All kośas › Anekārthatilaka
अनेकार्थतिलक Anekārthatilaka
910 verses · text only, tagging comes next
द्वितीयः काण्डः (2/4)
ज्योतिर्दिनाधिपे वह्नौ नक्षत्रेऽक्षिप्रकाशयोः ।जातिश्छन्दसि मालत्यां सामान्ये जन्मगोत्रयोः ॥ १२१ ॥
2.121 · p. 17
अनुष्टुप्
आमलक्यामथ ज्यायान्प्रशस्येऽतिशये गुरौ ।जालं दम्भे गणानायक्षारकेष्वपि जालके ॥ १२२ ॥
2.122 · p. 17
अनुष्टुप्
जालो नीपे नटे जाली पटोल्यां च जलं जडे ।तोये जिह्मोऽसमे मन्दे जिह्मं तगरभूरुहे ॥ १२३ ॥
2.123 · p. 17
अनुष्टुप्
जगत्स्याज्जङ्गमे लोके जामिः स्वसृकुलस्त्रियोः ।जम्भो दन्तेऽशने चांशे दैत्ये तूणे हतौ तरौ ॥ १२४ ॥
2.124 · p. 17
अनुष्टुप्
जिमस्त्वर्हति बुद्धे स्याद्देवकीनन्दने स्मरे ।झूणिः पूगीफले दण्डे दुष्टदैवश्रुतावपि ॥ १२५ ॥
2.125 · p. 17
अनुष्टुप्
टङ्कोऽश्मदारणे कोपे मानभेदखनित्रयोः ।कोशेऽपि टङ्कणक्षारे जङ्घा नीलकपित्थयोः ॥ १२६ ॥
2.126 · p. 17
अनुष्टुप्
डिम्भः मूर्खे शिशौ डिम्बः डमरे पुप्फ(प्फु)से भये ।त्राणं तु रक्षणे वीर्ये त्रायमाणौषधेपि च ॥ १२७ ॥
2.127 · p. 18
अनुष्टुप्
तर्को विचारे काङ्क्षायामूहकर्मविशेषयोः ।तलश्चपेटे तालद्रौ तलं चाधःस्वभावयोः ॥ १२८ ॥
2.128 · p. 18
अनुष्टुप्
तालो गीतक्रियामाने करास्फोटद्रुभेदयोः ।हस्तमानेऽपि पाताले तालं तु हरितालके ॥ १२९ ॥
2.129 · p. 18
अनुष्टुप्
तारो गाढध्वनौ मुक्ताशुद्धौ निर्मलमैौक्तिके ।नेत्रमध्ये तथोद्गीते भे तारं रजते स्मृतम् ॥ १३० ॥
2.130 · p. 18
अनुष्टुप्metre not read in every lineimpossible sign sequence: धौ निर्मलमैौक्तिकेnearly अनुष्टुप्
तारा गुरोः स्त्रियां बुद्धदेवीसुग्रीवभार्ययोः ।तीर्थं तु देवतास्थाने तोयोपाध्यायसन्त्रिषु (मन्त्रिषु ?) ॥ १३१ ॥
2.131 · p. 18
अनुष्टुप्
उपाये रजसि स्त्रीणां योनौ पात्रावतारयोः ।ऋषिजुष्टे मखे पुण्यक्षेत्रदर्शनयोरपि ॥ १३२ ॥
2.132 · p. 18
अनुष्टुप्
त्रपुः स्यात्सीसके वङ्गे तन्त्रं पवनसाधने ।सिद्धौषधे सुखे जातौ सिद्धान्ते देशसेनयोः ॥ १३३ ॥
2.133 · p. 18
अनुष्टुप्
प्रधानेऽपि परच्छन्दे करणेऽपि परिच्छदे ।वेदशाखान्तरे तन्तुशास्त्रयोरर्थसाधके ॥ १३४ ॥
2.134 · p. 18
अनुष्टुप्
तन्त्री वीणागुणे नाड्याममृतासरितोरपि ।त्यागो दाने परित्यागे तीरो वङ्गे तटे शरे ॥ १३५ ॥
2.135 · p. 18
अनुष्टुप्
तुला पलशते माने सादृश्ये राशिभाण्डयोः ।तमः शोके तमिस्रे च गुणभेदे विधुंतुदे ॥ १३६ ॥
2.136 · p. 18
अनुष्टुप्
तोकं पुत्रे च सन्ताने तापः सन्तापकष्टयोः ।तीक्ष्णं तिग्मे विषे लोहे समुद्रलवणे युधि ॥ १३७ ॥
2.137 · p. 18
अनुष्टुप्
तेजो वह्नौ बले मोक्षे नवनीतप्रभावयोः ।रेतप्रकाशयोस्तीक्ष्णे तूणी नीलीनिषङ्गयोः ॥ १३८ ॥
2.138 · p. 19
अनुष्टुप्
तल्पं तु सदने देहे वस्त्रे शय्याकलत्रयोः ।तनुः सूक्ष्मे कृशे देहे वामने विरलत्वचोः ॥ १३९ ॥
2.139 · p. 19
अनुष्टुप्
तिक्ता च कटुरोहिण्यां तिक्तो गन्धे रसान्तरे ।त्रुटिस्तु संशये रज्जौ कालमाने लवेलयोः ॥ १४० ॥
2.140 · p. 19
अनुष्टुप्
तरो वेगे बले त्रेता युगभेदेऽनलत्रये ।ततं तु विपुले वाद्ये त्रयीवेदत्रये त्रये ॥ १४१ ॥
2.141 · p. 19
अनुष्टुप्
तार्क्ष्यः खगेश्वरे सूरसूते स्यन्दनवाजिनोः ।अश्वकर्णद्रुमौषध्योस्तन्द्री निद्राप्रमादयोः ॥ १४२ ॥
2.142 · p. 19
अनुष्टुप्
द्युतिः शोभाकिरणयोर्दन्तो रदनसानुनोः ।द्रुतं शीघ्रे गते लीने दाढा दंष्ट्राभिलाषयोः ॥ १४३ ॥
2.143 · p. 19
अनुष्टुप्
दृढो मत्ते भृशे शक्ते दोग्धा गोपालवत्सयोः ।द्रोणः कृपीपतावद्रौ संख्यायां वृद्धवायसे ॥ १४४ ॥
2.144 · p. 19
अनुष्टुप्
द्रोणी च शैलसन्धौ च नौविशेषे द्रुणः शरे ।कीटे भृङ्गे द्रुणं चापे कृपाणे कच्छपान्तरे ॥ १४५ ॥
2.145 · p. 19
अनुष्टुप्
दायः पितृधने दाने यौतकादिधनेऽन्वये ।दण्डी दण्डधरे भिक्षौ प्रतीहारे यमे नृपे ॥ १४६ ॥
2.146 · p. 19
अनुष्टुप्
दण्डः सैन्ये दमे माने प्रकाण्डे लकुटे यमे ।मध्यर्कानुचरे दर्पे चतुर्थोपायकोणयोः ॥ १४७ ॥
2.147 · p. 19
अनुष्टुप्
दीप्तं निर्भासिते दग्धे दीक्षा यजनपूजयोः ।दक्षः प्रजापतौ ताम्रचूडे रुद्रवृषे पटौ ॥ १४८ ॥
2.148 · p. 19
अनुष्टुप्
दानं दन्तिमदे त्यागे खण्डनावनशुद्धिषु ।दरो गर्त्ते मनागर्थे भये देवो नृपे सुरे ॥ १४९ ॥
2.149 · p. 20
अनुष्टुप्
जिगीषुबालयोर्मूर्खे मेघेऽपि व्यवहर्त्तरि ।देवं जले हृषीकेऽथ दिवं घस्रे खनाकयोः ॥ १५० ॥
2.150 · p. 20
अनुष्टुप्
द्विजो दन्तेऽण्डजे विप्रे वैश्येऽपि क्षत्रिये द्रुमः ।कल्पद्रुमे तरौ रत्ने दिष्टिश्चानन्दमानयोः ॥ १५१ ॥
2.151 · p. 20
अनुष्टुप्
धनुर्धनुर्द्धरे राशौ पियालद्रुमचापयोः ।धाम स्थाने गृहे देहे प्रभावे जन्मतेजसोः ॥ १५२ ॥
2.152 · p. 20
अनुष्टुप्
धाना भृष्टयवेऽङ्कूरधन्याकचूर्णसक्तुषु ।धेनोऽब्धौ च धुनी नद्यां धनं वित्ते च गोधने ॥ १५३ ॥
2.153 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
धातुः शब्दादिवर्णाद्यो रश्मभेदेऽपि तद्गुणे ।कफादौ च क्षुरादौ च महाभूतेऽपि कीकसे ॥ १५४ ॥
2.154 · p. 20
अनुष्टुप्
धाराऽस्यङ्गे चमूवक्त्रराजिवाजिगतेषु च ।जलादिपाते संतत्यां प्राधान्येऽथ धूरो गिरौ ॥ १५५ ॥
2.155 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 धू (wrong syllable)
कूर्मे तूले धरा मेदे भुवौ गर्भाशयेऽपि च ।धिष्ण्यं वह्नौ गृहे रश्मौ स्थाने मे बलशुक्रयोः ॥ १५६ ॥
2.156 · p. 20
अनुष्टुप्
धात्री धरित्र्यां धातक्यामामलक्यामूपमातरि (?) ।धृतिर्धेये च सन्तोषे धारणे चाध्वरे सुखे ॥ १५७ ॥
2.157 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धन्वः स्थले च कोदण्डे धन्वा तु मरुमण्डले ।धन्वी धनुर्द्धरे वृक्षे च्छेके मध्यमपाण्डवे ॥ १५८ ॥
2.158 · p. 20
अनुष्टुप्
ध्रुवश्च निश्चलौत्तानपादिकीलकशम्भुषु ।धुतं धूते परित्यक्ते धवो भीरौ तरौ प्रिये ॥ १५९ ॥
2.159 · p. 20
अनुष्टुप्
धेनुर्गवि च हस्तिन्यां ध्वांक्षः स्याद्बककाकयोः ।याचके सदने धीदा सेमुखी कन्ययोरपि ॥ १६० ॥
2.160 · p. 21
अनुष्टुप्
ध्वजश्चिह्ने पताकायां शिश्ने पूर्वदिशो गृहे ।खट्वाङ्गे शौण्डिके माने धाता पालकवेधसोः ॥ १६१ ॥
2.161 · p. 21
अनुष्टुप्
निजः स्वकीये नित्येऽथ नीतिः प्राप्तौ नयेऽपि च ।नाडी कुहनचर्यायां नालिका गण्डदूर्वयोः ॥ १६२ ॥
2.162 · p. 21
अनुष्टुप्
स्नायौ गुणान्तरे नाले नीडं स्थाने खगालये ।न्यङ्कुर्मुनौ मृगे ताले नखः करजषण्ढयोः ॥ १६३ ॥
2.163 · p. 21
अनुष्टुप्
नागं रङ्गे तथा सीसपत्रेऽपि करणान्तरे ।नागस्तु कुञ्जरे सर्पे मुस्तके नागकेसरे ॥ १६४ ॥
2.164 · p. 21
अनुष्टुप्
देहवायुविशेषे स्यात् श्रेष्ठे शब्दोत्तरस्थितः ।पुंनागे जलदे नागदन्ते दुष्टाशयेऽपि च ॥ १६५ ॥
2.165 · p. 21
अनुष्टुप्
नाकः स्वर्गेऽन्तरिक्षे च नाकुः शैले मुनीश्वरे ।वल्मीके विवरे नीचः पामरे वामने स्मृतः ॥ १६६ ॥
2.166 · p. 21
अनुष्टुप्
निष्को हृद्भूषणे साष्टसुवर्णशतकर्षयोः ।सुवर्णे तत्पले च स्याद्दीनारस्नायोरपि ॥ १६७ ॥
2.167 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नभो मासे बिसे घ्राणे प्रावृषि स्यान्नेभोऽम्बरे ।नेत्रं वस्त्रे मृगे वृक्षमूलेऽक्षिणि गुणान्तरे ॥ १६८ ॥
2.168 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्ने (wrong syllable)
नाभिः क्षत्रियचक्रान्तःप्राण्यङ्गेषु नृपोत्तमे ।नदोऽब्धौ च ह्रदे वाहे रावे नन्दिर्गणान्तरे ॥ १६९ ॥
2.169 · p. 21
अनुष्टुप्
द्यूते चानन्दने नन्दी वटे शंकरवेत्रिणि ।गर्दभाण्डेऽथ निन्दा स्यात्तथा कुत्सापवादयोः ॥ १७० ॥
2.170 · p. 21
अनुष्टुप्
नन्दा तिथ्यन्तरे विन्द्यान्मणिके वाचि संपदि ।नीलो वर्णे मणौ शैले कपिभिन्निधिभेदयोः ॥ १७१ ॥
2.171 · p. 22
अनुष्टुप्
नेमो गर्त्तेऽवधौ काले प्राकारे कैतवार्द्धयोः ।नेमिः प्रधौ जिने वृक्षे नालं काण्डमृणालयोः ॥ १७२ ॥
2.172 · p. 22
अनुष्टुप्
नलं पद्मे नलो भूपे पितृदैवे नडे कपौ ।नरः कृष्णेऽर्जुने रामे कर्पूरे पुरुषे नतः ॥ १७३ ॥
2.173 · p. 22
अनुष्टुप्
तगरे बन्धुरे भुग्ने निभो व्याजसमानयोः ।नगो महीरुहे शैले नूनं तर्क्के विनिश्चिते ॥ १७४ ॥
2.174 · p. 22
अनुष्टुप्
नाम प्रकाश्ये कुत्सायां संभाव्ये स्वीकृतेऽव्ययम् ।ननु प्रश्नेऽप्यनुज्ञायां संबुद्धाववधारणे ॥ १७५ ॥
2.175 · p. 22
अनुष्टुप्
पदं स्थाने क्रमे त्राणे पादचिह्नापदेशयोः ।व्यवसाये विभक्त्यन्ते शब्देऽङ्के वाक्यवस्तुनोः ॥ १७६ ॥
2.176 · p. 22
अनुष्टुप्
पादो मूलेऽङ्कुरे रश्मौ पदे प्रत्यन्तपर्वते ।तुर्यांशे कटके पीथो मार्त्तण्डे पीथमम्भसि ॥ १७७ ॥
2.177 · p. 22
अनुष्टुप्
पद्मः संख्यानिधिव्यूहादहिषु पद्मं तु पल्लवे ।अब्जे कुञ्जरबिन्दौ च पद्मा लक्ष्मीवरस्त्रियोः ॥ १७८ ॥
2.178 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दहि (syllable split)
प्लवः प्लक्षे प्लुतौ भेके चण्डाले कुलके कपौ ।क्रमनिम्नमहीभागे भेलके जलवायसे ॥ १७९ ॥
2.179 · p. 22
अनुष्टुप्
शब्दे कारण्डवे स्नाने प्लवं मुस्तकभिद्यपि ।तोये गन्धतृणे पुष्पं विमाने धनदस्य च ॥ १८० ॥
2.180 · p. 22
अनुष्टुप्
प्रसूने रजसि स्त्रीणां विकाशे नयनामये ।पाशः शस्तौघयोः शब्दान्मृगादीनां च बन्धने ॥ १८१ ॥
2.181 · p. 22
अनुष्टुप्
पक्षो वर्गे ग्रहे पिच्छे पार्श्वे पक्ष्मविरोधयोः ।केशात्परश्चये चुल्लीरन्ध्रे साध्यसहाययोः ॥ १८२ ॥
2.182 · p. 23
अनुष्टुप्
मासार्द्धेऽथ पणो द्यूताद्युत्सृष्टव्यवहारयोः ।भृतौ कार्षापणे वित्ते ग्लहे गण्डकविंशतौ ॥ १८३ ॥
2.183 · p. 23
अनुष्टुप्
मूल्ये विक्रय्यशाकादिबद्धमुष्टौ नदे क्वचित् ।पाकः पक्तौ शिशौ दैत्ये प्रीतिः प्रेमप्रमोदयोः ॥ १८४ ॥
2.184 · p. 23
अनुष्टुप्
पालिः सेतौ ततौ कर्णपाल्यां कल्पितभोजने ।सश्मश्रुवर्तितोत्सङ्गप्रस्थेषु स्तुतिचिह्नयोः ॥ १८५ ॥
2.185 · p. 23
अनुष्टुप्
पत्रं तु च्छदने पक्षक्षुरीभूर्जेषु वाहने ।पात्रं तु भाजने योग्ये देहे कूलद्वयान्तरे ॥ १८६ ॥
2.186 · p. 23
अनुष्टुप्
पत्री श्येने खगे बाणेऽद्रौ रथे पोत्रमम्बरे ।मुखाग्रे क्रोडहलयोः पीलुः पुष्पे मतङ्गजे ॥ १८७ ॥
2.187 · p. 23
अनुष्टुप्
परमाणौ तरौ काण्डे पुलस्तु पुलके पृथौ ।प्रस्थो माने तटे सानौ पृथुर्विस्तीर्णभूपयोः ॥ १८८ ॥
2.188 · p. 23
अनुष्टुप्
पुरं तु मन्दिरे देहेद्रंग (?) पाटलिपुत्रयोः ।पुरस्तु गुग्गुले दृष्टः पुरुर्नृपपरागयोः ॥ १८९ ॥
2.189 · p. 23
अनुष्टुप्
प्रचुरे नाकिनां लोके पारी पात्रीपरागयोः ।पूरे कर्करिकायां च करीणां पदबन्धने ॥ १९० ॥
2.190 · p. 23
अनुष्टुप्
पुङ्खस्तु मङ्गलाचारे बाणाङ्गश्येनयोरपि ।प्राणोऽनिले बले गन्धरसे हृदयमारुते ॥ १९१ ॥
2.191 · p. 23
अनुष्टुप्
प्राणास्तु जीविते पार्ष्णिः पादमूलोन्मदस्त्रियोः ।चमूपृष्ठे च कुम्भ्यां च पुस्तं लेप्यादिकर्मणि ॥ १९२ ॥
2.192 · p. 23
अनुष्टुप्
शिल्पेऽपि पुस्तके पूर्त्तं खातादौ पूरिते पृषत् ।मृगे बिन्दौ प्लुतं वाजिगतौ प्लुतस्त्रिमात्रके ॥ १९३ ॥
2.193 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्लु (wrong syllable)
प्रायः स्यान्मरणे तुल्ये बाहुल्येऽनशनेऽपि च ।पुण्ड्रस्तु चित्रके कीटे वासन्त्यामिक्षुभिद्यपि ॥ १९४ ॥
2.194 · p. 24
अनुष्टुप्
दैत्येऽपि तिलके पुण्डरीके पुण्ड्रास्तु निर्वृति ।पशुर्मृगान्तरे मेषे यागादौ प्रथमे जडे ॥ १९५ ॥
2.195 · p. 24
अनुष्टुप्
पौषो मासान्तरे पौषं करणे क्षणयुद्धयोः ।पत्तिः सैन्ये गतौ पेशी फलग्रन्थ्यसिकोशयोः ॥ १९६ ॥
2.196 · p. 24
अनुष्टुप्
पूगं पूगीफले वृन्दे पयस्तु क्षीरनीरयोः ।पिङ्गं तु बालके पीते पिङ्गा गोरोचनामयोः ॥ १९७ ॥
2.197 · p. 24
अनुष्टुप्
पिण्डो बोले जपापुष्पे सिल्हेऽपि कवलाङ्गयोः ।पिण्डं गेहैकदेशे स्यात् संघाते जीवनायसोः ॥ १९८ ॥
2.198 · p. 24
अनुष्टुप्
पीडार्त्तौ मर्दने वृक्षभिदुत्तंसकृपासु च ।पण्डः षण्ढे शठे पण्डा दृष्टा तत्त्वधियामपि ॥ १९९ ॥
2.199 · p. 24
अनुष्टुप्
पाण्डुर्नृपान्तरे वर्णे मृद्विशेषे गदान्तरे ।प्रेङ्खा वाजिगते नृत्यदोलापर्यटनेषु च ॥ २०० ॥
2.200 · p. 24
अनुष्टुप्
पिच्छं वाजे कचे पिच्छः पुच्छे पिज्जं(ञ्जं?) बले स्मृतम् ।पिञ्जो व्यग्रे वधे पिञ्जा हरिद्रातूयोरपि ॥ २०१ ॥
2.201 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुष्टिस्तु पोषणे वृद्धौ पट्टः पीठे चतुष्पथे ।व्रणादिबन्धने पेषो पले भूपादिशासने ॥ २०२ ॥
2.202 · p. 24
अनुष्टुप्
प्रजा लोके च सन्ताने पत्तिर्गौरवपाकयोः ।पल्लिर्जीवेऽगभ्रूकुट्योः पलं पिशितमानयोः ॥ २०३ ॥
2.203 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
पटू रोगविहीने स्यात्पटोले चतुरे स्फुटे ।प्लक्षोऽश्वत्थे वटे द्वीपे गर्द्धभाण्डेऽपि पक्षके ॥ २०४ ॥
2.204 · p. 24
अनुष्टुप्
पर्व दर्शादिके ग्रन्थौ सिद्धान्तेऽवतरेऽन्तरे ।विशेषे च पुराणाङ्गे प्रस्तावे मङ्गले तिथौ ॥ २०५ ॥
2.205 · p. 24
अनुष्टुप्
फलं जातिफले हेतुकृते कङ्कोललाभयोः ।त्रिफलाफलकैलासु फालं तु कुशिके गतौ ॥ २०६ ॥
2.206 · p. 25
अनुष्टुप्
फणा मन्थानकुण्डल्यां गोशृङ्गाहिमुखाग्रयोः ।जटातृष्णामृतासु स्यात्फटा तु कपटे फणे ॥ २०७ ॥
2.207 · p. 25
अनुष्टुप्
भेकः भीरौ भरे मेघे मण्डूकद्रुमभेदयोः ।भुजो बाहौ करे मूल्ये भूकः स्याच्छिद्रकालयोः ॥ २०८ ॥
2.208 · p. 25
अनुष्टुप्
भगो रूपप्रभावश्रीसौभाग्यज्ञानमुक्तिषु ।यत्नेऽर्केन्दुयशःपुण्यैश्वर्येच्छावीर्ययोनिषु ॥ २०९ ॥
2.209 · p. 25
अनुष्टुप्
भङ्गस्तरङ्गे कौटिल्ये रुग्विशेषे पराजये ।खण्डने मीतिविच्छित्त्योर्भानुः सूर्यदिनांशुषु ॥ २१० ॥
2.210 · p. 25
अनुष्टुप्
भृगुर्मृत्युञ्जये सानौ जमदग्निप्रतापयोः ।शुक्रेऽपि भोगस्तु सुखे राज्ये वेश्याभृतावपि ॥ २११ ॥
2.211 · p. 25
अनुष्टुप्
फणेऽपि पालने वित्तेऽभ्यवहारादिदेहयोः ।भाण्डं मूलवणिग्वित्ते भूषायामश्वमण्डने ॥ २१२ ॥
2.212 · p. 25
अनुष्टुप्
भ्रमो वारिभ्रमायर्त्तकुन्दयन्त्रेषु चार्जवे ।भृङ्गस्तु भ्रमरे पिङ्गे भृङ्गराजे खगे त्वचि ॥ २१३ ॥
2.213 · p. 25
अनुष्टुप्
भेदो द्वैधे विशेषे स्यादुपजापविदारणे ।भवो भद्रे शिवे सत्तासंसारप्राप्तिजन्मसु ॥ २१४ ॥
2.214 · p. 25
अनुष्टुप्
भावः स्वभावसत्तात्मलीलाकर्मविभूतिषु ।योनौ जन्मबुधप्राणिचेष्टाभिप्रायवस्तुषु ॥ २१५ ॥
2.215 · p. 25
अनुष्टुप्
शृङ्गारादिनिदाने च शब्दावर्त्तमकारणे ।भक्तिर्विभागे सेवायां भक्तमन्ने च तत्परे ॥ २१६ ॥
2.216 · p. 25
अनुष्टुप्
भद्रो रुद्रे वृषे दन्तिजातौ मेरुकदम्बके ।साधौ रामचरे भद्रं करणे क्षेममर्मयोः ॥ २१७ ॥
2.217 · p. 25
अनुष्टुप्
मर्मस्वर्णौ भृते भारे भोगी दर्वीकरे नृपे ।वैयावृत्त्यकरे ताले ग्रामण्यां नापिते स्मृतः ॥ २१८ ॥
2.218 · p. 25
अनुष्टुप्
भूरिः स्यात्प्रचुरे भर्मे भीरुः कातरयोषयोः ।भारो भरेऽपि संख्यायां भरुर्भर्मणि भर्त्तरि ॥ २१९ ॥
2.219 · p. 26
अनुष्टुप्
भीष्मस्तु भीषणे रुद्रे गङ्गापुत्रे हि रक्षसोः (सि ) ।भूभृन्महीधरे शेषे धरे भूतिस्तु संपदि ॥ २२० ॥
2.220 · p. 26
अनुष्टुप्
उत्पादे सदने मांसपाकभेदे च भस्मनि ।भव्यं भाविनि कल्याणे योग्ये सत्ये फलेऽस्थिनि ॥ २२१ ॥
2.221 · p. 26
अनुष्टुप्
भीमो वृकोदरे रुद्रे रौद्रे भूपे भयानके ।तथाम्लवेतसे भौमो मङ्गले नरकासुरे ॥ २२२ ॥
2.222 · p. 26
अनुष्टुप्
मुष्कोऽण्डे तस्करे सङ्घे मोक्षवृक्षेऽपि मांसले ।मार्गो मेऽन्वेषणे मासाध्वनोरेणमदे हरौ ॥ २२३ ॥
2.223 · p. 26
अनुष्टुप्
मोघस्तु निःफले दीने मोघा स्यात्पाटलातरौ ।मघा मे कुसुमस्यापि कलिकायामुदाहृता ॥ २२४ ॥
2.224 · p. 26
अनुष्टुप्
मेघोऽब्दे मुस्तके मोचा कदल्यां शाल्मलिद्रुमे ।मानो गर्वे ग्रहे मानं प्रमाणे चः पलादिषु ॥ २२५ ॥
2.225 · p. 26
अनुष्टुप्
महद्राज्येऽपि धीतत्त्वे पृथौ मुक्ता तु मौक्तिके ।पुंश्चल्यामपि मुक्तिस्तु निर्वाणे मोचने स्मृता ॥ २२६ ॥
2.226 · p. 26
अनुष्टुप्
मूकोऽवाच्यसुरे दीने मुखं प्रारम्भपूज्ययोः ।वदनोपाययोरग्रे मूले निःसारणेऽपि च ॥ २२७ ॥
2.227 · p. 26
अनुष्टुप्
मृगो नक्षत्रमेदे च मूगयागजमेदयोः ।याञ्चायां च पशावेणे मृगी स्यान्नायिकान्तरे ॥ २२८ ॥
2.228 · p. 26
अनुष्टुप्
माया दम्भे दयाबुद्ध्योर्मयो वेसरदैत्ययोः ।उष्ट्रे मायोच्युते (?) वस्त्रे मयुरश्वमुखैणयोः ॥ २२९ ॥
2.229 · p. 26
अनुष्टुप्
माता त्वमाप्रसूधेनुदुर्गाभूमातृकासु च ।मल्लिस्तु करके मत्स्ये जिने जातीकपालयोः ॥ २३० ॥
2.230 · p. 26
अनुष्टुप्
मन्दो मूर्खे चरेऽभाग्ये रोगग्रस्ते शनैश्चरे ।अलसे दन्तिनां जातौ मुण्डो मुण्डितशीर्षयोः ॥ २३१ ॥
2.231 · p. 26
अनुष्टुप्
दैत्ये विधुंतुदे मण्डः शाके सारे च मस्तुनि ।एरण्डपिच्छाभूषासु मण्डा चामलकीद्रुमे ॥ २३२ ॥
2.232 · p. 27
अनुष्टुप्
मौलिस्तु शेखरे शीर्षे शिखासंयतकोशयोः ।मृतं च याचिते मृत्यौ मृदुः कोमल(अ)तीव्रयोः ॥ २३३ ॥
2.233 · p. 27
अनुष्टुप्
मधुर्मेघे जले क्षीरे दैत्ये मासवसन्तयोः ।हारहू(ह?)रारसे पुष्परसे यष्टिमधूकयोः ॥ २३४ ॥
2.234 · p. 27
अनुष्टुप्
मणिर्लिङ्गाग्रभागे स्यादजाकण्ठस्तने भ्रमे ।मणिके पद्मरागादौ निर्मलेऽपि भगध्वजे ॥ २३५ ॥
2.235 · p. 27
अनुष्टुप्
मरुद्वायौ सुरे मीनो राशौ मत्स्ये मदो रसे ।मद्येभदानयोर्गर्वे वीर्ये कस्तूरिकामुदोः ॥ २३६ ॥
2.236 · p. 27
अनुष्टुप्
मित्रं सख्यौ च मित्रोऽर्के मरुर्देशेऽपि पर्वते ।मारः स्मरे मृतौ विघ्ने मोक्षो निःश्रेयसि द्रुमे ॥ २३७ ॥
2.237 · p. 27
अनुष्टुप्
मरणे मोचने माषो धान्ये मानान्तरे शिशौ ।त्वग्दोषे ज्ञातिभेदे च मेषो राश्यन्तरेऽप्यजे ॥ २३८ ॥
2.238 · p. 27
अनुष्टुप्
माला माल्ये ततौ मूलं कुञ्जान्तिकशिफामुभे ।आदौ मन्थो रखौ नेत्ररोगे मथि च सक्तुषु ॥ २३९ ॥
2.239 · p. 27
अनुष्टुप्
यवो धान्येऽङ्कुरेऽङ्गुष्ठरेखामध्ये कलान्तरे ।नीलोत्पलविशेषे च स्वल्पे कर्णविशेषके ॥ २४० ॥
2.240 · p. 27
अनुष्टुप्