कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (6/14)

दीनस्तु पुंसि पुन्नागे केतक्यां च त्रिषु त्वयम् ।दरिद्रे कृपणे क्षीणे दीर्णी तु ककुभि स्त्रियाम् ॥ ६०१ ॥
2.5.601 · p. 94
अनुष्टुप्
त्रिषु भिन्ने च भीते च दीर्णं दीप्ता तु विद्युति ।स्त्रियां प्रज्वलिते तु त्रि दीप्यस्तु नरि जीरके ॥ ६०२ ॥
2.5.602 · p. 94
अनुष्टुप्
खराश्वासंज्ञभैषज्ये त्रि तु दीपयितव्यके ।दीपोऽस्त्रियामन्तरीपसंज्ञेऽन्तर्वारिणस्तटे ॥ ६०३ ॥
2.5.603 · p. 94
अनुष्टुप्
जलाशयविशेषे तु द्वीपी स्त्रीति प्रचक्षते ।दीर्घं त्रिष्वायते मात्राद्वयकालस्वरे तथा ॥ ६०४ ॥
2.5.604 · p. 94
अनुष्टुप्
क्ली तु स्यादुभयोः साम्नोः ससुन्वेवर्गगीतयोः ।द्वीपिर्द्वे श्वापदे काले पुमान् दुग्धं तु नप्यदः ॥ ६०५ ॥
2.5.605 · p. 94
अनुष्टुप्
क्षीरे गवादिके तु त्रिः कृतदोहे तथैव तत् ।पयःप्रभृतिके चाथ दुर्गं क्ली नरके वने ॥ ६०६ ॥
2.5.606 · p. 94
अनुष्टुप्
राष्ट्रे तु ना परे त्वाहुर्दुष्प्रापनगरे नरम् ।अन्ये क्ली दुर्गमे तु त्रिः कात्यायन्यां तु सा स्त्रियाम् ॥ ६०७ ॥
2.5.607 · p. 94
अनुष्टुप्
दुर्गा द्रुणी तु कच्छप्यां स्त्री मौर्व्यां तु द्रुणाथ नप् ।द्रुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥
2.5.608 · p. 94
अनुष्टुप्
तत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु ।पुमांस्तु द्योततौ ना तु द्युवार्कस्वर्गराजसु ॥ ६०९ ॥
2.5.609 · p. 94
अनुष्टुप्
अभिगन्तरि तु त्रिः स्यादित्येके दूतवाक् पुनः ।द्वे सन्देशहरे शुक्रे तु ना दूती तु सा स्त्रियाम् ॥ ६१० ॥
2.5.610 · p. 95
अनुष्टुप्
सञ्चारिकायामित्येके दूष्यं तु स्थूलपूययोः ।क्ली (तु ? त्रि) दूषयितव्येऽथ दृढं कल्ययउशीरयोः ॥ ६११ ॥
2.5.611 · p. 95
अनुष्टुप्metre not read in every line
दृढा स्त्रियामामलक्यां तमालक्यां तथौषधौ ।तालमूलीसमाख्यायां त्रि तु स्थूलेऽधिके भृशे ॥ ६१२ ॥
2.5.612 · p. 95
अनुष्टुप्
बलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके ।नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिषु ॥ ६१३ ॥
2.5.613 · p. 95
अनुष्टुप्
दर्शनीये भूषणे क्ली दृष्टं तु त्रिषु वीक्षिते ।ज्ञाते क्लीबं तु भूपानां भये स्वपरचक्रजे ॥ ६१४ ॥
2.5.614 · p. 95
अनुष्टुप्
ऐहिकार्थेऽप्यथो देवः पुमान् खङ्गे महीपतौ ।नाट्योक्तिविषयक्ष्मापे चक्षुरादीन्द्रियेषु च ॥ ६१५ ॥
2.5.615 · p. 95
अनुष्टुप्
स्त्री तु राजकुलोद्भूतराजपत्न्यां तथा पुनः ।महिष्यां नाट्यभाषास्थनृपतेर्मद्यमूर्वयोः ॥ ६१६ ॥
2.5.616 · p. 95
अनुष्टुप्
गुडूचीस्पृक्कयोर्देवी सुरे तु द्वे पुमान् पुनः ।देष्णो बाहौ द्वयोस्तु स्याद् यजमानेऽथ स त्रिषु ॥ ६१७ ॥
2.5.617 · p. 95
अनुष्टुप्
सुरूपे दानशीले च देवा तु नरि देवरे ।अग्नौ च केचन त्वाहुः स्त्री पितृव्यस्त्रियामिति ॥ ६१८ ॥
2.5.618 · p. 95
अनुष्टुप्
देशी तु ना गुरौ त्रिस्तु केचिन्मार्गोपदेशके ।स्त्री तु प्रदेशिनीनाम्न्यामङ्गुल्यां देशिनी भवेत् ॥ ६१९ ॥
2.5.619 · p. 95
अनुष्टुप्
द्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् ।शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके ॥ ६२० ॥
2.5.620 · p. 95
अनुष्टुप्
द्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे ।दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ ६२१ ॥
2.5.621 · p. 95
अनुष्टुप्
सम्बन्धिनि स्याद्दिष्टस्य दिष्टेश्चाथ विधौ नपि ।दैवं त्रिर्देवसम्बन्धे द्रोणा स्त्री चतुराढके ॥ ६२२ ॥
2.5.622 · p. 96
अनुष्टुप्
दारुपात्रविशेषेऽथ काकजात्यन्तरे द्वयोः ।अश्वत्थाम्नस्तु ताते ना शाकस्तम्बान्तरे तथा ॥ ६२३ ॥
2.5.623 · p. 96
अनुष्टुप्
स्त्री तु द्रोणी द्रोणपुष्पीसंज्ञस्तम्बे गिरिप्लवे ।शैलस्य शिलयोः सन्धौ द्रवभाण्डे तथापरे ॥ ६२४ ॥
2.5.624 · p. 96
अनुष्टुप्
आहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् ।द्वे तु विग्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ ६२५ ॥
2.5.625 · p. 96
अनुष्टुप्
दोषो वातादिके दुष्टौ गुणस्य प्रतियोगिनि ।ना दोषा तु भुजायां स्त्री स्यात् त्वाकारान्तमव्ययम् ॥ ६२६ ॥
2.5.626 · p. 96
अनुष्टुप्
रात्रावथ रजन्यामित्यस्मिन्नर्थे परे विदुः ।द्योतस्तु द्योतनायां ना दीप्तौ द्योता तु सा स्त्रियाम् ॥ ६२७ ॥
2.5.627 · p. 96
अनुष्टुप्
ज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि ।धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ ६२८ ॥
2.5.628 · p. 96
अनुष्टुप्
राशौ तु नवमे प्राहुर्मौहूर्ता ना तु सोमपे ।न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥
2.5.629 · p. 96
अनुष्टुप्
प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये ।सतां तु सङ्गतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥
2.5.630 · p. 96
अनुष्टुप्
ध्वजं त्वस्त्री पताकायां चिह्ने पूर्वदिशो गृहे ।शिश्नेऽथ तालवृक्षे ना वृक्षमात्रे तु सज्जनः ॥ ६३१ ॥
2.5.631 · p. 96
अनुष्टुप्
धन्यः पुण्यवति त्रि स्याद् धनस्य च निमित्तके ।धन्या लताबृहत्यां स्त्री कुस्तुम्बुरुणि चाप्यथ ॥ ६३२ ॥
2.5.632 · p. 96
अनुष्टुप्
धवो ना धवने पत्यौ योषितामजयः पुनः ।प्रभुमात्रेऽब्रवीदेनं तदसन्मूलहानितः ॥ ६३३ ॥
2.5.633 · p. 97
अनुष्टुप्
धुरन्धराख्यद्रौ क्ली तु तत्फले द्वे तु मानवे ।धरो ना भूधरे तूले कार्पास्यां स्त्री पुनर्धरा ॥ ६३४ ॥
2.5.634 · p. 97
अनुष्टुप्
भूमीगुडूच्योर्ध्रत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि ।गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥
2.5.635 · p. 97
अनुष्टुप्
धनुशब्द उकारान्तः प्रियालाख्यद्रुमे पुमान् ।क्ली तु तस्य फले पापेऽप्यथ धर्ता त्रि धारके ॥ ६३६ ॥
2.5.636 · p. 97
अनुष्टुप्
ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः ।स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥
2.5.637 · p. 97
अनुष्टुप्
त्रिः शौण्डिके च ध्वजिनी सेनायां स्त्री धनी तु ना ।कुबेरे त्रिस्तु धनवन्मात्रे वार्धुषिके तथा ॥ ६३८ ॥
2.5.638 · p. 97
अनुष्टुप्
धन्वी तु ना धनूराशौ धानुष्के तु भवेत् त्रिषु ।धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥
2.5.639 · p. 97
अनुष्टुप्
धाना स्त्री भूरुहां बीजे कुस्तुम्बुरुणि चाप्यसौ ।भ्रष्टे यवे भूमनि च हर्षनन्दी त्ववोचत ॥ ६४० ॥
2.5.640 · p. 97
अनुष्टुप्
धाना यवानां भ्रष्टानां स्थूलचूर्ण इतीदृशम् ।क्ली दाने धारणे पाने धान्यं तु स्त्रीनपुंसकम् ॥ ६४१ ॥
2.5.641 · p. 97
अनुष्टुप्
कुस्तुम्बुरुणि सस्ये क्ली ध्वाङ्क्षस्तु बककाकयोः ।द्वयोस्तत्रापि च स्त्र्यर्थे ध्वाङ्क्षी ध्वाङ्क्षा तु नृस्त्रियोः ॥ ६४२ ॥
2.5.642 · p. 97
अनुष्टुप्
स्याद्घोरवाशिते धात्रः पुनर्द्वे कितवेऽथ सा ।धात्री स्त्र्यामलकीभूम्योरुपमातरि चाथ ना ॥ ६४३ ॥
2.5.643 · p. 97
अनुष्टुप्
ध्वाङ्क्षिर्ध्वाङ्क्षतिधातौ स्याद् स्त्री तु स्याद्घोरवाशिते ।धाता तु ना विरिञ्चे त्रिः पिबे धातरि धर्तरि ॥ ६४४ ॥
2.5.644 · p. 97
अनुष्टुप्
धिष्ण्यस्तु याज्ञिकानां ना वह्निभेदेषु केषुचित् ।तेषां स्थानेषु चान्ये तु वह्निमात्रे प्रचक्षते ॥ ६४५ ॥
2.5.645 · p. 98
अनुष्टुप्
शुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः ।अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृतत् ॥ ६४६ ॥
2.5.646 · p. 98
अनुष्टुप्
आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् ।धीरोऽब्धौ मन्थरे तु त्रिर्धृतिमद्विदुषोरपि ॥ ६४७ ॥
2.5.647 · p. 98
अनुष्टुप्
स्त्री तु धीरा गुडूच्यां स्याद् धीवा व्याधौ पुमान् द्वयोः ।मत्स्ये कश्चित् तु देवे द्वे त्रि तु कर्मकरे स्त्रियाम् ॥ ६४८ ॥
2.5.648 · p. 98
अनुष्टुप्
धीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः ।औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥
2.5.649 · p. 98
अनुष्टुप्
ध्रुवा तु स्त्री सालपर्ण्यां गीतिस्रुग्भेदयोर्भुवि ।धूर्त्तः पुंसि महादेवे नीपे कुरवकेऽपि च ॥ ६५० ॥
2.5.650 · p. 98
अनुष्टुप्
धुर्धूरे च प्रसूने तु क्लीबमेषां महीरुहाम् ।अयोमयेऽपि पत्राङ्गे भेद्यलिङ्गं तु वञ्चके ॥ ६५१ ॥
2.5.651 · p. 98
अनुष्टुप्
धूको व्याधौ नरीत्येके कामिलायां तु केचन ।धूका स्त्रीत्यभ्यधुर्धृष्टिर्धर्षणे स्त्री पुमांस्त्वयम् ॥ ६५२ ॥
2.5.652 · p. 98
अनुष्टुप्
रश्मौ धृ(षु?ष्णु)र्ना सन्तापे शैले चोरे तु स त्रिषु ।प्रगल्भे वैजयन्त्यां तु धृष्टे चेत्याह ना पुनः ॥ ६५३ ॥
2.5.653 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ना (syllables merged)
धृत्वा विष्णौ गिरावब्धौ यतिनि स्त्री तु धृत्वरी ।भूमौ धेनुस्तु हस्तिन्यां नवसूतगवीगिरोः ॥ ६५४ ॥
2.5.654 · p. 98
अनुष्टुप्
स्त्री क्ली तु सामभेदे स्याद् धोतस्तु नरि मारुते ।शठे तु त्रिर्नटः पुंसि टुण्डुवृक्षे द्वयोः पुनः ॥ ६५५ ॥
2.5.655 · p. 98
अनुष्टुप्
शैलालिनि नटी तु स्त्री स्याद्विद्रुमलताह्वये ।भैषज्य इति कोऽप्याह परे त्वेतदसाध्विति ॥ ६५६ ॥
2.5.656 · p. 99
अनुष्टुप्
तृतीयवर्गोपान्त्यत्वात् तस्येत्याहुर्नडी हि सा ।नडः पुंस्यृषिभेदेऽथ नृशण्डो धमनाह्वये ॥ ६५७ ॥
2.5.657 · p. 99
अनुष्टुप्
स्तम्बे व्रात्यात् क्षत्त्रपूर्वक्षत्त्रियाजे नरे द्वयोः ।नडी तु विद्रुमलतासंज्ञे स्याद्भेषजे स्त्रियाम् ॥ ६५८ ॥
2.5.658 · p. 99
अनुष्टुप्
नदो नामरदत्तेन शब्दे ख्यातः सरः स्वति ।स्तोतर्यपि नदी तु स्त्री निम्नगायां नतं पुनः ॥ ६५९ ॥
2.5.659 · p. 99
अनुष्टुप्
वक्रे नमस्कृते च त्रिर्बन्धुरेऽप्यथ तन्नपि ।अगुरौ तगरे चैव गन्धद्रव्यप्रभेदयोः ॥ ६६० ॥
2.5.660 · p. 99
अनुष्टुप्
नमनेऽप्यथ नन्दा स्त्री स्नुहिसंज्ञमहीरुहे ।तिथिषु प्रतिपत्षष्ठ्योरेकादश्यां तिसृष्वपि ॥ ६६१ ॥
2.5.661 · p. 99
अनुष्टुप्
पार्वत्यां चाथ ना पूर्वराजभेदेषु केषुचित् ।गोपालाधिपभेदेऽपि नन्दनाख्ये तु कर्मणि ॥ ६६२ ॥
2.5.662 · p. 99
अनुष्टुप्
नृस्त्रियोरथ नग्नः स्यात् पुंसि वैतालिकादिषु ।दिगम्बरे तु त्रिः शास्त्रप्रोक्ताग्निरहिते तथा ॥ ६६३ ॥
2.5.663 · p. 99
अनुष्टुप्
नरः पुंस्यर्जुने विष्णोरवतारान्तरे नये ।मनुष्यजातौ तु द्वे स्यात् स्त्र्यर्थे नारीति तत्र च ॥ ६६४ ॥
2.5.664 · p. 99
अनुष्टुप्
नपुंसकं तु सलिले नखरे तु नखोऽस्त्रियाम् ।क्ली तु शुक्त्याख्यभैषज्ये नक्रस्तु ग्राहसंज्ञके ॥ ६६५ ॥
2.5.665 · p. 99
अनुष्टुप्
द्वयोर्जलचरे प्राह शाकटायन इत्यमुम् ।ग्राहादन्यत्र कुम्भीरेऽमरसिंहादयोऽभ्यधुः ॥ ६६६ ॥
2.5.666 · p. 99
अनुष्टुप्
नवस्तु ना स्तुतौ त्रिस्तु नवीने स्त्री तु सा नवा ।कार्पासीसंज्ञके गुल्मे नष्टस्तु त्रिस्तिरोहिते ॥ ६६७ ॥
2.5.667 · p. 100
अनुष्टुप्
पलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना ।या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥
2.5.668 · p. 100
अनुष्टुप्
भेरीसंज्ञकवाद्येऽथ देवदेवस्य शूलिनः ।प्रतीहारे नृलिङ्गः स्याद् धातावपि च नन्दतौ ॥ ६६९ ॥
2.5.669 · p. 100
अनुष्टुप्
न्यङ्कुर्गुरुकुलेवासिशिष्ये मुन्यन्तरे च ना ।मृगभेदे द्वयोर्नप्ता पुनर्दौहित्रपौत्रयोः ॥ ६७० ॥
2.5.670 · p. 100
अनुष्टुप्
पौत्रपुत्रेऽपि च द्वे स्याद् द्वेऽपत्ये तदनन्तरे ।नपादेष तकारान्तः सर्पे दान्तं नपाद्ध्वनिम् ॥ ६७१ ॥
2.5.671 · p. 100
अनुष्टुप्
प्रमादात् सज्जनो दृष्ट्वा सर्पेऽपत्येऽभ्यभाषत ।नन्दी नन्दीश्वरे माषे नाट्यनान्द्याश्च पाठके ॥ ६७२ ॥
2.5.672 · p. 100
अनुष्टुप्
ना नन्दिनी तु स्त्री गौर्यां हरीतक्यां ननान्दरि ।सूक्ष्मैलायामयोध्यायां प्रशस्ते वास्तुभूतले ॥ ६७३ ॥
2.5.673 · p. 100
अनुष्टुप्
नभः (क्लीबाभ्रयोः स्वर्गे? स्वर्गाभ्रयोः क्लीबं) सूर्ये वारिणि चाथ तत् ।नभसी इति तु द्यावापृथिव्योरस्त्रियां पुनः ॥ ६७४ ॥
2.5.674 · p. 100
अनुष्टुप्
श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् ।वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ॥ ६७५ ॥
2.5.675 · p. 100
अनुष्टुप्
सूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः ।पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥
2.5.676 · p. 100
अनुष्टुप्
मेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन ।अस्त्री तु वङ्गे सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥
2.5.677 · p. 100
अनुष्टुप्
गजे सर्पे त्रि तु स्थूले तस्मिंस्त्वर्थे स्त्रियां यदा ।तदा नागीति ङीषि स्यान्नाथस्त्विन्द्रे पुमांस्त्रि तु ॥ ६७८ ॥
2.5.678 · p. 100
अनुष्टुप्
प्रभौ स्त्रीपुंसयोस्तु स्याद् याच्ञैश्वर्यादिकेष्वयम् ।नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ॥ ६७९ ॥
2.5.679 · p. 101
अनुष्टुप्
क्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ ।नदसम्बन्धिनि त्रिः स्यान्नाट्यं घोषाख्यलोहके ॥ ६८० ॥
2.5.680 · p. 101
अनुष्टुप्
नृत्ते तौर्यत्रिके च क्ली त्रि तु नाटयितव्यके ।नारं क्ली भारताद्वर्षाद् दक्षिणे प्रतिजानके ॥ ६८१ ॥
2.5.681 · p. 101
अनुष्टुप्
कस्मिंश्चिदन्तरद्वीपे त्रि तु स्यान्नरयोगिनि ।नारीति योषित्तिन्त्रिड्योः स्त्री स्याल्लिङ्गं स्वनिश्चितम् ॥ ६८२ ॥
2.5.682 · p. 101
अनुष्टुप्
आपो नारा इति प्रोक्ता इत्यत्राथान्यलिङ्गकः ।नायो नेतरि ना त्वेष प्रापणे स्त्री त्वथो दिशि ॥ ६८३ ॥
2.5.683 · p. 101
अनुष्टुप्
नायी नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका ।रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः ॥ ६८४ ॥
2.5.684 · p. 101
अनुष्टुप्
आद्यक्षत्त्रियभेदेऽन्त्यमनौ मुख्यमहीपतौ ।वर्षे तु भारते क्लीबं नाम तु क्लीबमम्भसि ॥ ६८५ ॥
2.5.685 · p. 101
अनुष्टुप्
अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः ।प्राकाश्योपगमादीनामर्थानां द्योतकं विदुः ॥ ६८६ ॥
2.5.686 · p. 101
अनुष्टुप्
निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले ।अजयः शाश्वतश्चैनं हेम्न एवं पलेऽपठीत् ॥ ६८७ ॥
2.5.687 · p. 101
अनुष्टुप्
वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि ।त्रि तु निर्गतकाद्येषु निजं तु त्रिः सनातने ॥ ६८८ ॥
2.5.688 · p. 101
अनुष्टुप्
आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ।निभं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९ ॥
2.5.689 · p. 101
अनुष्टुप्
सदृशे निष्ट्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः ।अन्ध्रीशबरजे निष्ट्या पुनः स्वातौ स्त्रियामथ ॥ ६९० ॥
2.5.690 · p. 101
अनुष्टुप्
नीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः ।कार्ष्ण्ये शौक्ल्ये च गुणयोस्त्रि तु तद्वति तत्र च ॥ ६९१ ॥
2.5.691 · p. 102
अनुष्टुप्
स्त्र्यर्थे नीलैव वस्त्रे स्याद् संज्ञायां तु द्वयं भवेत् ।नीला नीली च नील्येव प्राणिनि स्यादथो पुमान् ॥ ६९२ ॥
2.5.692 · p. 102
अनुष्टुप्
नीचः शनैश्चरे नीचैःस्वरे च त्रि तु तद्वति ।वामने च निकृष्टे च नीडं त्वस्त्री कुलायके ॥ ६९३ ॥
2.5.693 · p. 102
अनुष्टुप्
गृहे च नीथशब्दस्तु पूर्वराजे कचिन्नरि ।द्वे ब्राह्मणे धर्मशीले पुनस्त्रिरथ नीकवाक् ॥ ६९४ ॥
2.5.694 · p. 102
अनुष्टुप्
द्वे ज्ञातौ च खगे चाथ न्युब्जो भव्याह्वये तरौ ।ना तत्फले तु क्ली त्रिस्तु कुब्जेऽधोमुख एव च ॥ ६९५ ॥
2.5.695 · p. 102
अनुष्टुप्
वैजयन्त्यां तु ना व्याधावित्युक्तं न्यूङ्खवाक् पुनः ।षट्स्वोङ्कारेषु ना त्रिस्तु सुन्दरेऽथाजयोऽवदत् ॥ ६९६ ॥
2.5.696 · p. 102
अनुष्टुप्
अतिप्रिये द्वयोस्तु स्तः सूतमागधयोः पृथक् ।नूधा ( नूधाश्च स? अनूधाश्च ) प्रोक्तौ सकारान्तौ मनीषिभिः ॥ ६९७ ॥
2.5.697 · p. 102
अनुष्टुप्metre not read in every line
नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे ।क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८ ॥
2.5.698 · p. 102
अनुष्टुप्
ना त्रिस्तु भृतके नेमस्त्वन्ने वज्रे पुरोहिते ।अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥
2.5.699 · p. 102
अनुष्टुप्
नेत्वं द्यावापृथिव्योश्च पुमांस्तु शशलाञ्छने ।नेता भव्यतरौ पुंसि तत्फले क्ली त्रि सारथौ ॥ ७०० ॥
2.5.700 · p. 102
अनुष्टुप्
नीतिक्रियाकर्तरि च प्रभौ चाथ नृशण्डयोः ।पद्मं सरोरुहे क्लीबं सङ्ख्याभेदे तथेन्द्रिये ॥ ७०१ ॥
2.5.701 · p. 103
अनुष्टुप्
गजबिन्दुष्वष्टकायां नागराजान्तरे तु ना ।निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥ ७०२ ॥
2.5.702 · p. 103
अनुष्टुप्
त्रि तु तद्वति पद्मा तु लक्ष्मीभार्ग्योः स्त्रियामियम् ।तथैव पद्मचारिण्यां कश्चित् त्वाहाप्यविश्रुतम् ॥ ७०३ ॥
2.5.703 · p. 103
अनुष्टुप्
स्यात् पद्मनालिकायामित्यथ सामान्तरे प्लवः ।उडुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥ ७०४ ॥
2.5.704 · p. 103
अनुष्टुप्
चण्डाले मर्कटे भेके पक्षिजात्यन्तरे तथा ।यस्याख्या शकटबिल इत्यथ स्यात् त्रि पक्षिषु ॥ ७०५ ॥
2.5.705 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
श्वेतवारलपर्यन्तहंससारसकादिषु ।सौश्रुतोक्तेषु कैवर्तीमुस्तके तु नपुंसकम् ॥ ७०६ ॥
2.5.706 · p. 103
अनुष्टुप्
परं प्रकृष्टे द्विषति पूर्वार्वाक्प्रतियोगिनोः ।अन्यस्मिन् केवले दूरे त्रिषु ना परमात्मनि ॥ ७०७ ॥
2.5.707 · p. 103
अनुष्टुप्
शण्डः परार्धसंज्ञायाः सङ्ख्याया द्विगुणात्मनि ।सङ्ख्यायां वैजयन्ती तु तत्सङ्ख्येयेषु वस्तुषु ॥ ७०८ ॥
2.5.708 · p. 103
अनुष्टुप्
वा त्रिष्वित्याह पथ्यं तु त्र्यनपेते पथो हिते ।यागाङ्गेषु च नित्येषु विष्टुत्यादिषु मन्वते ॥ ७०९ ॥
2.5.709 · p. 103
अनुष्टुप्
ऋक्सामेषु तथा दाशरात्रिकेष्वथ सा स्त्रियाम् ।जातिच्छन्दोविशेषेऽस्य स्यादार्याख्यस्य चान्तरे ॥ ७१० ॥
2.5.710 · p. 103
अनुष्टुप्
गणेषु त्रिषु यस्यादावर्धयोर्दृश्यते यतिः ।बृहतीच्छन्दसो भेदे यस्य स्याद्द्वादशाक्षरम् ॥ ७११ ॥
2.5.711 · p. 103
अनुष्टुप्
उपोत्तमं पदं पादास्त्रयोऽन्येऽष्टाक्षराः स्मृताः ।हरीतक्यां च पथ्याथो गायत्र्यादिषु सप्तसु ॥ ७१२ ॥
2.5.712 · p. 104
अनुष्टुप्
छन्दःसु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः ।क्ली पादबद्धग्रन्थे स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥
2.5.713 · p. 104
अनुष्टुप्
पदाङ्कयोग्यदेशे च यच्चाकरणकं स्वयम् ।पादस्य वेधकं तत्र शर्करादावयो नपि ॥ ७१४ ॥
2.5.714 · p. 104
अनुष्टुप्
पत्रं पुंस्यपि चान्येषां पक्षिपक्षे तरुच्छदे ।वाहने छुरिकायां च पर्णं तु क्ली तरुच्छदे ॥ ७१५ ॥
2.5.715 · p. 104
अनुष्टुप्
पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना ।पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥
2.5.716 · p. 104
अनुष्टुप्
प्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये ।प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७ ॥
2.5.717 · p. 104
अनुष्टुप्
त्रि पुराणे छन्दसि तु क्लीबं पञ्चाशदक्षरे ।पङ्कोऽस्त्री कर्दमे पापे पण्डा स्त्रीपुंसयोर्गतौ ॥ ७१८ ॥
2.5.718 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 छ (wrong syllable)
तत्त्वबुद्धौ स्त्रियामेव पुमानेव नपुंसके ।पक्वं तु क्वथिते नाशोन्मुखे परिणते त्रिषु ॥ ७१९ ॥
2.5.719 · p. 104
अनुष्टुप्
अजयस्तु खलेऽप्याह तस्यार्थश्चिन्त्यतां बुधैः ।क्लीबं तु पचने विद्याच्छृतक्षीरजदध्नि च ॥ ७२० ॥
2.5.720 · p. 104
अनुष्टुप्