कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nāmamālā (Dhanañjaya)

नाममाला Nāmamālā (Dhanañjaya)

203 verses · 1,936 words tagged · 3,187 marked doubtful (dashed)

Part 2 (2/2)

प्रसन्नां वारुणीं हालां मधुवारां सुरां विदुः ।शुण्डासवः तद्विधायी शौण्डो गद्येत मद्यपः ॥ १२१ ॥
121 · p. 61
अनुष्टुप्
सक्तोऽक्षद्यूतपानेषु विचित्रा शब्दपद्धतिः ।सर्पिर्हैयङ्गवीनाज्यं दुग्धं क्षीराऽमृतं पयः ॥ १२२ ॥
122 · p. 61
अनुष्टुप्
उदश्विन्मथितं तक्रं कालशेयं पिबेद्गुरुः ।प्रायो वयो दशानेहा पूर्णं यौवनकं विदुः ॥ १२३ ॥
123 · p. 62
अनुष्टुप्
तारुण्यं यौवनं चान्त्यो वार्द्धीनः स्थविरो मतः ।वंशोऽन्वयोऽन्ववायः स्यादाम्नायः संततिः कुलम् ॥ १२४ ॥
124 · p. 62
अनुष्टुप्
ओघो वर्गश्च सन्तानः काव्यमेव कविस्थितिः ।हंसो मरालश्चक्राङ्गः हंसवाहः सनातनः ॥ १२५ ॥
125 · p. 63
अनुष्टुप्
मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा ।नीलकण्ठः कलापी च शिखण्डी तत्पतिर्गुहः ॥ १२६ ॥
126 · p. 63
अनुष्टुप्
वरटा वारली हंसी कोक ईहामृगो वृकः ।हरिणो मृगश्च पृषतः तदङ्कः शर्वरीकरः ॥ १२७ ॥
127 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पन्नगोऽहिर्विषधरो लेलिहानो भुजङ्गमः ।नागोरगौ फणी सर्पः तद्वैरी विनतात्मजः ॥ १२८ ॥
128 · p. 64
अनुष्टुप्
सुपर्णो गरुडस्तार्क्ष्यो गरुत्मान् शकुनीश्वरः ।इन्द्रजिन्मन्त्रपूतात्मा वैनतेयो विषक्षयः ॥ १२९ ॥
129 · p. 65
अनुष्टुप्
खमिन्द्रियं हृषीकं च श्रो(स्रो)तोऽक्षं करणं विदुः ।पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥ १३० ॥
130 · p. 65
अनुष्टुप्
अघमंहश्च दुरितं पाप्मा पापं च किल्बिषम् ।वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः ॥ १३१ ॥
131 · p. 66
अनुष्टुप्
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम् ।गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥
132 · p. 66
अनुष्टुप्
वसत्यावसथावासं स्थानं धामास्पदं पदम् ।निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥
133 · p. 66
अनुष्टुप्
खेयं खातं च परिखा वप्रं स्याद्धूलिकुट्टिमम् ।प्राकारः परिधिः सालः प्रतोली गोपुराकृतिः ॥ १३४ ॥
134 · p. 67
अनुष्टुप्
प्रासादसौधहर्म्याणि निर्व्यूहो मत्तवारणः ।वातायनं मतालम्बमालम्ब्यसुखमासनम् ॥ १३५ ॥
135 · p. 67
अनुष्टुप्
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
136 · p. 67
अनुष्टुप्
विन्मान्यो विद्यमानश्च गुरुस्थानाम्बुजाननाः ।सिंहादीनि च पर्यायमुपमानेषु योजयेत् ॥ १३७ ॥
137 · p. 68
अनुष्टुप्
व्यपदेशो निभं व्याजः पदं व्यतिकरश्छलम् ।छद्म वृत्तान्तमुत्प्रेक्षा शब्दमन्यं च निर्णयेत् ॥ १३८ ॥
138 · p. 68
अनुष्टुप्
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
139 · p. 69
अनुष्टुप्
ओघः समुदयः सङ्घः सङ्घातः समितिस्ततिः ।निचयः प्रकरः पङ्क्तिः पशूनां समजो व्रजः ॥ १४० ॥
140 · p. 69
अनुष्टुप्
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
141 · p. 69
अनुष्टुप्
जित्या हलिर्हलं सीरं लाङ्गलं तत्करो बलः ।रेवतीदयितो नीलवसनः केशवाग्रजः ॥ १४२ ॥
142 · p. 70
अनुष्टुप्
अर्जुनः फाल्गुनो जिष्णुः श्वेतवाजी कपिध्वजः ।गाण्डीवी कार्मुकी सव्यसाची मध्यमपाण्डवः ॥ १४३ ॥
143 · p. 70
अनुष्टुप्
वृषसेनः सुनिर्मोको दैत्यारिः शक्रनन्दनः ।कर्णशूली किरीटी च शब्दभेदी धनञ्जयः ॥ १४४ ॥
144 · p. 70
अनुष्टुप्
कुरुकीचकयोर्वैरी वायुपुत्रो वृकोदरः ।समवर्ती यमः कालः कृतान्तो मृत्युरन्तकः ॥ १४५ ॥
145 · p. 71
अनुष्टुप्
तदात्मजो जातरिपुः कौन्तेयो भरतान्वयः ।कौरव्यो राजयक्ष्माऽसौ सोमवंशो युधिष्ठिरः ॥ १४६ ॥
146 · p. 71
अनुष्टुप्
श्वेतार्जुनो शुचिः श्येतो वलक्षं सितपाण्डुरम् ।शुक्लावदातं धवलं पाण्डुः शुभ्रं शशिप्रभम् ॥ १४७ ॥
147 · p. 71
अनुष्टुप्
कृष्णं नीलासितं कालं धूमं धूम्रमलिप्रभः ।तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
148 · p. 72
अनुष्टुप्
लोहितं रक्तमाताम्रं पाटलं विशदारुणम् ।पीतं गौरं हरिद्राभं पालाशं हरितं हरित् ॥ १४९ ॥
149 · p. 72
अनुष्टुप्
परागं मधु किञ्जल्कं मकरन्दं च कौसुमम् ।उपचाराद्रजःपांशुरेणुधूलीश्च योजयेत् ॥ १५१ ॥
151 · p. 73
अनुष्टुप्
कलङ्कावद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् ।निबोधमधमं पङ्कं मलीमसमपि त्यजेत् ॥ १५२ ॥
152 · p. 73
अनुष्टुप्
जनोदाहरणं कीर्तिं साधुवादं यशो विदुः ।वर्णं गुणावलिं ख्यातिमवधानं तु साहसम् ॥ १५३ ॥
153 · p. 74
अनुष्टुप्
प्रेष्यादेशनिदेशाज्ञानियोगाः शासनं तथा ।सन्देशः प्रिययोः वार्ता प्रवृत्तिः किंवदन्त्यपि ॥ १५४ ॥
154 · p. 74
अनुष्टुप्
कठोरं कठिनं स्तब्धं कर्कशं परुषं दृढम् ।अश्लीलं काहलं फल्गु कोमलं मृदु पेशलम् ॥ १५५ ॥
155 · p. 75
अनुष्टुप्
प्रत्यग्रं साम्प्रतं नव्यं नवं नूतनमग्रिमम् ।पुराणं जठरं जीर्णं प्राक्तनं सुचिरन्तनम् ॥ १५६ ॥
156 · p. 75
अनुष्टुप्
भो रे हं हो हयामन्त्रे कश्चित् किञ्चन संशये ।द्राक्क्षणेऽह्नाय सपदि निषेधे मा न खल्वलम् ॥ १५७ ॥
157 · p. 76
अनुष्टुप्
उच्चैरुच्चावचं तुङ्गमुच्चमुन्नतमुच्छ्रितम् ।नीचं न्यगातनं कुब्जं नीचैर्ह्रस्वं नयेत्परम् ॥ १५८ ॥
158 · p. 76
अनुष्टुप्
अमा सह समं साकं सार्द्धं सत्रा सजूः समाः ।सर्वदा सततं नित्यं शश्वदात्यन्तिकं सदा ॥ १५९ ॥
159 · p. 77
अनुष्टुप्
वियोगं मदनावस्थां विरहं पल्लकं विदुः ।प्रेमाभिलाषमालभ्यं रागं स्नेहमतः परम् ॥ १६० ॥
160 · p. 77
अनुष्टुप्
संहितं सहितं युक्तं संपृक्तं संभृतं युतम् ।संस्कृतं समवेतं च प्राहुरन्वीतमन्वितम् ॥ १६१ ॥
161 · p. 77
अनुष्टुप्
वर्त्माऽध्वा सरणिः पन्था मार्गः प्रचरसञ्चरौ ।त्रिमार्गनामगा गङ्गा घोषो गोमण्डलं व्रजः ॥ १६२ ॥
162 · p. 78
अनुष्टुप्
शृङ्गो दृतिहरिर्नाथहरिस्तिर्यक्च शृङ्गिणः ।गौश्चतुष्पात्पशुः तत्र महिषी नाम देहिका ॥ १६३ ॥
163 · p. 78
अनुष्टुप्
कृती नदीष्णो निष्णातः कुशली निपुणः पटुः ।क्षुण्णः प्रवीणः प्रगल्भः कोविदश्च विशारदः ॥ १६४ ॥
164 · p. 79
अनुष्टुप्
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
165 · p. 79
अनुष्टुप्
मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः ।स देवानां प्रियोऽप्राज्ञो मन्दः धीनामवर्जितः ॥ १६६ ॥
166 · p. 80
अनुष्टुप्
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
167 · p. 81
अनुष्टुप्
शौण्डीरो गर्वितः स्तब्धो मानी चाहंयुरुद्धतः ।उद्ग्रीव उद्धरो दृप्तः नीचश्च पिशुनोऽधमः ॥ १६८ ॥
168 · p. 81
अनुष्टुप्
चौरैकागारिकस्तेनास्तस्करः प्रतिरोधकः ।निशाचरो गूढनरो हेरिकः प्रणिधिश्च सः ॥ १६९ ॥
169 · p. 81
अनुष्टुप्
प्रस्तरोपलपाषाणदृषद्धातुः शिला घनः ।तत्र जातमयो लोहं शातकुम्भं नयेत्परम् ॥ १७० ॥
170 · p. 82
अनुष्टुप्
क्षामं शान्तं कृशं क्षीणं हीनं जीर्णं च वैरिणाम् ।शीर्णावसानं दूनं च धैर्यं शौर्यं च पौरुषे ॥ १७१ ॥
171 · p. 82
अनुष्टुप्
क्षिप्राशुमङ्क्ष्वरं शीघ्रं सहसा झटिति द्रुतम् ।तूर्णं जवः स्यदो रंहो रयो वेगस्तरो लघुः ॥ १७२ ॥
172 · p. 83
अनुष्टुप्
साधीयोऽत्यर्थमत्यन्तं नितान्तं सुष्टु वै भृशम् ।स्फुटं साधु खलु स्पष्टं विशदं पुष्कलामलौ ॥ १७३ ॥
173 · p. 83
अनुष्टुप्
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
174 · p. 84
अनुष्टुप्
रहोऽनुरहसोपांशु रहस्यं च भिनत्ति कः ।कीनाशः कृपणो लुब्धो गृध्नुर्दीनोऽभिलाषुकः ॥ १७५ ॥
175 · p. 84
अनुष्टुप्
पाशनीतः सितो बद्धः सन्धानीतो नियन्त्रितः ।नियामितः शृङ्खलितः पिनद्धः पाशितो रिपुः ॥ १७६ ॥
176 · p. 85
अनुष्टुप्
कान्तं च कमनं कम्रं कमनीयं मनोहरम् ।अभिरामं रमणीयं रम्यं सौम्यं च सुन्दरम् ॥ १७७ ॥
177 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
चारु श्लक्ष्णं च रुचिरं प्रशस्तं हृद्यबन्धुरम् ।दर्शनीयं मनोज्ञं च चित्तपर्यायहारि च ॥ १७८ ॥
178 · p. 85
अनुष्टुप्
अवश्यायं तुषारं च प्रालेयं तुहिनं हिमम् ।नीहारं तत्करं विद्धि मृगाङ्कं रोहिणीपतिम् ॥ १७९ ॥
179 · p. 85
अनुष्टुप्
पुन्नागं सन्नरं प्राहुः तिलकं च विशेषकम् ।ललाटिका ललामापि पूर्णवाहं तथा द्रुमम् ॥ १८० ॥
180 · p. 86
अनुष्टुप्
अञ्जनं कज्जलं नागं गजपाटलमारुणम् ।सालं परिधि वृक्षं च कुल्यां स्त्रीं सारणीं विदुः ॥ १८१ ॥
181 · p. 86
अनुष्टुप्
चारोऽवसर्पः प्रणिधिर्निगूढपुरुषश्चरः ।तद्वानुक्तः सहस्राक्षः सत्यार्थे सूनृतं ऋतम् ॥ १८२ ॥
182 · p. 86
अनुष्टुप्
निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ।दीर्घं प्रांशु विशालं च बहुलं पृथुलं पृथु ॥ १८३ ॥
183 · p. 87
अनुष्टुप्
उल्बणं दारुणं तिग्मं घोरं तीव्रोग्रमुत्कटम् ।शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
184 · p. 87
अनुष्टुप्
स्वभावः प्रकृतिः शीलं निसर्गो विश्वसो निजः ।योग्या गुणनिकाभ्यासः स्यादभीक्ष्णं मुहुर्मुहुः ॥ १८५ ॥
185 · p. 88
अनुष्टुप्
मृषालीकं मुधा मोघं विफलं वितथं वृथा ।विधुरं व्यसनं कष्टं कृच्छ्रं गहनमुद्धरेत् ॥ १८६ ॥
186 · p. 88
अनुष्टुप्
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् ।शकलं विकलं खण्डं शल्कं लेशं लवं विदुः ॥ १८७ ॥
187 · p. 88
अनुष्टुप्
मर्म कोषं च कलहं परिवादं छलं नयेत् ।शोणितं लोहितं रक्तं रुधिरं क्षतजासृजम् ॥ १८८ ॥
188 · p. 89
अनुष्टुप्
सन्ततानारताजस्रान्वहं कन्यापतिर्वरः ।उद्वाहः परिणयनं विवाहश्च निवेशनम् ॥ १८९ ॥
189 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
शुषिरं विवरं रन्ध्रं छिद्रं गर्ता च गह्वरम् ।श्वभ्रं रस्यं च पातालं नरकं यान्त्यमेधसः ॥ १९० ॥
190 · p. 89
अनुष्टुप्
अदभ्रं भूरि भूयिष्ठं बंहिष्ठं बहुलं बहु ।प्रचुरं नैकमानन्त्यं प्राज्यं प्राभूतपुष्कलम् ॥ १९१ ॥
191 · p. 90
अनुष्टुप्
भवो भावश्च संसारः संसरणं च संसृतिः ।तत्वज्ञश्चतुरो धीरस्त्यजेज्जन्माजवं जवम् ॥ १९२ ॥
192 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
ऊर्जस्फूर्जस्वी तरस्वी तेजस्वी च मनस्व्यपि ।भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः ॥ १९३ ॥
193 · p. 90
अनुष्टुप्
तनुत्रं वर्म कवचमावृतिर्बाणवारणम् ।कूर्पासं कञ्चुकं छत्रमातपत्रोष्णवारणम् ॥ १९४ ॥
194 · p. 90
अनुष्टुप्
केशं शिरोरुहं वालं कचं चिकुरमीहयेत् ।चूडापाशं च धम्मिल्लं कबरी केशबन्धनम् ॥ १९५ ॥
195 · p. 90
अनुष्टुप्
उररीकृतमप्यूरीकृतमङ्गीकृतं तथा ।अस्तुङ्कारोऽभ्युपगमे सत्यङ्कारः पणार्पणे ॥ १९६ ॥
196 · p. 91
अनुष्टुप्
सौहार्दं सौहृदं हार्दं सौहृद्यं सख्यसौरभम् ।मैत्री मैत्रेयिकाजर्यं सहाय्यं संगतं मतम् ॥ १९७ ॥
197 · p. 91
अनुष्टुप्
क्षेमं कल्याणमुभयं श्रेयो भद्रं च मङ्गलम् ।भावुकं भविकं भव्यं श्वोवसीयं शिवं तथा ॥ १९८ ॥
198 · p. 91
अनुष्टुप्
वक्ता वाचस्पतिर्यत्र श्रोता शक्रस्तथापि तौ ।शब्दपारायणस्यान्तं न गतौ तत्र के वयम् ॥ १९९ ॥
199 · p. 91
अनुष्टुप्
तथापि किञ्चित् कस्मैचित् प्रतिबोधाय सूचितम् ।बोधयेत्कियदुक्तिज्ञो मार्गज्ञः सह याति किम् ॥ २०० ॥
200 · p. 91
अनुष्टुप्
प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् ।द्विःसन्धानकवेः काव्यं रत्नत्रयमपश्चिमम् ॥ २०१ ॥
201 · p. 91
अनुष्टुप्
कवेर्धनञ्जयस्येयं सत्कवीनां शिरोमणेः ।प्रमाणं नाममालेति श्लोकानां हि शतद्वयम् ॥ २०२ ॥
202 · p. 91
अनुष्टुप्
ब्रह्माणं समुपेत्य वेदनिनदव्याजात् तुषाराचल-स्थानस्थावरमीश्वरं सुरनदीव्याजात् तथा केशवम् ।अप्यम्भोनिधिशायिनं जलनिधिध्वानोपदेशादहोफूत्कुर्वन्ति धनञ्जयस्य च भिया शब्दाः समुत्पीडिताः ॥ २०३ ॥
203 · p. 91
शार्दूलविक्रीडितम्