All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
णान्ताः · णश्लोकः
॥ णश्लोकः ॥
गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये ।शुल्वे विद्यादिसत्त्वादिसन्ध्यादिहरितादिषु ॥
14.3.1 · p. 56
अनुष्टुप्
पणो माने वराटानां मूल्ये कार्षापणे धने ।द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥
14.3.2 · p. 56
अनुष्टुप्
मणिं चालिञ्जरं विद्यान्मेहनावयवो मणिः ।रत्नं मणिरजानां च कण्ठदेशस्तने मणिः ॥
14.3.3 · p. 56
अनुष्टुप्
कोणोऽश्रौ लगुडे कोणः कोणो वीणादिवादनम् ।एकदेशे गृहादीनां कोणः सद्भिरुदाहृतः ॥
14.3.4 · p. 56
अनुष्टुप्
प्राणो हृन्मारुते शक्तौ प्राणाः स्युरसवस्तथा ।प्राणो [31] गन्धरसे प्रोक्तः पद्यानामप्यलंकृतौ ॥
14.3.5 · p. 56
अनुष्टुप्
द्रोणो मानवि[शे]षे स्यात्काकेऽर्जुनगुरौ तथा ।पानीयोद्धरणी द्रोणी देशभेदे च कीर्तिता ॥
14.3.6 · p. 57
अनुष्टुप्
चूर्णे क्षोदे च धूलौ च चूर्णे स्यान्मृगयाचनम् ।चूर्णानि वासयोगाः स्युश्चूर्णिः कपर्दिकापि च ॥
14.3.7 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कृष्णाः स्युः शस्त्रकव्यासविष्णुनीलधनंजयाः ।कृष्णं च [म]रिचे कृष्णां पिप्पलीं द्रौपदीं विदुः ॥
14.3.8 · p. 57
अनुष्टुप्
वर्णो गुणाक्षरयशःशुक्लादिब्राह्मणादिषु ।कुथास्तुत्यनुलेपेषु वर्णे स्याद्भेदरूपयोः ॥
14.3.9 · p. 57
अनुष्टुप्
तीक्ष्णं स्यात्संयुगे लोहे विषतिग्मात्मघातिषु ।निरालस्ये सुबुद्धौ च तीक्ष्णमाचक्षते बुधाः ॥
14.3.10 · p. 57
अनुष्टुप्
[निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् ? ।]निर्वाणमपवर्गोऽपि निर्वाणं निर्वृतिं विदुः ॥
14.3.11 · p. 57
अनुष्टुप्
गोकर्णो दन्दशूके स्यान्मृगप्रमथभेदयोः ।अङ्गुष्ठानामिकोन्माने गोकर्णी पिलुपर्णिका ॥
14.3.12 · p. 58
अनुष्टुप्
प्रमाणमनुमानादौ हेतुमर्यादयोरपि ।सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥
14.3.13 · p. 58
अनुष्टुप्
दक्षिणो दक्षे तद्भूते ऋजुच्छन्दानुवर्तिनोः ।दक्षिणा यज्ञनिष्पत्तिदाने दिशि च कीर्तिता ॥
14.3.14 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षे (wrong syllable)
लक्ष्मणः सहलक्ष्मीके चिह्ने दशरथात्मजे ।लक्ष्मणा सारसस्त्री स्याल्लक्ष्मणा काचिदोषधिः ॥
14.3.15 · p. 58
अनुष्टुप्
पूरणः पूरके प्रोक्तो विष्णुतैले च पूरणः ।पटारम्भकसत्रेषु पूरणी शाल्मली मता ॥
14.3.16 · p. 58
अनुष्टुप्
अरुणोऽस्फुटरागे स्यात्सूर्ये च सूर्यसारथौ ।[32] सन्ध्यारागे च कुष्ठे च रक्ते चातिविषारुणा ॥
14.3.17 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
प्रवणः क्रमनिम्नोर्व्यां प्रह्वे च स्याच्चतुष्पथे ।आयत्ते च तथा क्षीणे प्रवणः समुदाहृतः ॥
14.3.18 · p. 58
अनुष्टुप्
करणं कायकायस्थसाधनेन्द्रियकर्मसु ।बन्धे च वालवादौ च करणः शूद्राविशोः सुतः ॥
14.3.19 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 कर (syllable split)
ग्रहणं राहुणा प्रासे रवीन्द्वोर्वा करे तथा ।बन्दिस्वीकारयोश्चैव ग्रहणी तु रुजान्तरम् ॥
14.3.20 · p. 59
अनुष्टुप्
हरिणी हरिता स्वर्णप्रतिमा हरिणी मृगी ।हरिणी चारुस्त्रीभेदे हरिणौ मृगपाण्डरौ ॥
14.3.21 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रु (wrong syllable)
रोहिणी गौश्च ऋक्षं च रक्ता च कटुरोहिणी ।रोहिणी सोमवल्के च कण्ठरोगे च रोहिणी ॥
14.3.22 · p. 59
अनुष्टुप्
सारणः स्याद्भद्रबला सारणी सरिदुच्यते ।सारणं गन्धभेदं च प्राहू रावणमन्त्रिणम् ॥
14.3.23 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्भ (wrong syllable)
काकणी मानदण्डस्य तुरीयांशे पणस्य च ।कृष्णलैकवराट्योश्च कुष्ठभेदश्च काकणः ॥
14.3.24 · p. 59
अनुष्टुप्
संसरणं तु संसारेऽप्यसंबाधचमूगतौ ।पुरीणां निर्गमद्वारे घण्टापथे च कीर्तितम् ॥
14.3.25 · p. 59
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
मत्तवारणमाख्यातो धीरैः समददन्तिनि ।महाप्रासादभित्तीनामग्रे वृक्षावृतौ तथा ॥
14.3.27 · p. 60
अनुष्टुप्