All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
त्र्यक्षरकाण्डः · नपुंसकलिङ्गाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः
अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ ।अंशुकं केवले वस्त्रे सूक्ष्मवस्त्रोत्तरीययोः ॥ १ ॥
7.3.1 · p. 250
अनुष्टुप्
अभीक्ष्णमव्ययं वा स्यात् पौनःपुन्यभृशार्थयोः ।अरुलं सलिले पोते प्यलीकं त्वप्रियेऽनृते ॥ २ ॥
7.3.2 · p. 250
अनुष्टुप्
अनूकमन्वये शीलेऽप्यास्पदं स्थानकृत्ययोः ।स्तंभमात्रेऽपि चालानं हस्तिनोंऽसेऽपि चासनम् ॥ ३ ॥
7.3.3 · p. 250
अनुष्टुप्
रेतसीन्द्रियमक्षे च दर्शनेऽक्षणि चेक्षणम् ।उद्यानं संग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ ४ ॥
7.3.4 · p. 250
अनुष्टुप्
उत्थानमुद्यमे वास्तौ तन्त्रेहापौरुषेषु च ।उद्धानमुद्गमे चुल्ल्यामौशीरे दण्डचामरे ॥ ५ ॥
7.3.5 · p. 250
अनुष्टुप्
कटीरं कन्दरे कट्यां कलत्रं श्रोणिभार्ययोः ।क्रन्दनं रुदिते ध्वाने कार्मुकं शस्त्रचापयोः ॥ ६ ॥
7.3.6 · p. 250
अनुष्टुप्
कारणं हेतुवधयोः कारकं हिंसकेपि च ।कीलालं रुधिरे तोये कुहरं गह्वरे बिले ॥ ७ ॥
7.3.7 · p. 250
अनुष्टुप्
कुरीरं ग्राम्यधर्मेऽब्जे कुन्नानं कुण्डशिक्ययोः ।कैतवं कपटे द्यूते कृपीटमुदरे जले ॥ ८ ॥
7.3.8 · p. 250
अनुष्टुप्
करणं कारणे काये साधने बवकादिषु ।स्पृष्टाद्युच्चारणाभेदध्यानपद्मासनादिषु ॥ ९ ॥
7.3.9 · p. 250
अनुष्टुप्
रतबन्धे नाट्यभेदे गीतके कर्मणीन्द्रिये ।कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले ॥ १० ॥
7.3.10 · p. 250
अनुष्टुप्
कामे ख्याते मंगले च हस्तसूत्रेऽपि कंकणम् ।कटित्रं चर्म सुस्यूतं कटीवेष्टनचर्म च ॥ ११ ॥
7.3.11 · p. 250
अनुष्टुप्
कोदण्डं तु चतुर्हस्तं धनुर्वेणुर्धनुर्धरः ।केतौ तु केतनं चापे कृत्यार्थोपनिमन्त्रणे ॥ १२ ॥
7.3.12 · p. 251
अनुष्टुप्
कौलीनं प्राणिभिर्द्यूते कुलीनत्वापवादयोः ।गुह्येऽकार्ये च कौपीनं गन्धनं तु प्रकाशने ॥ १३ ॥
7.3.13 · p. 251
अनुष्टुप्
सूचनेऽपि च हिंसायां परस्योत्साहनेऽपि च ।ग्रहणं बन्दिरादानमादरोऽर्काद्युपप्लवः ॥ १४ ॥
7.3.14 · p. 251
अनुष्टुप्
गह्वरं कन्दरे दंभे चलनं पादयन्त्रयोः ।जघनं स्यात् कटौ पूर्वश्रोणिभागापरांगयोः ॥ १५ ॥
7.3.15 · p. 251
अनुष्टुप्
तलिमं कुट्टिमे तल्पे तर्पणं त्विन्धनेऽपि च ।तानितं तूलितपटे गुणवादित्रभाण्डयोः ॥ १६ ॥
7.3.16 · p. 251
अनुष्टुप्
तेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् ।दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥
7.3.17 · p. 251
अनुष्टुप्
दुकूलं शुक्लवस्त्रेऽपि द्योतनं दीपनेऽक्ष्णि च ।धाराग्रमवतारेऽश्रौ निमित्तं हेतुलक्षयोः ॥ १८ ॥
7.3.18 · p. 251
अनुष्टुप्
नाभीलं नाभिगन्धश्च वंक्षणं च वरस्त्रियाः ।निर्याणं हस्तिनेत्रान्ते मरणे निर्गमेऽपि च ॥ १९ ॥
7.3.19 · p. 251
अनुष्टुप्
निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने ।निदानमपदाने स्यात् खण्डनेऽप्यादिकारणे ॥ २० ॥
7.3.20 · p. 251
अनुष्टुप्
पललं तिलचूर्णे स्यान्मांसकर्दमभेदयोः ।प्रयाणं गजदृक्पूर्वप्रदेशे मरणे गतौ ॥ २१ ॥
7.3.21 · p. 251
अनुष्टुप्
प्रज्ञानं लाञ्छने बुद्धौ प्रसूनं फलपुष्पयोः ।पातालं लोक और्वश्च पतत्त्रं खे गरुत्यपि ॥ २२ ॥
7.3.22 · p. 251
अनुष्टुप्
नवसूतगवीदुग्धे पीयूषममृतेऽपि च ।प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥
7.3.23 · p. 251
अनुष्टुप्
सम्यग्वक्तरि चाथ स्यात् प्रायणं मरणे गतौ ।पुष्करं हस्तिहस्ताग्रे जले वाद्यमुखे युधि ॥ २४ ॥
7.3.24 · p. 252
अनुष्टुप्
खेऽब्जे दिव्यसिधारायां तीर्थभेषजभेदयोः ।ब्राह्मण्यं ब्राह्मणत्वे स्याद्विप्रौघे विप्रकर्मणि ॥ २५ ॥
7.3.25 · p. 252
अनुष्टुप्
बाह्लीकं कुंकुमं हिंगु भण्डनं कवचे रणे ।भूतिकं भूमिनिंबे च भूस्तृणे कत्तृणेऽपि च ॥ २६ ॥
7.3.26 · p. 252
अनुष्टुप्
मणीचमग्रहस्तेऽपि पुष्पमौक्तिकयोरपि ।मन्दिरं देहपुर्योश्च संबन्धे मैथुनं रते ॥ २७ ॥
7.3.27 · p. 252
अनुष्टुप्
यापनं स्यान्निरसने नृत्ते प्रस्थापनेऽपि च ।लक्षणं कार्षिके चिह्ने नाम्नि मुद्रांगसंपदोः ॥ २८ ॥
7.3.28 · p. 252
अनुष्टुप्
लांगूलं वालधौ मेढ्रे वर्जनं त्यागहिंसयोः ।वरांगं स्त्रीभगे मूर्ध्नि च्छेदे वृद्धौ च वर्धनम् ॥ २९ ॥
7.3.29 · p. 252
अनुष्टुप्
व्यञ्जनं श्मश्रुनिष्ठानचिह्नेष्ववयवेऽक्षरे ।वृद्धत्वे वृद्धसंघाते वृद्धकर्मणि वार्द्धकम् ॥ ३० ॥
7.3.30 · p. 252
अनुष्टुप्
वालकं त्वंगुलीये स्यात् बर्हिष्ठे वलयेऽपि च ।व्युत्थानं प्रतिकूलत्वे स्वातन्त्र्यकरणेऽपि च ॥ ३१ ॥
7.3.31 · p. 252
अनुष्टुप्
व्यसनं शक्तिविपदोर्दैवानिष्टफलेंऽहसि ।पैशुन्यादौ च कोपोत्थे मृगयादौ च कामजे ॥ ३२ ॥
7.3.32 · p. 252
अनुष्टुप्
विधानं हस्तिकबले प्रेरणेऽभ्यर्चने घने ।वेतने चाप्युपाये च प्रकारे वैरकर्मणि ॥ ३३ ॥
7.3.33 · p. 252
अनुष्टुप्
वेष्टने मकुटोष्णीषौ शकले खण्डवल्कले ।शालूकं पंकजे कन्दे जले शमलमप्यघे ॥ ३४ ॥
7.3.34 · p. 252
अनुष्टुप्
शासनं निग्रहे लेख्ये वेदवाक्येषु कर्मणि ।वाङ्नियोगे प्रहरणे शास्त्रे ग्रामे च निष्करे ॥ ३५ ॥
7.3.35 · p. 252
अनुष्टुप्
साधनं शेफसि धने सिद्ध्युपायनिवृत्तिषु ।मारणे मृतसंस्कारे दापनेऽनुगमे गमे ॥ ३६ ॥
7.3.36 · p. 253
अनुष्टुप्
सेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः ।मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥
7.3.37 · p. 253
अनुष्टुप्
मणौ शीधौ शीधुपाने सरकं मद्यभाजने ।सामर्थ्ये शक्तिसंबन्धौ हृदयं तु मनस्यपि ॥ ३८ ॥
7.3.38 · p. 253
अनुष्टुप्
हिरण्यं काञ्चने वित्ते मानभेदेऽप्यकुप्यके ।हरणं करणे नृत्ते चापेनान्यास्त्रवारणे ॥ ३९ ॥
7.3.39 · p. 253
अनुष्टुप्
हृतौ क्वथितशीताप्सु पणने यौतकादिके ।
7.3.40 · p. 253