कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अश्मन्तक

aśmantakaक्ली · neut.

In 10 kośas: 7 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1018 · p. 40
चालनी तितउः शूर्पं प्रस्फोटनमथान्तिका ।चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ॥ १०१८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.313 · p. 37
अम्बरीषो भवेद्भ्राष्ट्रः कन्दुः स्वेदनिका स्मृता ।चुल्ल्यश्मन्तकमुद्ध्मानं स्मृताधिश्रयणी बुधैः ॥ ३१३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.97 · p. 143
आपूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि ।उदोध्यानं च धानं च हानं षण् चुल्ल्यपि स्त्रियाम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.47 · p. 147
पृथ्वी पुष्करपर्णी च कोलाङ्गी वर्णभेदिनी ।अश्मन्तकोऽश्मयोनिः स्याद्युग्मपत्रोऽम्लपत्रकः ।श्लक्ष्णत्वङ्मालुकापर्णाः कुशली पापनाशकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1751 · p. 285
अन्तिकाऽश्मन्तकं चाऽन्ती तथाऽधिश्रयणी किल ॥ १७५१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.58 · p. 222
तितउः चालनी स्त्रीषण्, सूर्पं तालव्यदन्त्ययुक् ।प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.94 · p. 52
जंबूटनीलजंबूटौ शफर्यां श्लक्ष्णपत्रकः ।शिखीन्द्राश्मन्तकाम्लोटा धवे गौरधुरंधरौ ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.36 · p. 154
प्रकीर्णकं चामरविस्तराश्व-ग्रन्थप्रभेदेष्वथ चुल्लिकायाम् ।अश्मन्तकं काकुद[258a]संवृतौ चकोशातकी-घोष-पटोलिकासु ॥ ३६ ॥
उपजातिःmetre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.37 · p. 155
ज्योत्स्ना नरि त्वापणिके कचे स्या-न्निर्ग्रन्थकस्तु क्षपणे दरिद्रे ।पुनर्नवायां तु कटिल्लकः स्या-त्स्यात्कारवेल्ले च कुठेरके च ॥ ३७ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.45 · p. 29
अङ्गारकस्तु ना भौमे द्वयोस्तु विहगान्तरे ।अश्मन्तकं तु नप्स्त्रीत्वे चुल्ल्यां वृक्षान्तरे तु ना ॥ ४५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कच Śivakoṣa 1.4.54 · p. 6
अश्मन्तकः पुमानम्ललोणिकायुग्मपत्रयोः ।अङ्गारिका दीर्घपत्रकाण्डे किंशुककोरके ॥ ५४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.4 · p. 92
स्यादश्मन्तकमुद्धाने मल्लिकाछदनेपि च ।आह्निकं दिननिर्वर्त्ये तत् क्लीबं नित्यकर्मणि ॥ ४ ॥
अनुष्टुप्

अश्मन्तक as a meaning in nānārtha verses