कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthatilaka

अनेकार्थतिलक Anekārthatilaka

910 verses · text only, tagging comes next

द्वितीयः काण्डः (4/4)

क्षेत्रं देहे भगे पत्न्या केदारे भरतादिषु ।क्षीरं दुग्धेऽमृते तोये क्षितिर्गेहे भुवि क्षये ॥ ३६१ ॥
2.361 · p. 38
अनुष्टुप्
श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूपाङ्कभृत्सन्प्रासूत सुतं महीपममलं सौभाग्यदेवी च यं ।अस्मिन् सच्चरितेन तेन रचिते नानार्थनामालयेग्रन्थे द्व्यक्षरसंज्ञकः समभवत्काण्डस्तृतीयाग्रजः ॥ ३६२ ॥
2.362 · p. 38
शार्दूलविक्रीडितम्