कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भूमिकाण्डः · ब्रह्मवर्गप्रकाशः (3/4)

अन्धुरन्धुः षडेवैते हस्तिनां निगडे मनाः ।अङ्कुशोऽस्त्री हस्तिवाहः शृणिः सृणिरपि द्वयोः ॥
3.6.241 · p. 127
अनुष्टुप्
चूषा चूष्या वरत्रा स्यात् कक्ष्या बन्धनरज्जुषु ।कल्पना सज्जना चेति हस्तिसज्जीकृतौ द्वयम् ॥
3.6.242 · p. 127
अनुष्टुप्
कुथः कुथा प्रवेणी स्त्री रोलवर्णस्तथास्तरः ।परिस्तोमोऽस्यास्तरणं कुथञ्च चित्रकम्बले ।युद्धाक्षमञ्च हस्त्यश्वं वीतमित्यभिधीयते ॥
3.6.243 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
अथ वारिश्च वारी स्यात् प्रारब्धिर्गजबन्धनी ।आरण्यादिकमातङ्गा बध्यन्ते यत्र रज्जुषु ॥
3.6.244 · p. 127
अनुष्टुप्
विधा विधानं द्वितयं गजान्ने परिकीर्तितम् ।अथ पाकनमस्त्री तु गजपित्तज्वरे मतम् ॥
3.6.245 · p. 127
अनुष्टुप्
कूटपाकनमस्त्री स्यात् हस्तित्रिदोषजे ज्वरे ।घोटकस्तुरगो वाजी तुरङ्गश्च तुरङ्गमः ॥
3.6.246 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
गन्धर्वः सैन्धवो वाहः पीतिर्वातायनी हयः ।श्रीपुत्रश्चामरी ह्रेषी शालिहोत्रे मरुद्रथः ॥
3.6.247 · p. 128
अनुष्टुप्
राजस्कन्धो हरिद्रान्तः सप्तिरेकशफो हरिः ।अर्वाश्ववीतयः किन्धी नलानञ्च (?) विमानकः ॥
3.6.248 · p. 128
अनुष्टुप्
आजानेयस्त्वजानेयः कुलीनो जात्य एव च ।वाताश्विरपि पञ्चैते प्रकृष्टचतुरङ्गमे ॥
3.6.249 · p. 128
अनुष्टुप्
साधुवाही विनीतः स्यात् सुष्टुवाहनशीलके ।वनायुदेशजावश्वौ वानायुजवनायुजौ ॥
3.6.250 · p. 128
अनुष्टुप्
काम्बोजदेशजातोऽश्वः काम्बोज इति कीर्तितः ।वाह्लिकोऽपि च वाह्लीको हयो वाह्लीकदेशजः ॥
3.6.251 · p. 128
अनुष्टुप्
एते हयविशेषाः स्युरन्येऽपि देशभेदतः ।अश्वमेधीयतुरगो ययुर्यायावरोऽपि च ॥
3.6.252 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
पञ्चभद्रस्तु पञ्चाङ्गपुष्पिते स्यात्तुरङ्गमे ।अथ सूर्यतुरङ्गेषु वाताटा हरितोऽपि च ॥
3.6.253 · p. 128
अनुष्टुप्
जवाधिकस्तु जवनस्तुङ्गवेगतुरङ्गमं ।भारवाहनशीलेऽश्वे पृष्ठ्यः स्थौरी च कीर्तितः ॥
3.6.254 · p. 128
अनुष्टुप्
रथ्यो रथस्य वीटाश्वः कर्को धवलघोटकः ।किशोरो बालतुरगो वाम्यश्वा वडवाश्विका ॥
3.6.255 · p. 128
अनुष्टुप्
वडवानां समूहे तु वाडवं समुदाहृतम् ॥
3.6.256 · p. 128
अश्वीय आश्व अश्वीयः स्यादश्वनिवहे त्रयम् ॥
3.6.257 · p. 128
अश्वानां हृदयावर्ते श्रीवृक्षक उदाहृतः ।रोचमानस्तु विज्ञेयः आवर्ते तु गलोद्भवे ॥
3.6.258 · p. 128
अनुष्टुप्
ऊर्ध्वस्थितौ तुरङ्गानां क्लीबे पुरुषकं भवेत् ।अश्वानां विक्रमेऽर्थे तु विक्रान्तिः स्यात् पुलायितम् ॥
3.6.259 · p. 128
अनुष्टुप्
आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् ।अमूः पञ्चतुरङ्गानां गतयः परिकीर्तिताः ॥
3.6.260 · p. 128
अनुष्टुप्
आस्कन्दितं मन्दगते भृशे धोरितकं भवेत् ।रेचितं मण्डलाकारे वल्गितं दृढवेगिते ॥
3.6.261 · p. 128
अनुष्टुप्
उत्प्लुत्योत्प्लुत्यगमने प्लुतमित्यभिधीयते ।आसु पञ्चसु धारा स्त्री धारो न बहुसम्मतः ॥
3.6.262 · p. 128
अनुष्टुप्
घोणा प्रोथोऽस्त्रियामश्वनासिकायां भवेद्द्वयम् ।खलीनखलिनावस्त्री कवियं कविकापि च ।वल्गा दन्तालिका चेति दन्तसञ्चालिकेत्यपि ॥
3.6.263 · p. 128
अनुष्टुप्
खुरः क्षुरः शफं क्लीबे विङ्खा विङ्खः पुटोऽस्त्रियाम् ।पुच्छोऽस्त्री पिच्छलाङ्गूललङ्गूललूमलाङ्गूलम् ॥
3.6.264 · p. 129
अनुष्टुप्metre not read in every line
हयपुच्छाग्रपर्यायः पुच्छमात्रे च कुत्रचित् ।बालहस्तो वालधिः स्याद् दनामा (?) बाल इत्यपि ॥
3.6.265 · p. 129
अनुष्टुप्
पर्यायणं पल्ययनं हयजीनाह्वये द्वयम् ।भूमौ मुहुः परावृत्ते हये लुण्ठितवेल्लितौ ॥
3.6.266 · p. 129
अनुष्टुप्
उपावृत्तश्च त्रिष्वेते समे लुठनवेल्लने ।शताङ्गस्यन्दनरथा युद्धमाने तु चक्रिणि ॥
3.6.267 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
पुष्परथश्चक्रयानं संग्रामायोग्ययानके ।नन्दिघोषोऽर्जुनरथे नीतिघोषो बृहस्पतेः ॥
3.6.268 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
कर्णीरथः प्रहरणं हयनञ्च निगद्यते ।नयनार्थं स्त्री नराणां क्लिप्ते क्षुद्ररथे त्रयम् ॥
3.6.269 · p. 129
अनुष्टुप्
अनः क्लीबे तु शकटं शकटोऽक्षः पुमानपि ।शकटे वृषवाह्ये तु गन्त्री स्त्री गन्त्रिरित्यपि ॥
3.6.270 · p. 129
अनुष्टुप्
शिविका याप्यमानं तु झापान इति विश्रुते ।दोला प्रेङ्क्षा च दोली स्यात् खटला दोलिकापि च ॥
3.6.271 · p. 129
अनुष्टुप्
वरदोलेश्वराणाञ्च तथा स्याद्वरदोलिका ।द्वीपिचर्मावृतरथे द्वैपो वैयाघ्र इत्यपि ॥
3.6.272 · p. 129
अनुष्टुप्
रथे पाण्डुकम्बले तु स भवेत् पाण्डुकम्बली ।अथ वास्त्रः काम्बलञ्च वस्त्रैर्वा कम्बलैर्वृतः ॥
3.6.273 · p. 129
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्डु (wrong syllable)
त्रिषु द्वैपादयः पूर्वे पञ्चैते बहुसम्मताः ।रथ्या च रथकड्या च द्वयमेव रथव्रजे ॥
3.6.274 · p. 129
अनुष्टुप्
क्लीबे यानमुखं धूः स्त्री रथाग्रभागके द्वयम् ।रथावयवसामान्ये रथाङ्गं स्यादवस्करः ॥
3.6.275 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
अरिश्चक्रं रथाङ्गञ्च रथचक्रे निगद्यते ।चक्रप्रान्ते प्रधिः पुंसि नेमिर्नेमी च सा स्मृता ॥
3.6.276 · p. 129
अनुष्टुप्
चक्राकारे चक्रमध्ये नाभिर्नाभी च पिण्डिका ।द्वयोराणिरणिश्चापि अक्षाग्रकीलके द्वयम् ॥
3.6.277 · p. 129
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ग्र (wrong syllable)
वरूयो रथगुप्तिः स्त्री काण्डादिरथरक्षणे ।युगकाष्ठञ्च यत्रास्ते नौ युगन्धरकूवरौ ॥
3.6.278 · p. 129
अनुष्टुप्
चक्राधोधारणे काष्ठे त्वनुकार्षोऽनुकर्षकः ।प्रासङ्गो वत्सदमने शकटस्य युगाद्युगे ॥
3.6.279 · p. 129
अनुष्टुप्
सर्वस्मिन् वाहने यानं विमानञ्चापि धोरणम् ।युग्यं पत्रं चङ्कुरञ्च यापनं गतिमित्रकम् ॥
3.6.280 · p. 129
अनुष्टुप्
साक्षात् न वाह्यते यत्तु तद्वैनीतकमस्त्रियाम् ।हस्त्यारोहः हस्तिपकस्त्वाधोरण-निषादिनौ ॥
3.6.281 · p. 130
अनुष्टुप्
सूतः क्षत्ता नियन्ता च प्रवेता प्राजितापि च ।सव्येष्ठोऽपि च सव्येष्ठा दक्षिणस्थश्च सारथिः ॥
3.6.282 · p. 130
अनुष्टुप्
तथा रथकुटुम्बी च रथाङ्को रथनागरः ।रथिनस्तु रथारोहाः हयारोहाश्च सादिनः ॥
3.6.283 · p. 130
अनुष्टुप्
योद्धा भटश्च योधः स्यात् सेनारक्षस्तु सैनिकः ।अथ सेनासमवेतास्ते तु सैन्याश्च सैनिकाः ॥
3.6.284 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
ये सहस्रेण बलिनस्ते साहस्राः सहस्रिणः ॥
3.6.285 · p. 130
परिधिस्थः परिचरो युद्धादौ रथरक्षके ॥
3.6.286 · p. 130
सेनापतौ च सेनानीर्वाहिनीपतिरित्यपि ।कञ्चुकोऽस्त्री वारवाणो वाणवारोऽपि वारणम् ॥
3.6.287 · p. 130
अनुष्टुप्
मध्ये दृढार्थं वध्रन्ति यद्यदेव सकञ्चुकाम् ।अधिकाङ्गं सारसनं द्वयं तत्र समीरितम् ॥
3.6.288 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
शिरस्त्राणे तु शीर्षण्यं शिरस्त्रमपि शीर्षकम् ॥
3.6.289 · p. 130
कवचोऽस्त्री तनुत्रञ्च दंशनं स्यादुरश्छदः ॥
3.6.290 · p. 130
सन्नाहो वर्मजगरस्तथा कङ्कटकोऽपि च ।अपिनद्धः पिनद्धः स्यादामुक्तः प्रतिमुक्तवत् ॥
3.6.291 · p. 130
अनुष्टुप्
स्यात् परिहितवस्त्रादौ चत्वारः समुदाहृताः ।ऊटकङ्कटसन्नद्धौ दंशितः सज्जवर्मितौ ।पञ्चकं कृतसन्नाहे अपिनद्धादयस्त्रिषु ॥
3.6.292 · p. 130
अनुष्टुप्metre not read in every line
समूहे स्यात् कवचिनामुक्तं कावचिकं बुधैः ।पत्तिः पदातिः पतगः पादातिकपदातिकौ ॥
3.6.293 · p. 130
अनुष्टुप्
पदाजिः पादगः पद्गः पादात् पादाविकः पदात् ।पायिकः शवरालिः स्यादेते पुंसि त्रयोदश ॥
3.6.294 · p. 130
अनुष्टुप्
अथ पत्तिसमूहे तु पादातमभिधीयते ॥
3.6.295 · p. 130
काण्डपृष्ठश्चायुधीयस्तथा चायुधिकोऽपि च ॥
3.6.296 · p. 130
शस्त्राजीवः काण्डस्पृष्टः शस्त्रधारणजीविके ।कृतपुंङ्क्षः सुप्रयोग विशिखः कृतहस्तकः ॥
3.6.297 · p. 130
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
सुशिक्षितेषु मोक्षे तु पुरुषे परिकीर्तितः ।अपराद्धः पृषत्कोऽयं लक्ष्यच्युतशरो हि यः ॥
3.6.298 · p. 130
अनुष्टुप्
धनुष्मान् धन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धराः ।काण्डीरः काण्डवान् काण्डी काण्डमात्रायुधे जने ॥
3.6.299 · p. 130
अनुष्टुप्
शक्तिहेतिकशाक्तीकौ शक्त्यायुधधरे द्वयम् ।स्यात् पारश्वधिकः पर्शुतिकः परशुधारके ॥
3.6.300 · p. 130
अनुष्टुप्
याष्ठिको यष्टिहेतिः स्यात् नैस्त्रिंशिकोऽसिहेतकः ।प्रासिकः कौन्तिकश्चापि भवेत् कुन्तकरे द्वयम् ॥
3.6.301 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
चर्मी फलकपाणिः स्यात् चर्मीणः फलकालकः ।पताकाधारके पुंसि पताकी वैजयन्तिकः ॥सहायोऽनुप्लवश्चानुचरोऽभिसर इत्यपि ।प्रतिक्षसः सदारक्षः प्रतिष्कशश्च कुत्रचित् ॥
3.6.302 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
अग्रेसरोऽप्यग्रसरोऽग्रतःसर-पुरःसरौ ।पुरोगमः पुरोगश्च प्रष्ठो नासीर इत्यपि ॥
3.6.303 · p. 131
अनुष्टुप्
नासीरं नायकस्याग्रेसरिका चह्रिकेत्यपि (?) ।मन्दगामी स्वैरगामी मन्थरो मन्द इत्यपि ॥
3.6.304 · p. 131
अनुष्टुप्
जङ्घालोऽतिजवोऽत्यर्थे वेगयुक्तजने द्वयम् ।अथ डाकचकी आख्ये जङ्घाकरिक-जाङ्घिकौ ॥वेगी तरस्वी प्रजवी त्वरितो जवनो जवः ।जेतुं शक्यो हि जय्योऽसौ जेतव्ये जेय इत्यपि ॥
3.6.305 · p. 131
अनुष्टुप्
जेता जैत्रो जेतृमात्रे जयशीले तु कुत्रचित् ।अत्यर्थं यो व्रजेत् शत्रुं प्रति निःशङ्कमानसः ॥सोऽभ्यमित्रोऽभ्यमित्रीयोऽभ्यमित्रीण इत्यपि ।स्यादूर्जस्वल ऊर्जस्वी पराक्रमबलाधिके ॥अथोरस्वानुरसिलः बृहद्वक्षःस्थले जने ॥
3.6.306 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रथस्वामिनि साराक्षः रथिको रथिनो रथी ।कामङ्गास्यनुकामीनो यथेष्ठगामिनि द्वयम् ॥
3.6.307 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ठ (wrong syllable)
अत्यर्थगतिशीलस्तु जनोऽत्यन्तीन उच्यते ।वीरे विक्रान्तशूरौ च जिष्णुर्जेता च जित्वरः ॥
3.6.308 · p. 131
अनुष्टुप्
रणे साधुः सांयुगीनः काण्डष्पृष्टादयस्त्रिषु ।पृतनानीकिनी सेनाध्वजिनी वाहिनी चमूः ॥
3.6.309 · p. 131
अनुष्टुप्
वाहना गुल्मिनी सैव वरचक्षुर्वरूथिनी ।अनीकमस्त्रियां सैन्यं बलं चक्रं चतुष्टयम् ॥
3.6.310 · p. 131
अनुष्टुप्
सेनायां केचिदित्याहुः सेनाङ्गेऽपि च कुत्रचित् ।सन्नद्धस्य तु सैन्यस्य विन्यासः स्यानभेदतः ॥
3.6.311 · p. 131
अनुष्टुप्
स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् ।व्यूहभेदास्तु चत्वारो दण्डभोगश्च मण्डलः ॥
3.6.312 · p. 131
अनुष्टुप्
असंहतश्च निर्णीतो नीतिसारादिसम्मताः ॥
3.6.313 · p. 131
अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित् ।तिर्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्वावृत्तिरेव हि ।मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥
3.6.314 · p. 131
अनुष्टुप्
सैन्यानां नीतिसारादौ व्यूहभेदाः समीरिताः ।क्रौञ्चचक्रादिभेदानां लक्षणं भारतादिषु ॥
3.6.315 · p. 132
अनुष्टुप्
प्रत्यासारो व्यूहपार्ष्णिः प्रत्यासर इति त्रयम् ।व्यूहस्य पश्चाद्भागे वा व्यूहमध्ये च कुत्रचित् ॥
3.6.316 · p. 132
अनुष्टुप्
यन्त्रस्थः प्रतिगृह्णाति स्वसैन्यं भूपतिः स्वयम् ।तस्य सैन्यस्य पश्चात्तु धनुः शतद्वयान्तरे ॥
3.6.317 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
तत्त्वानभिज्ञसंघाते प्रतिग्रहपरिग्रहौ ।एको हस्ती रथश्चैकस्त्रयोऽश्वाः पञ्चपत्तयः ॥
3.6.318 · p. 132
अनुष्टुप्
मिलिता यत्र सेनायां सा पत्तिरभिधीयते ।पत्त्यङ्गैस्त्रिगुणैरेभिः सेनामुखमुदाहृतम् ॥
3.6.319 · p. 132
अनुष्टुप्
सेनामुखे त्रिगुणिते गुल्मस्तत् त्रिगुणे गणः ।गणस्त्रिभिर्वाहिनी स्यात् पृतना वाहिनी त्रयम् ॥
3.6.320 · p. 132
अनुष्टुप्
तिसृभिः पृतनाभिस्तु चमूस्तस्या गुणत्रये ।अनीकिनी तद्दशभिर्गुणैरक्षौहिनी भवेत् ॥
3.6.321 · p. 132
अनुष्टुप्
अथ लक्ष्मीः स्त्रियां सम्पत् सम्पत्तिः श्रीश्च कीर्तिता ।एता अपि स्त्रियां तिस्रो विपदापद्विपत्तयः ॥
3.6.322 · p. 132
अनुष्टुप्
अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधम् ।अस्त्रियौ तु धनुश्चापौ धनुकोदण्डकार्मुकम् ॥
3.6.323 · p. 132
अनुष्टुप्
धनुर्ना तावरं क्लीबे स्यादिष्वासः शरासनम् ।तृणता काण्डमित्येवं क्वचित् केचित् प्रचक्षते ॥
3.6.324 · p. 132
अनुष्टुप्
अथ कालं कालपृष्ठं भवेत् कर्णस्य कार्मुके ।अर्जुनस्य च गाण्डीव-गाण्डिवौ न स्त्रियां द्वयम् ॥
3.6.325 · p. 132
अनुष्टुप्
अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि ।ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥
3.6.326 · p. 132
अनुष्टुप्
गोधतला च केषाञ्चिन्मतं … ।क्वचिद्गोधास्त्रियामेका ज्याघात वारणे… ॥
3.6.327 · p. 132
metre not recognised
अङ्गुलित्रं शस्तकञ्च तथा चाङ्गुष्ठरक्षकम् ॥
3.6.328 · p. 132
लस्तको ना धनुर्मध्यमस्त्रियां लस्तमित्यपि ।गुणः शिञ्जा शिञ्जिनी ज्या मौर्वी जीवा पतङ्गिका ॥
3.6.329 · p. 132
अनुष्टुप्
तृत् प्रत्यालीढमालीढं समपादं तथा पवम् ।वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥
3.6.330 · p. 132
अनुष्टुप्
स्याद्दक्षपादसंकोचात् वामपादप्रसारणात् ।प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्ययात् ॥
3.6.331 · p. 133
अनुष्टुप्
तुल्यं पादयुगं यत्र समपादमुदाहृतम् ।वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते ॥
3.6.332 · p. 133
अनुष्टुप्
मण्डलाकारपादाभ्यां मण्डलस्थानमीरितम् ।शरण्यं प्रतिकायः स्याद् वेध्यं लक्ष्यञ्च लक्षवत् ॥
3.6.333 · p. 133
अनुष्टुप्
उपासनञ्च खुरली शास्त्राभ्यासो विकर्षणम् ।वाणः पत्री चित्रपुङ्खः सायको विशिखः शरः ॥
3.6.334 · p. 133
अनुष्टुप्
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
3.6.335 · p. 133
अनुष्टुप्
अजिह्मगः शरुर्वाजी पत्रवाहोऽस्त्रकण्टकः ।प्रक्ष्वेडनो लोहनालो नाराचः स्यादयोमये ॥
3.6.336 · p. 133
अनुष्टुप्
पक्षवाजौ वाणपक्षे तीरो निष्फलसायके ॥
3.6.337 · p. 133
अतस्त्रिष्वपि दिग्धान्तं निरस्तः प्रहिते शरे ॥
3.6.338 · p. 133
विषाक्ते सायके तीक्ष्नो लिप्तको दिग्ध इत्यपि ।उपासङ्गो निषङ्गश्च तूणीरइषुधिर्द्वयोः ॥
3.6.339 · p. 133
अनुष्टुप्
तूणी तूणश्च षट्कं स्यादुक्तं टोनसमाह्वये ।अथ खड्गश्चन्द्रहासो मण्डलाग्रः प्रवालकः ॥कौक्षेयको विशसनः कृपाणः करपालकः ।भद्रात्मजो रिष्टिरिष्टौ ऋष्टिर्द्वाराविषोऽपिच ॥
3.6.340 · p. 133
अनुष्टुप्
कौक्षेयस्तरवारिः स्यात्तरवारः कृपाणकः ।निस्त्रिंशः करवारोऽसिः कृपाणी शस्त्र इत्यपि ॥
3.6.341 · p. 133
अनुष्टुप्
कटीतलोऽनुच्चखड्गो वक्रखड्गो निगद्यते ।खड्गादिशस्त्रमुष्ट्यान्तु द्वयोर्मुष्टित्सरुः पुमान् ॥
3.6.342 · p. 133
अनुष्टुप्
तत्र तालतलश्चेति क्वचित् केचित् प्रचक्षते ।मेखलाच्छीकला क्षेतु खड्गादिकनिबन्धने ॥
3.6.343 · p. 133
अनुष्टुप्
उड्डनञ्चद्रुफलाकचर्मास्त्री फलकं फलम् ।तथा फलकमुष्टौ तु संग्राहोऽपि च संग्रहः ॥
3.6.344 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
मुद्गराकारशस्त्रे तु द्रुघनो मुद्गरो घोनः ।लोहदण्डे च लगुडः परिघः परिघातकः ॥
3.6.345 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 घो (wrong syllable)
दण्डान्विते स्वल्पखड्गे स्यादीली विलिका च सा ।कुली च करपाली च गुप्तिका करपालिका ॥
3.6.346 · p. 133
अनुष्टुप्
भिन्दिपालसृगौ हस्तप्रमाणे काण्डशस्त्रके ।द्वयोः कुठारः परशुः पर्शुश्चापि परस्वधः ॥
3.6.347 · p. 133
अनुष्टुप्
परश्वधः श्वधितिः स्त्री स्वधितिष्टङ्क इत्यपि ।छुरिका च्छूरिका शस्त्री त्वसिपत्र्यसिधेनुका ॥
3.6.348 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
पुंनपुंसकयोः शल्यं पुंसि शङ्कुविषाक्षरौ ।शूलं समीकं समिकं त्रिशूलन्तु त्रिजालकम् ॥
3.6.349 · p. 134
अनुष्टुप्
तोमरोऽस्त्री शर्वला च सर्वला सर्वलीत्यपि ।कुन्तो दीर्घायुधः प्रासप्राशौ च शल इत्यपि ॥
3.6.350 · p. 134
अनुष्टुप्
अथ शक्तिश्च शक्ती च यष्टिर्यष्टी च यष्टिका ।दण्डकाण्डोऽपि लगुडः पशुघ्नो दण्डकोऽपि च ॥
3.6.351 · p. 134
अनुष्टुप्
कोणः स्त्रियां पालिरत्रीः कोटिरस्रन्तु न स्त्रियाम् ।अश्रिरश्रः पालिका च केचिदेवं प्रचक्षत ॥
3.6.352 · p. 134
अनुष्टुप्
सर्वाभिसारः सर्वौघः सर्वसन्नहनन्तथा ॥
3.6.353 · p. 134
अथ शस्त्रभृतां राज्ञामश्वादीनाञ्च शास्त्रनः ॥
3.6.354 · p. 134
महानवमी दीक्षादौ निर्मुञ्च्छनविधौ द्वयम् ।लोहाभिसार इत्येष लोहाभिहार इत्यपि ॥
3.6.355 · p. 134
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मी (wrong syllable); pāda 4, syllable 3 भि (wrong syllable)
सेनयाभिगमः शत्रौ तद्भवेदभिषेणनम् ।प्रस्थानमभिनिर्याणं प्रयाणं गमनं गमः ॥
3.6.356 · p. 134
अनुष्टुप्
यात्रा व्रज्या प्रस्थितिश्च यानं प्राणनमित्यपि ।स्यादासारः प्रसरणं तथा प्रसरणीति च ॥सर्वतो व्याप्यसैन्यानां प्रसारे त्रयमुच्यते ।त्रिषु प्रचक्रं चलितं चलितार्थे भवेद्द्वयम् ॥
3.6.357 · p. 134
अनुष्टुप्
अभिक्रमे रणे शत्रून् प्रत्यभीतस्य सङ्गते ।वैतालिको बोधकरः प्रभातबोधकारिणि ॥
3.6.358 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
मिलिता बहवो ये तु भवेयुः स्तुतिकारकाः ।चक्रिकास्ते निगदिताश्चाक्रिका अपि कुत्रचित् ॥
3.6.359 · p. 134
अनुष्टुप्
घण्टावाद्यस्तावका ये घाण्टिका घण्टिकाश्च ते ।वंशक्रमोचितज्ञानावंशस्तुतिकरास्तु ये ॥
3.6.360 · p. 134
अनुष्टुप्