कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (9/18)

दैवज्ञो ना ज्योतिषिके दैवज्ञा तु स्त्रियामियम् ।ज्ञेया गृहगोलिकायां देवस्य ज्ञातरि त्रिषु ॥ ९६१ ॥
4.961 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
द्रोहकस्तु पुमान् गाथाविशेषे परिकीर्तितः ।वैडालवृत्तिके त्वेष भेद्यलिङ्गः समीरितः ॥ ९६२ ॥
4.962 · p. 131
अनुष्टुप्
दोहलं तु नपीच्छायामिति सिंहो नरे पुनः ।दत्त आहाथ गर्भिण्यां इच्छाभेदे प्रकीर्तितः ॥ ९६३ ॥
4.963 · p. 131
अनुष्टुप्
श्रद्धासंज्ञे स्थावराणां पुष्टयर्थ यत् प्रदीयते ।करीषादि भवेत् तत्र स्त्रियां तु द्योतना भवेत् ॥ ९६४ ॥
4.964 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उषसि द्योतनं तु क्ली धने द्योततिकर्मणि ।अक्ष्णि प्रकाशनायां तु स्त्रीनपोर्द्योतनाथ नप् ॥ ९६५ ॥
4.965 · p. 131
अनुष्टुप्
दोलकं पङ्कजे त्रिस्तु स्यादुत्क्षेप्तरि ना पुनः ।दौः षन्तो नृपभेदेऽथ मर्त्यजात्यन्तरे द्वयोः ॥ ९६६ ॥
4.966 · p. 132
अनुष्टुप्
कक्ष्याजीवेऽम्बष्ठ एव स्यादुग्राख्ये च जीविनि ।मत्स्यघातादथ स्त्री स्याद् दौन्दुभी दम्भ एव च ॥ ९६७ ॥
4.967 · p. 132
अनुष्टुप्
विवाहार्थं वरस्यापि यात्रायामथ दुन्दुभे ।सम्बन्धिनि त्रिः क्लीबं तु लेख्यानां व्यवहारिणाम् ॥ ९६८ ॥
4.968 · p. 132
अनुष्टुप्
अष्टानामेकलेख्ये स्याद् धवलस्तु नृलिङ्गकः ।वृषभे श्वेतवर्णे च त्रिस्तु श्रेष्ठेऽपि सुन्दरे ॥ ९६९ ॥
4.969 · p. 132
अनुष्टुप्
श्वेतवर्णयुते चाथ सुरभौ धवला स्त्रियाम् ।धनदस्तु कुबेरे ना भेद्यवत् तु धनप्रदे ॥ ९७० ॥
4.970 · p. 132
अनुष्टुप्
धनुका तु स्त्रियां वध्वां भेद्यलिङ्गं तु साधुनि ।धनेशस्तु कुबेरे ना स्यात् त्वाढ्ये भेद्यलिङ्गकः ॥ ९७१ ॥
4.971 · p. 132
अनुष्टुप्
अथ क्ली धर्षणं धार्ष्ट्येऽभिभवे सुरतेऽप्यथ ।धर्षणी कुलटायां स्त्री धमनस्तु पुमानयम् ॥ ९७२ ॥
4.972 · p. 132
अनुष्टुप्
नडसंज्ञे स्थावरे स्यात् तथा स्यान्नासिकापुटे ।रभसस्तु त्रिषु क्रूरे भस्त्राध्मापक एव च ॥ ९७३ ॥
4.973 · p. 132
अनुष्टुप्
धमनी तु स्त्रियामेषा विज्ञेया वाचि वाग्मिभिः ।तथा हट्टविलासिन्यां सिरायां रमसोऽपठीत् ॥ ९७४ ॥
4.974 · p. 132
अनुष्टुप्
धरणं त्वष्टके हेमपलानामपि सप्ततौ ।पलानां ताम्रसंज्ञस्य लोहस्य दशके पुनः ॥ ९७५ ॥
4.975 · p. 132
अनुष्टुप्
अन्येषां रूप्यकर्षे च धारणेऽप्यथ नप्स्त्रियोः ।स्यादुन्मानक्रियायां स्याद् धारणा धारणस्तु ना ॥ ९७६ ॥
4.976 · p. 132
अनुष्टुप्
स्तने धातरि लोकेऽर्के सलिले तु नपुंसकम् ।धर्णसिस्तु पुमाञ्छैले सलिले तु नपुंसकम् ॥ ९७७ ॥
4.977 · p. 133
अनुष्टुप्
धाराङ्गमवतारेऽश्रावित्युक्तं यादवैर्नपि ।रभसेन तु पुंसीति धाराङ्गस्तीर्थखड्गयोः ॥ ९७८ ॥
4.978 · p. 133
अनुष्टुप्
धाराटस्तु द्वयोरश्वे चातकेऽप्यथ धावनी ।धौता(जस्?ञ्च)ले पृश्निपर्ण्यां रजक्यां च स्त्रियामथ ॥ ९७९ ॥
4.979 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गतिशोधनयोः प्राहुः क्लीबलिङ्गमिदं बुधा ।धावनं धावयत्यर्थे त्वपुमान् धावनाथ ना ॥ ९८० ॥
4.980 · p. 133
अनुष्टुप्
धाणकः पूर्वशास्त्रज्ञैरुक्तश्छिद्रविधानके ।हविषा च ग्रहे शाणतृतीयांशे तु सा स्त्रियाम् ॥ ९८१ ॥
4.981 · p. 133
अनुष्टुप्
धाणका धारणा तु स्त्री चित्तस्य स्थिरबन्धने ।क्वचिद्ध्येये वस्तुनि स्याद् योगिनां हृदयस्थिते ॥ ९८२ ॥
4.982 · p. 133
अनुष्टुप्
रभसस्त्वत्र पठति ङ्यन्तमेतत् सुधीर्यथा ।बौद्धोक्तमन्त्रभेदे च नाडिकायां च धारणी ॥ ९८३ ॥
4.983 · p. 133
अनुष्टुप्
अना तु वहने किञ्च मर्यादायामथो पुमान् ।धार्मिको नृपतेधर्माधिकृते पुरुषे त्रि तु ॥ ९८४ ॥
4.984 · p. 133
अनुष्टुप्
पाठके धर्मशास्त्राणां धर्मस्य चरितर्यपि ।स्त्रियां तु धिषणा बुद्धौ स्त्रीचिह्ने पार्वतीगिरोः ॥ ९८५ ॥
4.985 · p. 133
अनुष्टुप्
धिषणे इति रोदस्योर्धिषणन्तु बृहस्पतौ ।ना क्ली तु धीवरं काललोहे जात्यन्तरे पुनः ॥ ९८६ ॥
4.986 · p. 133
अनुष्टुप्
कैवर्त्यां वृषलाज्जाते द्वे दाशेऽप्यथ धूसरः ।चाक्रिके द्वे परे ना तु वर्णे स्यात् स्तोकपाण्डुरे ॥ ९८७ ॥
4.987 · p. 133
अनुष्टुप्
त्रिस्तु तद्वत्यथो पुंसि धूमलः कृष्णलोहिते ।मिश्रवर्णे तद्वति तु त्रिरथो पुन्नपुंसकम् ॥ ९८८ ॥
4.988 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
देवतार्चनतूर्येऽथ धोरणं वाहने नपि ।वाजिनां गतिभेदे च धौरिताख्ये त्रि तद्वति ॥ ९८९ ॥
4.989 · p. 134
अनुष्टुप्
हंसे तु द्वेऽथ नलिनं नलिकायां नपुंसकम् ।पद्मे तु पुंस्यप्येकेषामन्येषां तु स्त्रियामपि ॥ ९९० ॥
4.990 · p. 134
अनुष्टुप्
नलिनी तु स्त्रियामेव पद्मस्तम्बे सरस्यपि ।रभसस्त्वपठीद्व्योमनिम्नगायां च ना पुनः ॥ ९९१ ॥
4.991 · p. 134
अनुष्टुप्
न्यग्रोधो व्योमसंज्ञे स्यात् प्रमाणे वटपादपे ।फले त्वस्य लुकोऽभावान्नैयग्रोधमिति स्मृतम् ॥ ९९२ ॥
4.992 · p. 134
अनुष्टुप्
न्यग्रोधी तु स्त्रियां स्तम्बे द्रवन्तीसंज्ञकेऽथ ना ।नन्दको वासुदेवस्य खड्गे नन्दितरि त्रिषु ॥ ९९३ ॥
4.993 · p. 134
अनुष्टुप्
नन्दनस्तु द्वयोः पुत्रे क्ली तूद्याने शचीपतेः ।नन्दथौ च पुमांस्तु स्यादर्थे नन्दयतेस्त्रि तु ॥ ९९४ ॥
4.994 · p. 134
अनुष्टुप्
स्यान्नन्दयितरि स्त्री तु नन्दन्ती स्यात् सखीजने ।नन्दन्तस्तु पुमान् सख्यौ भेद्यलिङ्गं तु नन्दताम् ॥ ९९५ ॥
4.995 · p. 134
अनुष्टुप्
इत्याशीर्यत्र तत्र स्यान्नमस्या तु स्त्रियामियम् ।पूजायां पूजनीये तु त्रिर्नभाका त्वियं स्त्रियाम् ॥ ९९६ ॥
4.996 · p. 134
अनुष्टुप्
चक्रवाकाख्यविहगजातौ काके पुनर्द्वयोः ।अथात्र रभसेनोक्तमस्मभ्यं तन्न रोचते ॥ ९९७ ॥
4.997 · p. 134
अनुष्टुप्
नटे पोटगले पुंसि चारणे केवलेऽपि च ।नर्तकः स्यात् करेण्वां च लासिकायां च नर्तकी ॥ ९९८ ॥
4.998 · p. 134
अनुष्टुप्
न्यस्तकस्त्वस्त्रियामर्थनिक्षेपे धनिभिः कृते ।त्रिस्तु स्यान्निहिते स्त्री तु रेवाख्यसरिदन्तरे ॥ ९९९ ॥
4.999 · p. 134
अनुष्टुप्
नर्मदा नर्मणस्तु त्रिर्दायके नकुलो द्वयोः ।बभ्रौ कनिष्ठे तु पुमान् युधिष्ठिरमहीपतेः ॥ १००० ॥
4.1000 · p. 135
अनुष्टुप्
ऋषिभेदे वर्णभेदे योः वर्णो नकुले स्थित ।तद्वति त्रिरथो क्लीबं पुंस्यन्ये नमनं विदुः ॥ १००१ ॥
4.1001 · p. 135
अनुष्टुप्
ऊर्णास्तरणके ना तु धूमे दिनकरेऽपि च ।त्रि तु ह्रस्वे त्रिषु पुनर्नवानां पूरणे भवेत् ॥ १००२ ॥
4.1002 · p. 135
अनुष्टुप्
नवमं नवमी तु स्त्री दुर्गादेव्यास्तिथौ स्मृता ।रभसेनात्र पठितः श्लोकोऽयमिह पठ्यते ॥ १००३ ॥
4.1003 · p. 135
अनुष्टुप्
मुरलायां दरीभान्दुनीरजःस्त्रीषु नर्मरा ।क्लीबं स्याद्द्रुमकर्पूरे नाराचे मानवेऽर्जुने ॥ १००४ ॥
4.1004 · p. 135
अनुष्टुप्
नहुषस्तु पुमान् पूर्वराजभेदे द्वयोः पुनः ।मनुष्ये न्यंशुकस्तु स्याच्चन्द्रे वेणौ पुमांस्तथा ॥ १००५ ॥
4.1005 · p. 135
अनुष्टुप्
रणरेणौ प्रावरणेऽप्यथ स्याद्भेद्यलिङ्गकम् ।प्रवासशीले नादेयं पुनः स्याद्भेद्यलिङ्गकम् ॥ १००६ ॥
4.1006 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
नदीभवादौ स्त्री तु स्यान्नादेयी जलवेतसे ।कर्कर्यां भूमिजम्ब्वां च महोदर्याख्यमुस्तके ॥ १००७ ॥
4.1007 · p. 135
अनुष्टुप्
कङ्गुष्ठेऽपि च नादेयीत्येव रभसभाषितम् ।क्लीबं तु सैन्धवे क्ली तु नागरं विश्वभेषजे ॥ १००८ ॥
4.1008 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable)
चुक्रे राजकशेरुण्यप्यथ स्याद्भेद्यलिङ्गकम् ।पुनर्भ्वादौ नारकस्तु नरक ना त्रिषु त्वयम् ॥ १००९ ॥
4.1009 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
नरकस्य हि सम्बन्धिन्यथ नासिक्यवाक् त्रिषु ।स्यान्नासिकाभवे स्तस्तु नासिक्यावश्विनोर्नरि ॥ १०१० ॥
4.1010 · p. 135
अनुष्टुप्
नायकस्त्रि प्रभौ ना तु हारमध्यगते मणौ ।क्लीबं त्वासनभेदे स्यान्नाकुलं तस्य लक्षणम् ॥ १०११ ॥
4.1011 · p. 136
अनुष्टुप्
ऊर्ध्वज्ञोरुपविष्टस्य भुजाभ्यां जङ्घयोर्द्वयम् ।बद्धासनमिति स्त्री तु रास्नायां नाकुली तथा ॥ १०१२ ॥
4.1012 · p. 136
अनुष्टुप्
रभसः कुक्कुटीकुन्दे स्त्री च(र्ये?व्ये) चेत्यथ त्रिषु ।भवेन्नकुलसम्बन्धिन्यथ नाराचवाड्नरि ॥ १०१३ ॥
4.1013 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अयोमयशरे स्त्री तु नाराची कथिता बुधैः ।लेखन्यां नाटकं तु क्ली रूपकान्यतमे भवत् ॥ १०१४ ॥
4.1014 · p. 136
अनुष्टुप्
स्त्रियां तु नाटिकान्यत्र नाटकाद्रूपकान्तरे ।भेद्यलिङ्गं तु नटितनाटयित्रोरथ त्रिषु ॥ १०१५ ॥
4.1015 · p. 136
अनुष्टुप्
तरीतृतारयित्रोः स्यान्नावा नाविक इत्ययम् ।अम्बष्ठाद्ब्राह्मणीजाते मर्त्यजात्यन्तरे द्वयोः ॥ १०१६ ॥
4.1016 · p. 136
अनुष्टुप्
नापितस्तु द्वयोर्विप्रवैश्याजे व्यभिचारतः ।मर्त्यजात्यन्तरेऽम्बष्ठाज्जाते राज्ञ्यां च नप् पुनः ॥ १०१७ ॥
4.1017 · p. 136
अनुष्टुप्
नालीकमम्बुजे ना तु शरे नालीकिनी पुनः ।पद्मिन्यां स्त्री त्रिषु पुनर्नालीकवति कीर्तिता ॥ १०१८ ॥
4.1018 · p. 136
अनुष्टुप्
नालीकी स्याद्गृहे तु क्ली निशान्तं नृनपोः पुनः ।अन्ते निशायास्त्रिषु तु शान्तेऽथ निधनोऽस्त्रियाम् ॥ १०१९ ॥
4.1019 · p. 136
अनुष्टुप्
कुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् ।न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे ॥ १०२० ॥
4.1020 · p. 136
अनुष्टुप्
व्यङ्गे पुमांस्तु निषधो दक्षिणे कुलपर्वते ।मेरोर्नीवृत्प्रभेदे च तस्य राजनि च त्रि तु ॥ १०२१ ॥
4.1021 · p. 136
अनुष्टुप्
कठिनेऽथ निषादो ना सप्तानां कुत्रचित् स्वरे ।स्वराणां द्वे तु मर्त्यानां जातिभेदे तथा विदुः ॥ १०२२ ॥
4.1022 · p. 136
अनुष्टुप्
विप्राज्जाते क्रमोढायां शूद्रायां यस्य चापरम् ।स्यात् पारशव इत्येव नामधेयमधीयते ॥ १०२३ ॥
4.1023 · p. 137
अनुष्टुप्
निलिम्पस्तु द्वयोर्देवे निलिम्पा तु स्त्रियामियम् ।(जाग्र्या ?) निवेषस्तु पुमान् कृपे वृक्ष इतीतरे ॥ १०२४ ॥
4.1024 · p. 137
अनुष्टुप्metre not read in every line
वृक्षजाताविति त्वन्य आकाशे तु नपुंसकम् ।निम्नगा तु स्त्रियां नद्यां त्रि तु निम्नस्य गन्तरि ॥ १०२५ ॥
4.1025 · p. 137
अनुष्टुप्
निष्ठुरं तु कठोरे त्रिः परुषाक्षरवाच्यपि ।स्त्रियां तु निष्ठुरा मुद्राविशेपे हस्तनिर्मिते ॥ १०२६ ॥
4.1026 · p. 137
अनुष्टुप्
पदभञ्जनशास्त्रे तु निरुक्तं क्ली त्रिषु त्वदः ।कृतनिर्वचने शब्दे या तु मन्त्रेऽभिधीयते ॥ १०२७ ॥
4.1027 · p. 137
अनुष्टुप्
इन्द्रादिर्देवता तस्यामुक्तायां स्यात् स्वसंज्ञया ।तद्देवताके च तथा स्यात् प्रातःसवनादिके ॥ १०२८ ॥
4.1028 · p. 137
अनुष्टुप्
निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने ।क्ली त्रिस्तु मुनिवह्न्यादौ शब्दविद्भिर्निरूपितम् ॥ १०२९ ॥
4.1029 · p. 137
अनुष्टुप्
निरुधा तु दिशि स्त्री स्यात् त्रि तु पुण्यक्रमेऽभ्यधु(?) ।निर्माल्याभ्रकयोस्तु क्ली निर्मलं विमले त्रिषु ॥ १०३० ॥
4.1030 · p. 137
अनुष्टुप्
निर्वेदस्तु पुमान् खेदे वेदहीने पुनस्त्रिषु ।निर्देशस्तु पुमाञ्ज्ञेय आज्ञायां कथनेऽपि च ॥ १०३१ ॥
4.1031 · p. 137
अनुष्टुप्
भेद्यलिङ्गस्तु विज्ञेयो देशहीने मनीषिभिः ।निर्वादः परिवादे ना वादहीने तु भेद्यवत् ॥ १०३२ ॥
4.1032 · p. 137
अनुष्टुप्
निर्लेपस्त्वम्बुजे क्लीबं लेपहीने पुनस्त्रिषु ।निर्यामः कर्णधारे ना यामहीने तु भेद्यवत् ॥ १०३३ ॥
4.1033 · p. 137
अनुष्टुप्
निर्माल्यं तूपयुक्तायां मालायां स्यान्नपुंसकम् ।माल्यहीने पुनस्त्रि स्यानिःसङ्गा तु स्त्रियामियम् ॥ १०३४ ॥
4.1034 · p. 138
अनुष्टुप्
अतिमुक्तकसंज्ञायां लतायां भेद्यवत् पुनः ।स्यात् सङ्गवर्जिते चापि निर्लज्जा देवरेऽपि या ॥ १०३५ ॥
4.1035 · p. 138
अनुष्टुप्
नियुक्तान्यं नरं याति तस्या स्याद्भेद्यवत् पुनः ।लज्जाहीनेऽथ निस्त्रिंशः खड्गे नाथाभिधेयवत् ॥ १०३६ ॥
4.1036 · p. 138
अनुष्टुप्
क्रूरे स्यानिष्कला तु स्त्री विगतार्तवयोषिति ।अथ त्रिर्नष्टबीजे च कलाहीनेऽप्यथ त्रिषु ॥ १०३७ ॥
4.1037 · p. 138
अनुष्टुप्
निष्कोशः कोशहीने स्यात् कुक्षिमध्ये तु हस्तिनः ।पुंल्लिङ्गो भाषितः सद्भिर्गजशास्त्रे च निष्कुटः ॥ १०३८ ॥
4.1038 · p. 138
अनुष्टुप्
गृहागमे पुमांस्त्रिस्तु निष्क्रान्तादौ कुटादथ ।एलायां निष्कुटी स्त्री स्यान्निष्क्रान्तादौ कुटेस्त्रिषु ॥ १०३९ ॥
4.1039 · p. 138
अनुष्टुप्
निरृतिस्तु स्त्र्यलक्ष्म्यां स्यान्निर्गमे चाथ भेद्यवत् ।गतिहीनेऽथ निद्रालुः सुनिषण्णकसंज्ञके ॥ १०४० ॥
4.1040 · p. 138
अनुष्टुप्
जलशाकविशेषे ना शयालौ त्वभिधेयवत् ।नियन्ता सारथौ पुंसि भेद्यवत् तु नियामके ॥ १०४१ ॥
4.1041 · p. 138
अनुष्टुप्
निर्जरा तु गुलूच्यां स्त्री द्वे देवे त्रि जरोज्झिते ।नीवलस्तु द्वयोर्मर्त्यजातिभेदे प्रकीर्तितः ॥ १०४२ ॥
4.1042 · p. 138
अनुष्टुप्
वैदेहीशूद्रसम्भूते पुण्ड्रवत्तुरगान्तरे ।नीरजस्तु पुमान् कृष्णे कमले तु नपुंसकम् ॥ १०४३ ॥
4.1043 · p. 138
अनुष्टुप्
नीलिका तु स्त्रियां नीलीसंज्ञायामोषधौ स्मृता ।स्याच्च सिंहमलाभिख्यलोहभेदेऽथ भेद्यवत् ॥ १०४४ ॥
4.1044 · p. 138
अनुष्टुप्
स्वान्नीलि-रि स त्रिस्तु नूतनं नववस्तुनि ।वृष्टिसर्जनरश्मीनां पुनः सूर्यस्य नूतनाः ॥ १०४५ ॥
4.1045 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्वा (syllables merged)
स्त्रीभूमनि शतानां स्याच्चतुर्णां कुत्रचिच्छते ।नृपार्हं त्वगुरौ क्लीबं स्याद्राजार्हे पुनस्त्रिषु ॥ १०४६ ॥
4.1046 · p. 139
अनुष्टुप्
नेपालस्त्विक्षुभेदे ना नीवृद्धेदे च भूम्नि च ।रभसोक्ता तु सुवहानवमालिकयोः स्त्रियाम् ॥ १०४७ ॥
4.1047 · p. 139
अनुष्टुप्
मनःशिलायां च प्रोक्ता नेपाली बहुवेदिना ।नैगमस्तूपनिषदि पुमानुक्तो दृतावपि ॥ १०४८ ॥
4.1048 · p. 139
अनुष्टुप्
वणिङ्नागरयोस्तु स्याद् भेद्यलिङ्गं तथैव च ।भवेन्निगमसम्बन्धिमात्रे क्लीबं तु नैषधम् ॥ १०४९ ॥
4.1049 · p. 139
अनुष्टुप्
निषधाद्रेरुत्तरस्मिन् वर्षे हरिवर्षसंज्ञके ।निषधस्य तु सम्बन्धिन्येतत् त्रिरथ नैर्ऋतः ॥ १०५० ॥
4.1050 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हरि (syllable split)
राक्षसे द्वे तु निरृतिसम्बन्धिनि पुनस्त्रिषु ।अथ पुंसि पवित्रः स्याद् वासुदेवे पुरन्दरे ॥ १०५१ ॥
4.1051 · p. 139
अनुष्टुप्
पावके पवने सोमे घृणौ यवविवस्वतोः ।त्रि तु पूते क्ली तु ताम्रे गोमये सलिले कुशे ॥ १०५२ ॥
4.1052 · p. 139
अनुष्टुप्
मन्त्रे दध्नि ब्रह्मसूत्रे हेम्न्यर्थे कलशेऽम्बुजे ।क्षीरे दर्भाङ्गुलीये तु पुन्नपुंसकयोरथ ॥ १०५३ ॥
4.1053 · p. 139
अनुष्टुप्
पल्लवोऽस्त्री किसलये पत्रमात्रप्रकोष्ठयोः ।विस्तारे विटपेऽथाह रभसोऽमुं बलेऽपि च ॥ १०५४ ॥
4.1054 · p. 139
अनुष्टुप्
पुंल्लिङ्गस्तु भवेत् षिद्गे पतङ्गस्तु पुमानयम् ।सूर्ये शालिप्रभेदे च मार्जारे तु द्वयोरयम् ॥ १०५५ ॥
4.1055 · p. 139
अनुष्टुप्
शलभे पक्षिमात्रे च स्यादश्वे च स्त्रियां पुनः ।पुत्तिकायां पतङ्गी स्याद् ऋषिभेदे तु पुंस्ययम् ॥ १०५६ ॥
4.1056 · p. 139
अनुष्टुप्
पञ्चालः स्याच्च पुम्भूम्नि नीवृद्भेदेऽस्य राजनि ।स्यात् सर्ववचनस्तस्य पाञ्चालीति स्त्र्यपत्यके ॥ १०५७ ॥
4.1057 · p. 139
अनुष्टुप्
पञ्चाङ्गी तु खलीने स्त्री पञ्चानां च समाहृतौ ।अङ्गानां भेद्यवत् तु स्याद् बहुव्रीहावथ स्त्रियाम् ॥ १०५८ ॥
4.1058 · p. 140
अनुष्टुप्
पञ्चिका घृतभेदे स्याद् व्याख्याग्रन्थान्तरेऽपि च ।त्रि तु विस्तारके स्याच्च पञ्चावयवसङ्घके ॥ १०५९ ॥
4.1059 · p. 140
अनुष्टुप्
पञ्चमस्तु पुमान् षड्जप्रभृतीनां कचित् स्वरे ।अथ पाण्डवपत्न्यां च रभसस्त्वाह पञ्चमीम् ॥ १०६० ॥
4.1060 · p. 140
अनुष्टुप्
स्यात् पञ्चमविभक्तौ च स्त्रीलिङ्गा स्याच्छ्रियस्तिथौ ।पञ्चानां पूरणे तु त्रि पलितस्त्वस्त्रियामियम् ॥ १०६१ ॥
4.1061 · p. 140
अनुष्टुप्
केशादौ जरसा शौक्ल्ये तद्वद्बलवतोस्त्रिषु ।नपुंसकं तु शैलेये स्यादङ्के मरिचेऽथ ना ॥ १०६२ ॥
4.1062 · p. 140
अनुष्टुप्
कर्दमे पटलं तु क्ली पुंसि चान्ये प्रचक्षते ।गृहच्छदिषि दृग्रोगविशेषाव्याययोरपि ॥ १०६३ ॥
4.1063 · p. 140
अनुष्टुप्
नप्स्त्रियोस्तु समूहे स्यात् पटली पिटकान्तरे ।टलं तु बले क्लीबं त्रि तु स्याद्वाग्मिकल्ययोः ॥ १०६४ ॥
4.1064 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पटोलस्तु पुमान् वल्लिजातौ तिक्तकनामनि ।पटोली तु स्त्रियां कोशातकीसंज्ञे लतान्तरे ॥ १०६५ ॥
4.1065 · p. 140
अनुष्टुप्
पललं तिलचूर्णे क्ली मासकर्दमभेदयोः ।पुमांस्तु तिलकाभिख्यवृक्षेऽथो पुन्नपुंसकम् ॥ १०६६ ॥
4.1066 · p. 140
अनुष्टुप्
व्रीहिस्तम्बे हि लूनात्तकले स्त्री तु पलाल्यसौ ।महावे(?) स्यात् पलालेऽन्ये पलालक्षोद इत्यथ ॥ १०६७ ॥
4.1067 · p. 140
अनुष्टुप्
पलाशः किंशुके पुंसि शटीसंज्ञे च भेषजे ।केचित् त्वाहुर्हरिद्वर्णे त्रि तु तद्वति नप् पुनः ॥ १०६८ ॥
4.1068 · p. 140
अनुष्टुप्
तरुपत्त्रे किंशुकस्य प्रमूने द्वे तु राक्षसे ।पन्नगस्त्वोषधीभेदे पुमान् सर्पे तु स द्वयोः ॥ १०६९ ॥
4.1069 · p. 141
अनुष्टुप्
परुलस्तु द्वयोरश्वे पार्वत्यां परुला स्त्रियाम् ।पवनस्तु पुमान् वायौ किरणे भेद्यवत् पुनः ॥ १०७० ॥
4.1070 · p. 141
अनुष्टुप्
पवक्रियासाधनेऽथ प्रधात्वर्थे नपुंसकम् ।पाकस्थाने कुलालस्याप्यथ स्यात् पत्रकं नपि ॥ १०७१ ॥
4.1071 · p. 141
अनुष्टुप्
अनुलेपनविन्यासभेदे स्यात् पत्तिसंज्ञके ।व्यवहारगतानां च लेख्यभेदेऽथ पुंसि सः ॥ १०७२ ॥
4.1072 · p. 141
अनुष्टुप्
यवक्षारविशेषे स्याद् यावशूकाह्वये त्रि तु ।मृते परतो द्वे तु स्याद् भृतजात्यन्तरे त्रि तु ॥ १०७३ ॥
4.1073 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तो (wrong syllable)
पर्याप्तशब्दः स्याच्छक्ते यथेष्टे तु नपुंसकम् ।विवारणे च तृप्तौ च पत्त्रलं तु नपुंसकम् ॥ १०७४ ॥
4.1074 · p. 141
अनुष्टुप्
अधने दधिभेदे स्यात् तालीवृक्षे तु पत्त्रला ।स्त्रियां सञ्जातपत्रे तु त्रिष्वथ स्यान्नपुंसकम् ॥ १०७५ ॥
4.1075 · p. 141
अनुष्टुप्
पत्त्रोर्णं धौतकौशेये ना तु डुण्डुकपादपे ।पदारस्तु पुमान् वास्तुदेवभेदेऽङ्घ्रिधूलिषु ॥ १०७६ ॥
4.1076 · p. 141
अनुष्टुप्
नपुंसकं तु विज्ञेयं पादालिन्दे विचक्षणैः ।पतेरस्तु पुमाञ्ज्ञेयः पवने द्वे तु पक्षिणि ॥ १०७७ ॥
4.1077 · p. 141
अनुष्टुप्
पयस्या तु स्त्रियां विद्यादामिक्षायां तथौषधौ ।काकोलीनामनि त्रिस्तु दध्याज्यादौ पयोभवे ॥ १०७८ ॥
4.1078 · p. 141
अनुष्टुप्
पयोहिते पयः साधावित्याहुः शब्दवित्तमाः ।खजूरे तु परूषो ना क्लीबलिङ्गं तु तत्फले ॥ १०७९ ॥
4.1079 · p. 141
अनुष्टुप्
पटहस्त्वानके न स्त्री निर्घोषे युद्धवाद्यजे ।रभसस्तु समारम्भे प्रोक्तवाञ्छब्दवित्तमः ॥ १०८० ॥
4.1080 · p. 142
अनुष्टुप्