All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (2/15)
करीरो ना मृदुफलः क्रकरः क्रकचोऽस्त्रियाम् ।शाकपुष्पो गूढपत्रस्तीक्ष्णसारो हुताशनः ॥ २२ ॥
2.3.22 · p. 145
अनुष्टुप्
सुफलः कटुतिक्तः [27b]स्यात्तीक्ष्णकण्टक इत्यपि ।गाङ्गेरुकं कर्कटकं तोदनं मृगलेण्डिकम् ॥ २३ ॥
2.3.23 · p. 145
अनुष्टुप्metre not read in every line
क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः ।अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥
2.3.24 · p. 145
अनुष्टुप्
दहनाह्वः शोथकरो भल्ली भल्लातकस्त्रिषु ।पत्रैस्तु केसराकारैः कलायसदृशैः फलैः ॥ २५ ॥
2.3.25 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शो (wrong syllable)
पश्चिमार्णवतीरोत्थो वृक्षस्तुबरको मतः ।वातामं च बदामं च स्निग्धमज्जफलं च तत् ॥ २६ ॥
2.3.26 · p. 145
अनुष्टुप्
लोचनाभं च वातारिरङ्कोटस्तु निकोचकः ।अकोल्लको गन्धपुष्पो रेची स्यात्पीतसारकः ॥ २७ ॥
2.3.27 · p. 145
अनुष्टुप्
गुप्तस्नेहस्ताम्रफलो दीर्घकीलोऽरिकिल्लका ।तस्मिंस्तु वामनेग्राही हुण्डी कोलम्बवर्णकः ॥ २८ ॥
2.3.28 · p. 145
अनुष्टुप्
कठोरमल्लिका चाथ पिस्तं स्याच्च मकूलकम् ।कदली कन्दली काली रसा हस्तिबुसा तथा ॥चर्मण्वती भानुफला रम्भा मोचा च कृष्णला ।वृन्तपुष्पा च निःसारा तृणसारा महाच्छदा ॥काष्टाला वारणबि[28a]सा ग्रन्थिनी गजदन्तिका ।सुकुमारा मृत्युफला कथिता दत्तविग्रहा ॥मोचं फलेऽस्याः पुष्पं तु शिलीध्रं कन्दलं त्रिषु ।तालस्तलो ना श्रीबीजो ध्वजद्रुः स महाफलः ॥ २९ ॥
2.3.29 · p. 145
metre not recognised
कठोरमल्लिकास्त्रीपिस्तक्लीमकूलकक्लीकदलीस्त्रीकन्दलीस्त्रीकालीस्त्रीरसास्त्रीहस्तिबुसास्त्रीचर्मण्वतीस्त्रीभानुफलास्त्रीरम्भास्त्रीमोचास्त्रीकृष्णलास्त्रीवृन्तपुष्पास्त्रीनिःसारास्त्रीतृणसारास्त्रीमहाच्छदास्त्रीकाष्टालास्त्रीवारणबिसास्त्रीग्रन्थिनीस्त्रीगजदन्तिकास्त्रीसुकुमारास्त्रीमृत्युफलास्त्रीदत्तविग्रहास्त्रीमोचक्लीशिलीध्रक्लीकन्दलवितालपुंतलपुंश्रीबीजपुंध्वजद्रुपुंमहाफलपुं
दुरारोहो दीर्घदण्डो दीर्घस्कन्धो महातरुः ।तृणराजो लेख्यपत्रो द्रमेशः पांशुताडकः ॥ ३० ॥
2.3.30 · p. 146
अनुष्टुप्
नारीकेलो नारिकेलो नारिकेलिपुटोदकः ।नारिकेरो द्वयोः पुंसि लाङ्गली कूर्चशेखरः ॥ ३१ ॥
2.3.31 · p. 146
अनुष्टुप्
तुङ्गः स्कन्धफलश्चोचो जीववृक्षो महाशिराः ।तृणराजो दृढफलो दृढबीजो महाफलः ॥ ३२ ॥
2.3.32 · p. 146
अनुष्टुप्
दृढवृक्षो द्व्यक्षफलो लतावृक्षः शिरीफलः ।नारिकेलासवोऽम्भोऽस्य चोचं त्वम्बुकरङ्ककम् ॥ ३३ ॥
2.3.33 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्व्य (wrong syllable)
खर्जुरः पुंसि खर्जूः स्त्री निःश्रेणिर्दृढकण्टका ।सिंहिश्रेणी खरस्कन्धा कषायमधुराग्रजा ॥ ३४ ॥
2.3.34 · p. 146
अनुष्टुप्
दुःप्रधर्षा दुरारोहा भूमिखर्जूरिका पुनः ।स्यात्कोकपर्कटी कोका स्वाद्वी तु[28b] स्वादुमस्तका ॥ ३५ ॥
2.3.35 · p. 146
अनुष्टुप्metre not read in every line
मधुक्षीरा पिण्डखर्जूः सुफला च सुकण्टका ।हिरण्यपुष्पी पूगस्तु क्रमुकः केम्बुको हुणिः ॥ ३६ ॥
2.3.36 · p. 146
अनुष्टुप्
गुवाकश्च गुवाकुः स्यात्खपुरः फलपुष्पकः ।घोटा(ण्टा?) चाथ फलं तस्या उद्वेगं चिक्क-चिक्कणे ॥ ३७ ॥
2.3.37 · p. 146
अनुष्टुप्
स्रंसिचिक्का स्त्रियां पूगकोशः खोलक उच्यते ।तालाद्याः पञ्च हिन्तालस्ताल्यां नाडी च केतकी ॥ ३८ ॥
2.3.38 · p. 146
अनुष्टुप्
तृणद्रुमाः स्युरेतेऽष्टौ काकोदुम्बरिका पुनः ।मलपूर्मलयूः फलद्रूः(?)फल्गुनी जघनं फलाः ॥ ३९ ॥
2.3.39 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अराजिः फल्गुवाटी च सफला मञ्जरी च सा ।भवेद्धनफलश्चित्रभेषजा फलभारिका ॥ ४० ॥
2.3.40 · p. 146
अनुष्टुप्
अञ्जीरं मञ्जुलं च स्यात्काकोदुम्बरिकाफलम् ।वरुणो वरणो रोधस्तरुः सेतुस्तमालकः ॥ ४१ ॥
2.3.41 · p. 146
अनुष्टुप्
श्वेतपुष्पः साधुवृक्षस्तिक्तशाकः कुमारकः ।पाश्चात्त्य उरुमानोऽसावथ श्लेष्मातको हिमः ॥ ४२ ॥
2.3.42 · p. 147
अनुष्टुप्
वसन्तकुसुमो लेखशाटः स्या[29a]द्बहुवारकः ।शैलूष-पिच्छिलोद्दाल-मुक्त-मुक्तफला अपि ॥ ४३ ॥
2.3.43 · p. 147
अनुष्टुप्metre not read in every line
द्विजनिन्द्यः कर्बुदारः कफेलूर्नरि शापितः ।भूतवृक्षो द्विलिङ्गानुशमी सक्तुफला शिवा ॥ ४४ ॥
2.3.44 · p. 147
अनुष्टुप्
लक्ष्मीस्तुङ्गापि मङ्गल्या स्निग्धपिच्छिलपत्रिका ।स्यान्मर्कटीफला चेयं बहला केशहृत्फला ॥ ४५ ॥
2.3.45 · p. 147
अनुष्टुप्
भूमीशमी शमीरोऽस्त्री शंकराह्वोऽप्यथ त्रिषु ।शामिलिः स्रुग्विकारोऽस्यास्तत्फलं संगरं शमी ॥ ४६ ॥
2.3.46 · p. 147
अनुष्टुप्
गुन्द्रा गोविन्दिनी गौरी गौः प्रियङ्गुश्च विन्दिनी ।गन्धप्रियङ्गुः फलिनी फली च प्रियकश्च सः ॥ ४७ ॥
2.3.47 · p. 147
अनुष्टुप्
वृत्ता श्यामा गन्धकान्ता कान्ताह्वा कामिनी प्रिया ।कारम्भा कङ्गुनी विष्वक्सेना गन्धफलीति च ॥ ४८ ॥
2.3.48 · p. 147
अनुष्टुप्
पृथ्वी पुष्करपर्णी च कोलाङ्गी वर्णभेदिनी ।अश्मन्तकोऽश्मयोनिः स्याद्युग्मपत्रोऽम्लपत्रकः ।श्लक्ष्णत्वङ्मालुकापर्णाः कुशली पापनाशकः ॥ ४७ ॥
2.3.47 · p. 147
अनुष्टुप्
कोविदारस्ताम्रपर्णो महाय(?)चलप[29b]त्रकः ।कूद्दालश्चापि कुद्दालः क्षीरद्रुः कुण्डली कुली ॥ ४८ ॥
2.3.48 · p. 147
अनुष्टुप्metre not read in every line
उद्दालः स्याच्चमरकः कुण्डलः स्वल्पकेसरः ।वरलब्धः काञ्चनको भ्रमरेष्टो मनोहरः ।काञ्चनारिश्चमरिक आस्फोतस्तुल्यकेसरः ॥ ४९ ॥
2.3.49 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
रक्तपुष्पः श्वेतपाकशत्रुः स्यात्काञ्चनारकः ।सप्तपर्णस्त्वयुक्पर्णः शुक्तिपर्णः सुपर्णकः ॥ ५० ॥
2.3.50 · p. 147
अनुष्टुप्
बहुत्वक्शाल्मलीपर्णस्त्रिपर्णो गुच्छपुष्पकः ।शारदः शारदी चाथ राजवृक्षः सुवर्णकः ॥ ५१ ॥
2.3.51 · p. 147
अनुष्टुप्
आरग्वधश्चार्ग्वधश्च प्रग्रहः कृतमालकः ।आरोग्यशिम्बि-शम्याक-संपाकाश्चतुरङ्गुलः ॥ ५२ ॥
2.3.52 · p. 148
अनुष्टुप्
कर्णिकारो दीर्घफलो व्याध्यन्तक-द्रुमोत्पलौ ।आरेवतो रेवतश्च कर्णी च स्वर्णपुष्पकः ॥ ५३ ॥
2.3.53 · p. 148
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दी (syllables merged)
कुण्डली च करिव्याधः स्वर्णद्रुः कल्पपादपः ।स्वर्णशेफालिकाथ स्यात्पारिभद्रः प्रभद्रकः ॥ ५४ ॥
2.3.54 · p. 148
अनुष्टुप्
रक्तपुष्पो निम्बतरुः कण्टकी पारिजातकः ।मन्दारुरपि मन्दारः कण्टकी शुकं(?)इत्यपि ॥ ५५ ॥
2.3.55 · p. 148
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable); pāda 4, syllable 5 कं (wrong syllable)
[30a]निम्बो नियमनोऽरिष्टो यवनेष्टोऽपि कुष्ठहा ।सुभद्रः सर्वतोभद्रः पारिभद्रः प्रभद्रकः ॥ ५६ ॥
2.3.56 · p. 148
अनुष्टुप्
कृमिघ्नो हिङ्गुनिर्यासोऽस्त्री सुतिक्तक-मालकौ ।पिचुमर्दश्छर्दनश्च पिचुमन्दः शुकप्रियः ॥ ५७ ॥
2.3.57 · p. 148
अनुष्टुप्
देवदत्तः शीर्णपर्णः प्रियशालो रविप्रियः ।वरत्वचोऽप्यथ द्रेक्का तस्यां रमण-रामणौ ॥ ५८ ॥
2.3.58 · p. 148
अनुष्टुप्
कैडर्यश्च महानिम्बः शाकसारोऽपि रम्यकः ।पञ्चनिम्बं तु निम्बस्य पञ्चाङ्गं समुदीरितम् ॥किराततिक्तो भूनिम्बो नार्यतिक्तश्च तिक्तकः ।रामसेनः किरातश्च नेपालोत्थस्तु हैमकः ॥कैरातः काण्डतिक्तश्च नाडीतिक्तोऽर्धतिक्तकः ।मदना वामनो राठो गाल-गालव-पिण्डिनः ॥ ६० ॥
2.3.60 · p. 148
अनुष्टुप्
तस्करः करहाटश्च श्वसनो विषपुष्पकः ।पिण्डीतकः शल्यकश्च पिण्डपुष्पश्च पर्वरुः ॥ ६१ ॥
2.3.61 · p. 148
अनुष्टुप्
मातुलो बीजपुष्पश्च पुमान्मरुबकः फलम् ।श्वेतस्त्वेष करञ्जः स्याच्चर्मकारतरुश्च सः ॥ ६२ ॥
2.3.62 · p. 148
अनुष्टुप्
तीक्ष्ण[30b]कीलः श्वेतवर्मपादपश्च प्रकीर्तितः ।कृष्णोऽन्यो गंच(?)पिण्डीतो महापिण्डीतको महान् ॥ ६३ ॥
2.3.63 · p. 148
अनुष्टुप्metre not read in every line
पीतकः पीतपिण्डीतः सूक्ष्मपिण्डीतकोऽपि सः ।श्लक्ष्णपिण्डीतकः पर्णपिण्डीतो वस्तिशोधनः ॥ ६४ ॥
2.3.64 · p. 149
अनुष्टुप्
करञ्जः करजो नक्तमालः स्याच्चिरिबिल्वकः ।मञ्जरीकुसुमो रक्तमालोऽथ धूतपूर्णकः ॥ ६५ ॥
2.3.65 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
प्रकीर्यः स्निग्धगु(च्छोऽसौ)सोमवल्कः सगौरकः ।पूतीकरञ्जः पूतीकः सुमनाः कलिमारकः ॥ ६६ ॥
2.3.66 · p. 149
अनुष्टुप्metre not read in every line
कलिङ्गश्चोदकीर्या सुंतुं(?)षड्ग्रन्थो हस्तिचारणी ।वल्लीकरञ्जशार्ङ्गेष्टा(?) कासघ्नी करभण्डिका ॥कैडर्यश्च सुमन्तश्च मातृनन्दन एव च ।दन्तधावनकोऽङ्गारवल्लरी मर्कटी तथा ॥ ६८ ॥
2.3.68 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्तुण्डकी काकतिक्ता सुरद्रुस्तु सुगर्भकः ॥ ६८ ॥
2.3.68 · p. 149
तिनिशः स्यन्दनो नेमिर्नरि पाषाणगर्भकः ।वित्तकृत्सर्वसारश्च चक्रसंवरणस्तथा ॥ ६९ ॥
2.3.69 · p. 149
अनुष्टुप्
आरण्यस्तु रथद्रुः स्या[31a]दतिमुक्तश्च वञ्जुलः ।शोभाञ्जनः कृष्णगन्धस्तीक्ष्णगन्धो बहुच्छदः ॥ ७० ॥
2.3.70 · p. 149
metre not recognised
सौभाञ्जनोऽस्त्रियां शिग्ररक्षिबो मोचकस्तथा ।विद्रधिद्विट् सालनोऽर्होऽप्यवदंशो घनच्छदः ॥ ७१ ॥
2.3.71 · p. 149
अनुष्टुप्
हलपत्रो वक्त्रभङ्गः स्त्रियां मूलकपर्ण्यपि ।रक्तोऽसौ मधुशिग्रुः [स्या]न्मधुरो मधुशृङ्गकः ॥ ७२ ॥
2.3.72 · p. 149
अनुष्टुप्
स्वादुगन्धिर्गञ्जनकः सुगन्धश्च सभञ्जनः ।सिंहकेशी सुरङ्गी स्यादथ श्वेतोऽतितीक्ष्णकः ॥ ७३ ॥
2.3.73 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ग (wrong syllable)
मुखभञ्जो विमुचति(?) चौरः श्वेतमरीचकः ।तद्बीजं श्वेतमरिचं शिग्रुतैलं तु बैजकम् ॥ ७४ ॥
2.3.74 · p. 149
अनुष्टुप्
भूमीसहो द्वारदारु वरदारु खरच्छदः ।स्थिरकच्छो महापत्रः शाकः सुरभिसारकः ॥ ७५ ॥
2.3.75 · p. 149
अनुष्टुप्
शालः सालः शङ्कुतरुः कार्श्योऽल्पस्तु लतातरुः ।अजकर्णो बस्तकर्णः सर्जको रञ्जनद्रुमः ॥ ७५ ॥
2.3.75 · p. 149
अनुष्टुप्
कुशिकः स्यात्स्नेहकरोऽश्वकर्णस्त्वेष शैलजः ।सस्यसंवरणः शूरश्चीरिपत्रो गुरुच्छदः ॥[31b]तार्क्ष्यहृद्दीर्घपत्रः स्यात्पीतसालस्तु बीजकः ।जीवकः प्रियकः काम्यो भवेद्बन्धूकपुष्पकः ॥ ७७ ॥
2.3.77 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्ने (wrong syllable)
असनश्चासनश्च स्यादथान्यः कृष्णसर्जकः ।सुगन्धिर्नीलनिर्यासः पुष्पवृक्षोऽलकप्रियः ॥ ७८ ॥
2.3.78 · p. 150
अनुष्टुप्
शौरिः कार्श्यो महासर्जः कृष्णद्रुस्तिलकद्रुमः ।शिंशपा तु महाश्यामा कृष्णसारा युगच्छदा ॥ ७९ ॥
2.3.79 · p. 150
अनुष्टुप्
पिच्छिला गुरुसारा चागुरुर्मण्डलपत्रिका ।कुशिंशपान्या कपिला भस्मगर्भावसादिनी ॥ ८० ॥
2.3.80 · p. 150
अनुष्टुप्
शिंशपाया विकारे स्याच्छांशपं भेद्यलिङ्गकम् ।शिरीषः शुकवृक्षः स्यान्मृदुपुष्पश्च भण्डिलः ।श्यामवल्कलभण्डीको भण्डीरः शङ्खिनीफलः ॥ ८१ ॥
2.3.81 · p. 150
अनुष्टुप्
प्लवगः कलमो विप्रोऽथान्यो देवशिरीषकः ।चक्रेन्द्रको बदरकोऽप्यथ न स्त्री तमालकः ।समौ तपिच्छ-तापिच्छौ कालस्कन्धश्च कीर्तितः ॥ ८२ ॥
2.3.82 · p. 150
अनुष्टुप्
महाकालस्तु किंपाको बर्बरीकोपकालकौ ।खदिरो रक्तसारः स्यात्कु[32a]ष्ठघ्नो दन्तधावनः ॥ ८३ ॥
2.3.83 · p. 150
अनुष्टुप्metre not read in every line
कण्टकी बालपत्रश्च जिह्वाशल्यक्षतक्षमः ।यूपद्रुमो याज्ञिकश्च गायत्री तत्र च स्त्रियाम् ॥ ८४ ॥
2.3.84 · p. 150
अनुष्टुप्
गोराटः श्यामसारश्च शल्यको बहुशल्यकः ।स सितः सोमवल्कः स्यात्कन्दरः श्वेतसारकः ।पथिद्रुमोऽथासितेऽत्र नेमिद्रुः कुकुकण्टकः ॥ ८५ ॥
2.3.85 · p. 150
अनुष्टुप्metre not read in every line
कालस्कन्धश्च काम्बोजी महासारोऽपि कार्मुकः ।अथेरिमश्चारिमेद इरिमेदोऽहिमारकः ॥ ८६ ॥
2.3.86 · p. 150
अनुष्टुप्
गोधास्कन्धो विट्खदिरो रिमः पूत्यहिमेदकः ।त्वक्सारः कृष्णवृक्षश्च गोधावल्ली सुमेदकः ॥ ८७ ॥
2.3.87 · p. 150
अनुष्टुप्
गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी ।धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥
2.3.88 · p. 151
अनुष्टुप्
धुरंधरो नन्दिनको गोत्रवृक्षस्तु धन्वनः ।गोत्रपुष्पो धनुर्वृक्षोऽधमर्णश्च रुजाहरः ॥ ८९ ॥
2.3.89 · p. 151
अनुष्टुप्
महाबलः सारवृक्षः पिच्छलश्च सुतेजनः ।रक्तस्वादुफलश्चाथ बब्बूलो बब्बुलस्तथा ॥ ९० ॥
2.3.90 · p. 151
अनुष्टुप्
द्रोणीमुखः[32b] सूचिपुष्पो भवेच्चक्रकचक्षदः (?) ।कुक्कुटः कर्णमेयः स्यात्तस्मिन्नाभाट(?)च सम्मता ।विकङ्कतः सुवतरुर्ग्रन्थिलः स्वादुकण्टकः ॥ ९१ ॥
2.3.91 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोपकण्टः श्वानपादो व्याघ्रपादश्च किङ्किणी ।यज्ञवृक्षोऽग्निवृक्षश्च पृथुबीजः सुधातरुः ॥ ९२ ॥
2.3.92 · p. 151
अनुष्टुप्
ऐरावणो मृदुफलः काकपादश्च कण्टकी ।स्यात्पिण्डरोहणस्त्रय्यां त्विङ्गुदी तापसद्रुमः ॥ ९३ ॥
2.3.93 · p. 151
अनुष्टुप्
भल्लकोऽङ्गारवृक्षश्च तिक्ताह्वो वृद्धकण्टकः ।स्यात्पूतिपर्णिकः स्नेहमज्जापि व्यावहारिकः ॥ ९४ ॥
2.3.94 · p. 151
अनुष्टुप्
बिन्दुकश्चाथ सरलः पीतद्रुः पूतिदारु च ।उच्छितं स्याद्दीपतरुश्चण्डा स्त्री स्निग्धदारु च ॥ ९५ ॥
2.3.95 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दी (wrong syllable)
मारीचपत्रकश्चाथ हारिद्रः पीतवृक्षकः ।कदम्बपुष्पकः श्रीमान्हरिद्रक-मरूद्भवौ ॥ ९६ ॥
2.3.96 · p. 151
अनुष्टुप्
दार्वी पचंपचा गौरी पर्जन्या पर्जनी च सा ।कटंकटेरी हेमाभा तथा दारुहरिद्रिका ॥ ९७ ॥
2.3.97 · p. 151
अनुष्टुप्
कालीयकश्च[33a]न स्त्री स्यात्पीतदारु च पीतनम् ।न स्त्रियां देवदारुः स्यात्सुरदारु च दारु च ।भद्रदारु स्नेहविद्धं किलिमं च सुराह्वयम् ॥ ९७ ॥
2.3.97 · p. 151
अनुष्टुप्metre not read in every line
पारिभद्रः पीतदारु पूतिदारु सुदारु च ।कर्पटं च महादारु सुमङ्गल्येन्द्रदारुणी ॥ ९८ ॥
2.3.98 · p. 151
अनुष्टुप्
ब्रीडा तारा गन्धवधूर्वातघ्ना भूतनाशनी ।नपुंसि तरुणी चाथ द्वंद्वे रालोऽग्निवल्लभः ॥ 99 ॥
2.3.99 · p. 151
अनुष्टुप्
दीपवृक्षः सर्ज-सर्जरस-सर्वरसा गलः ।बहुरूपो यक्षधूपः स्निग्धदारुश्च शीतलः ॥ २०० ॥
2.3.200 · p. 152
अनुष्टुप्
शक्रद्रुरसनिर्यासः श्रीकरो देवधूपकः ।कान्तः कलकलश्चाथ श्रीवेष्टः सल्लकीद्रवः ॥ १ ॥
2.3.1 · p. 152
अनुष्टुप्
रक्तशीर्षः पायसश्च श्र्यङ्कः क्षीरश्रवस्तथा ।श्रीवासोऽपि चदच्याह्वो(?) वृकधूपक इत्यपि ॥ २ ॥
2.3.2 · p. 152
अनुष्टुप्
रसाङ्गस्तिलपर्णी स्यात्कुम्भोलूखलकं पुनः ।कौशिकः कालनिर्यासः पुरो गुग्गुलु-गुग्गलौ ॥ ३ ॥
2.3.3 · p. 152
अनुष्टुप्
नक्तंचरः शिवो दुर्गो देवधूप-ज[33b]टायुषौ ।सर्वंसह-मरुद्भाव-महिषाक्ष-जटायवः ॥ ४ ॥
2.3.4 · p. 152
अनुष्टुप्metre not read in every line
खलको वायुसारोऽपि यातुकन्दः पलंकषः ।उलूखलं च कुम्भः स्यात्तन्निर्यासमिदं पुनः ॥ ५ ॥
2.3.5 · p. 152
अनुष्टुप्
हिरण्यः कुमुदः पद्मो महिषाक्षो महासितिः ।स्वनामवर्णाः सर्वे स्युः सल्लकी तु महेरणा ॥ ५ ॥
2.3.5 · p. 152
अनुष्टुप्
कङ्कारी गन्धवीरा च वल्लकी व्रणरोपणी ।सुस्रवा सुरभिर्मोचा ह्लादिनी च ह्लदा रसा ॥ ६ ॥
2.3.6 · p. 152
अनुष्टुप्
गलरक्षा कुन्दुरुकी भक्ततिक्ताथ कुन्दुरुः ।मुकुन्द-कुन्दौ पालिन्दः सुगन्धो भीषणो बली ॥ ७ ॥
2.3.7 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
नागः श्रीवल्लभः स्वक्षो मेचकः खद्युरो मुनिः ।चन्दनोऽस्त्री मलयजं भद्रश्रीर्गन्धसारकः ।जाकुटश्च पटीरश्च श्रीखण्डो रोहिणद्रुमः ॥ ८ ॥
2.3.8 · p. 152
अनुष्टुप्
हिमं महार्हं मलयं श्वेतं स्याच्चन्द्रकान्तकः ।हरिचन्दनमस्त्री स्याद्गोशीर्षं तैलपर्णिकः ॥ ९ ॥
2.3.9 · p. 152
अनुष्टुप्
मल्लेष्टं पीतकाष्ठं च कालीयं हरिवल्लभम् ।कालसारं तु कालेयं कालीयं वंशिकं तथा ॥ १० ॥
2.3.10 · p. 152
अनुष्टुप्
जोगं कालानुसार्यं च वनच[34a]न्दनमस्त्रियाम् ।नातिशीततमं श्वेतं कैरातं च शिलोद्भवम् ॥बर्बरोत्थं श्वेतवर्णं निर्गन्धबर्बराह्वयम् ।रक्तचन्दनमस्त्री स्याद्रक्तसारं च लोहितम् ॥ ११ ॥
2.3.11 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् ।ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥
2.3.12 · p. 153
अनुष्टुप्
स्यात्क्षुद्रचन्दनं शैलभवेऽन्यत्तु कुचन्दनम् ।पत्राङ्गं स्याच्च पत्रङ्गं रक्तकाष्टं सुरङ्गकम् ॥ १३ ॥
2.3.13 · p. 153
अनुष्टुप्
पत्तूरं पत्ररागं च पट्टरञ्जनमेव च ।भार्यावृक्षोऽयमन्यश्च कटुका शणपुष्पिका ॥ १४ ॥
2.3.14 · p. 153
अनुष्टुप्
अगुर्वगरु चायुस्कं राजार्हं जोङ्गकं तथा ।कृमिजं कृमिजग्धं स्यादनार्यमसिते त्विह ॥ १५ ॥
2.3.15 · p. 153
अनुष्टुप्
कृष्णागरुर्लघ्वगरु कृष्णशीर्षं च वंशिकम् ।कृष्णशृङ्गं नरेन्द्रार्हं लोहाह्वं काकतुण्डकम् ॥ १६ ॥
2.3.16 · p. 153
अनुष्टुप्
मल्लिगन्धि तु मङ्गल्यमस्त्री भूर्जः स्थिरच्छदः ।चित्रपत्रो मृदुत्वक्को भूजो भूतहरः शिवः ॥ १७ ॥
2.3.17 · p. 153
अनुष्टुप्
लेख्यपत्रो बहुपुटश्चर्मी कालः पृथुत्वचः ।[34b]शाल्मलिस्तु द्वयोर्मोचा पिच्छिला स्थिरजीविता ॥ १८ ॥
2.3.18 · p. 153
अनुष्टुप्
कुक्कुटी च स्थूलफला रक्तपुष्पा च पूरणी ।कण्टकाख्या रक्तफला मानद्रुर्मातुलद्रुमः ॥ १९ ॥
2.3.19 · p. 153
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
कुशाल्मलिः शाल्मलिको रोचनः कूटशाल्मलिः ।शाल्मलीवेष्टकः पिच्छा शाल्मलो वेष्टकस्तथा ॥ २० ॥
2.3.20 · p. 153
अनुष्टुप्
मोचस्रावो मोचरसो मोचनिर्यास-मोचकौ ।रोही रोहितको रक्तो रक्तघ्नो रक्तपुष्पकः ॥ २१ ॥
2.3.21 · p. 153
अनुष्टुप्
रोहिणो रोचनः प्लीहशत्रुर्दाडिमपुष्पकः ।लोहितो रोपणः कूटशाल्मलिः पारिजातकः ॥ २२ ॥
2.3.22 · p. 153
अनुष्टुप्
अरिष्टो रक्तबीजश्च पीतफेनश्च फेनिलः ।रक्ताफलः सुमङ्गल्यो गर्भपात्यर्थसाधनः ॥ २३ ॥
2.3.23 · p. 153
अनुष्टुप्
कृष्णबीजः शीतफेनोऽप्यथ वारिप्रसादनम् ।छेदनीयं भूतफलं कन्तं(तं) कतकमक्षिदम् ॥ २४ ॥
2.3.24 · p. 154
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भू (wrong syllable)
द्रविडं चंघूलं(?)कार्क्षमथो कुटज-कूटजौ ।कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षश्च वत्सकः ॥ २५ ॥
2.3.25 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घू (wrong syllable)
काही च गिरि[35a]मल्ली स्त्री कुटजी त्वेष तुच्छकः ।वरतिक्तः शक्रनामा वृक्षकः पाण्डुपादपः ॥ २६ ॥
2.3.26 · p. 154
metre not recognised
मल्लिका नीलयष्टिः स्याद्बीजे त्वस्येन्द्रबीजकम् ।भवेद्भद्रयवः पुंसि फलं त्विन्द्रयवो भवेत् ॥ २७ ॥
2.3.27 · p. 154
अनुष्टुप्
कलिङ्गकः शक्रनामा स्यादथो मोक्ष-मुष्ककौ ।गोलीढो गोलिहो मुष्टिर्मुञ्चकः सूर्यकस्तथा ॥ २८ ॥
2.3.28 · p. 154
अनुष्टुप्
क्षारश्रेष्ठः क्षारवृक्षः पाटलः क्षुद्रपाटलः ।खरशाखी स्त्रियां घण्टा द्विधासौ शुक्लकृष्णतः ॥ २९ ॥
2.3.29 · p. 154
अनुष्टुप्
वेल्लंतरो वीरतरुर्दीर्घमूलोऽश्मकृच्छ्रहा ।क्षुरधारो वधाकारो दीर्घपत्रो महानिलः ॥ ३० ॥
2.3.30 · p. 154
अनुष्टुप्
अश्वक्षुरः श्वेतपुष्पी श्वेता च श्वेतनासिका ।विषघ्नी गिरिकर्णी च कटभी किणिही तथा ॥ ३१ ॥
2.3.31 · p. 154
अनुष्टुप्
आस्फोता दधिपुष्पी खट्वाथाद्य(?)पराजिता ।गर्दभी जनिका सूर्या श्वेतपाटलिपिण्डका ॥ ३२ ॥
2.3.32 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विष्णुक्रान्ता गवाक्षोऽथ नीलपुष्पा गवादनी ।महाश्वेताऽव्यक्तगन्धा वज्रस्तु स्यान्महातरुः ॥ ३३ ॥
2.3.33 · p. 154
अनुष्टुप्
समौ सीहुण्ड-सेहुण्डौ गण्डीरः ख[35b]ङ्गपत्रकः ।बहुस्रावो बहुक्षीरो वज्रतुण्डक इत्यपि ॥ ३४ ॥
2.3.34 · p. 154
अनुष्टुप्metre not read in every line
समन्तदुग्धा स्नुक् स्नुह्यः स्नुहा चैव विषाणिका ।सुधा गुडा चाथ वज्रवल्ली स्याद्धस्तिशुण्डिका ॥ ३५ ॥
2.3.35 · p. 154
अनुष्टुप्
वनालिकास्थिसंहारो वज्रह्वा चामरा च सा ।स्नुह्यपामार्गहलिनी धवार्कतिलमुष्ककैः ॥कुटजेन च संयुक्तैः स्नुह्यष्टकमुदाहृतम् ।एरण्डो यक्षहस्तः स्याद्रुबुर्गन्धवैहस्तकः ॥ ३६ ॥
2.3.36 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वै (wrong syllable)
पञ्चाङ्गुलो वर्धमानो डिम्बो वातारिरप्यसौ ।सितस्तूत्तानपत्रोऽयं गन्धर्वो दीर्घदण्डकः ॥ ३७ ॥
2.3.37 · p. 155
अनुष्टुप्
तरुणो रुचकश्चञ्चू रक्तस्तु गजकर्णकः ।व्याघ्रो व्याघ्रतलो व्याघ्रपुच्छो लोहितशीर्षकः ॥ ३८ ॥
2.3.38 · p. 155
अनुष्टुप्