अभिनिर्याण
abhiniryāṇaक्ली · neut.In 6 kośas: 6 synonym verses.
प्रस्थानं गमनं व्रज्याभिनिर्याणं प्रयाणकम् ॥ ७८९ ॥यात्राभिषेणनं तु स्यात्सेनयाभिगमो रिपौ ।
अनुष्टुप्
genderक्लीneut.
यात्रा व्रज्याभिनिर्याणं प्रयाणं गमनं गमः ।प्रस्थानं च प्रसरणं ननासारः प्रचक्रकम् ॥ ३२८ ॥
अनुष्टुप्
genderक्लीneut.
तत्र लोहाभिसारः स्यादथ स्याद्गमनं गमः ।प्रस्थानमभिनिर्याणं प्रयाणं प्रस्थितिः स्त्रियाम् ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
प्रस्थानमभिनिर्याणं यात्रा व्रज्या प्रयाणकम् ।गमनं चेति नामानि कथ्यन्ते गमनस्य वै ॥ १३११ ॥
अनुष्टुप्
genderक्लीneut.
सेनयाभिगमः शत्रौ तद्भवेदभिषेणनम् ।प्रस्थानमभिनिर्याणं प्रयाणं गमनं गमः ॥
अनुष्टुप्
genderक्लीneut.
प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे ।तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारिणी ॥ २८४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.