क्षुण्ण
kṣuṇṇaवि · adj.In 11 kośas: 10 synonym verses, 5 as a meaning of another word.
हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते ।व्युत्पन्नप्रहतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ ॥
अनुष्टुप्
genderपुंmasc.
उच्यते प्रवणः प्रह्वस्तत्परश्च परायणः ।व्युत्पन्नः प्रहतः क्षुण्णः संस्कृतश्च निगद्यते ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
व्युत्पन्नः प्रहतः क्षुण्णः कारणी तु परीक्षकः ।तारतम्यविचारज्ञः श्लिकुतः संशयावहः ॥ १३ ॥
अनुष्टुप्
genderविadj.
व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च ।नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥ ४२ ॥
अनुष्टुप्
genderविadj.
पटीयांश्च पटिष्ठश्च पटोः स्यादतिशायने ।पटिमा पुंसि भावेऽस्य पटुता पाटवं तथा ॥कुशलस्य तु भावे स्यात्कौ[158b]शल्यं कौशलं नपुम् ।नदीष्णस्तु नदीस्नानकुशलः परिकीर्तितः ॥व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतश्च समार्थकाःवदो वदावदो वक्ता वग्नुश्च गदयित्नुवत् ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कृती नदीष्णो निष्णातः कुशली निपुणः पटुः ।क्षुण्णः प्रवीणः प्रगल्भः कोविदश्च विशारदः ॥ १६४ ॥
अनुष्टुप्
genderविadj.
चिद्रूपो हृदयालुश्च सहृदयोऽथ संस्कृतः ।व्युत्पन्नः प्रहतः क्षुण्णः अन्तर्वाणिस्तु शास्त्रवित् ॥ ५१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderविadj.
कलाज्ञश्च कलज्ञोऽपि क्षुण्णः संस्कृतवाचकः ।तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुकौ ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
व्युत्पन्नः प्रहतः क्षुण्णः प्राप्तप्रणिहितौ समौ ।आहतो गुणितोऽथान्तर्गतं प्रस्मृतविस्मृतौ ॥ १६७२ ॥
अनुष्टुप्
genderविadj.
व्युत्पन्नः प्रहतः क्षुण्णो वचनेस्थित आश्रवः ।परान्नः परपिण्डादः परजातपरैधितौ ॥ ४९ ॥
अनुष्टुप्
genderविadj.
क्षुण्ण as a meaning in nānārtha verses
- कोषकल्पतरु प्रहतसुरता निर्जरभावे सुरतं[तु]स्याद्रहःकेलौ । प्रहतं वितते क्षुण्णे संगतदृढयोस्तु संहतं प्राहुः ॥ ८१ ॥ Koṣakalpataru 6.16.81
- नानार्थार्णवसंक्षेप प्रहतख्यातभूषितयोः सिद्धे प्रभिन्नस्तु विदारिते । मत्तहस्तिनि चाथ स्याद् व्युत्पन्नक्षुण्णयोरयम् ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 3.4.35
- नानार्थार्णवसंक्षेप अततप्रहतः प्रयतस्तु स्यात् संस्कृते पूत एव च । अततं वितते क्षुण्णे प्रदीप्तं त्वपि भासिते ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 3.4.36
- शब्दरत्नावली प्रहतनियतिर्नियमे दैवे पतत्पातुकपक्षिणोः । प्रहतं वितते क्षुण्णे पर्यस्ते च हते त्रिषु । प्रभूतं बहुले भूते उन्नतेऽप्युद्गते त्रिषु ॥ Śabdaratnāvalī 7.16.113
- वैजयन्ती प्रहतप्रहतौ क्षुण्णव्युत्पन्नौ प्रयतौ पूतसंस्कृतौ । सव्यायत्तौ प्रसव्यौ द्वौ प्रवृद्धौ प्रसृतैधितौ ॥ १८ ॥ Vaijayantī 7.4.18