गजमज्जन
gajamajjanaIn 6 kośas: 0 synonym verses, 6 as a meaning of another word.
गजमज्जन as a meaning in nānārtha verses
- धरणिकोश निर्वाण[निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् ? ।] निर्वाणमपवर्गोऽपि निर्वाणं निर्वृतिं विदुः ॥ Dharaṇikośa 14.3.11
- कोषकल्पतरु निर्वाणनिर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ Koṣakalpataru 6.15.32
- नानार्थार्णवसंक्षेप निर्वाणनिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । क्ली त्रिस्तु मुनिवह्न्यादौ शब्दविद्भिर्निरूपितम् ॥ १०२९ ॥ Nānārthārṇavasaṃkṣepa 4.1029
- शब्दरत्नावली निर्वाणनिर्वाणं निर्वृतावस्तगमने गजमञ्जने । सङ्गमे निश्चले मोक्षे शून्ये विद्योपदेशने ॥ Śabdaratnāvalī 7.15.43
- शब्दरत्नाकर निर्वाणनिर्वाणं मरणे मोक्षे निर्वृतौ गजमज्जने । निरस्तः स्यात् त्रिषूत्सृष्टसायके त्वरितोदिते ॥ २११४ ॥ Śabdaratnākara 4.1.2114
- वैजयन्ती निर्वाणनिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । निदानमपदाने स्यात् खण्डनेऽप्यादिकारणे ॥ २० ॥ Vaijayantī 7.3.20