All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (1/15)
। इति शैलवर्गः ।
अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् ।गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥
2.3.1 · p. 134
अनुष्टुप्
वनं कुब्रं च नीध्रं च गोत्रं च दुमलं च तत् ।ततं [लं] तल्कं दवो दावो झषः कक्षोऽटवी स्त्रियाम् ।प्रस्तारस्तु तृणाटव्यामरण्यानी महावनम् ॥ २ ॥
2.3.2 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वनी तदल्पं वन्या तु वनानां संहतिः स्त्रियाम् ।आरामः स्यादुपवनं वेलं चापवनं च तत् ॥ ३ ॥
2.3.3 · p. 134
अनुष्टुप्
गृहारामा निष्कुटाः स्युः पल्याटा अथ पौरकाः ।बहिर्गृहाच्छून्यवाटी भृष्टीः क्षुद्रप्रसीदिका ।आक्रीडोऽस्त्री तथोद्यानं राज्ञां[19a]साधारणं वनम् ॥ ४ ॥
2.3.4 · p. 134
अनुष्टुप्metre not read in every line
उद्यानपालकस्तु स्यात्कक्षावेक्षकनामकः ।प्रमदवनं प्रमदानां प्रमदावनमप्यदो महीपानाम् ।स्याद्वृक्षवाटिका तन् मन्त्र्यादीनां प्रसूनवाटी च ॥ ५ ॥
2.3.5 · p. 135
अनुष्टुप्metre not read in every line
न पुंसि दण्डका जम्बूमार्गं सैन्धव-नैमिषे ॥ ६ ॥
2.3.6 · p. 135
त्रिपुष्करं चार्बुदोऽस्त्री हिमवान्कुरुजाङ्गलम् ।उत्पलावर्तकं चेति नवारणी प्रकीर्तिता ॥ ७ ॥
2.3.7 · p. 135
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
स्यात्कोटरावणं नाम्नि कोटराणां हि यद्वनम् ।क्रीडोद्यानं केलिवनं पुरगाणां तु यद्वनम् ॥पुरगावणमेतत्स्यादग्रस्थेऽग्रेवणं वने ।सारिकावणमेवं स्यादथानाम्न्यप्यमी परे ॥ ९ ॥
2.3.9 · p. 135
अनुष्टुप्
देवदारुवनं तु स्याद्वनं यद्दैवदारवम् ।स्यादीरिकावनाद्येवं वन्यं त्रिषु वनोद्भवम् ॥ ११ ॥
2.3.11 · p. 135
अनुष्टुप्
वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः ।[19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥
2.3.12 · p. 135
अनुष्टुप्metre not read in every line
कुडङ्गो वृक्षवल्लीनां वनं स्यादथ वल्लरम् ।झाटो गञ्जः कुञ्जमस्त्री निकुञ्जं च लतावृतम् ॥ १३ ॥
2.3.13 · p. 135
अनुष्टुप्
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
2.3.14 · p. 135
अनुष्टुप्
फलदो भूरुहो भूजस्तरु-जर्ण-पलाशिनः ।सालः स्थिरः पुलाकी च रुह्वानोकह-पादपौ ॥ १५ ॥
2.3.15 · p. 135
अनुष्टुप्
वनस्पतिर्वृक्ष-गच्छ-नन्द्यावर्त-करालिकाः ।पुष्पतः फलवान्वानस्पत्योऽपुष्पो वनस्पतिः ॥ १६ ॥
2.3.16 · p. 136
अनुष्टुप्
छायातरुः स्थिरच्छायो ह्रस्वशाखाशिफः क्षुपः ।स्थाणुरस्त्री ध्रुवः शङ्कुः शाखापत्रविवर्जितः ॥ १७ ॥
2.3.17 · p. 136
अनुष्टुप्
फलेग्रहिः फलावन्ध्योऽप्यवकेशी तु सोऽफलः ।पुष्पितः स्यात्कुसुमितः फलवान्फलिनः फली ॥ १८ ॥
2.3.18 · p. 136
अनुष्टुप्
फुल्ल-प्रफुल्ल-संफुल्ल-प्र[20a]फुल्लोत्फुल्ल-जृम्भिताः ।प्रबुद्धोन्मीलितो जृम्भ-व्योकोच-विकच-स्फुटाः ॥ १९ ॥
2.3.19 · p. 136
अनुष्टुप्metre not read in every line
स्मेरः स्मितो विकसितो दलितः स्फुटितोऽपि च ।विकास्युन्मिषितोन्निद्र-विनिद्राण-विकस्वराः ॥ २० ॥
2.3.20 · p. 136
अनुष्टुप्
उल्लीलः स्यादुच्छ्वसित-हसितोन्मिषिता अपि ।मि(मी?)लितः स्यात्संकुचितः फलेग्रह्यादयस्त्रिषु ॥ २१ ॥
2.3.21 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि ।वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥
2.3.22 · p. 136
अनुष्टुप्
उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतः ।कणीचिः स्त्री पुष्पितास्या ग्रन्थिकस्तु लताज्वरः ।प्ररोहोऽस्त्री त्वङ्कुरः स्यादङ्कूरः कन्दलस्त्रिषु ॥ २३ ॥
2.3.23 · p. 136
अनुष्टुप्metre not read in every line
पूर्वोऽर्थो बलिशं(?)स्युस्तु शिखा-शाखा-लताः स्त्रियः ।अस्त्री स्याद्विटपश्चाथ शाख्यं शाखेव यत्त्रिषु ॥वातावर्जितशाखायां भवेद्योषिद्वकेरुका ।शाला साला स्कन्धशाखाथाशाखं मूलतस्तरोः ॥ २४ ॥
2.3.24 · p. 136
अनुष्टुप्
प्रकाण्डोऽस्त्री पुंसि गण्डिः[20b]स्कन्धस्त्वस्य शिरो भवेत् ।प्रघाणो मस्तकोऽस्त्री * शिफायां तु जटा झटा ।जटिः स्त्रियां नृलिङ्गे तु मूलेरो विनिगद्यते ॥ २५ ॥
2.3.25 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शाखा शिफावरोहो ना मूलात्त्वग्रं गता लता ।लतोद्गमोऽथाप्रकाण्डे गुल्मोऽस्त्री विटपोऽपि च ॥ २६ ॥
2.3.26 · p. 136
अनुष्टुप्
स्तम्बोऽप्यथ शिरोऽग्रं स्यात्तस्मिञ्छिखरमस्त्रियाम् ।बुध्नोऽङ्घ्रिनामा मूलोऽस्त्रीत्वचा-त्वक्-त्वचयः स्त्रियः ॥ २१ ॥
2.3.21 · p. 136
अनुष्टुप्
छल्ली त्वचश्चोचमन्त्ये न स्त्रियां वल्क-वल्कलौ ।मज्जायां सारमज्जानौ विस्तारो विटपोऽस्त्रियाम् ॥ २८ ॥
2.3.28 · p. 136
अनुष्टुप्
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेधोऽस्त्री समुच्छ्राय उदयस्तूच्छ्रयः * * ।अल्पारोहपरीणाहा वृक्षाद्याः स्युर्निघा इति ।दारु न स्त्री काष्ठमन्त्ये दलिरु(कं?) चाथ दीप्तिकृत् ॥ ३० ॥
2.3.30 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
एध इन्धनमग्ने(?)स्तदेधः पुंसीध्ममस्त्रियाम् ।समित्स्त्री समिधायां स्यान्निष्कुहः कोटरोऽस्त्रियाम् ॥ ३१ ॥
2.3.31 · p. 136
अनुष्टुप्
मिथुने वल्लरिर्मञ्जा चमरा[21a]मञ्जरा न ना ।पत्रबर्हिश्छदा न स्त्री पर्णं पत्रं दलं तथा ॥ ३२ ॥
2.3.32 · p. 136
अनुष्टुप्metre not read in every line
पलाशं छदनं पर्फरीकं कि[स]लयं नवे ।किसलं पल्लवस्त्वस्त्री प्रवालस्त्वचिरोद्गतः ॥ ३३ ॥
2.3.33 · p. 136
अनुष्टुप्
स्याल्लतायावकं चाथ तच्चेदङ्गुलिसंनिभम् ।स्यादाङ्गुलिकनामा स्यात्कोशी शृङ्गो नरस्त्रियोः ।मर्गटो ना स्त्रियां माढिः पर्वरीणं च तच्छिरा ॥ ३४ ॥
2.3.34 · p. 136
अनुष्टुप्
दौर्वीणं मृष्टपर्णं स्याज्जीर्णं त्वेतत्कशंवर(?) ।कण्टक-द्रुणखौ न स्त्री दलसूचिश्च वङ्किलः ॥ ३५ ॥
2.3.35 · p. 136
अनुष्टुप्
शिताग्रोऽप्यथ वृन्तं स्यात्क्लीबे प्रसवबन्धनम् ।कलिका जालकं क्लीबे क्षारकः कोरकोऽस्त्रियौ ॥ ३६ ॥
2.3.36 · p. 136
अनुष्टुप्
मुकुलो मकुलश्च स्यात्कुट्मलः कुड्मलोऽस्त्रियः ।गुच्छो गुञ्छो गुत्स[क]श्च गुलुच्छो ग्लप्स इत्यपि ॥स्तबकोऽस्त्री स्त्रियां लुम्बिः कोषविद्भिर्निगद्यते ।स्त्रियः सुमनसः प्रायो भूम्नि स्युः प्रसवः पुमान् ॥ ३७ ॥
2.3.37 · p. 136
अनुष्टुप्
पुष्पं प्रसूनं सूनं च सुमं कुसुममस्त्रियाम् ।मणीचकं चाथ पुंसि परागः पुष्पजं रजः । [21b] ॥ ३८ ॥
2.3.38 · p. 138
अनुष्टुप्
मकरन्दो मरन्दश्च तद्रसो मधुरस्त्रियाम् ।आरण्याः स्युः सुमनसो या अरण्येसमुद्भवाः ॥फलं परीरं किंपाकं शस्यं सस्यमथ त्रिषु ।व्युष्टं पर्युषितं शुष्कं त्ववानं वानमित्यपि ॥गौणं धारु(?)स्तु पुंस्त्वे स्यादथापक्वं शलाटु तत् ॥ ४० ॥
2.3.40 · p. 138
अनुष्टुप्
पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् ।निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् ।परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे ।* * * * * * * * बीजकोशी शमी शिमिः ।शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥
2.3.41 · p. 138
अनुष्टुप्metre not read in every line
द्वयहीनं यथैरण्डमशोकं चाम्रमित्यपि ।जात्यादयः स्वलिङ्गाः स्युः पुष्पे जाती च मल्लिका ॥ ४२ ॥
2.3.42 · p. 138
अनुष्टुप्
मूले पुष्पे विदार्याद्याः पुष्पे क्लीबेऽपि पाटला ।साल्वं मूले फले तु स्युर्हरीतक्यादयः स्त्रियाम् ॥ ४३ ॥
2.3.43 · p. 138
अनुष्टुप्
स्वलिङ्गाः सूरणाद्याः स्युः कन्दे जम्ब्वास्तु जाम्बवम् ।जम्बु क्लीबे स्त्रियां जम्बूः फलं जम्बूस्तु तज्जय(?) ॥ ४४ ॥
2.3.44 · p. 138
अनुष्टुप्
प्लाक्षं शैग्रव[22a]माश्वत्थं नैयग्रोधं च बार्हतम् ।वैणवं चैङ्गुदं च स्यात्फलं प्लक्षादिसंभवम् ॥ ४५ ॥
2.3.45 · p. 138
अनुष्टुप्metre not read in every line
अन्यत्रैते स्वलिङ्गाः स्युः फलपाकशुक(?)पुनः ।फले प्रकृतिलिङ्गाः स्युर्यथा माषा यवास्तिलाः ॥ ४६ ॥
2.3.46 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 क (wrong syllable)
पञ्चाङ्गं तु तरोर्मूलवल्कपुष्पफलच्छदैः ।पुष्पज्वरस्तु पर्वा स्याज्ज्यौतिष्कस्त्वौषधिज्वरः ॥दशाङ्गं रसनिर्याससारकण्टकवृन्तकैः ।अश्वत्थः पिप्पलो बोधिश्चलपत्रो गजाशनः ॥मङ्गल्यः केशवावासः श्रीवृक्षः क्षीरपादपः ॥ ४७ ॥
2.3.47 · p. 139
अनुष्टुप्
कपीतनो गर्दभाण्डः कपिकृ(चू?)तः कमण्डलुः ।कन्दरालः सुपार्श्वश्च प्लवः पूगोऽपि मौग्धिगः ॥ ४८ ॥
2.3.48 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
तरुप्ररोहः प्लवगः सुशीतकवचोऽस्त्रियाम् ।कपिया(वा?)सः फलीशश्च विलम्बः सुप्रतिष्ठितः ॥ ४९ ॥
2.3.49 · p. 139
अनुष्टुप्
अन्यस्थाली डुमः पिष्टक्षीरी कुञ्जरपादपः ।स्यात्प्ररोही जयतरुर्नदीवृक्षो वनस्पतिः ॥ ५० ॥
2.3.50 · p. 139
अनुष्टुप्
प्लक्षः कपीतनः शुङ्गी जटी द्वंद्वे तु पर्क्कटी ।य[22b]क्षवृक्षः सुपार्श्वश्च पिप्परिः पिप्पलश्छदः ॥ ४८ ॥
2.3.48 · p. 139
अनुष्टुप्metre not read in every line
वटोऽस्त्रियां रक्तफलो न्यग्रोधो यक्षवासकः ।बहुपादो ध्रुवः शुङ्गी सिद्धार्थः स्कन्धसंभवः ॥ ४९ ॥
2.3.49 · p. 139
अनुष्टुप्
नदीवृक्षः प्ररोही च पादरोही वनस्पतिः ।अग्रशुङ्गी मरीची च दान्तो वैश्रवणालयः ॥ ५० ॥
2.3.50 · p. 139
अनुष्टुप्
उदुम्बरः क्षीरवृक्षो मशकी हेमदुग्धकः ।सदाफलः कृमिफलो यज्ञाङ्गः शीतवल्कलः ॥ ५१ ॥
2.3.51 · p. 139
अनुष्टुप्
सुप्रतिष्ठो यज्ञयोग्यः कालस्कन्ध उदुम्बरः ।अपुष्पः फलसंबद्धः सुचक्षुश्च वसुद्रुमः ॥ ५२ ॥
2.3.52 · p. 139
अनुष्टुप्
उदुम्बरममं(यं?)त्वौदुम्बरं तद्विकृतौ त्रिषु ।वेतसो वुगुले(?)शीतो वञ्जुलो व्योमपुष्पकः ।वानीरो गन्धपुष्पश्च सुषेणः कलनो रथः ॥ ५२ ॥
2.3.52 · p. 139
अनुष्टुप्
विदुलो मञ्जरीनम्रो नादेयी त्वम्बुवेतसः ।परिव्याधस्तोयकामो जलौकःसंवृतोऽम्बुजः ॥ ५४ ॥
2.3.54 · p. 139
अनुष्टुप्
निकुञ्जकश्च विदुलो नदीकूलप्रियोऽपि सः ।स्रोतोजो मेघद्यु(पु?)ष्पश्च नीले त्विज्जल-हिज्जलौ ॥ ५५ ॥
2.3.55 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ (wrong syllable)
हिङ्गुलश्चेञ्जलो[23a]गुच्छफलः स्यात्कक्षपोलिका ।क्षीरिणः पिप्पल-प्लक्ष-वरोदुम्बर-वेतसाः ॥ ५६ ॥
2.3.56 · p. 140
अनुष्टुप्metre not read in every line
आम्रो रसालो माकन्दः पिकानन्दी स्मरालयः ।कामद्रुश्चैत्रवृक्षश्च प्रियङ्गो मदिरासखः ॥ ५७ ॥
2.3.57 · p. 140
अनुष्टुप्
मङ्गलद्रुर्मञ्जरी च शिलीष्टो भृङ्गवल्लभः ।मनोभिनन्दनः पुष्पोत्सवश्चामरपुष्पकः ॥ ५८ ॥
2.3.58 · p. 140
अनुष्टुप्
वसन्तदूतश्चूतश्च श्यामतैलोऽङ्गनाप्रियः ।मदिरास[ख]श्च सुफलो हेमपिङ्गः सुमृष्टकः ॥ ५९ ॥
2.3.59 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सहारः सहकारश्च स भवेदतिसौरभः ।पान्थामोदी चाथ वार्वरीटोऽस्यास्थ्यङ्कुरो मतः ।स्यात्क्षुद्रमौकुलिर्जन्तुवृक्षो लीक्षातरुस्तथा ॥ ६० ॥
2.3.60 · p. 140
अनुष्टुप्
घनस्कन्धश्च कोशाम्रो रक्तकः क्षुद्रचूतकः ।अतिमिष्टस्तु राजाम्र आम्रातः स्मरभावनः ॥ ६२ ॥
2.3.62 · p. 140
अनुष्टुप्
वर्षपाकी तनुक्षीरः शुङ्गी स्यादम्लवाटकः ।फलीशको दुःफलः स्यात्स्त्री तु जम्बूश्च जम्बुवत् ॥ ६३ ॥
2.3.63 · p. 140
अनुष्टुप्
महाफला महास्कन्धा सौरभी सुफला तथा ।कुमारी गन्धप[23b]त्रा च नीलपत्रासितच्छदा ॥ ६४ ॥
2.3.64 · p. 140
अनुष्टुप्metre not read in every line
काकजम्बू मेघवर्णा नादेयी भ्रमरप्रिया ।शतपत्रा भूमिजम्बू कुफला वैदिशोऽल्पकः ॥ ६५ ॥
2.3.65 · p. 140
अनुष्टुप्
वैदला सा च वैदेशी चाथ राजादनोऽस्त्रियाम् ।तद्वद्राजातनश्चारः संनकद्रुर्धनुःपटः ॥ ६६ ॥
2.3.66 · p. 140
अनुष्टुप्
पिसालश्च प्रियालश्च पटो द्राक्षाफलो धनुः ।शालः शाखामृगास्वाद्यत्वक्स्त्री तापसवल्लभः ॥ ६७ ॥
2.3.67 · p. 140
अनुष्टुप्
खरस्कन्धश्चाम्लफलो राजाह्वो फलनो वरः ।पलाशः किंशुकः किर्मी ब्रह्मवृक्षस्त्रिपर्णकः ॥त्रिवृन्तः कटुपर्णश्च वातपोथः समिद्वरः ।क्षारश्रेष्ठो रक्तपुष्पो यज्ञियश्च गणेरुकः ॥ ७१ ॥
2.3.71 · p. 140
अनुष्टुप्
लाक्षावृक्षश्च कनकः स्यात्सुभीरव(क?) इत्यपि ।बीजस्नेहो रङ्गपुष्पः पृथुशिम्बो वमीतरुः ॥अङ्गारितं नूलाम्लिंत कलींनवनिर्गतो (corrupt) ।बन्धः पलाशपत्राणां मूर्ध्नि पत्रपलाशिका ॥पालाशकं [24a]भेद्यवत्स्यान्निर्वृत्तं यत्पलाशतः ।एलाफलः पान्थभोग्यो मधुकश्च मधुद्रुमः ॥गुडपुष्पो मधुष्ठीलो वानप्रस्थो मधुस्रवः ॥ ७५ ॥
2.3.75 · p. 140
metre not recognisedLatin letters: corruptnearly अनुष्टुप्: pāda 1, syllable 4 तं (syllables merged)
लोध्रपुष्पो माधवश्च मधुपुष्पो मृगप्रियः ।मध्वङ्गस्तीक्ष्णसारश्च भोग्यो मधुकलो मधुः ॥ ७६ ॥
2.3.76 · p. 141
अनुष्टुप्
सोऽम्भोजो दीर्घपत्रः स्याद्ध्रस्वपुष्पफलस्तथा ।गौरवृक्षस्तीरवृक्षो गिरिकाख्यो मधूलकः ॥ ७७ ॥
2.3.77 · p. 141
अनुष्टुप्
घोण्टाकोली च गोकण्टी बदरी युग्मकण्टिका ।गोपघोण्टा च घुण्टा च राष्ट्रवृद्धिकरी तथा ॥ ७८ ॥
2.3.78 · p. 141
अनुष्टुप्
स्निग्धच्छदाजाप्रिया च गृध्रनख्यल्पिका द्वयोः ।कर्कन्धूः स्यात्फेनिलम्बं बदरी कुवलं त्रिषु ॥ ७९ ॥
2.3.79 · p. 141
अनुष्टुप्
सर्वावस्था युटा(?)स्वादु महत्सौवीरकं भवेत् ।हस्तकोली सिञ्चनिका कर्कन्धूर्याममीयसी ॥ ८० ॥
2.3.80 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)
सौवीरं बदरं कोलं फलं तासां च बेरटम् ।कर्कन्धूनां तु पाके स्यात्कर्कन्धुकुणमन्तिमे ॥ ८१ ॥
2.3.81 · p. 141
अनुष्टुप्
बदरकुणं कुवल[24b]कुणे तेषां पाके समुद्दिष्टम् ।बदराण्युञ्छति योऽसौ बादरिकः स्याद्विशेष्यलिङ्गस्थः ॥ ८२ ॥
2.3.82 · p. 141
उद्गीतिः
ककुभोऽर्जुनसंज्ञः स्याद्वीरो वीरतरुस्तथा ।वैरान्तको नदीसर्जो मधुगन्धि प्रसूनकः ॥ ८३ ॥
2.3.83 · p. 141
अनुष्टुप्
आशाफलश्चित्रयोधी धूर्तवृक्षेन्द्रवृक्षकौ ।कुणिः कच्छस्तुणिस्तुन्नः कुपाणिश्च कुवेरकः ॥ ८४ ॥
2.3.84 · p. 141
अनुष्टुप्
स्यादापीतः कान्तलको नन्दी नन्दीतरुस्तथा ।लोध्रो रोध्रस्तिल्वकः स्यान्मार्जनः कालहीनकः ॥ ८५ ॥
2.3.85 · p. 142
अनुष्टुप्
चिल्लस्तिलस्तिरीटो ना सितलोध्रस्तु शाबरः ।गालवो नेत्रभैषज्यं शीतपुष्पो व्रणौषधम् ॥ ८६ ॥
2.3.86 · p. 142
अनुष्टुप्
उत्सादनो घनत्वक्च शशोडती(?) सारभेषजे ।क्रमुकः पट्टिकाख्योऽन्यः पट्टीत्यच(?)बृहच्छदः ॥ ८७ ॥
2.3.87 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लाक्षाप्रसादनः पट्टी जीर्णबुध्नो घनत्वचः ।कट्फलः कत्फलः सोमवल्कः कारञ्जनस्तथा ॥ ८८ ॥
2.3.88 · p. 142
अनुष्टुप्
महावल्कः स्त्रियां कुम्भी महाकुम्भी प्रचेतसा ।म[[25a]हाकषायोग्रगन्धा भद्रा भद्रवती तथा ॥ ८९ ॥
2.3.89 · p. 142
अनुष्टुप्metre not read in every line
श्रीपर्णिका कुमुदिका कैदर्यं मतमस्त्रियाम् ।स्त्रीपुंसयोस्तिन्दुकः स्यात्कालस्कन्धोऽसिमत्सरुः ॥ ९० ॥
2.3.90 · p. 142
अनुष्टुप्
स्फूर्जकः स्फूर्जनी स्फूर्या विरला स्फुरणी च सा ।जलोद्भवो दीर्घपत्रः काकेन्दुः काकतिन्दुकः ॥ ९१ ॥
2.3.91 · p. 142
अनुष्टुप्
कुलकः काकपीलुश्च कुपीलुर्विषतिन्दुकः ।क्लीतकं मधुकं यष्टीमधुकं मधुयष्टिका ॥ ९२ ॥
2.3.92 · p. 142
अनुष्टुप्
मधुस्रवा लक्ष्यणं च यष्ट्याह्वं मधुनाम च ।जलोद्भवा क्लीतनिका मधुपर्णी मधूलिका ॥ ९३ ॥
2.3.93 · p. 142
अनुष्टुप्
पीलुः स्रंसी गुडफलः सहस्राङ्गी हिमासहः ।उष्ट्रप्रियस्तीक्ष्णतरुर्धारी सिन-विरेचनौ ॥ ९४ ॥
2.3.94 · p. 142
अनुष्टुप्
श्यामो भुजो दीपनोऽथ पाके पीलुकुणं भवेत् ।सोऽद्रिजोऽक्षोट आक्षोटः स्वादुमज्जा पृथुच्छदः ॥ ९५ ॥
2.3.95 · p. 142
अनुष्टुप्
पर्वतीयः कन्दरालः कर्परालो गुडाशयः ।फलस्नेहो वृन्तफलः कीरेष्टोऽथ[25b]शुकप्रियः ॥ ९६ ॥
2.3.96 · p. 142
metre not recognised
फलश्रीः पुंसि राजन्यो दृढस्कन्धो नृपाभिधः ।क्षीरी मृत्प्रियकश्च स्यात्प्रियालोकः फलाधिपः ॥ ९७ ॥
2.3.97 · p. 142
अनुष्टुप्
क्षीरिणी क्षीरिका स्वादुफला मृदुफलापि च ।परूषकः परुषकः परुः क्लीबेऽसितच्छदः ॥ ९८ ॥
2.3.98 · p. 143
अनुष्टुप्
पारावतो मृदुफलो चत्वनच्छद इत्यपि ।अल्पास्थि-कण्टकिफल-दग्धवृद्धि-परूंषि च ॥ ९९ ॥
2.3.99 · p. 143
अनुष्टुप्
तूदस्तुदश्च नूतश्च क्रमुको ब्रह्मचार्यपि ।ब्रह्मनिष्ठश्च यूपश्च ब्रह्मण्यो ब्रह्मपादपः ॥ १०० ॥
2.3.100 · p. 143
अनुष्टुप्
तूलं तूली चाथ पालेवतं पारेवतं तथा ।महापालेवतं रक्तमाणावं रैवतं च तत् ॥ १०१ ॥
2.3.101 · p. 143
अनुष्टुप्
आरेवतं पाण्डुपुष्पं तिन्दुकाकृतिः प्रोच्यते ।सुगन्धिपुष्पः स्वाद्वम्लपक्वसस्यो महोन्नतिः ॥ १०२ ॥
2.3.102 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तिः (wrong syllable)
भीषणः स्यादार्तगलो बहुकण्ठो रुजाकरः ।जालीवृक्षो दुःप्रधर्षः [26a] स्वादुतिक्तफलोऽर्गटः ॥ १०४ ॥
2.3.104 · p. 143
metre not recognised
पनसः पणसश्चास्त्री मुरजफलोऽसौ महासर्जः ।…आयतफलः सकण्टकौ चास्मिन् ॥ २ ॥
2.3.2 · p. 143
metre not recognised
लकुचो लिकुचः क्षुद्रपनसो ग्रन्थिमत्फलः ।पीतनो सौ**साक्षौ गर्भस्त्वेतस्य कण्टका ।लिङ्गत्रये दाडिमः स्यात्सारश्च करकोऽस्त्रियाम् ॥ ३ ॥
2.3.3 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सौ (syllables merged)
रक्तबीजो रक्तपुष्पः कुट्टिमः फलखाडवः ।शुकप्रियो दन्तबीजो हिण्डीरो दालिमी त्रिषु ॥ ४ ॥
2.3.4 · p. 143
अनुष्टुप्
विदलं दाडिमकणः शिखरं संपचेलिमः ।कपित्थस्तु कपि(गि?)त्थः स्याद्दधित्थो रदहर्षणः ॥ ५ ॥
2.3.5 · p. 143
अनुष्टुप्
दध्याह्वः स्याद्दधिफलोऽक्षिस्पन्दः सुरभिच्छदः ।चक्रास्थिः स्याद्दन्तशठः सितपुष्पः कपिप्रियः ॥ ६ ॥
2.3.6 · p. 143
अनुष्टुप्
जम्बीरश्च ग्राहिफलो मन्मथश्चिरपाक्यपि ।हृद्यगन्धः स्वादुफलः सितक्षीरो जलेन्द्रकः ॥ ७ ॥
2.3.7 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
जम्बीरो जम्भलो जम्भोऽस्त्रियां जम्भील इत्यपि ।द्विजकेतुश्चारुफलः करणो दन्तहर्षणः ॥ ८ ॥
2.3.8 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
अस्त्रियां रोच[26b]कश्चाथ वेतसाम्लोऽम्लवेतसः ।अम्लो रसाम्लः शाखाम्लो मांसारिर्वरवेतसः ॥ ९ ॥
2.3.9 · p. 144
अनुष्टुप्metre not read in every line
भीमः सहस्रवेधी स्याच्छतवेधी च वेधकः ।रक्तस्रावो द्रावकश्च न स्त्री चुक्रीमथापरः (?) ॥ १० ॥
2.3.10 · p. 144
अनुष्टुप्
कपोताण्डोपमफलः साराम्लश्च परावतः ।महापारावतश्चाथ निम्बूकं निम्बुकं समे ॥ ११ ॥
2.3.11 · p. 144
अनुष्टुप्
रसालं राजनिम्बूकं चौरनिम्बूकमल्पकम् ।आरुकं वीरसेनं स्याद्वीरकं वीरनुत्तथा ॥ १२ ॥
2.3.12 · p. 144
अनुष्टुप्
भवं भव्यं भविष्यं च भावनं तच्चतुर्विधम् ।कमरङ्गं कर्णफलं भावनं मुखशोधनम् ।रोमान्तकं रोमफलं भव्यं पिच्छिलबीजकम् ॥ १३ ॥
2.3.13 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
ऐरावतो नागरङ्गो नारङ्गो वदनप्रियः ।योगसारस्त्वक्सुगन्धः सुधा तक्राधिवासकः ॥ १४ ॥
2.3.14 · p. 144
अनुष्टुप्
मातुलिङ्गो मातुलुङ्गो लुङ्गोऽपि फलपूरकम् ।बीजपूरः सुपूरश्च बीजाह्वः केसराम्लकः ॥ १५ ॥
2.3.15 · p. 144
अनुष्टुप्
बृहत्फलश्च रुचकः केसरी स तु शैलजः ।दैवदूती सुगन्धाढ्या मातुलुङ्गा वनीयकः ॥ १६ ॥
2.3.16 · p. 144
अनुष्टुप्
अ[27a]त्यम्ला पीतपुष्पा च स्मृता सा च महाफला ।तित्तिडीका तित्तिडी च तिन्तिडी च कपिप्रिया ॥ १७ ॥
2.3.17 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 त्य (syllables merged)
अम्लिका चाम्लिका चिञ्चा चुक्रिकाथ सिताम्लिका ।असौ सुतित्तिडी प्रोक्ता शुक्लिका च निगद्यते ॥ १८ ॥
2.3.18 · p. 144
अनुष्टुप्
जम्बीरो वेतसाम्लश्च नारङ्गो बीजपूरकः ।तित्तिडीका च पञ्चाम्लं जानीयाद्रसकर्मणि ॥ १९ ॥
2.3.19 · p. 144
अनुष्टुप्
फणिज्जकः फणी प्रस्थपुष्पः मरुवको मरुत् ।समीरणो मरुतको भवेन्मरिचकोऽपि सः ॥ २० ॥
2.3.20 · p. 145
अनुष्टुप्
खरपत्रस्तीक्ष्णपत्रो जम्बीरो बीजपुष्पकः ।तित्तिडीकस्तु वृक्षाम्लः शाकाम्लो रक्तपूरकः ।अम्लवृक्षोऽम्लपूरः स्यादथ स्यात्करमर्दकः ॥ २० ॥
2.3.20 · p. 145
अनुष्टुप्metre not read in every line
कृष्णपाकम(फ?)लाविग्न-सुषेण-स्थलकर्पटाः ।वनशूद्रः(?)क्षीरफेनः कराम्लश्चाम्लपुष्पकः ॥ २१ ॥
2.3.21 · p. 145
अनुष्टुप्