कस्तूरिका
kastūrikāस्त्री · fem.In 6 kośas: 5 synonym verses, 6 as a meaning of another word.
चन्दनं स्यान्मलयजं श्रीखण्डं रोहणद्रुमः ।मृगनाभिर्मृगमदः प्रोक्ता कस्तूरिका बुधैः ॥ ५४४ ॥
अनुष्टुप्
genderस्त्रीfem.
चण्डा धनहरी चौरी राक्षसी गणहासकः ।लता कस्तूरिका कट्वी भवेत्स्वादुफला च सा ।कर्चूरको गन्धमूलो द्राविडो वेधमुख्यकः ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
संकोचं पिशुनं धीरं दीपनं रक्तचन्दनम् ।कस्तूरिका गन्धधूलिर्मृगनाभिर्लताण्डजा ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्पूरो घनसारश्च चन्द्राख्यो हिमवालुका ।कस्तूरिका मृगमदो मृगनाभिर्मृगाण्डकः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
त्वक्पत्रं तु त्वचं चोचं वरांगं भृंगमुत्कटम् ।मृगनाभिर्मृगमदो नगः कस्तूरिकापि च ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
कस्तूरिका as a meaning in nānārtha verses
- धरणिकोश मदमदो हर्षे च गर्वे च नदे शुक्रे कटोदके । मदः कस्तूरिकायां स्यान्मदः कल्याणवस्तुनि ॥ Dharaṇikośa 17.3.2
- कोषकल्पतरु लतात्रेता युगेऽग्नित्रितयेऽपि योषित् लता तु शाखाहरिताफलीषु । ज्योतिष्मतीस्पृग्व्रततीषु वल्ली- कस्तूरिकायामतिमुक्तकेऽपि ॥ ४२ ॥ Koṣakalpataru 6.16.42
- कोषकल्पतरु दर्पकल्पस्तु शास्त्रे प्रलये च युक्ते विधेर्दिने पुष्पवतोः पपीः स्यात् । कस्तूरिकायां तु तथाभिमाने दर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥ Koṣakalpataru 6.22.6
- कोषकल्पतरु नाभिकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
- नानार्थार्णवसंक्षेप वृषाकपायीवृषाकपायी स्त्रीलिङ्गा पुनः कस्तूरिकाह्वये । गन्धद्रव्ये वेधमुख्या ना तु कर्च्चूरकेऽत्र च ॥ ५८६ ॥ Nānārthārṇavasaṃkṣepa 6.586
- वैजयन्ती अण्डजालाजेष्वभ्योषमभ्योषाः साज्यांभःपेयसक्तवः । कृकलासेंऽडजो मत्स्ये खगे कस्तूरिकाण्डजा ॥ ११ ॥ Vaijayantī 7.5.11