कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

तिर्यग्विभागः · वनस्पतिकायनामानि (1/3)

॥ इति वायुकायः समाप्तः ॥

* अथ वनस्पतिकायनामानि *

* वननामानि *

वनं वार्क्षं दवो दावो विपिनं गहनं झषः ।अरण्यमटवी सत्रं कान्तारं काननं पुनः ॥ १९४७ ॥
5.5.1947 · p. 320
अनुष्टुप्
कक्षः षण्डं च नामानि मन्यन्ते विपिनस्य वै ।
5.5.2 · p. 320
अनुष्टुप्

* महारण्यनाम *

महारण्यमरण्यानी विशालं वनमुच्यते ॥ १९४८ ॥
5.5.1948 · p. 321
अनुष्टुप्

* तृणाटवीनाम *

तृणाटवी च प्रस्तारो झषस्तु बहुघासवत् ।
5.5.4 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable)

* आरामनामानि *

आरामोऽपवनं स्याच्च वेलमुपवनं पुनः ॥ १९४९ ॥
5.5.1949 · p. 321
अनुष्टुप्metre not read in every line
निष्कुटः स्याद्गृहारामो बाह्यारामस्तु पौरकः ।आक्रीडः स्यात् तथोद्यानं राज्ञां त्वन्तःपुरोचितम् ॥ १९५० ॥
5.5.1950 · p. 321
अनुष्टुप्
प्रमदवनं राज्ञीनां प्रमोदाय कृतं भवेत् ।पुष्पवाटी वृक्षवाटी मन्त्रिवेश्यागृहस्थिता ॥ १९५१ ॥
5.5.1951 · p. 321
metre not recognisednearly अनुष्टुप्
राज्ञ्याः क्रीडाकृते सैव क्षुद्रारामः प्रसीदिका ।
5.5.8 · p. 321
अनुष्टुप्

* वृक्षनामानि *

वृक्षो रूक्षो द्रुमोऽद्रिश्च हरिद्रुर्द्रुर्महीरहः ॥ १९५२ ॥
5.5.1952 · p. 321
अनुष्टुप्
आरोहकः कुटः कुठः कारस्करः करालिकः ।अगोऽगमो नगो गच्छः सीमिको हरितच्छदः ॥ १९५३ ॥
5.5.1953 · p. 321
अनुष्टुप्metre not read in every line
पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः ।शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥
5.5.1954 · p. 321
अनुष्टुप्
शाखी च शिखरी स्कन्धी क्षितिरुहश्च वह्निभूः ।अंह्रिपश्चाङ्घ्रिपो जन्तुर्जीर्णश्चरणपः कुजः ॥ १९५५ ॥
5.5.1955 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
अनोकह उरुश्चैव नन्द्यावर्त्तस्तथैव च ।एतन्नामानि मन्यन्ते वृक्षस्य विबुधैर्जनैः ॥ १९५६ ॥
5.5.1956 · p. 322
अनुष्टुप्

* कुञ्जनामानि *

ख्यातः कुञ्जो निकुञ्जश्च कुडङ्गोऽपि हि कथ्यते ।त्रीणि नामानि मन्यन्ते वृक्षैर्वृतान्तरे स्थले ॥ १९५७ ॥
5.5.1957 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्वृ (wrong syllable)
पुष्पं फलं क्रमात् पत्रं वानस्पत्यस्तु स द्रुः ।वनस्पतिस्तु स द्रुमः फलमेव च पत्रकम् ॥ १९५८ ॥
5.5.1958 · p. 322
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 द्रु (wrong syllable)

* फलेग्रहिनाम *

फलेग्रहिः फलावन्ध्यो यः फलत्येव स द्रुमः ।
5.5.16 · p. 322
अनुष्टुप्

* फलवन्ध्यनामानि *

फलवन्ध्योऽबकेशी चाऽवकेशी कथ्यतेऽपि वै ॥ १९५९ ॥
5.5.1959 · p. 322
अनुष्टुप्
त्रीणि नामानि वृक्षाणि नार्पयन्ति फलं कदा ।
5.5.18 · p. 322
अनुष्टुप्

* फलवत्-नामानि *

फलयुक्ततरोर्नाम फलवान् फलिनः फली ॥ १९६० ॥
5.5.1960 · p. 323
अनुष्टुप्

* ओषधीनामानि *

फलपक्वानन्तरञ्च यस्य नाशः स औषधीः ।औषधिरोषधी चापि नामत्रयं जवादिके ॥ १९६१ ॥
5.5.1961 · p. 323
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 धि (wrong syllable); pāda 4, syllable 3 त्र (wrong syllable)

* क्षुपनाम *

क्षुपो लघुशिफा शाखो व्यवहारे निगद्यते ।
5.5.21 · p. 323
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ल (wrong syllable)

* लतानामानि *

प्रततिर्व्रततिर्वल्ली वल्लिर्लताऽपि कथ्यते ॥ १९६२ ॥
5.5.1962 · p. 323
अनुष्टुप्metre not read in every line
ख्यातः प्रतानिनी वीरुत् उलपो गुल्मिनी पुनः ।एतन्नामानि मन्यन्ते गुच्छवत्यां लतार्थके ॥ १९६३ ॥
5.5.1963 · p. 323
अनुष्टुप्

* अङ्कुरनामानि *

अङ्कूरश्चाऽङ्कुरो रोहः प्ररोहश्चाऽपि कथ्यते ।
5.5.24 · p. 323
अनुष्टुप्

* बलिशनाम *

बलिशं नाम तस्याऽस्ति पर्वणो यः समुत्थितः ॥ १९६४ ॥
5.5.1964 · p. 323
अनुष्टुप्

* शाखानामानि *

शाखा शिखा लता नाम वृक्षाङ्गे च लघौ स्मृतम् ।शाला साला स्कन्धशाखा बृहद्भागस्तरोर्भवेत् ॥ १९६५ ॥
5.5.1965 · p. 324
अनुष्टुप्

* स्कन्धनाम *

प्रकाण्डमस्तकं स्कन्धो वृक्षस्य कथ्यते बुधैः ।प्रकाण्डो गण्डिका गण्डिर्मूलात् शाखावधिर्द्रुमः ॥ १९६६ ॥
5.5.1966 · p. 324
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)

* शिफानाम *

जटा शिफा द्वयं नाम वृक्षमूले हि मन्यते ।
5.5.28 · p. 324
अनुष्टुप्

* स्तम्बनामानि *

प्रकाण्डरहिते गुल्मो विटपः स्तम्ब उच्यते ॥ १९६७ ॥
5.5.1967 · p. 324
अनुष्टुप्

* शिरोनामनामानि *

शिरोऽग्रं शिखरं शिरोनाम वृक्षोर्ध्वभागके ।
5.5.30 · p. 324
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable); pāda 4, syllable 3 स्त (wrong syllable)

* वृक्षमूलनामानि *

वृक्षाधोभागके मूलश्चांह्रिस्तथांह्रिनाम वै ॥ १९६८ ॥
5.5.1968 · p. 324
metre not recognised
ब्रध्नो बुध्नश्च नामापि मन्यते पण्डितै जनैः ।
5.5.32 · p. 324
अनुष्टुप्

* वृक्षमज्जानाम *

सारो मज्जा द्वयं नाम वृक्षसत्त्वे निगद्यते ॥ १९६९ ॥
5.5.1969 · p. 324
अनुष्टुप्

* वृक्षत्वग्नामानि *

त्वचा त्वक् वल्कलं वल्कं छल्ली चोचं च कथ्यते ।
5.5.34 · p. 325
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्था (wrong syllable)

* वृक्षस्थाणुनामानि *

शुष्के वृक्षे स्थाणुः शङ्कुर्ध्रुवश्च ध्रवको भवेत् ॥ १९७० ॥
5.5.1970 · p. 325
अनुष्टुप्metre not read in every line

* काष्ठनामानि *

दारु दलिकमित्येवं काष्ठनामापि कथ्यते ।
5.5.36 · p. 325
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)

* कोटरनाम *

निष्कुहः कोटरश्च वृक्षान्तर्जायते स्थलम् ॥ १९७१ ॥
5.5.1971 · p. 325
metre not recognised

* मञ्जरिनामानि *

मञ्जा च मञ्जरिः स्युर्वै वल्लरिश्चापि वल्लरी ।
5.5.38 · p. 325
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 छद (syllable split)

* पत्रनामानि *

पत्रं पर्णं पलाशं च छदनं चापि छदं दलम् ॥ १९७२ ॥
5.5.1972 · p. 325
अनुष्टुप्metre not read in every line
बर्हं चेति हि मन्यन्ते पत्रनामानि पण्डितैः ।
5.5.40 · p. 325
अनुष्टुप्metre not read in every line

* किसलयनामानि *

किशलयं नवे पत्रे किसलयं च पल्लवम् ॥ १९७३ ॥
5.5.1973 · p. 325
अनुष्टुप्metre not read in every line
किसलं चेति नामानि कथ्यन्ते किसलस्य वै ।अत्यन्तनूतने पत्रे प्रवालश्च कथ्यते बुधैः ॥ १९७४ ॥
5.5.1974 · p. 325
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोशी शुङ्गा प्रवालाग्रभागो भवति निश्चयात् ।
5.5.43 · p. 326
अनुष्टुप्

* दलस्नसानाम *

माढिर्दलस्नसा पत्रनाडी बोधाय युज्यते ॥ १९७५ ॥
5.5.1975 · p. 326
अनुष्टुप्

* विटपनाम *

विस्तारो विटपश्चापि वृक्षप्रसारबोधवान् ।
5.5.45 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)

* पुष्पनामानि *

कुसुमं प्रसवः पुष्पं सूनं सुमनसः सुमम् ॥ १९७६ ॥
5.5.1976 · p. 326
अनुष्टुप्metre not read in every line
मणीवकं प्रसूनं चेति नामानि सुमस्य वै ।जालकः क्षारका नाम नूतनकलिकार्थकः ॥ १९७७ ॥
5.5.1977 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
कलिका कोरकं स्याच्च कुसुमकलिकार्थकः ।कुड्मलं मुकुलञ्चैतदऽर्धस्फुटितकोरके ॥ १९७८ ॥
5.5.1978 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 सु (wrong syllable)

* गुच्छनामानि *

गुच्छो गुञ्छो गुलुञ्छश्च गुलुञ्छुर्गुत्सकः पुनः ।गुत्सश्च स्तबको लुम्बी नामान्यष्टौ च सन्ति वै ॥ १९७९ ॥
5.5.1979 · p. 326
अनुष्टुप्

* परागनाम *

परागो नाम प्रख्यातः पुष्परजो हि कथ्यते ।
5.5.50 · p. 326
अनुष्टुप्metre not read in every line

* मकरन्दनामानि *

मकरन्दो मरन्दश्च मधु पुष्परसः पुनः ॥ १९८० ॥
5.5.1980 · p. 327
अनुष्टुप्metre not read in every line
पुष्परसार्थकः काव्ये कथ्यते कोविदैः किल ।
5.5.52 · p. 327
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 3 व (wrong syllable)

* वृन्तनाम *

प्रसवबन्धनं वृन्तं फलपुष्पावलम्बने ॥ १९८१ ॥
5.5.1981 · p. 327
metre not recognised

* विकसितपुष्पनामानि *

विकसितं विनिद्रञ्च विमुद्रं विकचं स्मितम् ।उन्निद्रं हसितं स्मेरं व्याकोशं स्फुटितं स्फुटम् ॥ १९८२ ॥
5.5.1982 · p. 327
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
उन्मिषतं तथोज्जृम्भं प्रबुद्धञ्च विजृम्भितम् ।संफुल्लं फुल्लमुत्फुल्लं प्रफुल्लं दलितं पुनः ॥ १९८३ ॥
5.5.1983 · p. 327
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
उच्छ्वसितं च नामानि स्फुटपुष्पस्य सन्ति वै ।
5.5.56 · p. 327
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable); pāda 3, syllable 3 चि (wrong syllable)

* सङ्कुचितपुष्पनामानि *

सङ्कुचितं च निद्राणं मुद्रितं मिलितं भवेत् ॥ १९८४ ॥
5.5.1984 · p. 327
metre not recognised

* फलनामानि *

फलं सस्यं तथा शस्यं वानं शुष्कं फलं भवेत् ।शलाटु कथ्यतेऽपक्वं फलं तद्ग्रन्थिरुच्यते ॥ १९८५ ॥
5.5.1985 · p. 327
अनुष्टुप्

* ग्रन्थिनामानि *

परुः पर्व तथा ग्रन्थिः त्रीणि नामानि सन्ति वै ।
5.5.59 · p. 328
अनुष्टुप्

* बीजकोशीनामानि *

शिम्बा शिम्बी शमी शिम्बिः बीजकोशी तथा शिमिः ॥ १९८६ ॥
5.5.1986 · p. 328
अनुष्टुप्
एतन्नामानि मन्यन्ते बीजकोशस्य साक्षरैः ।
5.5.61 · p. 328
अनुष्टुप्

* पिप्पलवृक्षनामानि *

अश्वत्थः पिप्पलः ख्यातः श्रीवृक्षः कुञ्जराशनः ॥ १९८७ ॥
5.5.1987 · p. 328
अनुष्टुप्
कृष्णावासो बोधिसत्त्वो बोधितरुस्तथैव च ।चलदलश्च नामानि मन्यन्ते पिप्पलस्य वै ॥ १९८८ ॥
5.5.1988 · p. 328
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 3 द (wrong syllable)
पुनर्नामाऽपि तद्भेदः प्लक्षश्च पर्कटी जटी ।
5.5.64 · p. 328
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 3, syllable 6 हु (wrong syllable)

* वटवृक्षनामानि *

न्यग्रोधस्तु बहुपात् स्याद् वटो वैश्रवणालयः ॥ १९८९ ॥
5.5.1989 · p. 328
metre not recognised

* उदुम्बरनामानि *

जन्तुफलश्च यज्ञाङ्गः उडुम्बरः उदुम्बरः ।मशकी हेमदुग्धकस्तद्भेदो जघनेफला ॥ १९९० ॥
5.5.1990 · p. 328
metre not recognised
काकोदुम्बरिका फल्गु मलयुरपि मन्यते ।
5.5.67 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable)

* आम्रवृक्षनामानि *

आम्रश्चूतश्च माकन्दः सहकारोऽपि कथ्यते ॥ १९९१ ॥
5.5.1991 · p. 329
अनुष्टुप्metre not read in every line
पुनः आम्रतरोर्नाम रसालोऽपि प्रसिद्धकः ।
5.5.69 · p. 329
अनुष्टुप्

* सप्तपर्णनामानि *

शारदः शारदी सप्तवर्णश्च विषमच्छदः ॥ १९९२ ॥
5.5.1992 · p. 329
अनुष्टुप्
अयुक्छदो विशालत्वक् षड्नामानि सन्ति च ।
5.5.71 · p. 329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* शोभाञ्जननामानि *

शोभाञ्जनस्तथाऽक्षीवो मोचकस्तीक्ष्णगन्धकः ॥ १९९३ ॥
5.5.1993 · p. 329
अनुष्टुप्metre not read in every line
शिग्रुः सोभाञ्जनो नाम सौभाञ्जनः शौभाञ्जनः ।पुनर्नाम्नोऽत्र भेदे श्वेतमरिचः उच्यते ॥ १९९४ ॥
5.5.1994 · p. 329
metre not recognised

* पन्नागनाम *

पुन्नागनामप्रख्यातः कथ्यते सुरपर्णिका ।
5.5.74 · p. 329
अनुष्टुप्

* बकुलनामानि *

बकुलः केसरः ख्यातः केशरोऽपि प्रयुज्यते ॥ १९९५ ॥
5.5.1995 · p. 329
अनुष्टुप्

* अशोकवृक्षनामानि *

कङ्केल्लिर्वञ्जुलोऽशोकोऽअशोकवृक्षस्य नाम वै ।
5.5.76 · p. 329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* अर्जुनवृक्षनामानि *

अर्जुनश्च नदीसर्जः इन्द्रद्रुः ककुभः पुनः ॥ १९९६ ॥
5.5.1996 · p. 330
अनुष्टुप्metre not read in every line
वीरतकश्चेति नामानि कथ्यन्ते ककुभस्य वै ।
5.5.78 · p. 330
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* बिल्वनामानि *

शाण्डिल्यः श्रीफलो विल्वः शैलूषश्च प्रसिद्धकः ॥ १९९७ ॥
5.5.1997 · p. 330
अनुष्टुप्metre not read in every line
मालूरश्चेति नामानि मन्यन्ते श्रीफलस्य वै ।
5.5.80 · p. 330
अनुष्टुप्metre not read in every line

* कुरण्टकनामानि *

किङ्किरातः कुरुण्टकः कुरण्टकः कुरण्डकः ॥ १९९८ ॥
5.5.1998 · p. 330
अनुष्टुप्metre not read in every line

* पलाशनामानि *

पलाशः किंशुकः पर्णः वातपीथस्त्रिपत्रकः ।ब्रह्मपादपनाम्नाऽत्र पलाशः प्रथितो बुधैः ॥ १९९९ ॥
5.5.1999 · p. 330
अनुष्टुप्

* तालवृक्षनामानि *

तृणराजस्तलस्तालः सर्वत्र ख्यात एव च ।
5.5.83 · p. 330
अनुष्टुप्

* कदलीनामानि *

कदलः कदली रम्भा काष्ठीला चांशुमत्फला ॥ २००० ॥
5.5.2000 · p. 330
अनुष्टुप्
मोचा वै वारणबुसा वारणबुषाऽपि ज्ञायताम् ।
5.5.85 · p. 330
अनुष्टुप्metre not read in every line

* करवीरनामानि *

चण्डातो हयमारश्च करवीरः प्रसिद्धकः ॥ २००१ ॥
5.5.2001 · p. 331
अनुष्टुप्metre not read in every line
प्रतिहासः प्रतीहासः शतप्रासोऽपि कथ्यते ।
5.5.87 · p. 331
अनुष्टुप्

* कुटजनामानि *

कुटजो वत्सकः शक्रः स्यात् तथा गिरिमल्लिका ॥ २००२ ॥
5.5.2002 · p. 331
अनुष्टुप्

* वेतसनामानि *

वेतसो वञ्जुलः शीतो विदुरो विदुलो रथः ।अभ्रपुष्पश्च वानीरश्चेति नामानि सन्ति वै ॥ २००३ ॥
5.5.2003 · p. 331
अनुष्टुप्

* बदरीफलनामानि *

कोला कोली तथा कोलिः कुवली बदरी किल ।कर्कन्धुश्चापि कर्कन्धूश्चेति नामानि सन्ति वै ॥ २००४ ॥
5.5.2004 · p. 331
अनुष्टुप्

* कदम्बनामानि *

कदम्बः प्रियको नीपो हरिप्रियो हलिप्रियः ।धाराकदम्बनामाऽपि राजकदम्ब उच्यते ॥ २००५ ॥
5.5.2005 · p. 331
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable); pāda 4, syllable 3 क (wrong syllable)

* सालवृक्षनामानि *

सालः श्यालस्तथा सर्जः कार्यः कार्ष्योऽश्वकर्णकः ।सस्यसंवरनामा सः शस्यसंवर इत्यपि ॥ २००६ ॥
5.5.2006 · p. 331
अनुष्टुप्

* अरिष्टवृक्षनाम *

अरिष्टः फेनिलो नामाऽरिष्टवृक्षस्य कथ्यते ।
5.5.93 · p. 332
अनुष्टुप्

* निम्बवृक्षनामानि *

ख्यातो निम्बस्तथाऽरिष्टः पिचुमर्दश्च मालकः ॥ २००७ ॥
5.5.2007 · p. 332
अनुष्टुप्
पिचुमन्दः पुनर्हिङ्गुनिर्यासनाम वैद्रुमः ।सर्वतोभद्रनामापि निम्बवृक्षस्य मन्यते ॥ २००८ ॥
5.5.2008 · p. 332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)

* पिचुलवृक्षनामानि *

पिचुलो झाबुकश्चैव भावुकः कथ्यते पुनः ।
5.5.96 · p. 332
अनुष्टुप्

* कर्पासनामानि *

कर्पासश्चैव कर्पासी कार्पासी चापि बादरः ॥ २००९ ॥
5.5.2009 · p. 332
अनुष्टुप्
पिचव्यो बदरा चेति नामानि बादरस्य वै ।पिचुश्च तूलकं नाम पिचोर्वै कथ्यते बुधैः ॥ २०१० ॥
5.5.2010 · p. 332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* कतमालनामानि *

शम्याकः कृतमालश्चाऽऽरग्वधोऽरग्वधोऽर्ग्वधः ।राजवृक्षश्च शम्पाकः सम्पाकश्चतुरङ्गुलः ॥ २०११ ॥
5.5.2011 · p. 332
अनुष्टुप्
अरेवतः सुपर्णको व्याधिधातः सुवर्णकः ।एतन्नामानि कथ्यन्ते कृतमालस्य कोविदैः ॥ २०१२ ॥
5.5.2012 · p. 332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ण (wrong syllable)

* वाशिकानामानि *

वासको वाशिका वाशा वासा च वाजिदन्तकः ।वैद्यमाता वृषः सिंही सिहास्यः प्रसिद्धकः ॥ २०१३ ॥
5.5.2013 · p. 333
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
आटरूषोऽटरूषश्चाऽटरूषकोऽटरूषकः ।एतन्नामानि मन्यन्ते वृषस्य विबुधैर्भुवि ॥ २०१४ ॥
5.5.2014 · p. 333
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)

* करञ्जवृक्षनामनि *

करञ्जो नक्तपालश्च रक्तमालस्तथैव च ।करजश्चिरबिल्वश्च चिरिबिल्वोऽपि कथ्यते ॥ २०१५ ॥
5.5.2015 · p. 333
अनुष्टुप्

* स्नुहिनामानि *

स्नुहा स्नुहिर्व्रजश्चैवः महातरुस्तथैव च ।पुनः सिहुण्डसीहुण्ढौ स्नुक् तु स्नुही गुडा तथा ॥ २०१६ ॥
5.5.2016 · p. 333
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 4, syllable 3 स्नु (wrong syllable)
समन्तदुग्धाऽपि भेदः स्नुहीवृक्षस्य मन्यते ।
5.5.105 · p. 333
अनुष्टुप्

* किम्पाकवृक्षनाम *

महाकालश्च किम्पाकः किम्पाकस्याऽस्ति नाम वै ॥ २०१७ ॥
5.5.2017 · p. 333
अनुष्टुप्

* मन्दारनामानि *

मन्दारः पारिभद्रकः प्रख्यातः पारिजातकः ।चेति नामानि कल्पस्य मिष्टनिम्बस्य वै पुनः ॥ २०१८ ॥
5.5.2018 · p. 333
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्र (wrong syllable)

* मधूकनामानि *

गुडपुष्पो मधुष्ठीलो वानप्रस्थो मधुद्रुमः ।मधूको मधुकश्चेति नामानि मधुकस्य वै ॥ २०१९ ॥
5.5.2019 · p. 334
अनुष्टुप्

* पीलुवृक्षनामानि *

पीलुः स्रंसी सिनश्चैव गुडफलोऽपि कथ्यते ।
5.5.109 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)

* गुग्गुलवृक्षनामानि *

गुग्गुलो गुग्गुलुः कुम्भः कौशिकश्च पलङ्कषः ॥ २०२० ॥
5.5.2020 · p. 334
अनुष्टुप्metre not read in every line
पुरश्चोलूखलकञ्च नामानि गुग्गुलस्य वै ।
5.5.111 · p. 334
अनुष्टुप्metre not read in every line

* राजादननामानि *

राजादनः पियालश्च प्रियालश्च धनुः पटः ॥ २०२१ ॥
5.5.2021 · p. 334
अनुष्टुप्metre not read in every line
राजातनो धनुश्चैव सन्नकद्रुः पटः पुनः ।एतन्नामानि मन्यन्ते राजादनद्रुमस्य वै ॥ २०२२ ॥
5.5.2022 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)

* तिनिशवृक्षनामानि *

तिनिशः स्यन्दनो नेमी नेमिस्तथाऽतिमुक्तकः ।रथद्रुमो रथद्रुश्च वञ्जुलश्चापि चित्रकृत् ॥ २०२३ ॥
5.5.2023 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
एतन्नामानि कथ्यन्ते रथद्रुमद्रुमस्य वै ।
5.5.115 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)

* नारङ्गवृक्षनामानि *

ऐरावतश्च नारङ्गो नागरङ्गः प्रसिद्धकः ॥ २०२४ ॥
5.5.2024 · p. 335
अनुष्टुप्metre not read in every line
नार्यङ्गश्चेति नामानि नागरङ्गनगस्य वै ।
5.5.117 · p. 335
अनुष्टुप्metre not read in every line

* इङ्गुदीनाम *

इङ्गुदी तापसद्रुमः ख्यातश्च कथ्यते बुधैः ॥ २०२५ ॥
5.5.2025 · p. 335
अनुष्टुप्metre not read in every line

* काश्मरीवृक्षनामानि *

काश्मर्यः काश्मरी चैव कभ्भारी मधुपर्णिका ।श्रीपर्णी सर्वतोभद्रा भद्रपर्णी तथैव च ॥ २०२६ ॥
5.5.2026 · p. 335
अनुष्टुप्
गम्भारी चेति नामानि काश्मरीविष्टरस्य वै ।
5.5.120 · p. 335
अनुष्टुप्