पल
palaक्ली · neut.In 20 kośas: 41 synonym verses, 7 as a nānārtha head word, 11 as a meaning of another word.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderक्लीneut.
स्तम्बस्तु गुच्छो धान्यादेर्नालं काण्डोऽफलस्तु सः ।पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ ११८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderपुंmasc.
genderक्लीneut.
पललं जाङ्गलं मांसं पलं पिशितमामिषम् ।क्रव्यं तरसमेकार्थं विस्रं स्यादामगन्धिकम् ॥ ६३१ ॥
अनुष्टुप्
genderक्लीneut.
वातूलः स्याद्वातसहस्तत्र वातासहोऽपि च ।तुण्डिलस्तुण्डिभस्तुल्यौ पललं पलमुच्यते ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
अक्षरैः षष्टिभिर्दीर्घैः पलमेकं बुधैः स्मृतम् ।पलैश्च खरसैर्नाडीप्रमाणं भवति स्फुटम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
नाडी घटी च घटिका विनाडी पलमीरितम् ।दिनस्य रात्रेस्तूर्यांशौ सो यामः प्रहरोच्यते ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
पललं जंगलं कीरं लेपनं मारदं पलम् ।अस्रपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
अपि स्तम्बकरिर्गुच्छो वालस्त्रिष्वपि चास्त्रियाम् ।काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री हेम्नः सुवर्णं तच्चतुर्भिस्तैः पलं तु षण् ।द्वयोर्मुष्टिः स्त्रियां मुष्टी सृपाटं पुंसि वा स्त्रियाम् ॥ ५१९ ॥
अनुष्टुप्
genderक्लीneut.
प्रथमं न स्त्रियां पुंसि तृतीयं स्त्री चतुर्दशम् ।चतुष्टयं तु कर्षाणां पलमित्यभिधीयते ॥ ५२२ ॥
अनुष्टुप्
genderक्लीneut.
महिषी शतरूपाऽस्य तद्भवाः सर्वमानवाः ।पलं दीर्घैः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च ।भालालवालभूलानां खलपल्वलयोरपि ॥ १८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पलं च न स्त्री गुरुवर्णषष्ट्याषष्ट्या पलैः स्याद्घटिकात्र नाडी ।साधारणी स्त्री तु न दण्डमाहुर्-मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥
उपजातिः
genderपुंक्लीm. n.
पलमांसामिषाण्यस्त्री तन्त्रादौ पिशिमाविषम्(?) ।त्रिषु वल्लूरमुत्तप्तं शष्कुली शुष्कमामिषम् ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सस्यस्य मञ्जरी चाथ काण्डोऽस्त्री सस्यनाडिका ।नाली नालं निफलस्तु पलालोऽस्त्री पलश्च सः ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंmasc.
सुवर्णको विस्तो[142a] हेम्नोक्षे कर्षाभ्यां शुक्तिरष्टमी ।शुक्तिद्वयं पलं मुष्टिश्चतुर्थी षोडशी वशा (?) ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
खलं पलं पुलं हलं तलं बलाञ्चले मलम् ।पलालमिन्द्रनीलवद्धलाहलं कमण्डलुः ॥ ६६ ॥
पञ्चचामरम्
genderपुंक्लीm. n.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
एते तृष्णादयः शब्दाः स्त्रियां भवन्ति । इयं तृष्णा पिपासा । कृपा दया । पताका चिह्नम् । रथ्या मार्गः । कृषिर्वैश्यवृत्तिः । काकिणी पणचतुर्भागः । प्रतिशीरा तिरस्कारिणी । धारा प्रपतनं ऊर्णामयी पर्वतस्य रेखा च ।नेमिश्चक्रपिण्डिका ।चतुःपथयुगलछलचेलखोलधिष्ण्यार्गलशफानाम् ।विद्धि नपुंसकभावं पण्यस्य च पिच्छपलयोश्च ॥ ६८ ॥
metre not recognised
genderक्लीneut.
जाङ्गलं पिशितं मांसं पलं पेशी च तत्प्रियः ।यातुधानस्तथा रक्षो रात्र्यादिचर इष्यते ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
पिशितं पलकीने च पेशी मांसस्य वल्लरी ।अग्रिमे सुरसं वृक्का बुक्का स्याद्धृदयं हृदा ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
गुञ्जा स्यात्पञ्चभिर्माषैः कर्षः षोडशमाषकैः ।पलं कर्षचतुष्केन तुला पलशतं मतम् ॥ ४११ ॥
अनुष्टुप्
genderक्लीneut.
कर्पूरजठरौ तक्रशरीरे शरतोमरे ।आलवालं पलं भालं प्रवालकवले मलम् ॥ १५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पक्षिणां तूर्ध्वगमने तूड्डीनं चोड्डिनं तथा ।अधोगतौ विदारिः स्यात्पलायनगतौ पलः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
कर्षोऽथ पलमित्युक्तं तच्चतुर्गुणिते स्मृतम् ।विस्तः सुवर्णः कनकनिकुञ्चनविकर्षणे ॥ ५२८ ॥
अनुष्टुप्
genderक्लीneut.
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
आमिषं पिशितं मांसं काश्यपं पललं पलम् ॥ १००२ ॥
अनुष्टुप्
genderक्लीneut.
षोडशः माषकाणां तु कर्षः स्यादऽक्ष एव वा ।चतुःकर्षाः पलं ज्ञेयं पुनः कर्षचतुष्टयम् ॥ १४८४ ॥
अनुष्टुप्
genderक्लीneut.
स्तम्बो गुच्छो धान्यमूले नालं काण्डो भवेत् पुनः ।पलालश्च पलोऽफलः स्यात् तु वै धान्यत्वक् तुषः ॥ २१३१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 फ (wrong syllable); pāda 4, syllable 5 न्य (wrong syllable)
genderपुंmasc.
मांसहासा वर्णलक्ष्यं खेटखल्ले च कुत्रचित् ।आमिषं मांसपिशिततरसं पललं पलम् ।क्रव्यञ्च त्रिषु वल्लूरमुत्तप्तं शुष्कमांसके ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पलं चतुष्कं स्यान्मुष्टिः… मृपाटिकेत्यपि ।हेम्नः कर्षे सुवर्णस्तु स एव विस्त इत्यपि ॥
metre not recognised
genderक्लीneut.
तिलके कालकस्तद्वत् तिलकालक इत्यपि ।जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
कदम्बके सरिषपः सर्षपः, सस्यशीर्षके ।कविशं कणिशोऽफलकाण्डे पल-पलालकौ ॥ २५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
genderक्लीneut.
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
स सुवर्णो हेमकर्षे पलं कर्षचतुष्टयम् ।समौ विस्तसुवर्णौ द्वौ कुरुविन्द(स्त?)स्तु तत्पले ॥ १४९७ ॥
अनुष्टुप्
genderक्लीneut.
आग्नेयं प्राणदं विस्रं वासिष्ठं शोणितासृजी ।मांसं तु काश्यपं क्रव्यं तरसं पललं पलम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
शतमानं तु दशभिर्धरणैः पलमेव च ।माषस्तण्डुलमात्रो वा हेम्नस्तैरष्टभिः पणः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
निष्कोऽस्त्री विंशतिपणस्तेऽष्ट वा दश वा पलम् ।यः पंचकृष्णलो माषः कुप्ये वा सप्तकृष्णलः ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
स्थौल्ये तु गन्धोपलसैन्ययोश्चरूपे च षण्ढे[65a]सहसि स्त्रियां न ।वाट्यालके स्त्री पलमस्त्रियां स्या-दुन्मानमांसेऽपि च सूक्ष्मकाले ॥ ४७ ॥
इन्द्रवज्राmetre not read in every line
पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना ।पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥
अनुष्टुप्
पाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः ।मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥
अनुष्टुप्
पल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् निष्कसाष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः । दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ १४ ॥ Amarakośa 3.3.14
- कोषकल्पतरु निष्कअष्टाधिकस्वर्णशते च कर्षे वक्षःस्थलालंकरणे च हेम्नः । पात्रे पले पुंसि नपुंसके च दीनारके तद्वदुशन्ति निष्कम् ॥ ११ ॥ Koṣakalpataru 6.1.11
- कोषकल्पतरु मुष्टिवृद्धौ तु पुष्टिः परिपोषणे च यष्टिर्द्वयोर्हारशरे च शस्त्रे । ध्वजस्य दण्डे मधुके च भार्ङ्ग्यां मुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥ Koṣakalpataru 6.10.17
- नानार्थार्णवसंक्षेप आज्यस्युर्बहिष्पवमानाद्यान्यूर्ध्वान्यध्वरकर्मणाम् । उन्मानभेदे च पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.3.11
- नानार्थार्णवसंक्षेप निष्कनिष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले । अजयः शाश्वतश्चैनं हेम्न एवं पलेऽपठीत् ॥ ६८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.687
- नानार्थार्णवसंक्षेप बिल्वश्रीफलाख्ये फले त्वस्य क्ली मानेऽपि पलाह्वये । बिन्दुर्ना विप्रुषि पशुशरीरस्थपृपत्सु च ॥ ८६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.862
- नानार्थार्णवसंक्षेप मुष्टिखड्गादिनश्च ग्रहणप्रदेशे पलसंज्ञके । उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १०११ ॥ Nānārthārṇavasaṃkṣepa 2.5.1011
- शिवकोष पललशिलायां च मनोज्ञायां पललं कर्दमे पले । तिलपिष्टे प्रवालोऽस्त्री किसले विद्रुमद्रुमे ॥ ४६३ ॥ Śivakoṣa 23.2.463
- शब्दरत्नावली मुष्टिम्लिष्टस्त्रिष्वपि चाव्यक्तवाचि म्लाने चिरन्तने । मुष्टिः पले बद्धपाणौ त्सरौ मानभिदि द्वयोः ॥ Śabdaratnāvalī 7.11.24
- शब्दरत्नाकर निष्कहेम्न्युरोभूषणे कर्षे साष्टकर्षशते पले । दीनारेऽपि च निष्कोऽस्त्री नेमिः सीमाव्यवस्थयोः ॥ १९४८ ॥ Śabdaratnākara 4.1.1948
- वैजयन्ती निष्कनिष्कोऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले । वक्षोविभूषणे कर्षे नाथस्त्विंद्रे प्रभावपि ॥ ४५ ॥ Vaijayantī 6.5.45