कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)

तृतीयः काण्डः (3/3)

कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः ।भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक् ॥ २४१ ॥
3.241 · p. 208
अनुष्टुप्
इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति ।हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-कीर्मिरौ ॥ २४२ ॥
3.242 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्द्र (wrong syllable)
हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ ।बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवः ॥ २४३ ॥
3.243 · p. 208
अनुष्टुप्
पाण्डवायनाश्चाऽर्जुनधनौ गाण्डीव-गाण्डिवौ ।धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥
3.244 · p. 208
अनुष्टुप्metre not read in every line
सालोऽपि, परिवारे तु परेर्बर्हश्च बर्हणम् ।आतपत्रे प्रतपत्रं छत्रं छत्रश्च छत्र्यपि ॥ २४५ ॥
3.245 · p. 208
अनुष्टुप्metre not read in every line
रोमगुच्छे चामरं स्याच्चामरश्चामरस्तथा ।चामरापि, भृङ्गारे त्वालूराण्डूः, सचिवे पुनः ॥ २४६ ॥
3.246 · p. 208
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भृ (wrong syllable)
अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके ।प्रतीहारः प्रतिहारो द्वाःस्थो द्वाःस्थितदर्शकः ॥ २४७ ॥
3.247 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
द्वाःस्थितो दर्शकस्तद्वत् द्वाःस्थितादर्श्यऽपि स्मृतः ।सूदाध्यक्षे पुरोगुः स्यात् तथा पौरोगवोऽपि च ॥ २४८ ॥
3.248 · p. 208
अनुष्टुप्
सूपकारे सूप-सूदौ स्यादन्तःपुरके पुनः ।आन्तर्वेश्मिकयुगान्तर्वंशिकोऽन्तःपुरे समौ ॥ २४९ ॥
3.249 · p. 209
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 यु (wrong syllable)
अवरोधनावरोधौ भवेत्कञ्चुकिके पुनः ।कञ्चुकी सौविदिल्लश्च सौविदः, स्थपतिस्तथा ॥ २५० ॥
3.250 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध (wrong syllable)
स्थापत्यः स्थापतीकश्च रिपौ शत्रुः सशात्रवः ।अभिमातिरभियातिरारातिश्चाऽप्यरातियुक् ॥ २५१ ॥
3.251 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
ऋष्व-ऋश्वौ घातुकेऽपि द्विषन् द्वेषी च द्विड्युतः ।परेः पन्थक-पन्थिनौ, सख्यौ सूर्येऽपि चोच्यते ॥ २५२ ॥
3.252 · p. 209
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 3, syllable 7 न्थि (wrong syllable)
मित्त्रशब्दो द्वितकारः, सख्ये सौहार्द-सौहृदे ।मैत्त्र्यं मैत्त्री, हेरिके तु चरश्चारोऽवसर्प्यवत् ॥ २५३ ॥
3.253 · p. 209
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
अपसर्पः, सान्त्वजे तु शाम तालव्य-दन्त्ययुक् ।प्रावृते लञ्चया लञ्च उपदोपप्रदानवत् ॥ २५४ ॥
3.254 · p. 209
अनुष्टुप्
शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे ।भागधेयो भागधेयी भागोऽपि कारवत् करः ॥ २५५ ॥
3.255 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः ।सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥
3.256 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः ।ध्वाजिश्च ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥ २५७ ॥
3.257 · p. 209
अनुष्टुप्
ध्वजः कूर्चक उच्चूडोच्चूलौ द्वौ चूड-चूलकौ ।अवात्परौ क्रीडार्थे तु रथे पुष्परथो मतः ॥ २५८ ॥
3.258 · p. 209
अनुष्टुप्
मूर्द्धन्यान्तस्थायोगाप्तो, भवेत् कर्णीरथे पुनः ।डयनं हयनं चाप्यनसि स्याच्छकटस्तथा ॥ २५९ ॥
3.259 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्था (wrong syllable)
शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः ।वाहसो वृषभेऽप्येतौ, प्रधौ नेमी च नेमिवत् ॥ २६० ॥
3.260 · p. 209
अनुष्टुप्
अक्षाग्रकीले त्वण्यानी अस्नि-सीम्नोरपि स्मृतौ ।पिण्डिकायां नाभिर्नाभी, कूबरं स्याद्युगन्धरे ॥ २६१ ॥
3.261 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
कुबरं चाधःस्थदारावनुकर्षा नरि नान्तगः ।अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद्धूर्धुराऽपि च ॥ २६२ ॥
3.262 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 वनु (syllable split)
यानमुखेऽथ दोलायां प्रेङ्खः प्रेङ्खा, विनीतकम् ।वैनीतकं, परम्परावाहने शिबिकादिके ॥ २६३ ॥
3.263 · p. 210
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable); pāda 3, syllable 7 म्प (wrong syllable)
याने तु वह्यं वाह्यं च वहनं वाहनं तथा ।सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह ॥ २६४ ॥
3.264 · p. 210
अनुष्टुप्metre not read in every line
सव्येतः ष्ट्टष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् ।रथवति त्रयोऽप्येते रथिको रथिरो रथी ॥ २६५ ॥
3.265 · p. 210
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ष्ठ (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि ।निषादी सनिषादिश्च, भटे योद्धा सयोधकः ॥ २६६ ॥
3.266 · p. 210
अनुष्टुप्metre not read in every line
तथा भण्डीर-भाण्डीरौ वनेऽपि कथितावमू ।सेनासमवेते सैन्यः सैनिकोऽपि च योद्धृषु ॥ २६७ ॥
3.267 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् ।स्यादामुक्तो पिनद्धश्च पिनद्धे कवचे पुनः ॥ २६८ ॥
3.268 · p. 210
अनुष्टुप्metre not read in every line
माढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् ।कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९ ॥
3.269 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् ।शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि ॥ २७० ॥
3.270 · p. 210
अनुष्टुप्metre not read in every line
आयुधीयश्चायुधिको भवेत् परश्वधायुधे ।पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् ॥ २७१ ॥
3.271 · p. 210
अनुष्टुप्metre not read in every line
शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः ।धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२ ॥
3.272 · p. 210
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ण (wrong syllable)
अटन्यटनिरर्त्यार्त्नी पीडायामपि स्यात्तलम् ।तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३ ॥
3.273 · p. 211
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable); pāda 3, syllable 5 गो (wrong syllable)
बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः ।शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥
3.274 · p. 211
अनुष्टुप्
कलम्ब इव कादम्बो भेर-भेलावमू तथा ।भेकेऽपि कर्तरि पुङ्खे कर्तरी, शरधौ पुनः ॥ २७५ ॥
3.275 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् ।उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियौ ॥ २७६ ॥
3.276 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
करवालः करपालः करालिकस्तथोदितः ।चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥ २७७ ॥
3.277 · p. 211
metre not recognisednearly अनुष्टुप्
प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् ।स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥ २७८ ॥
3.278 · p. 211
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 4 र (wrong syllable)
खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी ।क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च ॥ २७९ ॥
3.279 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)
एकधारासौ स्यादीली इली च करवालिका ।करपालिकाऽपि तरवालिकाऽपि च कुन्तके ॥ २८० ॥
3.280 · p. 211
metre not recognised
प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो घनः ।द्रुघनः, कुठारे पर्शुः परशुश्च परस्वधः ॥ २८१ ॥
3.281 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ठा (wrong syllable)
पर्श्वधः परश्वधश्च स्वधितिः परितो घके ।पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि ॥ २८२ ॥
3.282 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः ।अभ्यासभुवि खण्डूरः खलूरश्च खलूरिका ॥ २८३ ॥
3.283 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 व्य (wrong syllable)
प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे ।तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारिणी ॥ २८४ ॥
3.284 · p. 211
अनुष्टुप्metre not read in every line
प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति ।अभ्यमित्र्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते ॥ २८५ ॥
3.285 · p. 212
अनुष्टुप्
उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जस्वलः ।ऊर्जस्वप्यूर्जस्वांश्च जिष्णौ जेता च जैत्रवत् ॥ २८६ ॥
3.286 · p. 212
metre not recognised
जित्वरो, वैतालिके तु सौखशायनिको मतः ।सौख्यशय्यिकश्चाक्रिके घण्टिको घाटिकोऽपि च ॥ २८७ ॥
3.287 · p. 212
metre not recognisednearly अनुष्टुप्
मागधो मगधो मङ्खे वैश्यात् क्षत्र्यां भवेऽपि च ।छन्दोजातावुष्णिहोष्णिग् बले शुष्मं तु शुष्मणा ॥ २८८ ॥
3.288 · p. 212
अनुष्टुप्
ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः ।सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥
3.289 · p. 212
metre not recognised
संयतं राटी रालिर्ना समितिः समितः समित् ।समः स्फोट-स्फेट-फेटाः प्रध्मश्च प्रधनं तथा ॥ २९० ॥
3.290 · p. 212
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 टी (wrong syllable)
समुदायः समुदयः सांपरायकमित्यपि ।सांपरायः संपरायकमग्रगमने मतम् ॥ २९१ ॥
3.291 · p. 212
अनुष्टुप्
नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि ।अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते ॥ २९२ ॥
3.292 · p. 212
अनुष्टुप्metre not read in every line
पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् ।द्रववद्विद्रवो, भग्ने पराजित-जितौ समौ ॥ २९३ ॥
3.293 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable)
भूतः परापर्यभितो, गुप्तौ तु चार-चारकौ ।बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ॥
3.294 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
संन्यासिके तापसः स्यात् तपस्व्यपि च सूरतः ।सूरथोऽपि च दाने द्वौ शान्त-श्रान्तौ जितेन्द्रिये ॥ २९५ ॥
3.295 · p. 212
अनुष्टुप्
शुद्धकर्माऽवापाद्दानं माहादाने प्रवारणम् ।वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः ॥ २९६ ॥
3.296 · p. 212
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable); pāda 3, syllable 5 प्रे (wrong syllable)
द्व्यग्राभ्यां, बटौ माणवो माणवकस्तथैव च ।मौञ्जीबन्धे तूपापान्नाय-नयावानय इत्यपि ॥ २९७ ॥
3.297 · p. 213
metre not recognised
अग्नीन्धने स्यादाग्नीध्राग्नीध्र्यौ स्यातां जटाजटिः ।सटायां, तपस्वि पीठे वृषी वृसी, कमण्डलौ ॥ २९८ ॥
3.298 · p. 213
अनुष्टुप्metre not read in every line
कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः ।यष्टाऽथ सोमपे सोमा सोमात्पीती पीथी च नान्तगौ ॥ २९९ ॥
3.299 · p. 213
metre not recognisednearly अनुष्टुप्
सर्ववेदः सर्ववेदौ सान्ताऽदन्तौ तु याजके ।सर्वस्वदक्षणेष्टेश्च, हुतौ होम नपुंसकम् ॥ ३०० ॥
3.300 · p. 213
अनुष्टुप्
नान्तं होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता ।वेदिर्वेदी च, निर्मन्थदारुणि त्वरणिर्द्वयोः ॥ ३०१ ॥
3.301 · p. 213
अनुष्टुप्
अरणी समिधि त्वेध एधः सान्तं तथेन्धनम् ।नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥ ३०२ ॥
3.302 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
स्रुवे स्रुग्, मखवधे तु शसनं शमनं समे ।शृतोष्णक्षीरगे दध्नि आमीक्षाऽमिक्षया सह ॥ ३०३ ॥
3.303 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
दधिषाज्य-दीधीषाज्यौ दधियुक्तघृते मतौ ।मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् ॥ ३०४ ॥
3.304 · p. 213
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable); pāda 3, syllable 6 पि (wrong syllable)
आहिताग्निर्दर्विर्दर्वी घृतलेखनिकोच्यते ।आचमने तूपस्पर्श उपसंस्पर्शनं तथा ॥ ३०५ ॥
3.305 · p. 213
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्द (wrong syllable); pāda 3, syllable 2 च (wrong syllable)
उपसंस्पर्शः पाठे तु निपाठ-निपठौ समौ ।स्वाध्याये जपो जाप उपवास उपोषितम् ॥ ३०६ ॥
3.306 · p. 213
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्शः (wrong syllable); pāda 3, syllable 1 स्वा (syllables merged)
अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके ।वृत्ते चरित्रं चारित्रमाचार-चरणे अपि ॥ ३०७ ॥
3.307 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
चरितं, प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् ।वाल्मीक-वाल्मिकौ तद्वत् कविरादिकविस्तथा ॥ ३०८ ॥
3.308 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मैत्रावरुणिः समैत्रावरुणो, बादरायणे ।वेदव्यासश्च व्यासः, स्याद् रामः परशुरामवत् ॥ ३०९ ॥
3.309 · p. 214
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable); pāda 3, syllable 5 श्च (wrong syllable)
जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः ।वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥ ३१० ॥
3.310 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 यो (wrong syllable)
गोनर्दीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ ।वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥ ३११ ॥
3.311 · p. 214
अनुष्टुप्metre not read in every line
स्फोटायनः स्फौटायनः पालकाव्ये करेणुभूः ।कारेणवो मुनिभेदे स्यादत्त्रिरत्रिणा समम् ॥ ३१२ ॥
3.312 · p. 214
metre not recognised
अपिशलिरापिशलिः कशात् कृत्स्नः सकृत्सकः ।मृकण्डुवन्मृकण्डश्च, हारीतो हारितोऽपि च ॥ ३१३ ॥
3.313 · p. 214
अनुष्टुप्metre not read in every line
पक्षिभेदेऽपि, कुमारः कुमारिलसमन्वितः ।नास्तिके लौकायतिको लोकायतिक इत्यपि ॥ ३१४ ॥
3.314 · p. 214
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ ।आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥
3.315 · p. 214
metre not recognised
ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा ।कृषौ प्रमृतमनृतं वाणिज्यं वणिक्कर्मणि ॥ ३१६ ॥
3.316 · p. 214
अनुष्टुप्metre not read in every line
वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः ।वणिक् प्रापणिकः प्रोक्त आङ्पराः पणिकस्तथा ॥ ३१७ ॥
3.317 · p. 214
अनुष्टुप्metre not read in every line
पनिकः पतिकश्चैव पदिकः, क्रायके पुनः ।क्रायिको विक्रायके च क्रयिको विक्रयी तथा ॥ ३१८ ॥
3.318 · p. 214
अनुष्टुप्
मूल्ये वक्रयाऽवक्रयौ मूलद्रव्ये तु नीविवत् ।नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च ॥ ३१९ ॥
3.319 · p. 214
metre not recognised
वैमेयोऽपि परदाने व्यवहारे पणं पणः ।न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥ ३२० ॥
3.320 · p. 214
metre not recognised
सत्यङ्कारः सत्याकृतिः संख्येते तु गणेयवत् ।गण्यं, पोते प्रवहणं वहनं वहितं तथा ॥ ३२१ ॥
3.321 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त्या (wrong syllable)
वहित्रं वाहित्थमपि, पोतवाहे नियामकः ।निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः ॥ ३२२ ॥
3.322 · p. 215
अनुष्टुप्
तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद्द्रुणीः ।द्रोणिर्द्रोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥ ३२३ ॥
3.323 · p. 215
अनुष्टुप्
काष्ठकुद्दालेऽभ्रिरभ्री, प्लवे स्यादुडुवो डुवः ।उडूप उडुपस्तरपण्ये तु तर आतरः ॥ ३२४ ॥
3.324 · p. 215
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 स्त (wrong syllable)
आतार आतारुरपि, वृद्ध्याजीवे तु वार्धुषिः ।वार्धुषिक ऋणे धारोऽस्त्र्युद्धारे प्रतिभूः पुनः ॥ ३२५ ॥
3.325 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)
लग्नको लग्नः, षोडशमात्रैः करिष-कार्षकौ ।तुला विंशत्या तु भारो भरश्च शकटीनवत् ॥ ३२६ ॥
3.326 · p. 215
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ल (syllables merged)
शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके ।प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥ ३२७ ॥
3.327 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता ।काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते ॥ ३२८ ॥
3.328 · p. 215
अनुष्टुप्
गव्यागव्यूते, गोमति, गवीश्वर-गवेश्वरौ ।गोम्याभीरे तु गोपाल-गोपौ स्यातां कुटुम्बिनि ॥ ३२९ ॥
3.329 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 गो (wrong syllable)
कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि, च ।क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥
3.330 · p. 215
अनुष्टुप्
लाङ्गलदण्डे ईषेशे, प्रोक्ता लाङ्गलपद्धतौ ।शीता तालव्य-दन्त्यादिर्नदीभेदेऽपि लाङ्गले ॥ ३३१ ॥
3.331 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ङ्ग (wrong syllable)
निरीषे तु कुट-कूटौ कुटकं, कुशिकं पुनः ।कृशिकश्च फलं फालः कुद्दालश्च कुदालवत् ॥ ३३२ ॥
3.332 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
गोदारणे प्रवयणे तोत्रं प्रतोद-तोदने ।आबन्धे तु योत्र-योक्त्रे कोटीशो लोष्ठभेदने ॥ ३३३ ॥
3.333 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके ।पद्य-पज्जौ क्षत्र-वैश्याजातौ माहेष्यवन्मतः ॥ ३३४ ॥
3.334 · p. 216
अनुष्टुप्
महिष्योऽपि शिल्पिनि तु स्युः कारु-कारि-कारयः ।ध्वजो ध्वजी कल्पपाले मध्ये कपिश-कापिशे ॥ ३३५ ॥
3.335 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable); pāda 2, syllable 3 रु (wrong syllable)
कापिशायनं माध्वीकं मार्द्वीकं च परिश्रुता ।परिस्रुद्दन्त्य-तालव्यमध्यातालव्य-दन्त्यभृत् ॥ ३३६ ॥
3.336 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
सुरा-मदिरा मद्वरी मदना मद्य-बीजके ।नग्नहूर्नग्नहुर्मध्यसन्धाने, भिष-वासवौ ॥ ३३७ ॥
3.337 · p. 216
अनुष्टुप्metre not read in every line
पानपात्रे तु, तर्षणाऽनुतर्षौ मद्यपाशने ।उपदंशश्चावदंशः स्यात् तेजसावर्तनीमुखा ॥ ३३८ ॥
3.338 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 र्ष (wrong syllable)
मूषा मूषी शाणे शाणा शाणीर्निकषवत्कषः ।कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी ॥ ३३९ ॥
3.339 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
सूत्रिः सूत्री सूचि-सूत्रे द्वे पिप्पलक-पिप्पले ।कर्तनसाधने तर्कुस्तर्कुट्यपि च सीवनम् ॥ ३४० ॥
3.340 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 न (wrong syllable)
सेवनं च स्यूतौ, स्यूते तु प्रसेवश्च प्रसेवकः ।स्योनं स्यात्तन्तुवाये तु तन्त्रवायः कुविन्दवत् ॥ ३४१ ॥
3.341 · p. 216
अनुष्टुप्metre not read in every line
कुपिन्दोऽपि सूत्रवेष्टे त्रसरस्तसरोऽपि च ।वानदण्डे वेम वेमा तन्तौ स्यात् सूत्रतन्तुवत् ॥ ३४२ ॥
3.342 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका ।पादूः पन्नद्धापि पादाज्जङ्गुर्वीथी रथी तथा ॥ ३४३ ॥
3.343 · p. 216
अनुष्टुप्
पीठी त्राणं रक्षणं च पदात् त्वरायतापि च ।वरत्रायां नध्री वध्री वार्द्धी वर्द्धापि वर्द्धवत् ॥ ३४४ ॥
3.344 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्व (wrong syllable); pāda 3, syllable 5 न (wrong syllable)
पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् ।वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥ ३४५ ॥
3.345 · p. 217
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ख (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
भक्ष्यकारो भक्षकार आदितालव्य-दन्त्यभृत् ।श्वेदनिका श्वेदनश्च कन्दौ स्यान्नापिते क्षुरी ॥ ३४६ ॥
3.346 · p. 217
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
क्षौरिको भण्डिवाही च भाण्डिकस्तस्य भाण्डके ।क्षुरः खुरो, मायाकारे प्रातिहारिक उच्यते ॥ ३४७ ॥
3.347 · p. 217
अनुष्टुप्
प्रतिहारो, मायायां तु शाम्बरी साम्बरी तथा ।इन्द्रजाले तु कुहुकं कुहकं तद्वदाहतम् ॥ ३४८ ॥
3.348 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् ।कौतूहलं, पापर्द्धौ तु मृगव्यं मृगया मृगः ॥ ३४९ ॥
3.349 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आच्छोदनं च द्वितीयथद्वितीयकसंयुतम् ।आखेटक आखेटश्च, रज्जौ तन्त्री च तन्त्रिवत् ॥ ३५० ॥
3.350 · p. 217
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 आ (wrong syllable)
वटारक-वटारौ द्वौ वटस्त्रिषु तु दोरवत् ।दवरश्च तन्तुगुणे, दाशो दासश्च धीवरे ॥ ३५१ ॥
3.351 · p. 217
अनुष्टुप्metre not read in every line
दाशी सासी धीवरी स्याच्छिलाजतु च चेट्यपि ।मत्स्यबन्धने बडिशं बलिशं च, वधास्पदे ॥ ३५२ ॥
3.352 · p. 217
metre not recognised
शूना तालव्य-दन्त्यादिः, पामरः प्रामरोऽपि च ।क्षुल्लकः खुल्लकस्तद्वद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥
3.353 · p. 217
अनुष्टुप्
पाकश्चण्डाल-चाण्डालौ बुक्कसः पुक्कसस्तथा ॥
3.354 · p. 217
पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् ॥ ३५४ ॥
3.354 · p. 217
पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते ।वरटो वारटोऽप्युक्त इडीडौ म्लेच्छजातिके ॥ ३५५ ॥
3.355 · p. 217
अनुष्टुप्metre not read in every line