प्रवीण
pravīṇaवि · adj.In 14 kośas: 12 synonym verses, 6 as a meaning of another word.
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
अनुष्टुप्
genderविadj.
चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा ।दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥
गीतिः
genderविadj.
तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः ।निष्णातश्चतुरो विज्ञः प्रवीणो निपुणः पटुः ॥ ४ ॥
अनुष्टुप्
genderविadj.
प्रवीणो निपुणोऽभिज्ञो विज्ञो वैज्ञानिकः पटुः ।छेको विदग्धो निष्णातः कुशलश्चतुरः कृती ॥ ६ ॥
अनुष्टुप्
genderविadj.
कृती नदीष्णो निष्णातः कुशली निपुणः पटुः ।क्षुण्णः प्रवीणः प्रगल्भः कोविदश्च विशारदः ॥ १६४ ॥
अनुष्टुप्
genderविadj.
संख्यावान्कृतकर्मापि प्रवीणोऽपि विशारदः ।प्रगल्भः प्रतिभायुक्तो विदग्धः छेक इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कृष्टिर्विपश्चित्संख्यावान्दोषज्ञो ज्ञो विचक्षणः ।प्रवीणश्चतुरो विज्ञो विदग्धः कुशलः पटुः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
प्रवीणः शिक्षितो दक्षो निष्णातो निपुणः पटुः ॥ ५०५ ॥
अनुष्टुप्
genderविadj.
हृदयालुः सहृदयो भवेत् सुहृदयोऽपि च ।प्रवीणो विज्ञनिष्णातनिपुनाभिज्ञशिक्षिताः ॥
अनुष्टुप्
genderविadj.
कुशलप्रवीणकृतमुखशिक्षितकृतकर्मनिपुणनिष्णाताः ।पटुचतुरदक्षपेशलवैज्ञानिकविज्ञसुकलसूत्थानाः ॥ १५७२ ॥
गीतिः
genderविadj.
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
प्रवीणोऽभिजनोऽभिज्ञो विज्ञो वैज्ञानिकः कृती ।कृतकृत्यः कृतमुखो निष्णातो दक्षशिक्षितौ ॥ १९ ॥
अनुष्टुप्
genderविadj.
प्रवीण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्षेत्रज्ञपुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । Amarakośa 3.3.66
- धरणिकोश योग्ययोग्यं वदन्ति योगार्हं योग्यामभ्यसनं तथा । प्रवीणोपायिनौ योग्यौ योग्यमप्यौषधान्तरम् ॥ Dharaṇikośa 25.3.9
- कोषकल्पतरु पञ्चमहृद्ये प्रवीणे द्रुपदात्मजायां स्त्रियामथर्षेर्भिदि शाक्यसिंहे । स्याद्गौतमः स्त्री उमरोचनायां । गोदावरीशम्भुकलत्रयोश्च ॥ ९० ॥ Koṣakalpataru 6.25.90
- कोषकल्पतरु योग्यछेकेषु शाखानगरे पुनः स्त्री योग्यः प्रवीणे त्रिषु योगकार्हे । शक्तेऽथ ऋद्ध्यौषधिवाचकः स्त्री व्यासार्कदाराभ्यसनेषु तद्वत् ॥ १८ ॥ Koṣakalpataru 6.26.18
- नानार्थार्णवसंक्षेप योग्यवृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे । उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1072
- शब्दरत्नावली योग्ययोग्यः प्रवीणे योगार्हे ह्युपायिशक्तयोस्त्रिषु । योग्यमृद्धौषधे पुष्ये नाऽन्तिकार्कस्त्रियोः स्त्रियाम् ॥ Śabdaratnāvalī 7.26.26