ओषधिभेद
oṣadhibhedaIn 4 kośas: 0 synonym verses, 7 as a meaning of another word.
ओषधिभेद as a meaning in nānārtha verses
- धरणिकोश लक्ष्मीसीमा च कथिता क्षेत्रे चाघाटे च स्थितावपि । लक्ष्मीरोषधिभेदे स्यात्पद्मासंपत्तिकान्तिषु ॥ Dharaṇikośa 24.2.9
- कोषकल्पतरु कञ्चुकीचोलकपूर्णानकयो- रोषधिभेदे तु कञ्चुकी प्रोक्ता । गृहनकुले गोमायौ नरि धूर्ते तु वञ्चकः परवत् ॥ ९० ॥ Koṣakalpataru 6.1.90
- कोषकल्पतरु लक्ष्मणसेके प्रोक्षणमीरितं च हननेऽथो लक्षणो लक्ष्म[281b]णः सौमित्रौ नरि सारसे च चरमेत्याख्यासु चिह्नेष्वपि । सारस्यौषधिभेदगौ तु वनिते स्तो दक्षिणस्त्वन्यव- त्प्रोक्तो दक्षिणजे वदान्यसरलान्यच्छन्दवर्तिष्वपि ॥ २४ ॥ Koṣakalpataru 6.15.24
- नानार्थार्णवसंक्षेप नीलीनीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः । कार्ष्ण्ये शौक्ल्ये च गुणयोस्त्रि तु तद्वति तत्र च ॥ ६९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.691
- शब्दरत्नावली पीणुपर्णीपीणुपर्ण्योषधिभेदे मूर्वाविम्बिकयोरपि । पुष्करिण्यपि हस्तिन्यां नलिन्याञ्च जलाशये ॥ Śabdaratnāvalī 7.15.86
- शब्दरत्नावली यवनीमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
- शब्दरत्नावली स्थापनीस्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ । स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥ Śabdaratnāvalī 7.20.95