कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (10/13)

प्राहरिकाश्च नामानि प्रहरिणां भवन्ति च ।सेनासु नियुक्तजनाः सैन्याः स्युः सैनिकास्तथा ॥ १२४५ ॥
4.1245 · p. 195
metre not recognised

* सेनाभेदाः *

सहस्त्रिणश्च साहस्राः सहस्रस्य निरीक्षकाः ।छायाकरश्छत्रधारः छत्रधारी पुमान् भवेत् ॥ १२४६ ॥
4.1246 · p. 195
अनुष्टुप्
पताकी वैजयन्तिकः सचिह्नछत्रधारकः ।परिचरः परिधिस्थः सेनासंरक्षको भवेत् ॥ १२४७ ॥
4.1247 · p. 196
metre not recognised
आमुक्तः परिमुक्तश्च पिनद्धोऽपिनद्ध इति ।भवेत् कञ्चुकधारी यः संभवेत् सैनिको जनः ॥ १२४८ ॥
4.1248 · p. 196
अनुष्टुप्metre not read in every line
सन्नद्धो वर्म्मितः सज्जः दंशितो व्यूढकङ्कटः ।पुनः कवचितो भेदो युद्धाय गन्तुमुत्सुके ॥ १२४९ ॥
4.1249 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

* कवचनामानि *

सन्नाहः कङ्कटो वर्म तनुत्रं कवचं तथा ।दंशश्च दंशनं त्वक्रं तनुत्राणमुरश्छदः ॥ १२५० ॥
4.1250 · p. 196
अनुष्टुप्
माठिश्च जगरो माठो नामानि कवचस्य वै ।कूर्पासः कञ्चुकश्चापि वारबाणो निचोलकः ॥ १२५१ ॥
4.1251 · p. 196
अनुष्टुप्
भवेदाघातसन्त्राणे लौहनिर्मितवस्तुनि ।सारसनमधिकाङ्गेऽधियाङ्गं धियाङ्गमिति ॥ १२५२ ॥
4.1252 · p. 196
अनुष्टुप्metre not read in every line
कञ्चुकोपरि येनाऽसौ बध्नाति तत्र कथ्यते ।शिरस्त्राणं शिरस्कञ्च शीर्षकं खोलमित्यपि ॥ १२५३ ॥
4.1253 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
शीर्षण्यं चेति वै प्रोक्तं शिरस्त्रे लौहनिर्मिते ।नागोदमुदरत्राणं येनोदरस्य रक्षणम् ॥ १२५४ ॥
4.1254 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
जङ्घात्राणं च मत्कुणं जङ्घयो रक्षणं स्मृतम् ।हस्तत्राणं करे ख्यातं बाहुत्राणं च बाहुलम् ॥ १२५५ ॥
4.1255 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्कु (wrong syllable)
आयसी जालप्राया स्याद् जालिका चाऽङ्गरक्षणी ।आख्यातं विविधं नाम विभिन्नाङ्गस्य रक्षणे ॥ १२५६ ॥
4.1256 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)

* शस्त्रजीविनामानि *

आयुधिकाऽऽयुधीयौ च काण्डपृष्ठस्तथैव च ।शस्त्रजीवी च नामास्ति शस्त्रद्वारा यो जीवति ॥ १२५७ ॥
4.1257 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 धि (wrong syllable); pāda 4, syllable 5 यो (wrong syllable)

* कौन्तिकनाम *

कौन्तिकः प्रासिकश्चैव कुन्तावान् कथ्यते भुवि ।
4.1094 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)

* पारश्वधनामानि *

परश्वधायुधश्चैव पारश्वधस्तथा किल ॥ १२५८ ॥
4.1258 · p. 197
अनुष्टुप्metre not read in every line
पारश्वधिक आख्यातः परशुमान्निगद्यते ।
4.1096 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable); pāda 3, syllable 7 ड्ग (wrong syllable)

* नैस्त्रिंशिकनाम *

नैस्त्रिंशिकोऽपि खड्गवान् शाक्तिकः शक्तिशस्त्रवान् ॥ १२५९ ॥
4.1259 · p. 197
metre not recognised

* याष्टीकनाम *

याष्टीको यष्टिमान् लोके कथ्यते हि मनीषिणा ।
4.1098 · p. 197
अनुष्टुप्

* धनुर्धरनामानि *

धनुर्धरश्च धानुष्को धनुष्मान् पुनरुच्यते ॥ १२६० ॥
4.1260 · p. 197
अनुष्टुप्
तूणी धन्वी धनुर्भृच्च निषङ्गी मन्यते पुनः ।
4.1100 · p. 198
अनुष्टुप्

* काण्डीरनाम *

काण्डीरः काण्डवान् चापि काण्डधारी हि कथ्यते ॥ १२६१ ॥
4.1261 · p. 198
अनुष्टुप्

* कृतहस्तनामानि *

कृतपुङ्खः कृतहस्तः सुप्रयुक्तशरो जनः ।समवेद्यश्च जानाति सम्यग्बाणप्रक्षेपणम् ॥ १२६२ ॥
4.1262 · p. 198
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable); pāda 4, syllable 5 प्र (wrong syllable)

* लघुहस्तनाम *

लघुहस्तः शीघ्रवेधी लक्ष्यं विध्यति शीघ्रतः ।
4.1103 · p. 198
अनुष्टुप्

* भ्रष्टबाणनाम *

भ्रष्टबाणोऽपराद्धेषुर्यो लक्ष्यं नैव साधयेत् ॥ १२६३ ॥
4.1263 · p. 198
अनुष्टुप्

* दूरवेधीनाम *

दूरवेधी दूरापाती दूराल्लक्ष्यं यो विध्यति ।
4.1105 · p. 198
अनुष्टुप्metre not read in every line

* शस्त्रनामानि *

आयुधं हेतिरस्त्रञ्च शस्त्रं प्रहरणं पुनः ॥ १२६४ ॥
4.1264 · p. 198
अनुष्टुप्metre not read in every line
पाणिमुक्ते च शक्तिः स्यात् यन्त्रमुक्ते शरादिकम् ।अमुक्ते शस्त्रिका प्रोक्ता मुक्तामुक्ते यष्टिरिति ॥ १२६५ ॥
4.1265 · p. 198
अनुष्टुप्metre not read in every line

* धनुर्नामानि *

धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् ।इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥
4.1266 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
लस्तकस्तु धनुर्मध्यभागो हस्तेन गृह्यते ।अटनिरटनी चैवमर्त्तिः स्याद्धनुरग्रभाक् ॥ १२६७ ॥
4.1267 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)

* द्रुणानामानि *

गुणो गव्या द्रुणा मौर्वी जीवा शिञ्जा च शिञ्जिनी ।ज्या च बाणासनं चेति जीवारज्जुर्निगद्यते ॥ १२६८ ॥
4.1268 · p. 199
अनुष्टुप्

* गोधानामानि *

ज्याघातवारणं चैव गोधा तलं तथा तला ।एतस्य कथ्यते लोके चर्मणो बाहुबन्धनं ॥ १२६९ ॥
4.1269 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
स्थानान्यालीढवैशाखे प्रत्यालीढं च मण्डलम् ।समपादञ्च विज्ञेया धनुःक्षेपणसंस्थितिः ॥ १२७० ॥
4.1270 · p. 199
अनुष्टुप्

* लक्ष्यनाम *

लक्षं लक्ष्यं निमित्तञ्च वेध्यं स्याच्च शरव्यकम् ।
4.1113 · p. 199
अनुष्टुप्

* बाणनामानि *

बाणः काण्डः कलम्बश्च कादम्बश्चोऽस्त्रकण्टकः ॥ १२७१ ॥
4.1271 · p. 200
अनुष्टुप्
कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः ।आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥
4.1272 · p. 200
अनुष्टुप्
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
4.1273 · p. 200
अनुष्टुप्
पत्रवाहश्च नामानि कथ्यन्ते विबुधैरिषोः ।
4.1117 · p. 200
अनुष्टुप्

* बाणविशेषनामानि *

एषणः सर्वलौहश्च लोहनालोऽवसायकः ॥ १२७४ ॥
4.1274 · p. 200
अनुष्टुप्
प्रक्ष्वेडनश्च नाराचो लोहबाणाभिधानि च ।निरस्तः प्रहितः क्षिप्त क्षिप्तबाणो हि कथ्यते ॥ १२७५ ॥
4.1275 · p. 200
अनुष्टुप्
विषाक्तो लिप्तको दिग्ध श्चोक्तं वै विषवान् शरः ।बाणमुक्तिर्व्यवच्छेदः धनुसङ्गात् प्रयाति यत् ॥ १२७६ ॥
4.1276 · p. 200
अनुष्टुप्
तीव्रता बाणवेगस्य कथ्यते दीप्तिनामतः ।धारवान् लोहबाणस्तु क्षुरप्रो विनिगद्यते ॥ १२७७ ॥
4.1277 · p. 200
अनुष्टुप्
तद्बलो मूषकपुच्छसमानो बाण उच्यते ।अर्द्धेन्दु वै स लोहेषुरर्धचन्द्रेण यः समः ॥ १२७८ ॥
4.1278 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
त्रिशरश्चैकलोहश्च तीरीबाणो निगद्यते ।दण्डासनो उर्द्धनाराचो तोमरो गरुडस्तथा ॥ १२७९ ॥
4.1279 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वावल्लश्चापि भल्लश्च भेदाः ज्ञेयाः शरस्य वै ।पक्षश्च पत्रपाली स्याद् वाजश्छदावलिस्तथा ॥ १२८० ॥
4.1280 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्छ (wrong syllable)
बाणस्कन्धे पक्षन्यासः पत्रणा कथ्यतेऽत्र वै ।कर्त्तरी कर्त्तरिः पुङ्खः बाणमूले प्रयुज्यते ॥ १२८१ ॥
4.1281 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)

* तूणनामानि *

तूणीरो बाणधिस्तूणः शरधिश्च शराश्रयः ।उपासङ्गो निषङ्गश्च कलापश्चेषुधिरपि ॥ १२८२ ॥
4.1282 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)

* कृपाणनामानि *

करपालः कृपाणश्च करवालः करालिकः ।तीक्ष्णधारश्च धाराङ्गो धाराधरो दुरासदः ॥ १२८३ ॥
4.1283 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः ।व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥
4.1284 · p. 201
अनुष्टुप्
मण्डलाग्रो मनुज्येष्ठो धर्मपालः प्रजाकरः ।निस्त्रिंशश्चन्द्रहासोऽपि चन्द्रभासश्च सायकः ॥ १२८५ ॥
4.1285 · p. 201
अनुष्टुप्
ऋष्टिरिष्टिस्तथा रुद्रतनयस्तरवारि हि ।खड्गो धर्मप्रचारश्च प्रसङ्गोऽपि शिवङ्करः ॥ १२८६ ॥
4.1286 · p. 202
अनुष्टुप्
शाता विशसनश्चेति नामानि विलसन्त्यसेः ।खड्गमुष्टिस्त्सरुः ख्यातः कोशस्तु खण्डधारकः ॥ १२८७ ॥
4.1287 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
परिवारः परीवारः प्रत्याकारस्तथैव च ।खड्गपिधानकं खड्गपिधानमपि मन्यते ॥ १२८८ ॥
4.1288 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पि (wrong syllable)

* फलकनामानि *

आवरणं खेटकं खेटः फलकं मड्डनं स्फुरः ।स्फुरकः फरकं चर्म नामानि फलकस्य वै ॥ १२८९ ॥
4.1289 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* सङ्ग्राहनाम *

चर्ममुष्टौ हि सङ्ग्राहः व्यवहारे तु कथ्यते ।
4.1134 · p. 202
अनुष्टुप्

* छुरीनामानि *

अस्त्री शस्त्री क्षुरी पत्रं क्षुरिका छुरिका छुरी ॥ १२९० ॥
4.1290 · p. 202
अनुष्टुप्
धेनुका चाऽसिधेनुश्चाऽसिपुत्री कोशशायिका ।कृपाणिका कृपाणी च कथ्यन्ते नाम संग्रहे ॥ १२९१ ॥
4.1291 · p. 202
अनुष्टुप्
पत्रफला पत्रपालः कुट्टन्ती हुलमातृका ।लम्बायाश्छुरिकाया हि विजानन्ति मनीषिणः ॥ १२९२ ॥
4.1292 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)

* यष्टिनामानि *

दण्डस्तथैव यष्टिश्च लगुडः कथ्यते पुनः ।
4.1138 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त (wrong syllable)

* ईलीनामानि *

ईलिरीली तथा तरवालिका करवालिका ॥ १२९३ ॥
4.1293 · p. 203
अनुष्टुप्metre not read in every line

* सृगनाम *

सृगश्च भिन्दिपालोऽपि करक्षेप्यमथोच्यते ।
4.1140 · p. 203
अनुष्टुप्

* कुन्तनाम *

कुन्तः प्रासश्च नामास्ति प्रख्यातं शस्त्रमत्र वै ॥ १२९४ ॥
4.1294 · p. 203
अनुष्टुप्

* घननामानि *

द्रुघणो मुद्गरश्चैव घनोऽपि मन्यते पुनः ।
4.1142 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)

* पर्शुनामानि *

पर्श्वधः परशुः पर्शुः स्वधितिश्च परश्वधः ॥ १२९५ ॥
4.1295 · p. 203
अनुष्टुप्metre not read in every line
कुठारश्च कुठारस्य नामानि सन्ति षट् पुनः ।
4.1144 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* परिघनामानि *

परिघः पलिघश्चैवं परिघातन उच्यते ॥ १२९६ ॥
4.1296 · p. 203
अनुष्टुप्metre not read in every line
लौहबद्धकाष्ठदण्डे नामत्रयं प्रकीर्तितम् ।
4.1146 · p. 204
metre not recognised

* सर्वलानाम *

दधिमन्थकवद्बाणः स तोमरश्च सर्वला ॥ १२९७ ॥
4.1297 · p. 204
metre not recognised

* शल्यनाम *

किल बाणाग्रभागो वै शङ्कुः शल्यं च कथ्यते ।
4.1148 · p. 204
अनुष्टुप्

* शूलनाम *

त्रिशीर्षकं तथा शूलं त्रिशूलं मन्यते जनैः ॥ १२९८ ॥
4.1298 · p. 204
अनुष्टुप्

* चक्रनामानि *

शक्तिश्चक्रं च दुःस्फोटः पट्टिशः पट्टिसः पुनः ।दुस्फोटश्चेति नामास्ति शतघ्नी तु महाशिला ॥ १२९९ ॥
4.1299 · p. 204
अनुष्टुप्
मुषुण्ढी चिरिका चैव वराहकर्णकः पुनः ।विभिन्नास्त्रस्य नामेदं विभिन्नं ज्ञायतामिह ॥ १३०० ॥
4.1300 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
कासूः महाफला चैवमष्टतालाऽऽयता पुनः ।शक्तिशस्त्रस्य नामानि मन्यन्ते सुधिया सदा ॥ १३०१ ॥
4.1301 · p. 204
अनुष्टुप्
पट्टिसो लोहदण्डश्च तीक्ष्णधारः खुरोपमः ।स्याच्छस्त्रं ह्यस्त्रवल्लोकेऽऽराफलो राफलस्तथा ॥ १३०२ ॥
4.1302 · p. 204
अनुष्टुप्
दुःस्फोटश्चेति दुःस्फोटनाम शस्त्रं हि कथ्यते ।चक्रं वलयप्रायं चाऽरसञ्चितमिह पुनः ॥ १३०३ ॥
4.1303 · p. 204
अनुष्टुप्metre not read in every line
शतघ्नी च चतुस्ताला लोहकण्टकसञ्चिता ।अयःकण्टकसंछन्ना महाशिला च कथ्यते ॥ १३०४ ॥
4.1304 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
कणयो लोहमात्रश्च कथ्यते लोहशस्त्रकम् ।हुलाग्रका नाम शस्त्रं चिरिका नामवद्भवेत् ॥ १३०५ ॥
4.1305 · p. 205
अनुष्टुप्
वराहकर्णको नाम शस्त्रसंज्ञा विशेषतः ।प्रोक्तं वै मुनिना चैतद् हुलं तथाऽस्त्रशेखरम् ॥ १३०६ ॥
4.1306 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* शस्त्रकलाभ्यासनामानि *

उपासनं शराभ्यासो योग्या च खुरली श्रमः ।प्रोक्तः शस्त्रकलाभ्यासोऽभ्यासोऽपि पुनरुच्यते ॥ १३०७ ॥
4.1307 · p. 205
अनुष्टुप्

* शस्त्राभ्यासस्थलनामानि *

शस्त्राभ्यासस्थलं तद्भूः स्यात् खलूरः खलूरिका ।
4.1159 · p. 205
अनुष्टुप्

* सर्वौघनामानि *

सर्वाभिसारः सर्वौघः सर्वसंनहनं पुनः ॥ १३०८ ॥
4.1308 · p. 205
अनुष्टुप्
युद्धार्थं किल सेनायाः प्रयाणे कथ्यते भुवि ।
4.1161 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* लोहाभिसारनामानि *

लोहाभिसारश्च नीराजनं निराजनाविधिः ॥ १३०९ ॥
4.1309 · p. 205
अनुष्टुप्metre not read in every line
एतत् कथ्यते दशम्यां विधिर्नीराजनात् परः ।युद्धयात्रापूर्वकाले शस्त्रपूजाविधौ किल ॥ १३१० ॥
4.1310 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 थ्य (wrong syllable)

* प्रस्थाननामानि *

प्रस्थानमभिनिर्याणं यात्रा व्रज्या प्रयाणकम् ।गमनं चेति नामानि कथ्यन्ते गमनस्य वै ॥ १३११ ॥
4.1311 · p. 206
अनुष्टुप्

* अभिषेणननाम *

स्यादऽभिषेणनं शत्रौ सेनयाऽभिगमः खलु ।
4.1165 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 भि (wrong syllable); pāda 4, syllable 3 ब (wrong syllable)

* सुहृद्बलनाम *

सुहृद्बलं तथाऽऽसारः मित्रबलं हि कथ्यते ॥ १३१२ ॥
4.1312 · p. 206
metre not recognised

* प्रचक्रनाम *

पुनः प्रोक्तं हि लोकेऽपि प्रचक्रं चलितं बलम् ।
4.1167 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)

* प्रसारनाम *

प्रसरणं प्रसारः स्यात् तृणकाष्ठादिहेतवे ॥ १३१३ ॥
4.1313 · p. 206
अनुष्टुप्metre not read in every line

* अभिक्रमनाम *

रणे यानमभीतस्य रिपून् प्रति ह्यभिक्रमः ।
4.1169 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* अभ्यमित्र्यनामानि *

अभ्यमित्रोऽभ्यमित्रीणोऽभ्यमित्रीयोऽभ्यरि व्रजन् ॥ १३१४ ॥
4.1314 · p. 206
अनुष्टुप्metre not read in every line

* उरसिलनाम *

उरसिल उरस्वान् स्याद् विशाल उरवान् स हि ।
4.1171 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)

* ऊर्जस्वलनामानि *

ऊर्जस्व्यूर्जस्वलौ प्रोक्तमूर्जस्वान् पुनरुच्यते ॥ १३१५ ॥
4.1315 · p. 207
अनुष्टुप्metre not read in every line

* सांयुगीननाम *

सांयुगीनो हि संग्रामे कुशलः कथ्यते बुधैः ।
4.1173 · p. 207
अनुष्टुप्

* जेतृनामानि *

जेता च जित्वरो जिष्णुः जैत्रश्च विजयी पुनः ॥ १३१६ ॥
4.1316 · p. 207
अनुष्टुप्
जेतृनामानि प्रोक्तानि विजयिनो जनस्य हि ।
4.1175 · p. 207
अनुष्टुप्metre not read in every line

* जय्यनाम *

लोके यः शक्यते जेतुं स जय्यः कथ्यते जनैः ॥ १३१७ ॥
4.1317 · p. 207
अनुष्टुप्metre not read in every line

* जेयनाम *

पुनश्च मन्यते लोकैः जेयो जेतव्यमात्रके ।
4.1177 · p. 207
अनुष्टुप्

* वैतालिकनामानि *

सौखशायनिकः सौखशाय्यकः सौखसुप्तिकः ॥ १३१८ ॥
4.1318 · p. 207
अनुष्टुप्
अर्थिकश्चापि वैतालिकश्च बोधकरः पुनः ।बन्दीजनोऽपि नामानि षट्सन्ति व्यवहारतः ॥ १३१९ ॥
4.1319 · p. 207
अनुष्टुप्
घाण्टिकाश्चाक्रिकाः बन्दी सूतो मङ्गलपाठकः ।मगधो मागधो मङ्खः इति नामानि स्युः पुनः ॥ १३२० ॥
4.1320 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)

* स्तुतिव्रतनाम *

स्तुतिव्रतस्तथा नग्नः स्तुतिपाठक उच्यते ।
4.1181 · p. 208
अनुष्टुप्metre not read in every line

* भोगावलीनाम *

स्तुतिपाठकग्रन्थस्तु भोगावली निगद्यते ॥ १३२१ ॥
4.1321 · p. 208
अनुष्टुप्metre not read in every line

* पराक्रमनामानि *

शुष्म शुष्मं सहः शौर्यं बलं प्राणः पराक्रमः ।ऊर्ज्जा ऊग्द्रविणं द्युम्नं स्थाम शक्तिस्तथा तरः ॥ १३२२ ॥
4.1322 · p. 208
अनुष्टुप्
ओजः पराक्रमस्येति नामानि संभवन्ति वै ।
4.1184 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* युद्धनामानि *

युद्धं सङ्ख्यं च सङ्ग्रामः सम्मर्दश्च समाह्वयः ॥ १३२३ ॥
4.1323 · p. 208
अनुष्टुप्metre not read in every line
संङ्गरः संयुगं संयत् समितिः साम्परायिकम् ।समुदायः समाघातः समुदयः समित् मृधम् ॥ १३२४ ॥
4.1324 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
समीकमऽभिसम्पातः प्रघातः प्रविदारणम् ।संस्फेटश्चापि संफेटः संस्फोटः समरो रणः ॥ १३२५ ॥
4.1325 · p. 209
अनुष्टुप्
आजिरास्कन्दनं द्वन्द्वं प्रधनं प्रविदारणम् ।आहवः सम्प्रहारो युत् प्रहरणं कलहः कलिः ॥ १३२६ ॥
4.1326 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रह (syllable split)
आयोधनं तथा राटिः समितिश्चापि विग्रहः ।तथाऽऽक्रन्दोऽप्यनीकश्चाऽभ्यामर्दोऽभ्यागमः पुनः ॥ १३२७ ॥
4.1327 · p. 209
अनुष्टुप्
एतन्नामानि कथ्यन्ते युद्धस्य विबुधैः किल ।
4.1190 · p. 209
अनुष्टुप्

* नियुद्धनाम *

नियुद्धं बाहुयुद्धं च कथ्यते तद्भुजोद्भवम् ॥ १३२८ ॥
4.1328 · p. 209
अनुष्टुप्

* युद्धपटहनाम *

पटहाऽऽडम्बरौः प्रोक्तौ युद्धस्य पटहे सदा ।
4.1192 · p. 209
अनुष्टुप्

* तुमुलनाम *

युद्धं कोलाहलैर्युक्तं तुमुलं रणसङ्कुलम् ॥ १३२९ ॥
4.1329 · p. 209
अनुष्टुप्

* नासीरनाम *

अग्रयानं च नासीरं युद्धाग्रे गमनं भवेत् ।
4.1194 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)

* पीडननाम *

पीडनमवमर्दः स्याद् शत्रुतो देशपीडने ॥ १३३० ॥
4.1330 · p. 210
अनुष्टुप्metre not read in every line

* प्रपातनामानि *

अवस्कन्दोऽभ्यवस्कन्दोऽभ्यासादनं तथैव च ।घाटिर्घाटी प्रपातश्चाऽऽक्रमणं छलतो भवेत् ॥ १३३१ ॥
4.1331 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)

* सौप्तिकनाम *

सौप्तिकं छलतो रात्रावाक्रमणं हि कथ्यते ।
4.1197 · p. 210
metre not recognised

* वीराशंसननामानि *

आजिभीष्मभूश्च वीराशंसनं वीराशंसनी ॥ १३३२ ॥
4.1332 · p. 210
metre not recognised
संहारकारिणी युद्धभूम्यां तोमे त्रयं सदा ।
4.1199 · p. 210
अनुष्टुप्

* नियुद्धभूनाम *

नियुद्धभूरक्षवाहा मल्लयुद्धस्थलं भवेत् ॥ १३३३ ॥
4.1333 · p. 210
अनुष्टुप्