कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुशलिन्

kuśalinपुं · masc.

In 3 kośas: 3 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.47 · p. 147
पृथ्वी पुष्करपर्णी च कोलाङ्गी वर्णभेदिनी ।अश्मन्तकोऽश्मयोनिः स्याद्युग्मपत्रोऽम्लपत्रकः ।श्लक्ष्णत्वङ्मालुकापर्णाः कुशली पापनाशकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.62 · p. 36
अश्मन्तके सूक्ष्मपत्रः पाषाणान्तक इन्द्रकः ।अम्लपत्रस्ताम्रपत्रः कुशली यमलच्छदः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 164 · p. 79
कृती नदीष्णो निष्णातः कुशली निपुणः पटुः ।क्षुण्णः प्रवीणः प्रगल्भः कोविदश्च विशारदः ॥ १६४ ॥
अनुष्टुप्
genderविadj.