कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

मान्ताः · मार्धश्लोकः

॥ मार्धश्लोकः ॥

मः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् ।किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥
24.2.1 · p. 141
अनुष्टुप्
हि[68]मं चन्दनमाख्यातं हिमं शीततुषारयोः ।क्षेमं शुभे च गोरक्षे गन्धे लब्धानुरक्षणे ॥
24.2.2 · p. 142
अनुष्टुप्
तोक्मं स्मृतं हरिन्मात्रे तोक्मश्च हरितो यवः ।भ्रमोऽम्भोनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पयन्त्रके ॥
24.2.3 · p. 142
अनुष्टुप्
द्रुमस्तरौ पारिजाते द्रुमः किंपुरुषेऽपि च ।दमो दण्डः समाख्यातो दम इन्द्रियनिग्रहः ॥
24.2.4 · p. 142
अनुष्टुप्
गमो द्यूतप्रभेदः स्यादपर्यालोकिते गमः ।कृमिः कीटश्च लाक्षा च कृमिश्च कृमिले खरे ॥
24.2.5 · p. 142
अनुष्टुप्
नेमिः कूपस्य वीनाहे चक्रान्ते तिनिशद्रुमे ।भीमो भयानके ख्यातो भीमौ शंकरपाण्डवौ ॥
24.2.6 · p. 142
अनुष्टुप्
धर्मः स्वेदाम्भसि ग्रीष्मे उष्णे स्यादातपेऽपि च ।गुल्मः स्याद्विटपे घट्टे रोगसैन्यविशेषयोः ॥
24.2.7 · p. 142
अनुष्टुप्
समा वर्षं समं तुल्यं समं साधु समं सदृक् ।क्षमा तितिक्षा योग्ये च क्षमं शक्ते हिते क्षमम् ॥
24.2.8 · p. 143
अनुष्टुप्
सीमा च कथिता क्षेत्रे चाघाटे च स्थितावपि ।लक्ष्मीरोषधिभेदे स्यात्पद्मासंपत्तिकान्तिषु ॥
24.2.9 · p. 143
अनुष्टुप्
गोलोमी श्वेतदूर्वायां तथेन्द्रजविसे हृणे ? ।प्रतिमा स्यात्प्रतिकृतौ दन्तमध्ये गजस्य च ॥
24.2.10 · p. 143
अनुष्टुप्
दुर्नामा दीर्घकोषी स्यान्नाम यस्याश्च कुत्सितम् ।सुषमा परमा शोभा सुषमं सुन्दरं समम् ॥
24.2.11 · p. 143
अनुष्टुप्
परमं स्यादनुज्ञानं चाव्ययं परमः परे ।निगमः कथितो वेदे नगरे च वणिक्पथे ॥
24.2.12 · p. 143
अनुष्टुप्
कलमो लेखनी चैव शालीनां वाचकः पृथक् ? ।नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥
24.2.13 · p. 143
अनुष्टुप्
विक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः ।संक्रमः क्रमणे सम्यग्वारिसंचारवस्तुनि ॥
24.2.14 · p. 143
अनुष्टुप्
निष्क्र[69]मो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः ।आगमो मूलशास्त्रेऽपि स्यादागमनमागमः ॥
24.2.15 · p. 144
अनुष्टुप्
नैगमः स्याद्वणिज्यायां वणिङ्नागरयोरपि ।विद्रुमस्तु समुद्रोत्थे प्रवाले रत्नवृक्षके ॥
24.2.16 · p. 144
अनुष्टुप्
संभ्रमं भ्रममिच्छन्ति भयं संवेगमादरम् ।आश्रमो ब्रह्मचर्यादावाश्रमो मठ इष्यते ॥
24.2.17 · p. 144
अनुष्टुप्
सत्तमः कथितः श्रेष्ठः साधीयानपि सत्तमः ।सुषीमः शिशिरे ख्यातश्चारौ च पन्नगान्तरे ॥
24.2.18 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पञ्चमो रागभेदे स्यात्पञ्चानां पूरणोऽपि यः ।व्यायामः पौरुषे माने व्यायामश्च परिश्रमः ॥
24.2.19 · p. 144
अनुष्टुप्
अनुपमापि दिङ्नागहस्तिनी मातुला च या ।पराक्रमश्च सामर्थ्ये विक्रमोद्यमयोरपि ॥
24.2.20 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
प्लवंगमः स्मृतो भेके वानरे च प्लवंगमः ।महापद्मो निधौ दृष्टः संख्यानागविशेषयोः ॥
24.2.21 · p. 144
अनुष्टुप्
अभ्यागमोऽभ्यागमनं युद्धमभ्यागमं विदुः ।सार्वभौमोऽपि दिङ्नागे सर्वपृथ्वीधरेऽपि च ॥
24.2.22 · p. 145
अनुष्टुप्
यातयाममिदं ज्ञेयं जीर्णे भुक्तोज्झिते तथा ।अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥
24.2.23 · p. 145
अनुष्टुप्metre not read in every line