प्रसारिणी
prasāriṇīस्त्री · fem.In 8 kośas: 9 synonym verses, 3 as a meaning of another word.
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥तस्यां कटम्भरा राजबला भद्रबलेत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् ।संपञ्जनेष्टा भूत्यर्था भूतिश्चापि प्रसारिणी ॥ ५४३ ॥
अनुष्टुप्
genderस्त्रीfem.
(सा) स्यात्सुदीर्घसर्पेभ्यो दण्डी गन्धाधिकाऽप्यथ ।प्रसारिणी क्रोष्टुपुच्छी गोलोमीजा च धूमिका ॥ ५६८ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
संकोचनी नमस्कारी समङ्गा च प्रसारिणी ।स्पर्शलज्जाऽपि लज्जालुः स्याल्लज्जा लज्जरीत्यपि ॥ ५७१ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्षपुष्पा च मङ्गल्या माता गोरक्षतन्दुला ।अर्थप्रसाधनी च स्यात्सरणी तु प्रसारिणी ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
नीविकावसनं ग्रन्थिर्जङ्घा जानुः प्रसारिणी ।घुटिका चरणग्रन्थिः गुल्फः प्रार्ष्णिः प्रपार्श्विका ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे ।तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारिणी ॥ २८४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
दशपूरं दशपुरं, कटम्भरौषधौ मता ।भद्रबला राजबला महाबला प्रसारिणी ॥ २४१ ॥
metre not recognised
genderस्त्रीfem.
प्रसारिणी चन्द्रबाला सारिणी च कटंभरा ।सोमराजी सोमवल्ली वागुजी वसुमल्लिका ॥ ५९५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसारिणी as a meaning in nānārtha verses
- कोषकल्पतरु सारिणीसारिणी लघुनदीप्रसारिणी- वाचिका दशमुखस्य मन्त्रिणि । पुंगतोऽतिसरणेऽथ काकिणी मानदण्डपणतुर्यभागयोः ॥ ४३ ॥ Koṣakalpataru 6.15.43
- शिवकोष सुप्रसरासुप्रसरा प्रसारिण्यां हरितायामपि स्त्रियाम् । सूचिपत्रा च केतक्यां स्त्रियां ना सिति वारके ॥ ४३३ ॥ Śivakoṣa 22.4.433
- शब्दरत्नावली भद्रापुंसि क्लीबं शातकुम्भे तथा मङ्गलमुस्तयोः । स्त्रियां कृष्णा व्योमगङ्गारास्नाप्रसारिणीषु ॥ Śabdaratnāvalī 7.27.26