All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
चतुर्थः काण्डः · अनेकार्थाधिकाराध्यायः (3/4)
तानितं तूलितपटे गुणवादित्रभाण्डयोः ।छिन्नपुच्छे वृषे पुंसि निःश्मश्रावपि तूबरः ॥ २१०० ॥
4.1.2100 · p. 254
अनुष्टुप्
तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः ।तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरेशास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥
4.1.2101 · p. 254
अनुष्टुप्
द्विजेन्द्रो ब्राह्मणे चन्द्रे सुपर्णे द्वापरो युगे ।संदेहेऽथ सपिण्डे स्याद्दायादस्तनयेऽपि च ॥ २१०२ ॥
4.1.2102 · p. 255
अनुष्टुप्
स्यात् स्त्री पुनर्श्वां तत्पत्यौ दिधिषुर्दीधिषूर्नरौ ।दक्षिणः सरले दक्षे देशभेदे तु दक्षिणा ॥ २१०३ ॥
4.1.2103 · p. 255
अनुष्टुप्
दूषणं तु कलङ्कार्थे दूषणो रजनीचरे ।दुन्दुभिर्वत्सरे भेर्यां गन्धर्वे राक्षसान्तरे ॥ २१०४ ॥
4.1.2104 · p. 255
अनुष्टुप्
दुरितं व्यसने पापे द्रविणं बलवित्तयोः ।उपनीतो व्रती यज्वा नियमस्थश्च दीक्षितः ॥ २१०५ ॥
4.1.2105 · p. 255
अनुष्टुप्
सुरतक्रान्तिधार्ष्ट्येषु धर्षणं धर्षणीत्वरी ।धिषणा तु मनीषायां धिषणो देवदेशिके ॥ २१०६ ॥
4.1.2106 · p. 255
अनुष्टुप्
धारणे मानभेदे च धरणं धरणी मही ।धावनं गमने शुद्धौ स्थितौ विश्वे च धारणा ॥ २१०७ ॥
4.1.2107 · p. 255
अनुष्टुप्
योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि ।धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥
4.1.2108 · p. 255
अनुष्टुप्
निगमो निर्णये वेदे पुरे मार्गे वणिक्पथे ।कर्म भृत्युपभोगेषु निर्वेशो मूर्च्छनेऽपि च ॥ २१०९ ॥
4.1.2109 · p. 255
अनुष्टुप्
निवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ ।निह्नवस्तु निकारे स्यादविश्वासेऽप्यपह्नवे ॥ २११० ॥
4.1.2110 · p. 256
अनुष्टुप्
आज्ञायामपि निर्देशो निषधोऽनलभूभृतोः ।निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥
4.1.2111 · p. 256
अनुष्टुप्
निश्चयाज्ञाप्रतिज्ञासु नियमो यन्त्रणे व्रते ।नितम्बः पश्चिमश्रोणिभागेऽद्रिकटकेऽपि च ॥ २११२ ॥
4.1.2112 · p. 256
अनुष्टुप्
नालिका विवरे वेणुभाजने चुल्लिरन्ध्रके ।निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥
4.1.2113 · p. 256
अनुष्टुप्
निर्वाणं मरणे मोक्षे निर्वृतौ गजमज्जने ।निरस्तः स्यात् त्रिषूत्सृष्टसायके त्वरितोदिते ॥ २११४ ॥
4.1.2114 · p. 256
अनुष्टुप्
निराकृते च निष्ठ्यूते निहतो न्यक्कृते हते ।निवातस्त्रिषु निर्वाते दृढे तु कवचे पुमान् ॥ २११५ ॥
4.1.2115 · p. 256
अनुष्टुप्
वारणापाङ्गदेशे स्यान्निर्याणं निर्गमे मृतौ ।निदाघ ऊष्मणि ग्रीष्मे स्वेदे तापे च घर्मवत् ॥ २११६ ॥
4.1.2116 · p. 256
अनुष्टुप्
नालीकः सायके पुंसि नलिने तु नपुंसके ।निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥
4.1.2117 · p. 256
अनुष्टुप्
पतंगः शलभे शालौ खगे कमलबान्धवे ।पुष्परेणौ च रेणौ च परागः परिघोऽर्गले ॥ २११८ ॥
4.1.2118 · p. 256
अनुष्टुप्
परिघाते दन्तभेदे प्रसवः फलपुष्पयोः ।जनने तनये गर्भमोचनेऽभिषवेऽपि च ॥ २११९ ॥
4.1.2119 · p. 257
अनुष्टुप्
पर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने ।प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥
4.1.2120 · p. 257
अनुष्टुप्
प्रयोगः स्यात् कर्मविधौ ग्राम्यधर्मकुसीदयोः ।प्रणयः संस्तवे प्रेम्णि याचने सौहृदे रसे ॥ २१२१ ॥
4.1.2121 · p. 257
अनुष्टुप्
प्रवहो वायुमात्रे स्यात् प्राप्तिवायुप्रभेदयोः ।प्रवाहस्त्वम्भसां वेगे प्रकृष्टाश्वे प्रवर्तने ॥ २१२२ ॥
4.1.2122 · p. 257
अनुष्टुप्
पुरुषोऽश्वस्थितौ पुंसि पुंनागे परमात्मनि ।प्रग्राहोऽश्वादिरज्ज्वंशुबन्दिषु प्रग्रहोऽपि च ॥ २१२३ ॥
4.1.2123 · p. 257
अनुष्टुप्
पलाशं तु दले ब्रह्मवृक्षराक्षसयोः पुमान् ।प्रणिधिः प्रार्थने चारे प्रस्तरस्त्वश्मरत्नयोः ॥ २१२४ ॥
4.1.2124 · p. 257
अनुष्टुप्
आद्योपलब्धिस्थाने च मूले च प्रभवोऽम्भसाम् ।पुलकः कृमिरोमाञ्चहीररत्नास्त्रराजिषु ॥ २१२५ ॥
4.1.2125 · p. 257
अनुष्टुप्
प्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ ।प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥
4.1.2126 · p. 257
अनुष्टुप्
पुष्करं हस्तिहस्ताग्रे व्योम्नि वाद्यमुखे जले ।तीर्थभेदेऽसिधारायां पर्यायोऽवसरे क्रमे ॥ २१२७ ॥
4.1.2127 · p. 257
अनुष्टुप्
प्रमाणं हेतुविश्वासशास्त्रेयत्तासु शासने ।मर्यादायां प्रपञ्चस्तु विपर्यासे सुविस्तरे ॥ २१२८ ॥
4.1.2128 · p. 258
अनुष्टुप्
प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे ।प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥
4.1.2129 · p. 258
अनुष्टुप्
स्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि ।पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥
4.1.2130 · p. 258
अनुष्टुप्
पीयूषममृतं ना तु नवसूतगवीपयः ।पिनाकोऽजगवे पुंसि रजोवर्षे तु वा नरि ॥ २१३१ ॥
4.1.2131 · p. 258
अनुष्टुप्
पल्लवो ना विटे देशेऽप्यस्त्री किसलयेऽञ्चले ।प्रवालो विद्रुमे वीणादण्डे ना पल्लवे स्त्रियाम् ॥ २१३२ ॥
4.1.2132 · p. 258
अनुष्टुप्
छदिर्नेत्ररुजोः क्लीबे समूहे पटलं न ना ।प्रवणः स्यात् त्रिषु प्रह्वे कुशले वशवर्तिनि ॥ २१३३ ॥
4.1.2133 · p. 258
अनुष्टुप्
चतुष्पथे क्रमान्निम्ने प्रवरः शालिमुख्ययोः ।पवित्रः पावके विष्णौ पवित्रं कलशे कुशे ॥ २१३४ ॥
4.1.2134 · p. 258
अनुष्टुप्
धने हेम्नि ब्रह्मसूत्रे मन्त्रे च प्रयते त्रिषु ।आशुव्रीहौ पाटलो ना पाटली कुसुमे न ना ॥ २१३५ ॥
4.1.2135 · p. 258
अनुष्टुप्
प्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च ।त्रिषूर्ध्वबाहुपुंमाने स्त्रीणां पुंवद्धृतिस्थितौ ॥ २१३६ ॥
4.1.2136 · p. 258
अनुष्टुप्
पुरुषाणां समूहे च पौरुषं स्यान्नपुंसके ।फेनिला बदरेऽरिष्टे पुंसि फेनवति त्रिषु ॥ २१३७ ॥
4.1.2137 · p. 259
अनुष्टुप्
फलकी चन्दनश्चर्मी बर्बरो भङ्गुरेऽधमे ।बहुलोऽग्निः कृष्णपक्षो बहुलैलार्जुनी मही ॥ २१३८ ॥
4.1.2138 · p. 259
अनुष्टुप्
कृत्तिका भूम्नि बहुला बह्वर्थो बहुलस्त्रिषु ।बृहत्यः पद्यवार्ताकीकण्टकार्योऽथ बन्धकी ॥ २१३९ ॥
4.1.2139 · p. 259
अनुष्टुप्
करिण्यां कुलटायां च भ्रातृव्यो भ्रातृजे रिपौ ।भवनं जन्मगृहयोः भुवनं जगदम्भसोः ॥ २१४० ॥
4.1.2140 · p. 259
अनुष्टुप्
भरतं नाट्यशास्त्रे स्याद्भरतो मुनिभूभृतोः ।भारती तुलसीवाण्योर्भैरवो रुद्रघोरयोः ॥ २१४१ ॥
4.1.2141 · p. 259
अनुष्टुप्
मण्डली श्वा रविः शुक्रो मार्जारो भुजगो नृपः ।मदनो धुस्तुरे वृक्षभेदे मन्मथसिक्थयोः ॥ २१४२ ॥
4.1.2142 · p. 259
अनुष्टुप्
मासे मद्ये हरौ पुष्पसमयेऽपि च माधवः ।धुस्तूरे सर्पभेदे च मातृभ्रातरि मातुलः ॥ २१४३ ॥
4.1.2143 · p. 259
अनुष्टुप्
मण्डलं त्रिषु बिम्बे स्याद् वृन्दे द्वादशराजके ।प्रतिबिम्बे कुष्ठरोगे ग्रामौघ उपसूर्यके ॥ २१४४ ॥
4.1.2144 · p. 259
अनुष्टुप्
स्यातां कपित्थकन्दर्पौ मन्मथौ मानसं हृदि ।सरोभेदेऽपि मन्दारः पारिभद्रे सुरद्रुमे ॥ २१४५ ॥
4.1.2145 · p. 259
अनुष्टुप्
राष्ट्रक्षोभेऽपि मकरो मुकुन्दौ निधिकेशवौ ।मार्गणो याचके बाणेऽन्वेषणे मार्गणं न ना ॥ २१४६ ॥
4.1.2146 · p. 260
अनुष्टुप्
मरीचिर्ना मुनी रश्मिर्वा स्त्री स्त्री मृगतष्णिका ।मोहनं सुरते मद्ये महिषी पशुराट्स्त्रियोः ॥ २१४७ ॥
4.1.2147 · p. 260
अनुष्टुप्
असिबन्धनकाञ्च्याद्रिकटकेषु तु मेखला ।पुमानन्योदयद्वेषे मत्सरस्त्रिषु तद्वति ॥ २१४८ ॥
4.1.2148 · p. 260
अनुष्टुप्
कल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु ।मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥
4.1.2149 · p. 260
अनुष्टुप्
स्वादौ हृद्ये मयूखस्तु ज्वालायां किरणे त्विषि ।मलिनी वृत्तवाहिन्योर्मोदको भक्ष्यहर्षयोः ॥ २१५० ॥
4.1.2150 · p. 260
अनुष्टुप्
युञ्जानः सारथौ विप्रे युतकं यौतके युगे ।वस्वाञ्चले वधूवस्त्रे यजनं यज्ञपूजयोः ॥ २१५१ ॥
4.1.2151 · p. 260
अनुष्टुप्
ना स्वर्णघर्षणग्राव्णि रोषणः सरुषि त्रिषु ।रेवटो वेणुवातूलविषवैद्येषु रेवटम् ॥ २१५२ ॥
4.1.2152 · p. 260
अनुष्टुप्
दक्षिणावर्तशङ्खे स्याद्रशना दर्भदामनि ।काञ्चीगुणे च जिह्वायां रसना रसनं विषे ॥ २१५३ ॥
4.1.2153 · p. 260
अनुष्टुप्
आस्वादने च शब्दे च रवणः शब्दनोष्ट्रयोः ।राजीवं पङ्कजे ना तु मीनभेदे मृगान्तरे ॥ २१५४ ॥
4.1.2154 · p. 260
अनुष्टुप्
रोहितं त्रिषु शोणे स्याद् रोहितो मृगमत्स्ययोः ।गोपित्ते रक्तकल्हारे वरयोषिति रोचना ॥ २१५५ ॥
4.1.2155 · p. 260
अनुष्टुप्
नक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी ।रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥
4.1.2156 · p. 261
अनुष्टुप्
लवणस्तु रसे दैत्ये लवणं सैन्धवादिके ।गमने चोपवासे च लङ्घनं लालसा द्वयोः ॥ २१५७ ॥
4.1.2157 · p. 261
अनुष्टुप्
औत्सुक्ये चाभिलाषे च ललामोऽस्त्री ललाम च ।श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥ २१५८ ॥
4.1.2158 · p. 261
अनुष्टुप्
प्रभावे पौरुषेऽङ्केऽथ ललनं केलिशोभयोः ।नीलिन्यां मांसपिण्डे च मणिभ्रुवि च लोचकः ॥ २१५९ ॥
4.1.2159 · p. 261
अनुष्टुप्
वरणो भूरुहे वप्रे वर्तकोऽश्वखुरे खगे ।वारणः सेतुगजयोर्वञ्चकौ धूर्तजम्बुकौ ॥ २१६० ॥
4.1.2160 · p. 261
अनुष्टुप्
विहारः सौगतावासे क्रीडायां च परिक्रभे ।भ्रान्तिसंदेहशोभासु विलासेऽपि च विभ्रमः ॥ २१६१ ॥
4.1.2161 · p. 261
अनुष्टुप्
वाहसोऽजगरे वह्नौ चित्रे दर्पे च विस्मयः ।विस्तारे प्रतिबन्धे च विष्कम्भो विबुधः सुरे ॥ २१६२ ॥
4.1.2162 · p. 261
अनुष्टुप्
प्राज्ञे च विनयः शिक्षाविद्याचारप्रशान्तिषु ।वसतिस्तु गृहे स्थित्यां जैनानामास्पदे निशि ॥ २१६३ ॥
4.1.2163 · p. 261
अनुष्टुप्
पर्याहाराध्वभारेषु स्यातां विवधवीवधौ ।वडवाश्वा ब्राह्मणी च वाहिनी सिन्धुसैन्ययोः ॥ २१६४ ॥
4.1.2164 · p. 261
अनुष्टुप्
शूद्रा मृतप्रजा वन्ध्या कन्या दृष्टरजा अपि ।वृषली नर्तकीमुग्धाविदग्धास्वेव वाणिनी ॥ २१६५ ॥
4.1.2165 · p. 262
अनुष्टुप्
विधानं वारणग्रासे प्रकारे वैरकर्मणि ।वेदनाप्रेरणाभ्यर्चाक्रियाभृतिसमृद्धिषु ॥ २१६६ ॥
4.1.2166 · p. 262
अनुष्टुप्
व्यसनं सक्तितात्पर्यविपत्तिमृगयादिषु ।दैवानिष्टफले तोये पैशुन्यादौ प्रकोपने ॥ २१६७ ॥
4.1.2167 · p. 262
अनुष्टुप्
वेष्टने मुकुटोष्णीषे व्युत्थानं प्रतिकूलता ।स्वातन्त्र्यकरणं चाथ विषयी राज्ञि मन्मथे ॥ २१६८ ॥
4.1.2168 · p. 262
अनुष्टुप्
वाच्यवद्विषयोपेते विषयः स्त्र्यादिराष्ट्रयोः ।आस्पदे गोचरे दीपभाजने चावलम्बने ॥ २१६९ ॥
4.1.2169 · p. 262
अनुष्टुप्
पुंनपुंसकयोर्व्योम्नि विहायः पुंसि पक्षिणि ।नक्षत्रे च खनित्र्यां च विशाखा षण्मुखे पुमान् ॥ २१७० ॥
4.1.2170 · p. 262
अनुष्टुप्
उल्लोचाध्वरयोरस्त्री षण्डः शून्यसमूहयोः ।वितानोऽथ द्रुविस्तारे पल्लवे स्तम्बशाखयोः ॥ २१७१ ॥
4.1.2171 · p. 262
अनुष्टुप्
विटपोऽस्त्री व्यलीकं स्यादप्रियेऽकार्यदुःखयोः ।विलक्षेऽथ विमानोऽस्त्री देवतायानवेश्मनोः ॥ २१७२ ॥
4.1.2172 · p. 262
अनुष्टुप्
पश्वङ्गे हस्तिरदने विषाणं स्यात् त्रिलिङ्गकम् ।शयालुः शयनश्चोभौ निद्रालौ त्रिषु न द्वयोः ॥ २१७३ ॥
4.1.2173 · p. 263
अनुष्टुप्
शयनं मञ्चरतयोः शमनोऽजगरे यमे ।शासनं निग्रहे शास्त्रे वेदवाक्येषु रक्षणे ॥ २१७४ ॥
4.1.2174 · p. 263
अनुष्टुप्
वाङ्नियोगे प्रकरणे लेख्ये नियमकर्मणोः ।श्वशुर्यो देवरे स्याले शकुन्तो भासपक्षिणोः ॥ २१७५ ॥
4.1.2175 · p. 263
अनुष्टुप्
आक्रोशने स्याच्छपथः शपने तनयादिभिः ।शिशौ मत्स्ये च शिशुकः शमलं शकृदंहसोः ॥ २१७६ ॥
4.1.2176 · p. 263
अनुष्टुप्
श्रावकः कर्णमोषेऽपि शिञ्जिनी नूपुरज्ययोः ।शर्कराल्पकपाले स्यात् प्रदेशे शर्करावति ॥ २१७७ ॥
4.1.2177 · p. 263
अनुष्टुप्
मृद्भेदे शकले खण्डे शर्करायामथ स्त्रियाम् ।शीधुपाने मणौ शीधौ सरघा(को?) मद्यभाजने ॥ २१७८ ॥
4.1.2178 · p. 263
अनुष्टुप्
साधनं शेफसि गमे सेनाङ्गे सिद्ध्युपाययोः ।निर्वृत्तौ मृतसंस्कारे दापनेऽनुगमे धने ॥ २१७९ ॥
4.1.2179 · p. 263
अनुष्टुप्
मारणे यातनायां च संस्थानं मरणे स्थितौ ।वाद्यं वंशादिके क्लीबे सच्छिद्रे सुषिरं त्रिषु ॥ २१८० ॥
4.1.2180 · p. 263
अनुष्टुप्
सरन्ध्रे त्रिषु वंशाद्ये वाद्ये क्लीबे नटे नरि ।स्त्रियां विद्रुमवल्लर्यां सुषिराथ गवि स्त्रियाम् ॥ २१८१ ॥
4.1.2181 · p. 264
अनुष्टुप्
वसन्ते ना सुगन्धौ च सुरभिर्विश्रुतेऽर्थवत् ।स्पर्शनः पवमाने स्यात् स्पर्शनं स्पृष्टिदानयोः ॥ २१८२ ॥
4.1.2182 · p. 264
अनुष्टुप्
सारङ्गो हरिणो वर्णश्चातकः षट्पदोऽपि च ।सैन्धवं लवणेऽश्वे ना सौवीरं काञ्चिकेऽञ्जने ॥ २१८३ ॥
4.1.2183 · p. 264
अनुष्टुप्
बदरे देशभेदे ना स्यन्दनो रथवृक्षयोः ।संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥
4.1.2184 · p. 264
अनुष्टुप्
षण्डे शमीफलेऽथ स्यात् सारसं सरसीरुहे ।जलपक्षिविशेषे ना सरःसंबन्धिनि त्रिषु ॥ २१८५ ॥
4.1.2185 · p. 264
अनुष्टुप्
संभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः ।सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥
4.1.2186 · p. 264
अनुष्टुप्
मद्यार्थाभिषवे संधौ धनुःष्विषुनिवेशने ।संधानं हेम्नि तत्कर्षे सुवर्णं ना तु भूरुहे ॥ २१८७ ॥
4.1.2187 · p. 264
अनुष्टुप्
हिरण्यं कनके द्युम्ने नाम(मान?)भेदेऽप्यकुप्यके ।हरिणी तु मृगो हेमप्रतिमा हरिणो मृगे ॥ २१८८ ॥
4.1.2188 · p. 264
अनुष्टुप्
शुकवर्णे च हृदयं हृत्प्रदेशे च मानसे ।हरणं करणं नृत्तं धनुषान्यास्त्रवारणम् ॥ २१८९ ॥
4.1.2189 · p. 264
अनुष्टुप्
यौतकादि हृतिस्तप्तशीतल(वा?)र्यथ हिंसनम् ।हरितस्तु मुनौ श्यामे हारीतो मुनिपक्षिणोः ॥ २१९० ॥
4.1.2190 · p. 265
अनुष्टुप्
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरेऽनेकार्थाधिकारे त्र्यक्षराध्यायः ॥
चतुरक्षराध्यायः
अभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे ।अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ ।अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥
4.1.2191 · p. 265
अनुष्टुप्
अभिषङ्गस्त्वभिभवे संगाक्रोशनयोरपि ।वृष्टिरोधे प्रतिष्टम्भे गजफालेऽप्यवग्रहः ॥ २१९२ ॥
4.1.2192 · p. 265
अनुष्टुप्
अधिवासो निवासे स्याद्गन्धमाल्यादिसंस्कृतौ ।अवदानं कर्म वृत्तं खण्डनं गुणकीर्तनम् ॥ २१९३ ॥
4.1.2193 · p. 265
अनुष्टुप्
त्यागमोक्षक्रियासाध्यफलप्राप्तिषु दिव्यपि ।स्याच्चतुर्ष्वपवर्गोऽथ प्रभावे भावसूचके ॥ २१९४ ॥
4.1.2194 · p. 265
अनुष्टुप्
अनुभावोऽपदेशस्तु निमित्ते व्याजलक्षयोः ।दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥ २१९५ ॥
4.1.2195 · p. 265
अनुष्टुप्
अनुषङ्गः कृपायां स्यात् प्रकृतस्यानुवर्तने ।हिंसायामभिमानः स्याद् ज्ञाने प्रणयदर्पयोः ॥ २१९६ ॥
4.1.2196 · p. 266
अनुष्टुप्
अवष्टम्भस्त्वहंकारे गृहे कान्त्यवलम्बयोः ।अभिहारोऽभियोगे स्याच्चौर्यसंनाहयोरपि ॥ २१९७ ॥
4.1.2197 · p. 266
अनुष्टुप्
सवने मद्यसंधाने स्नाने चाभिषवस्त्रये ।अभिग्रहोऽभियोगे स्यादभितोग्रहणेऽपि च ॥ २१९८ ॥
4.1.2198 · p. 266
अनुष्टुप्
अनिमेषोऽप्यनिमिषोऽप्युभावमरमत्स्ययोः ।अन्तर्वाणिः शास्त्रविदि पुरोधसि बहुश्रुते ॥ २१९९ ॥
4.1.2199 · p. 266
अनुष्टुप्
अपवादौ तु निन्दाज्ञे गुह्यगूढाववस्करौ ।अन्तेवासी तु चण्डाले शिष्यनापितयोरपि ॥ २२०० ॥
4.1.2200 · p. 266
अनुष्टुप्
क्षत्रिये त्वम्बरीषः स्यात् पुंसि भ्राष्ट्रे नपुंसके ।अवताम्भो (अवरोहो?)ऽवतरणं मूलादग्रं गता [लता] ॥ २२०१ ॥
4.1.2201 · p. 266
अनुष्टुप्
अवगाहो जलद्रोण्यामापगाद्यवमज्जने ।गर्वे लेपेऽवलेपः स्यादनुतर्षः सुरातृषोः ॥ २२०२ ॥
4.1.2202 · p. 266
अनुष्टुप्
आडम्बरस्तु पटहशब्दे वारणगर्जिते ।आत्मयोनिस्तु कन्दर्पे मारुते वारिजासने ॥ २२०३ ॥
4.1.2203 · p. 266
अनुष्टुप्
आच्छोटनं स्यादाघाते मृगयायां विमर्दने ।आरम्भणे चिकित्सायामुपधायामुपक्रमः ॥ २२०४ ॥
4.1.2204 · p. 267
अनुष्टुप्
स्नानाचान्त्योरुपस्पर्श उदवाहो घनौघयोः ।उपतापौ रुजातापावैरावत्यौ तटिच्छ्रियौ ॥ २२०५ ॥
4.1.2205 · p. 267
अनुष्टुप्
ऐराबतः सुरगजे घने काकोदराधिपे ।कलहंसस्तु कादम्बे राजहंसे महानृपे ॥ २२०६ ॥
4.1.2206 · p. 267
अनुष्टुप्
करहाटोऽम्बुजादीनां शिफायां देशभूरुहोः ।कुरुविन्दो रत्नभेदे मुस्तायां हिङ्गुलेऽपि च ॥ २२०७ ॥
4.1.2207 · p. 267
अनुष्टुप्
चन्द्रार्कयोर्ग्रहपतिः शंकरेऽपि गणेश्वरः ।वर्षुकाब्दे मत्तगजे वासवे च घनाघनः ॥ २२०८ ॥
4.1.2208 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
अर्कानलौ चित्रभानू चक्रपादो रथेभयोः ।जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥
4.1.2209 · p. 267
अनुष्टुप्
तारकारिर्गुहे भानौ तेजोनिधिरिनेऽनले ।दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ॥ २२१० ॥
4.1.2210 · p. 267
अनुष्टुप्
दिवाकीर्तिस्तु चण्डाले नापितेऽथ धनंजयः ।फल्गुनेऽग्नौ पशुपतिः शंकरे जातवेदसि ॥ २२११ ॥
4.1.2211 · p. 267
अनुष्टुप्
द्वारि द्वार्स्थे प्रतीहारः -------- रः ।पुण्डरीकस्तु शार्दूले दिग्गजे सर्पपुंगवे ॥ २२१२ ॥
4.1.2212 · p. 267
अनुष्टुप्metre not read in every line
मुनिभेदे राजभेदे क्लीबे तु सितपंकजे ।स्त्रियां सुराङ्गनाभेदे पवमानोऽग्निवातयोः ॥ २२१३ ॥
4.1.2213 · p. 268
अनुष्टुप्
वायुभेदे परिवहः परिवर्तो जगत्क्षये ।परिभ्रमेऽब्दे पर्याप्तौ परिक्षेपस्तु वेष्टने ॥ २२१४ ॥
4.1.2214 · p. 268
अनुष्टुप्
हस्तिनां पादपार्श्वेऽथ पितुः पितरि वेधसि ।पितामहः परीवाप आलवाले परिच्छदे ॥ २२१५ ॥
4.1.2215 · p. 268
अनुष्टुप्
रक्षःसतोः पुण्यजनः पामराज्ञौ पृथज्जनौ ।नटे काशे पोटगलः कपौ भेके प्लवंगमः ॥ २२१६ ॥
4.1.2216 · p. 268
अनुष्टुप्
परिग्रहः परिजने पत्न्यामादानशापयोः ।विप्राच्छूद्रासुते स्तेने क्लीबः पारशवोऽयसि ॥ २२१७ ॥
4.1.2217 · p. 268
अनुष्टुप्
परिवारः परिजने शस्त्रकोशे परिच्छदे ।विगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ २२१८ ॥
4.1.2218 · p. 268
अनुष्टुप्
आदाने पृतनापृष्ठे पतद्ग्राहे प्रतिग्रहः ।प्रजापतिर्मरीच्यादौ परमेष्ठिनि पार्थिवे ॥ २२१९ ॥
4.1.2219 · p. 268
अनुष्टुप्