कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चौरी

caurīस्त्री · fem.

In 4 kośas: 6 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.52 · p. 207
चुरा चौरी च चौर्यं षण् स्तेयं लोप्त्रं तु तद्धनम् ।कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 161
यशस्करी वेत्रमूला ग्रन्थिका चन्द्रनन्दिनी ।चौरी निशाचरी चण्डा नाकुली च विसर्पिणी [41a] ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 168
चण्डा धनहरी चौरी राक्षसी गणहासकः ।लता कस्तूरिका कट्वी भवेत्स्वादुफला च सा ।कर्चूरको गन्धमूलो द्राविडो वेधमुख्यकः ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.57 · p. 300
तद्भावे चौरिका चौर्यं स्तेयं स्तैन्यं च चौरिकम् ।लोप्त्रं त्वपहृतं द्रव्यं चौरी चोरी च तत्स्त्रियाम् ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.41 · p. 155
सुरुङ्गा सन्धिला सन्धिस्तद्भेदा गोमुखादयः ।चौरी च चौरिका चौर्यं स्तैन्यं स्तेयञ्च वेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.222 · p. 236
मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि ।शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥ २२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.