मिश्रेया
miśreyāस्त्री · fem.In 7 kośas: 5 synonym verses, 4 as a meaning of another word.
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
तालपर्णी तु मेथीका मिसिर्मधुरिका च सा ।मिश्रेयाश्वबला पीतबीजा शीतशिवापि सा ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
सोफका सितिपुष्पाची अहिच्छिन्ना शिका मिसिः ।नालपत्री तालपर्णी मिश्रे या च मिसिस्तथा ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
मिश्रेया स्यात् शितशिवः शूद्रा कालेय इत्यपि ।स्नुही समन्तदुग्धा सीहुन्तः स्नुक् स्नुही स्नुहा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि ।शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥ २२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
मिश्रेया as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मिसिअथो मिसिः स्यान्मिश्रेयासमाख्ये भेषजान्तरे । शतपुष्पासमाख्ये च वर्तते भेषजान्तरे ॥ ७९ ॥ Nānārthārṇavasaṃkṣepa 2.1.79
- नानार्थार्णवसंक्षेप मधुरादूर्वायां मधुयष्ट्यां च मिश्रेयाशतपुष्पयोः । मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा ॥ १३३७ ॥ Nānārthārṇavasaṃkṣepa 4.1337
- नानार्थार्णवसंक्षेप शालेयवाद्यवादनदण्डे च शाकटस्तु त्रि हिंसके । शालेयस्तु पुमाञ्ज्ञेयो मिश्रेयासंज्ञभेषजे ॥ १८१० ॥ Nānārthārṇavasaṃkṣepa 4.1810
- शिवकोष मधुरामसूरमसुरौ पुंसि द्वावेतावपि चैतयोः । मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥ Śivakoṣa 22.3.407