कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nighaṇṭuśeṣa

निघण्टुशेष Nighaṇṭuśeṣa

401 verses · 3,129 words tagged · 646 marked doubtful (dashed)

वृक्षकाण्डः (1/2)

अशोके स्त्रीप्रियः शोकनाशनः स्यन्दनोऽलसः ।वञ्जुलो मदनावासः स्त्रीपादाहतिदोहदः ॥ ३ ॥
1.3 · p. 5
अनुष्टुप्
हेमपुष्पः कर्णपूरः कङ्केलिर्मधुमण्डनः ।पिण्डपुष्पो लतावृक्षः पौलोमी-रोहिणीद्रुमः ॥ ४ ॥
1.4 · p. 5
अनुष्टुप्
बकुले मदिरागन्धः कृष्णत्वग्मद्यदोहदः ।द्राक्षाफलो गूढपुष्पः केसरः सिंहकेसरः ॥ ५ ॥
1.5 · p. 6
अनुष्टुप्
विशारदो गुडपुष्पः फलमस्य तु पर्पटम् ।तिलके पूर्णकश्छन्नकुसुमो मुखमण्डनः ॥ ६ ॥
1.6 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
चित्रकः क्षुरको रेची स्त्रीनिरीक्षणदोहदः ।कोविदारे भद्रदारुः काञ्चनारो युगच्छदः ॥ ७ ॥
1.7 · p. 7
अनुष्टुप्
ताम्रपुष्पश्चमरिकः कुद्दालः कुण्डली कुली ।काञ्चनो मालुकापर्णः कुदारः स्वल्पकेसरः ॥ ८ ॥
1.8 · p. 7
अनुष्टुप्
चम्पके काञ्चनो हेमपुष्पकः षट्पदातिथिः ।कुसुमेन्द्रो वरलब्धः कुमारीवल्लभश्चलः ॥ ९ ॥
1.9 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
चाम्पेयः कुसुमारोग्यः कलिकागन्धफल्यपि ।स्यान्नागकेसरे नागः केसरो हेमकेसरः ॥ १० ॥
1.10 · p. 8
अनुष्टुप्
दर्वीसहो दुष्प्ररोहश्चाम्पेयः स्कन्धभूषणः ।नागपुष्पः कुम्भफलो हेमसर्पद्विपाह्वयः ॥ ११ ॥
1.11 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कु (wrong syllable)
तत्पुष्पचूर्णे तु करिकुसुमः पुष्परोचनः ।कदम्बे स्यात् पीतदारुः प्रावृषेण्यो हलिप्रियः ॥ १२ ॥
1.12 · p. 9
अनुष्टुप्
हारिद्रकः कादम्बर्यः पुलकी पर्वताह्वयः ।धूलीकदम्बे त्वम्बष्ठः सुवासो वृत्तपुष्पकः ॥ १३ ॥
1.13 · p. 10
अनुष्टुप्
धाराकदम्बे त्वरणिर्विश्वरूपमहौजसौ ।नीपे तु दीपनो धूर्तो नर्त्तो धूवारकः शिवः ॥ १४ ॥
1.14 · p. 10
अनुष्टुप्
महाकदम्बः प्रियको घण्टापुष्पसुपुष्पकौ ।कुटजे कोटजः कोही वत्सको गिरिमल्लिका ॥ १५ ॥
1.15 · p. 10
अनुष्टुप्
वृक्षको मल्लिकापुष्पः कलिङ्गः पाण्डुरद्रुमः ।इन्द्रवृक्षो यवफलो दीप्तभद्रोडुमल्लिका ॥ १६ ॥
1.16 · p. 11
अनुष्टुप्
फलं तु तस्येन्द्रयवं बीजं भद्रयवाह्वयम् ।शिरीषे विषहा भण्डी भण्डीरः शङ्खिनीफलः ॥ १७ ॥
1.17 · p. 12
अनुष्टुप्
मृदुपुष्पः शुकपुष्पः शुकवृक्षः शुकप्रियः ।कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः ॥ १८ ॥
1.18 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी ।वसन्तकामयोर्दूती कुम्भिका कालवृन्तिका ॥ १९ ॥
1.19 · p. 13
अनुष्टुप्
अन्यस्यां तत्र तु श्वेता पाटला काष्ठपाटला ।शीतला श्वेतकुम्भीका कुबेराक्षी फलेरुहा ॥ २० ॥
1.20 · p. 14
अनुष्टुप्
अगुरावगुरुर्लोहं वंशिका विश्वरूपकम् ।कृमिजं प्रवरं राजार्हं जौङ्गमनार्यकम् ॥ २१ ॥
1.21 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मल्लिगन्धेऽत्र मङ्गल्या कृष्णे तु काकतुण्डकः ।श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् ॥ २२ ॥
1.22 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् ।फलकी सुरभिः सारं महार्हं रोहणोद्भवम् ॥ २३ ॥
1.23 · p. 15
अनुष्टुप्
अथ बर्बरके श्वेतं निर्गन्धं बर्बरोद्भवम् ।स्याद्रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् ॥ २४ ॥
1.24 · p. 16
अनुष्टुप्
ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् ।कुचन्दने तु पत्राङ्गं पतङ्गं पट्टरञ्जनम् ॥ २५ ॥
1.25 · p. 16
अनुष्टुप्
सुरङ्गकं रक्तकाष्ठं पत्तूरं तिलपर्णिका ।अथ द्रुमोत्पले व्याधः परिव्याधः सुगन्धिकः ॥ २६ ॥
1.26 · p. 17
अनुष्टुप्
निर्गन्धेऽस्मिन् कर्णिकारो निषीधः पीतपुष्पकः ।पुन्नागे तु महानागः केसरो रक्तकेसरः ॥ २७ ॥
1.27 · p. 17
अनुष्टुप्
देववल्लभकुम्भीकौ तुङ्गः पुरुषनामकः ।अगस्त्ये तु बहुसेनः शुकनाशो मुनिद्रुमः ॥ २८ ॥
1.28 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
करवीरे कणवीरः श्वेतपुष्पोऽश्वमारकः ।प्रतिहासः शतप्राशोऽश्वरोहः कुमुदोद्भवः ॥ २९ ॥
1.29 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
रक्तपुष्पेऽत्र लगुडश्चण्डातश्चण्डगुल्मकौ ।तमाले तु कालस्कन्धस्तापिच्छो रञ्जनो वसुः ॥ ३० ॥
1.30 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
तमालपत्रे वस्वाख्यं रोमशं तामसं दलम् ।सूक्ष्मैलायां चन्द्रबाला द्राविडी निष्कुटिस्तुटिः ॥ ३१ ॥
1.31 · p. 19
अनुष्टुप्
कपोतवर्णिका तुच्छा कोरङ्गी बहुला तुला ।स्थूलैलायां बृहदेला पत्रैला त्वक्सुगन्धिका ॥ ३२ ॥
1.32 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
त्रिदिवोद्भवा च पृथ्वीका कर्णिका त्रिपुटा पुटा ।कर्पूरे स्याद्घनसारो हिमाह्वो हिमवालुका ॥ ३३ ॥
1.33 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 न (wrong syllable)
सिताभ्रः शीतलरजः स्फटिकश्चन्द्रनामकः ।कक्कोलके कटुफलं कोलकं माधवोषितम् ॥ ३४ ॥
1.34 · p. 21
अनुष्टुप्
कोलं कोषफलं कोरं मारीचं द्वीपमित्यपि ।लवङ्गे शिखरं दिव्यं भृङ्गारं वारिजं लवम् ॥ ३५ ॥
1.35 · p. 21
अनुष्टुप्
श्रीपुष्पं श्र्याह्वयं देवपुष्पं चन्दनपुष्पकम् ।नलिकायां कपोतांह्रिर्निर्मध्या शुषिरा नटी ॥ ३६ ॥
1.36 · p. 22
अनुष्टुप्
अञ्जनकेशी धमनी शून्या विद्रुमवल्ल्यपि ।अतिमुक्ते मण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः ॥ ३७ ॥
1.37 · p. 22
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ञ्ज (wrong syllable)
पराश्रयः सुवसन्तः कामुको माधवी लता ।पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः ॥ ३८ ॥
1.38 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः ।गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः ॥ ३९ ॥
1.39 · p. 24
अनुष्टुप्
प्लक्षो वटः प्लवः शुङ्गी सुपार्श्वश्चारुदर्शनः ।कपीतनः कपीनः स्यात्पीतनप्लवकावपि ॥ ४० ॥
1.40 · p. 25
अनुष्टुप्
पर्कट्यां पर्कटी प्लक्षः सतीदो लक्षणे नटी ।वटे वैश्रवणावासो न्यग्रोधो बहुपाद्ध्रुवः ॥ ४१ ॥
1.41 · p. 25
अनुष्टुप्
स्कन्धजन्मा रक्तफलः क्षीरी शुङ्गी वनस्पतिः ।उदुम्बरे जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥ ४२ ॥
1.42 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि ।काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका ॥ ४३ ॥
1.43 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
फल्गुराजी फलभारी मलयूर्जघनेफला ।राजादने तु राजन्या क्षीरिका प्रियदर्शनः ॥ ४४ ॥
1.44 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कपिप्रियो दृढस्कन्धो मधुरालफलो नृपः ।पियाले तु राजवृक्षो बहुवल्को धनुष्पटः ॥ ४५ ॥
1.45 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
सन्नकद्रुः खरस्कन्धश्चारस्तापसवल्लभः ।आम्रातके वर्षपाकी कपिचूतः कपिप्रियः ॥ ४६ ॥
1.46 · p. 28
अनुष्टुप्
कपीतनः पीतनकस्तनुक्षीरोऽम्लपाटकः ।शुङ्गी कपिरसाढ्यश्च दृष्यफलो बिभीषणः ॥ ४७ ॥
1.47 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
अर्के विकीरणोऽर्काह्वो जम्भलाऽऽस्फोटविष्किराः ।क्षीरार्कपर्णः राजार्के त्वलर्को गणरूपकः ॥ ४८ ॥
1.48 · p. 29
अनुष्टुप्
एकाष्ठीलः सदापुष्पी मन्दारश्च प्रतापसः ।स्नुह्यां वज्रो महावृक्षोऽसिपत्रः स्नुक्सुधा गुडा ॥ ४९ ॥
1.49 · p. 30
अनुष्टुप्
समन्तदुग्धा सीहुण्डो गण्डीरो वज्रकण्टकः ।करमर्दे करमदः कराम्लकसुषेणकौ ॥ ५० ॥
1.50 · p. 30
अनुष्टुप्
स्थलपर्कट आविग्नः कृष्णपाकफलोऽपि च ।जम्बीरे जम्भलो जम्भो जम्भीरो दन्तहर्षणः ॥ ५१ ॥
1.51 · p. 31
अनुष्टुप्
दन्तशटो वक्त्रशोधी गम्भीरो रोचनोऽपि च ।करुणे तु छागलाख्यो मल्लिकाकुसुमः प्रियः ॥ ५२ ॥
1.52 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
बीजपूरे बीजपूर्णः पूरकः फलपूरकः ।सुपूरको मातुलुङ्गः केसराम्लोऽम्लकेसरः ॥ ५३ ॥
1.53 · p. 32
अनुष्टुप्
वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः ।कृमिघ्नो गन्धकुमुमः केसरी शीधुपादपः ॥ ५४ ॥
1.54 · p. 32
अनुष्टुप्
मातुलुङ्ग्यां वर्धमाना मधुरा मधुकर्कटी ।मधुवल्ली पीतपुष्पा देवदूती महाबला ॥ ५५ ॥
1.55 · p. 33
अनुष्टुप्
अम्लीकायां चुक्रिकाऽम्ला शुक्तिका चाम्लिकाऽम्ब्लिका ।चुक्रा चिञ्चा तिन्तिडीका तिन्तिला गुरुपुष्पिका ॥ ५६ ॥
1.56 · p. 33
अनुष्टुप्
वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः ।शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरकः ॥ ५७ ॥
1.57 · p. 34
अनुष्टुप्
अथाम्लचेतसे भीमो भेदनो रक्तपूरकः ।रुधिरस्रावकश्चुक्रं मांसारिर्वातिकप्रियः ॥ ५८ ॥
1.58 · p. 34
अनुष्टुप्
शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लकः ।स शङ्खद्रावको हीनो बालद्रावक उत्तमः ॥ ५९ ॥
1.59 · p. 35
अनुष्टुप्
तावेव तु शतवेधिसहस्रवेधिनौ क्रमात् ।कपित्थे वानरावासो गन्धपत्रः कपिप्रियः ॥ ६० ॥
1.60 · p. 35
अनुष्टुप्metre not read in every line
पुष्पफलो दधिफलो दधित्थग्राहिमन्मथाः ।अक्षिस्पन्दो दन्तशठो राजाम्रश्चिरपाक्यपि ॥ ६१ ॥
1.61 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
अश्मन्तके सूक्ष्मपत्रः पाषाणान्तक इन्द्रकः ।अम्लपत्रस्ताम्रपत्रः कुशली यमलच्छदः ॥ ६२ ॥
1.62 · p. 36
अनुष्टुप्
नारङ्गे स्यान्नागरङ्गरत्वक्सुगन्धो मुखप्रियः ।ऐरावतो योगसारो योषिद्वक्त्राधिवासनः ॥ ६३ ॥
1.63 · p. 36
metre not recognisednearly अनुष्टुप्
खदिरे स्याद्रक्तसारः कण्टकी दन्तधावनः ।गायत्री बालपत्रश्च जिह्मशल्यः क्षितिद्रुमः ॥ ६४ ॥
1.64 · p. 37
अनुष्टुप्
सिते तु तत्र कदरः कामुकः कुब्जकण्टकः ।सोमवल्को नेमिवृक्षः श्यामसारः पथिद्रुमः ॥ ६५ ॥
1.65 · p. 37
अनुष्टुप्
विट्खदिरे त्वरिमिदा गोधास्कन्धोऽरिमेदकः ।अहिमारोऽरिमः पूत्यरिमेदो मुखशोधनः ॥ ६६ ॥
1.66 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 दि (wrong syllable)
शाल्मलौ तूलिनी मोचा पिच्छिला चिरजीविता ।कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा ॥ ६७ ॥
1.67 · p. 38
अनुष्टुप्
कण्टकाढ्या नलफली पिच्छा तु तस्य वेष्टकः ।कुशाल्मलौ शाल्मलिको रोचनः कूटशाल्मलिः ॥ ६८ ॥
1.68 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
शिंशिपायां महाश्यामा पिच्छिला पाण्डुरच्छदा ।कृष्णसाराङ्गारवर्णागुरुरन्या तु शिंशपा ॥ ६९ ॥
1.69 · p. 39
अनुष्टुप्
कुशिंशपा भस्मगर्भा कपिला भस्मपिङ्गला ।बदर्यां कुवली कोलिः कर्कन्धुः फलितच्छदा ॥ ७० ॥
1.70 · p. 40
अनुष्टुप्
राष्ट्रवृद्धिकरी कोली सौवीरी वज्रशल्यिका ।घुटा घोण्टा गोपघोण्टा व्याघ्रगृध्रनखीत्यपि ॥ ७१ ॥
1.71 · p. 40
अनुष्टुप्
शम्यां सक्तुफला लक्ष्मीः शिम्बा तुङ्गाग्निपादपः ।अजप्रिया भस्मकाष्ठा शङ्करः शिवकीलिका ॥ ७२ ॥
1.72 · p. 41
अनुष्टुप्
शिवाऽलोमाऽऽयतफला लोमपामविनाशिनी ।मङ्गल्या शुचिपत्रा च फले तस्यास्तु सङ्गरम् ॥ ७३ ॥
1.73 · p. 41
अनुष्टुप्
इङ्गुद्यां तापसतरुर्मार्जारः कटकीलकः ।बिन्दुकस्तिक्तमज्जा च पूतिपुष्पफलोऽपि च ॥ ७४ ॥
1.74 · p. 42
अनुष्टुप्
गुग्गुलौ तु पुरो दुर्गो महिषाख्यः पलङ्कषः ।जटायुः कालनिर्यासो वासवोलूकनामकः ॥ ७५ ॥
1.75 · p. 43
अनुष्टुप्
नक्तंचरः शिवधूपः कुम्भोलूखलकः शिवः ।पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ ७६ ॥
1.76 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable); pāda 3, syllable 5 नि (wrong syllable)
करीरे स्यात्तीक्ष्णसारः शाकपुष्पो मृदुफलः ।मरुजन्मा गूढपत्रो ग्रन्थिलक्रकरावपि ॥ ७७ ॥
1.77 · p. 44
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 दु (wrong syllable)
विकङ्कते स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।किङ्कणिः काकपादश्च व्याघ्रपाद्गोपकण्टकः ॥ ७८ ॥
1.78 · p. 44
अनुष्टुप्
बिल्वे महाफलः श्र्याह्वः शलाटुः पूतिमारुतः ।महाकच्छः [च] शाण्डिल्यः शैलूषो नीलमल्लिका ॥ ७९ ॥
1.79 · p. 45
अनुष्टुप्
श्रीवासः श्रीफलो हृद्यगन्धो मालूरकर्कटौ ।हरीतक्यां जया पथ्या हैमवत्यभयामृता ॥ ८० ॥
1.80 · p. 45
अनुष्टुप्
कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा ।बिभीतके भूतवासो वासन्तोऽक्षो वहेटकः ॥ ८१ ॥
1.81 · p. 46
अनुष्टुप्
संवर्तकः कर्षफलः कल्को हार्यः कलिद्रुमः ।कर्षो दैन्यो मधुबीजो धर्मद्वेषी बिभेदकः ॥ ८२ ॥
1.82 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
आमलक्यां शिवा धात्री वयःस्था षड्रसाऽमृता ।पर्वकीटा तिष्यफला माकन्दी श्रीफला च सा ॥ ८३ ॥
1.83 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
अरणावग्निमन्थः स्यात्तर्कारी वैजयन्तिका ।जया जयन्ती श्रीपर्णी कणिका गणकारिका ॥ ८४ ॥
1.84 · p. 48
अनुष्टुप्
तेजोमन्थो हविर्मन्थो नादेयी वह्निशोधनः ।अरलौ टुण्टुको दीर्घवृन्तो नटः कुटन्नटः ॥ ८५ ॥
1.85 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
श्योनाकः शोनको जम्बूः शुकनाशः कटंभरः ।मयूरजङ्घः कट्वङ्गः सल्लकः प्रियजीवकः ॥ ८६ ॥
1.86 · p. 49
अनुष्टुप्
मण्डूकपर्णः पत्रोर्णो गोपवृक्षो मुनिद्रुमः ।शिग्रौ शोभाञ्जनस्तीक्ष्णगर्भो मूलकपल्लवः ॥ ८७ ॥
1.87 · p. 49
अनुष्टुप्
विद्रध्यरातिकोऽक्षीवो मुखभञ्जः सुभञ्जनः ।दशोक्षीवः सुरङ्गी च मोचको मधुगृञ्जनः ॥ ८८ ॥
1.88 · p. 50
अनुष्टुप्
श्वेतेऽत्र श्वेतमरिचो रक्ते तु मधुशिग्रुकः ।तिनिशे चित्रकृन्नेमिर्वञ्जुलो रथसाधकः ॥ ८९ ॥
1.89 · p. 51
अनुष्टुप्
दीर्घवृक्षश्चक्रकारो रथनामाऽतिमुक्तकः ।अश्मगर्भः सर्वसारः क्रमसन्धारणोऽपि च ॥ ९० ॥
1.90 · p. 51
अनुष्टुप्
पलाशे किंशुकः पर्णः खरपर्णस्रिपत्रकः ।त्रिवृन्तास्यो रक्तपुष्पः क्षीरश्रेष्ठः समिद्वरः ॥ ९१ ॥
1.91 · p. 52
अनुष्टुप्
बीजस्नेहो वातपोथो यज्ञियो ब्रह्मपादपः ।धवे भारोद्वहो गौरः शकटाख्यो धुरन्धरः ॥ ९२ ॥
1.92 · p. 52
अनुष्टुप्
कुलावो नन्दितश्चापि सितः कृष्णश्च स द्विधा ।श्रीपर्ण्यां काश्मरी कृष्णवृन्तिका मधुपर्णिका ॥ ९३ ॥
1.93 · p. 52
अनुष्टुप्
गम्भारी सर्वतोभद्रा कज्जला भद्रपर्णिका ।विहारी कुमुदा हीरा महाकुम्भी च कश्मरी ॥ ९४ ॥
1.94 · p. 53
अनुष्टुप्
नित्यभद्रा महाभद्रा काश्मर्यो मधुमत्यपि ।सप्तच्छदे शुक्तिपर्णो गुच्छपुष्पः सुपर्णकः ॥ ९५ ॥
1.95 · p. 53
अनुष्टुप्
स्थूलपर्णो दीर्घवृक्षः शारदो विषमच्छदः ।मदगन्धर्वशालत्वग् गजद्विट् शाल्मलीदलः ॥ ९६ ॥
1.96 · p. 54
अनुष्टुप्
शिरोरुग्देवविटपी सुमनो ग्रहनाशनः ।आरग्वधे कृतमालः कर्णिकारः सुपर्णकः ॥ ९७ ॥
1.97 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
पीतपुष्पो दीर्घफलः शम्याकञ्चतुरङ्गुलः ।व्याधिहाऽऽरेवतश्चूली प्रग्रहो राजपादपः ॥ ९८ ॥
1.98 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि ।बीजके प्रियकः शारिर्गौरो बन्धुकपुष्पकः ॥ ९९ ॥
1.99 · p. 55
अनुष्टुप्
कृष्णसर्जो मदासर्जः कल्याणः पीवरोऽसनः ।महासालः पीतसालो जीवकः प्रियसालकः ॥ १०० ॥
1.100 · p. 56
अनुष्टुप्
सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः ।स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रकोऽधमः ॥ १०१ ॥
1.101 · p. 56
अनुष्टुप्
अश्वकर्णे दीर्घपत्रः कषायी सस्यसंवरः ।सज्जकः सर्जकः शूरः कार्शः शालो लतातरुः ॥ १०२ ॥
1.102 · p. 57
अनुष्टुप्
देवसालः शक्रतरुर्नदीसर्जोऽर्जुनाह्वयः ।अर्जुनः ककुभः सेव्यः सर्पणो धूर्तपादपः ॥ १०३ ॥
1.103 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शाके कोलफलो द्वारदारुर्योगी हलीमकः ।गन्धसारः स्थिरसारः स्थिरको ध्रुवको ध्रुवः ॥ १०४ ॥
1.104 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
अभ्रंलिहो महापत्रो बलेसारो बलप्रदः ।धर्मणे तु धनुर्वृक्षो गोत्रपुष्पो रुजासहः ॥ १०५ ॥
1.105 · p. 58
अनुष्टुप्
महाबलो महावृक्षो राजाह्वो धन्वनः फलः ।स्वादुफलो मृत्युफलः सारवृक्षः सुतेजनः ॥ १०६ ॥
1.106 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 दु (wrong syllable)
सिल्हके तु सिद्धवृक्षः कोलिपत्रे तु जोरणः ।महापत्रे त्विङ्गुदी स्याद्विषशङ्कुः पलाशकः ॥ १०७ ॥
1.107 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
सरले तु सिद्धदारुर्नमेरुह् खलिपादपः ।देवदारुणि देवाह्वं पवनारिः पलाशिकः ॥ १०८ ॥
1.108 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
पारिभद्रो द्रुकिलिमं किलिमं देववल्लभः ।दारु च स्नेहविद्धं च देवेन्द्रस्वर्गतो द्रुमः ॥ १०९ ॥
1.109 · p. 61
अनुष्टुप्
मध्वष्ठीलो मधुष्ठीलो मधुकाष्ठो मधुस्रवः ।रोधक्रोषमधुगुडात् पुष्पो गोलफलोऽपि च ॥ १११ ॥
1.111 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष (wrong syllable)
जलजेऽस्मिन् मधूलः स्याद्वारिजो दीर्घपत्रकः ।नीरवृक्षो गैरिकाख्यो ह्रस्वपुष्पफलोऽपि च ॥ ११२ ॥
1.112 · p. 62
अनुष्टुप्
तिन्दुके स्फूर्जनस्तुष्टः कालस्कन्धो विरूपकः ।निःस्यन्दनः कालसा रावणो नीलसारकः ॥ ११३ ॥
1.113 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (syllables merged)
द्वितीये तिन्दुके काकस्तिन्दुर्मर्कटतिन्दुकः ।कोकेन्दुकः काकपीलुः कुपीलुकुलकावपि ॥ ११४ ॥
1.114 · p. 63
अनुष्टुप्
रोध्रे लोध्रः सिते तत्र शाबरः स्थूलवल्कलः ।उत्सादनो महारोध्रस्तरुः शबरपादपः ॥ ११५ ॥
1.115 · p. 64
अनुष्टुप्
रक्ते तु पट्टिका तिल्वः पट्टी लाक्षाप्रसादनः ।तिरीटो मार्जनश्चिल्ली कानीनः क्रमुकः शशः ॥ ११६ ॥
1.116 · p. 64
अनुष्टुप्
स्थूलपत्रो बृहत्पत्रः कृष्णलोध्रे तु गालवः ।भूर्जे भूजो बहुपटो मृदुत्वक्को मृदुश्छदः ॥ ११७ ॥
1.117 · p. 64
अनुष्टुप्
रेखापत्रश्छत्रपत्रो बहुत्वक्चर्मिणावपि ।श्लेष्मातके भूतवृक्षः पिच्छिलो द्विजकुत्सितः ॥ ११८ ॥
1.118 · p. 65
अनुष्टुप्
वसन्तकुसुमः शेलुः कफेलुर्लेखशाटकः ।विषघाती बहुवारः शीत उद्दालकः सेलुः ॥ ११९ ॥
1.119 · p. 66
अनुष्टुप्metre not read in every line
लकुचे लिकुचो ग्रन्थिमत्फलः पनसे डहुः ।लकुचः क्षुद्रपनसः तस्य तु न्युब्जकं फलम् ॥ १२० ॥
1.120 · p. 67
अनुष्टुप्
आम्रे रसालो माकन्दः कामाङ्गः पिकबान्धवः ।वनपुष्पोत्सवश्चूतः परपुष्टमदोत्सवः ॥ १२१ ॥
1.121 · p. 68
अनुष्टुप्
मधुदूतो मधुफलः सुफलो मदिरासखः ।वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥ १२२ ॥
1.122 · p. 68
अनुष्टुप्