गुत्सक
gutsakaपुं · masc.In 5 kośas: 5 synonym verses.
कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः ।गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥ ११२६ ॥मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderपुंmasc.
मुकुलो मकुलश्च स्यात्कुट्मलः कुड्मलोऽस्त्रियः ।गुच्छो गुञ्छो गुत्स[क]श्च गुलुच्छो ग्लप्स इत्यपि ॥स्तबकोऽस्त्री स्त्रियां लुम्बिः कोषविद्भिर्निगद्यते ।स्त्रियः सुमनसः प्रायो भूम्नि स्युः प्रसवः पुमान् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ ।स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
गुच्छो गुञ्छो गुलुञ्छश्च गुलुञ्छुर्गुत्सकः पुनः ।गुत्सश्च स्तबको लुम्बी नामान्यष्टौ च सन्ति वै ॥ १९७९ ॥
अनुष्टुप्
genderपुंmasc.
सन्दानमनिरुद्धं च प्रकीर्णं गुत्सकस्तथा ।सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्कसङ्ग्रहाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.