कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुञ्छ

guñchaपुं · masc.

In 3 kośas: 3 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 136
मुकुलो मकुलश्च स्यात्कुट्मलः कुड्मलोऽस्त्रियः ।गुच्छो गुञ्छो गुत्स[क]श्च गुलुच्छो ग्लप्स इत्यपि ॥स्तबकोऽस्त्री स्त्रियां लुम्बिः कोषविद्भिर्निगद्यते ।स्त्रियः सुमनसः प्रायो भूम्नि स्युः प्रसवः पुमान् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1979 · p. 326
गुच्छो गुञ्छो गुलुञ्छश्च गुलुञ्छुर्गुत्सकः पुनः ।गुत्सश्च स्तबको लुम्बी नामान्यष्टौ च सन्ति वै ॥ १९७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.137 · p. 229
गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री रसे पुनः ।पौष्पे मकरन्दः ख्यातो मकलन्दो मकरन्दवत् ॥ १३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.