कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नाडी

nāḍīस्त्री · fem.

In 18 kośas: 25 synonym verses, 5 as a nānārtha head word, 15 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.377 · p. 27
वस्नसा नु स्नसा स्नायुर्नाड्यो धमनयः शिराः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.50 · p. 2
मज्जायामस्थितेजोऽपि नाडीषु नाडिनाटिकाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.113
पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.36
नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः ।
अनुष्टुप्
genderस्त्रीfem.
धमनिर्धमनी नाडी नाडिर्नालिः शिरा सिरा ।क्लोम क्लोमं प्लिहन् प्लीहन् प्लिहाप्लीहे अपि स्मृते ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त घटीपलप्रहरसंज्ञा Gaṇitanāmamālā 17.81 · p. 5
अक्षरैः षष्टिभिर्दीर्घैः पलमेकं बुधैः स्मृतम् ।पलैश्च खरसैर्नाडीप्रमाणं भवति स्फुटम् ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त घटीपलप्रहरसंज्ञा Gaṇitanāmamālā 17.82 · p. 5
नाडी घटी च घटिका विनाडी पलमीरितम् ।दिनस्य रात्रेस्तूर्यांशौ सो यामः प्रहरोच्यते ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.237 · p. 46
जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा ।स्याच्छिरा धमनिर्नाडी नाडिः षण् सन्धिबन्धनम् ॥ २३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.21 · p. 407
षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी ।नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.7 · p. 40
पलं च न स्त्री गुरुवर्णषष्ट्याषष्ट्या पलैः स्याद्घटिकात्र नाडी ।साधारणी स्त्री तु न दण्डमाहुर्-मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 146
स्रंसिचिक्का स्त्रियां पूगकोशः खोलक उच्यते ।तालाद्याः पञ्च हिन्तालस्ताल्यां नाडी च केतकी ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 171
पृथ्वीका बाष्पिका तन्वी नाडी हिङ्गु[51a]शिराटिका ।शाकंभरा पूतिकीटा कुञ्चिका चोपकुञ्चिका ॥ ६४ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 223
लसीका तु त्वग्रसोऽथ धमनिः स्त्री शिरा सिरा ।नाडी नाभिगृहा स्नायुः स्त्री स्नसा वस्नसापि सा ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.89 · p. 314
संस्तरः प्रस्तरस्वेदो नाग्ना(ड्या?)ख्यो धूम * क्रतः ।पिण्डस्वेदः संकराख्यो भेदास्ते त्रय ऊष्मणः ॥ ८९ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.285 · p. 136
छादिनी त्वक् छविश्चापि वस्नसा स्नसया सह ।स्नायुर्धमनयो नाड्यः कण्डरा महती वसा ॥ २८५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.435 · p. 81
नालं तृणशलाकायां नडिर्नाडी? नडीति च ।स्यान्निष्प(ष्फ?)ले नाडिभेदे पलाक्षश्च पलांक्षकः ॥ ४३५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1019 · p. 156
सिराः शिराश्च नाड्यश्च धमनयो भवन्ति वै ।नाटिका च नडिर्नाडिरित्यपि मन्यते बुधैः ॥ १०१९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.254 · p. 99
पश्चाद्ग्रीवा शिरामन्यामन्यकापि च निगद्यते ।नाडीशिरा शिरानाली धमनिर्धमनीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.47 · p. 140
अथ धान्यादिकाण्डे स्यात् नाडी नालमिति द्वयम् ।स काण्डो निष्फलोऽस्त्री तु पलाल इति कीर्तितः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.47 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.28 · p. 179
नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् ।दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.194 · p. 204
स्नावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडकौ ।नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.231 · p. 32
काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते ।षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1117 · p. 138
मेदो वपा वसा नाडीसिराधमनयः समाः ।पश्चाद्ग्रीवासिरा मन्या किट्टं तु मलमस्त्रियाम् ॥ १११७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.54 · p. 21
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.84
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे ।
अनुष्टुप्
meaningsकाल
धरणिकोश Dharaṇikośa · धरणिदास डपादः Dharaṇikośa 12.1.6 · p. 44
नीडं स्थाने खगावासे सकारपूर्वकोऽन्तिके ।नाडी व्रणो धमन्यां च नाडी स्यान्[नाल]कालयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.15 · p. 190
पीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा-व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता ।रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरेबन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे ।वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता-
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.260 · p. 195
नाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे ।न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.3 · p. 204
काण्डं बाणे तरुस्कन्धे स्तम्बे नीचेऽपि कुत्सिते ।नाडी व्रणान्तरे वृक्षभेदे महसि न स्त्रियाम् ॥
अनुष्टुप्

नाडी as a meaning in nānārtha verses