखरे वृक्षविशेषे निकुरम्बके ॥ ६९ ॥
3.69 · p. 45
अनुष्टुप्
सर्षपे कीकसं शल्ये कारावस्थनि कीकसः ।वानरे भिक्षुके कीरे कश्मलः पापपङ्कयोः ॥ ७० ॥
3.70 · p. 45
अनुष्टुप्
कटकं कङ्कणे राजधानीभद्विजभूषयोः ।नितम्बे भूभृतः सैन्ययोगे बाहुविभूषणे ॥ ७१ ॥
3.71 · p. 45
अनुष्टुप्
कोट्टारो नगरे कूपे कर्णिका मध्यमाङ्गुलौ ।दन्तिशुण्डामुखे बीजकोशे पङ्केरुहस्य च ॥ ७२ ॥
3.72 · p. 45
अनुष्टुप्
कुट्टिन्यां कर्णभूषायां कीटको निष्ठुरे कृमौ ।कीचको रन्ध्रमद्वेणौ वृक्षदैत्यविशेषयोः ॥ ७३ ॥
3.73 · p. 45
अनुष्टुप्
कुलिकस्तु कुलश्रेष्ठे नागे योगान्तरे तरौ ।कूर्चिका कुञ्चिकायां च क्षीरस्य विकृतावपि ॥ ७४ ॥
3.74 · p. 45
अनुष्टुप्
आलेख्यलेखनीसूचीकोरकेष्वथ कोरकं ।कक्कोलद्रौ मृणाले स्यात्कुद्मले कुशिको मुनौ ॥ ७५ ॥
3.75 · p. 45
अनुष्टुप्
सर्जे बिभीतके फाले कालिङ्गः गजसर्पयोः ।क्रकचः करपत्रे स्यात्कर्कशे ग्रन्थिलद्रुमे ॥ ७६ ॥
3.76 · p. 46
अनुष्टुप्
अथो (?) कणीचिः शकटे गुञ्जावल्लीविशेषयोः ।कम्बोजः करिणां भेदे शंखदेशविशेषयोः ॥ ७७ ॥
3.77 · p. 46
अनुष्टुप्
करजस्तु नखे वृक्षे कृपीटं जठरे जले ।करेणुर्गजहस्तिन्योः कर्णिकारद्रुमेऽपि च ॥ ७८ ॥
3.78 · p. 46
अनुष्टुप्
कौङ्कणो विषये वृक्षे कौङ्कणं त्वायुधान्तरे ।कायस्थो मारुते वर्णजीवके परमात्मनि ॥ ७९ ॥
3.79 · p. 46
अनुष्टुप्
कायस्था तु हरीतक्यां तथा चामलकीद्रुमे ।कपर्दः पार्वतीनाथजटाजूटे वराटके ॥ ८० ॥
3.80 · p. 46
अनुष्टुप्
कीनाशस्तु कदर्येस्याद्राक्षसे कर्षु(र्ष)के यमे ।कुसुमं तु फले पुष्पे स्त्रीरजे नेत्ररोगयोः ॥ ८१ ॥
3.81 · p. 46
अनुष्टुप्
कङ्कणं मण्डने हस्तसूत्रे च भुजभूषणे ।कमठः कच्छपे भाण्डविशेषे दानवान्तरे ॥ ८२ ॥
3.82 · p. 46
अनुष्टुप्
कदली हरिणे दन्तिपताकामोचयोरपि ।कान्ताराख्या वने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ ८३ ॥
3.83 · p. 46
अनुष्टुप्
कुतपः समये रूप्ये दौहित्रे सलिलेऽप्यजे ।कम्बलेऽपि तिले दर्भे खड्गे पात्रे हुताशने ॥ ८४ ॥
3.84 · p. 46
अनुष्टुप्
भागिनेये घृते सूर्ये द्विजन्मन्यतिथौ गवि ।कुटपः निःकुटे माने मनावप्यथ कश्यपः ॥ ८५ ॥
3.85 · p. 46
अनुष्टुप्
मुनौ मीनविशेषे स्यात्काश्यपी तटिनीभुवोः ।कुकुदं तु प्रधानेंसे वृषाङ्गे राजलक्ष्मणि ॥ ८६ ॥
3.86 · p. 46
अनुष्टुप्
कबरी केशविन्यासे कबरं लवणाम्लयोः ।कुलायः पक्षिणां स्थाने सदनेऽपि कुलोद्भवे ॥ ८७ ॥
3.87 · p. 46
अनुष्टुप्
खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके ।खर्जूरं तु फले रूप्ये खर्जूरो गृहगोधिके ॥ ८८ ॥
3.88 · p. 47
अनुष्टुप्
क्षुद्रजातौ तरोर्भेदे खनकः सन्धितस्करे ।मूषके वित्ततत्त्वज्ञे खङ्गिकः यन्त्रनिःस्वने ॥ ८९ ॥
3.89 · p. 47
अनुष्टुप्
महिषीक्षीरफेने च चण्डाले लोहभिद्यपि ।खपुरः मुस्तके वृक्षे लसके कुम्भपूगयोः ॥ ९० ॥
3.90 · p. 47
अनुष्टुप्
गन्धर्वः गायने चाश्वे खेचरे हरिणान्तरे ।ग्रहणं स्वीकृतौ शब्दे गुणे यत्नोपरागयोः ॥ ९१ ॥
3.91 · p. 47
अनुष्टुप्
ग्रन्थिको ग्रहचारज्ञे माद्रेये गुग्गुले द्रुमे ।ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णविडङ्गयोः ॥ ९२ ॥
3.92 · p. 47
अनुष्टुप्
गोलको मणिके गोले जारतः विधवासुते ।गणिका यूथिकावृक्षे तर्क्कारीपण्ययोषयोः ॥ ९३ ॥
3.93 · p. 47
अनुष्टुप्
गण्डकी तटिनीभेदे गण्डकः खड्गिविघ्नयोः ।विद्यावच्छेदसंख्यासु गोरङ्कुबन्दिनग्नयोः ॥ ९४ ॥
3.94 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्कु (wrong syllable)
खगेऽथ गोपतिः शक्रे षण्ढे बल्लवरुद्रयोः ।वरुणे सरितां नाथे दिननाथे महीपतौ ॥ ९५ ॥
3.95 · p. 47
अनुष्टुप्
गोदन्तो दंशिते नद्धे हरितालेऽथ गोस्तनी ।हारहूरालतावृत्तियोजनास्वथ गोस्तनः ॥ ९६ ॥
3.96 · p. 47
अनुष्टुप्
हारेऽपि ग्रन्थिलो ग्रन्थिवृते वेणौ विकङ्कते ।करीरे गौरिलो गर्वे सिद्धार्थे लोहचूर्णके ॥ ९७ ॥
3.97 · p. 47
अनुष्टुप्
गोपुरं नगरद्वारे मुस्तकद्वारयोरपि ।गोपालो बल्लवे भूपे गोकिलो मुशले हले ॥ ९८ ॥
3.98 · p. 47
अनुष्टुप्
गोमुखं कुटिलागारे वाद्यभाण्डेऽपि लेपने ।ग्रामणीर्भोगिके श्रेष्ठे नापितेऽप्यधिपेऽपि च ॥ ९९ ॥
3.99 · p. 48
अनुष्टुप्
गोष्पदं ध्वनिते माने गवां गम्येऽपि गोचरे ।गर्जितो मत्तमातङ्गे गर्जितं मेघनिःखने ॥ १०० ॥
3.100 · p. 48
अनुष्टुप्
गोकर्णोऽनामिकाङ्गुष्ठमाने सर्पे मृगे गणे ।गह्वरं तु बिले दम्भे गैरिकं धातुरुक्मयोः ॥ १०१ ॥
3.101 · p. 48
अनुष्टुप्
गालवस्तु मुनौ लोध्रे गाङ्गेयः स्कन्दभीष्मयोः ।गाङ्गेयं मुस्तके स्वर्णे सुन्दरेऽपि कशेरुके ॥ १०२ ॥
3.102 · p. 48
अनुष्टुप्
चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि ।चन्दनी चन्द्रिकानद्योश्चन्दनो वानरे द्रुमे ॥ १०३ ॥
3.103 · p. 48
अनुष्टुप्
चूडाला चक्रलायां च चूडालश्चूडया युते ।चलनोंऽह्रौ धुते कुम्पे चलनी करणान्तरे ॥ १०४ ॥
3.104 · p. 48
अनुष्टुप्
चमसः पिष्टभेदेस्याल्लट्टुके कर्पटेऽपि च ।चरणं त्वदने शब्दे भ्रमणे चरणः पदे ॥ १०५ ॥
3.105 · p. 48
अनुष्टुप्
गोत्रे मूले बह्वृचादौ चामरः काशपुष्पयोः ।माकन्दे केतने चापि चमरी हरिणीभिदि ॥ १०६ ॥
3.106 · p. 48
अनुष्टुप्
चमरश्चामरे दैत्ये चञ्चलोऽनिलकामिनोः ।चपलः क्षणिके मीने चिकुरे चपलं पुनः ॥ १०७ ॥
3.107 · p. 48
अनुष्टुप्
विलोले पारदे शीघ्रे चपला पिप्पलीश्रियोः ।ऐरावत्यां चिरण्टी तु यौवनाश्रितयोषिति ॥ १०८ ॥
3.108 · p. 48
अनुष्टुप्
सुवासिन्यां च चिपिटः पिञ्चिताततखा…योः (?) ।चित्रकं श्वापदे चित्रे प्रजातौ व्यन्तरोरगे ॥ १०९ ॥
3.109 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनले तिलके चापि स्वस्तिके गदभिद्यपि ।चक्राटो विषवैद्ये च दीनारे दुर्जनेऽपि च ॥ ११० ॥
3.110 · p. 48
अनुष्टुप्
चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेस(C श)रे ।चङ्कुरः स्यन्दने वृक्षे चत्वरं तु चतुष्पथे ॥ १११ ॥
3.111 · p. 49
अनुष्टुप्Latin letters: C
प्राङ्गणे स्थण्डिले चाथ चिकुरः सर्पशैलयोः ।वृक्षे च भ्रूलये केशे चञ्चले विहगान्तरे ॥ ११२ ॥
3.112 · p. 49
अनुष्टुप्
चन्दिरस्तु गजे चन्द्रे चन्द्रिलो नापिते शिवे ।वास्तुके चाथ चात्वालो यज्ञकुण्डेऽर्भगर्भयोः ॥ ११३ ॥
3.113 · p. 49
अनुष्टुप्
छदनं तु दले पक्षे छेदनं भिदि कर्त्तने ।छर्द्दनोऽलम्बुके[षे] निम्बे छर्द्दनं वमने स्मृतम् ॥ ११४ ॥
3.114 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
छगलाख्या पुटे मेषे नीलिकारञ्जिताम्बरे ।छगली त्वौषधीभेदे छित्वरो रिपुधूर्त्तयोः ॥ ११५ ॥
3.115 · p. 49
अनुष्टुप्
जृम्भितं वर्द्धिते रोगे जृम्भणोत्फुल्योरपि ।चेष्टितेऽथ जिगीषा स्याज्जयेच्छाव्यवसाययोः ॥ ११६ ॥
3.116 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जयनं तुरगादीनां सन्नाहे विजये स्मृतं ।जर्जरस्तु जराजर्णे कोकिले वासवध्वजे ॥ ११७ ॥
3.117 · p. 49
अनुष्टुप्
जीवकः प्राणके ज्येष्ठे क्षपणे वृद्धिजीविनि ।सेवके चासने वृक्षे व्यालग्राहेऽथ जीविका ॥ ११८ ॥
3.118 · p. 49
अनुष्टुप्
वर्त्तनेऽपि च जीवन्त्यां जतुके हिङ्गुलाक्षयोः ।जरणो जीरके कृष्णजीरके रुचके जले ॥ ११९ ॥
3.119 · p. 49
अनुष्टुप्
जटायुर्विहगे वृक्षे गुग्गुले जम्भलः पुनः ।देवताभिदि जम्वीरे जम्बूलः क्रकचच्छदे ॥ १२० ॥
3.120 · p. 49
अनुष्टुप्