घटी
ghaṭīस्त्री · fem.In 12 kośas: 13 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.
नाडी घटी च घटिका विनाडी पलमीरितम् ।दिनस्य रात्रेस्तूर्यांशौ सो यामः प्रहरोच्यते ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी ।नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
महिषी शतरूपाऽस्य तद्भवाः सर्वमानवाः ।पलं दीर्घैः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
काण्डी करीरी खण्डाली कृपाणी कदली घटी ।कर्परी घर्घरी गोणी हसन्ती गृध्रसी मसी ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिंशत्कलाकः कथितः क्षणो नाते षट् घटीत्युक्तिरहो परेषाम् ।स्याद्घाटिकं नाडिकमन्त्यलिङ्गंयन्त्रं घटाज्ञानकरं भवेद्यत् ॥ ९ ॥
इन्द्रवज्रा
genderस्त्रीfem.
अंहतिः परिपाटिश्चाटविरश्र्यौषधी कविः ।कबरी ह्रदिनी वालि पातली केवली घटी ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्तद्धितेऽपवादोऽयं त्रिलिङ्गत्वे स्त्रियामिह ।क्वचिदल्पविवक्षायां मृणाल्यादिरपि स्त्रियाम् ॥मृणाल्यल्पं मृणालन्तु प्रणाली मुषली घटी ।ह्रस्वो वंशस्तु वंशी स्यात्कुम्भीपाठी पटी नटी ॥
अनुष्टुप्
genderस्त्रीfem.
उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् ।कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥ ६० ॥
metre not recognised
genderस्त्रीfem.
नाली घटी यामनाली दण्डढक्का यमेरुका ।यामघोषोऽथ ताम्री स्यान्मानरन्ध्रा विकालिका ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
शल्लको वृश्चिकः कीटः शारस्तूणो घटः कटः ।शफरो वेतसश्चामी स्त्रियां ङ्यन्ताः प्रकीर्त्तिताः ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी ।तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥
अनुष्टुप्
अथ दृष्टिर्मनीषायां दर्शने नयनेऽपि च ।घटो दिवा तुलायां ना खण्डवस्त्रे घटी स्त्रियाम् ॥
अनुष्टुप्
meaningsखण्डवस्त्र
कुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे ।यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥
अनुष्टुप्
meaningsनाडी
घटी as a meaning in nānārtha verses
- धरणिकोश वारीवारस्त्ववसरे वृन्दे द्वारे सूर्यादिवासरे । सुराश्रयणकं वारो वारी घटीभबन्धनी ॥ Dharaṇikośa 26.3.22
- कोषकल्पतरु दण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
- कोषकल्पतरु वारितोये स्त्रियां वाग्गजबन्धभूमी- घटीषु शारिस्तु पुमान्प्रदिष्टः । द्यूतार्थमूर्त्तिष्वथ योषिति स्या- च्चित्रेक्षणायां(?) व्यवहारभेदे ॥ ७२ ॥ Koṣakalpataru 6.27.72
- नानार्थार्णवसंक्षेप पारीक्ली नद्यादेः परे तीरे घटीसंज्ञे तु गोदुहाम् । दोहपात्रे स्त्रियां पारी पालस्तु त्रिषु पालके ॥ ७४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.748