All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (3/15)
मण्ड आमण्ड आदण्डो व्याडम्बश्च व्यडम्बरः ।रूबूको रुबुकश्चोरुबूकः स्यात्त्रिपुटीद(फ)लः ॥ ३९ ॥
2.3.39 · p. 155
अनुष्टुप्
भवेदुरुबुको रक्तपत्रो रक्तजटोऽपि सः ।कासमर्द्दस्तु काशारिः कर्कशश्चारिमर्द्दकः ॥ ४१ ॥
2.3.41 · p. 155
अनुष्टुप्
कालंकृततरुस्तूक्तः स प्रोक्तः कासमर्द्दनः ।शुषा तु का[36a]समर्दी स्यात्समौ पिचुल-कावुकौ ।तुम्बुरुः सौरसः सौरो वनजस्तीक्ष्णपत्रकः ।तीक्ष्णव(क)ल्कस्तीक्ष्णफलः शोधनश्च महामुनिः ।हरीतकी त्रिष्वमृता जया च विजयाऽभया ॥ ४० ॥
2.3.40 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ती (wrong syllable)
पथ्याऽव्यथा च कायस्था वयःस्था प्राणदा शिवा ।प्रपथ्या पूतना हेमवती स्याद्रोहिणी च सा ॥ ४१ ॥
2.3.41 · p. 155
अनुष्टुप्
चेतकी स्याद्विलवणा भिषङ्माता च रोगहृत् ।शक्रभक्ष्याथ तद्भेदाः सप्तायुर्वेद ईरिताः ॥ ४२ ॥
2.3.42 · p. 155
अनुष्टुप्
सा स्थूलवृत्ता विजया सुवृत्ता रोहिणी मता ।पूतनास्थिमती सूक्ष्मा स्थूलमांसा तु साऽमृता ॥ ४३ ॥
2.3.43 · p. 155
अनुष्टुप्
अस्रा तु चेतकी ज्ञेया पञ्चास्रा त्वभया भवेत् ।सुवर्णवर्णा जवनी कथिता सा भिषग्वरैः ॥ ४४ ॥
2.3.44 · p. 155
अनुष्टुप्
तिष्या तिष्यफला धात्री वयस्था चामृतोद्भवा ।शिवा वृष्यफला वृष्या दिव्या सीधुफलापि सा ॥ ४५ ॥
2.3.45 · p. 155
अनुष्टुप्
सुधाफला कर्षफला जातीफलरसापि सा ।आमला त्रिष्वामलकी मण्डा स्यादथ तत्फले [36b] ॥ ४६ ॥
2.3.46 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्वा (wrong syllable)
माकन्दी स्त्री श्रीफलं च कोमलं न स्त्रि (?) चामलम् ।बदरामलकं रक्तं प्राचीनामलकं हि यत् ॥ ४७ ॥
2.3.47 · p. 156
अनुष्टुप्
शृङ्गी धात्री चामलकी शुक्तिः शुष्कामलक्यपि ।सर्वोषधिकसम्मिश्राः संशुष्कामलकत्वचः ॥ ४८ ॥
2.3.48 · p. 156
अनुष्टुप्
सुगन्धामलक ह्येते (?) भवेत्पारावती पुनः ।ज्योत्स्ना मुक्ताफलं राजामलकी लवली च सा ॥ ४९ ॥
2.3.49 · p. 156
अनुष्टुप्
शिवा बहुसुता च स्याद्दृढपादा हिमालया ।भूधात्री च जटामाला विषघ्नी च वितुन्नकः ॥ ५१ ॥
2.3.51 · p. 156
अनुष्टुप्
बिभीतकस्त्रिषु पुमानक्षस्तुषफलः कलिः ।संवर्तकः पिशाचद्रुर्मधुजीवो विभेदकः ॥ ५२ ॥
2.3.52 · p. 156
अनुष्टुप्
भूतावासश्च शाखोठो भवेत्कर्षफलोऽपि सः ।एतस्य फलमक्षोऽथ पथ्याधात्रीबिभीतकैः ॥ ५३ ॥
2.3.53 · p. 156
अनुष्टुप्
क्रमवृद्धैः फलश्रेष्ठा ** ह्वा च फलोत्तमा ।त्रिफला तृफला च स्यात्तृपला च फलत्रयम् ॥ ५४ ॥
2.3.54 · p. 156
अनुष्टुप्metre not read in every line
त्रिवर्णकं चाथ बिल्वो मालूरश्च महाफलः ।श्रीनामा श्रीफलो हृद्यगन्धो गन्धफलस्तथा ॥ ५५ ॥
2.3.55 · p. 156
अनुष्टुप्
शाण्डि[37a]ल्यश्च शलाटुश्च शैलूषः पूतिमारुतः ।शचीको ग्रन्थिलः सत्यधर्मा स्यान्नीलकण्टकः ॥ ५६ ॥
2.3.56 · p. 156
अनुष्टुप्metre not read in every line
महाकपित्थस्तीक्ष्णाक्ष्यो वातसारो वरारुहः ।मङ्गल्यः स्यात्पीतफलः सर्वरूपश्च कङ्कटः (कण्टक ?) ॥ ५७ ॥
2.3.57 · p. 156
अनुष्टुप्
सदाफलः कृष्णमुखो गन्धगर्भः सरस्वती ।नीलवल्ली नीलमल्ली रुच्यः स्याद्गोहरीतकी ॥ ५८ ॥
2.3.58 · p. 156
अनुष्टुप्
स्याद्विल्वकर्कटी बिल्वकर्कटी पेशीबाले फलेऽस्य च ।बैल्वं तैलं फलं वास्य विकारे भेद्यलिङ्गकम् ॥ ५९ ॥
2.3.59 · p. 156
अनुष्टुप्metre not read in every line
श्रीपर्णी सर्वतोभद्रा गम्भारी काश्मरी हिरा ।काश्मीरी मधुपर्णी च हीरा भद्रा विदारिका ॥ ६० ॥
2.3.60 · p. 156
अनुष्टुप्
गोपभद्रा भद्रपर्णी क्षीरिणी रोहिणी पुरा ।कृष्णवृन्ता च गृष्टिः स्यात्कम्भारी सफला च सा ॥ ६१ ॥
2.3.61 · p. 156
अनुष्टुप्
काश्मर्यो मिथुनेऽथ स्यादरणिर्नाऽग्निमन्थकः ।मन्थानो वह्निमथनो मन्थतेजोद्रुकेतवः ॥ ६२ ॥
2.3.62 · p. 157
अनुष्टुप्
तनुत्वचा च तर्कारी नादेयी वैजयन्तिका ।कणिका पानकाह्वा च श्रीपर्णं चाऽ[37b]सिता पुनः ॥ ६३ ॥
2.3.63 · p. 157
अनुष्टुप्metre not read in every line
द्वयोर्जया जयन्ती स्त्री विजया च जयावहा ।वसन्तदूतिका कामदूतिका कालवृन्तिका ॥ ६४ ॥
2.3.64 · p. 157
अनुष्टुप्
कुम्भीका ताम्रकुसुमाऽमोघा कालाम्बुवासिनी ।काचस्थाली तथास्थाली पाटला पाटलिर्द्वयोः ॥ ६५ ॥
2.3.65 · p. 157
अनुष्टुप्
श्वेताह्वा श्वेतकुम्भीका कुवेराक्षी फलेरुहा ।स्यात्काष्ठपाटलाऽथ स्यादिटुकष्टिन्दु-भल्लुकौ ॥ ६६ ॥
2.3.66 · p. 157
अनुष्टुप्
मयूरजङ्घोऽरलुकः कट्वङ्गश्च कटंभरः ।शुकन्या(ना)सो दीर्घवृन्तः फल्गुवृन्तः कुटंन्नटः ॥ ६७ ॥
2.3.67 · p. 157
अनुष्टुप्
मण्डूकपर्णः पत्रोर्णः स्योनाकः शोणको नटः ।भल्लूक-भल्ल-ऋक्षाश्च भूतद्रुः पृथुशिम्बिकः ॥ ६८ ॥
2.3.68 · p. 157
अनुष्टुप्
प्रियजीवोऽभ्यङ्गवृक्षोऽप्यथ विल्वादिपञ्चकम् ।स्यान्महापञ्चमूलाह्वमथ पुष्पद्रुमाः परे ॥ ६९ ॥
2.3.69 · p. 157
अनुष्टुप्
पुंनागः पुरुषाह्वः स्यात्केसरो रक्तकेसरः ।पद्मकेसरकस्तुङ्गः सुरेष्टः सुरपर्णिकः ॥ ७० ॥
2.3.70 · p. 157
अनुष्टुप्
चाम्पेयः कनकाह्वः स्यान्नागाह्वो नागकेसरः ।मेरुजो हेमपुष्पः स्यात्केसरः[38a] सर्ववल्लभः ।प्रोक्तः करिकुसुम्भाह्वो नागकेसरचूर्णकः ॥ ७१ ॥
2.3.71 · p. 157
अनुष्टुप्metre not read in every line
चाम्पेयश्चम्पको हेमपुष्पको रम्य-चाम्पकौ ।चञ्चरीकातिथिः स्वर्णसंज्ञः स्याद्वरलब्धकः ॥ ७२ ॥
2.3.72 · p. 157
अनुष्टुप्
तत्कली स्याद्गन्धफला बहुलस्तु बकूलकः ।बाकूलकः सीधुगन्धो गूढपुष्पश्च शारदः ॥ ७३ ॥
2.3.73 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
शिबी केसरकः सिंहः केसरो मेघदोहदः ।अशोको नरि कङ्केली रक्तमञ्जरिको नटः ॥ ७४ ॥
2.3.74 · p. 157
अनुष्टुप्
शोकनाशो विचित्रश्च कामुकः कर्णपूरकः ।हेमपुष्पः पिण्डपुष्पो गन्धपुष्पोऽपि वञ्जुलः ॥ ७५ ॥
2.3.75 · p. 157
अनुष्टुप्
कीताद्रुर्दोहदो रक्तो गौराङ्गश्चित्रगुच्छकः ।मुचुकुन्दः क्षत्रवृक्षः श्रीतरुः प्रतिविष्णुकः ॥ ७६ ॥
2.3.76 · p. 157
अनुष्टुप्
धुको बको रुद्रनामा वसुको रुद्रकेसरः ।कपिमालः किण्वमूलः सुव्रतः स्थूलपुष्पकः ॥ ७७ ॥
2.3.77 · p. 157
अनुष्टुप्
शिवमल्ली चाथ कुम्भयोनिर्मधुरशिग्रुकः ।यतिर्मुनिद्रुमो वङ्गसेनश्चातुर्थिकापहः ॥ ७८ ॥
2.3.78 · p. 157
अनुष्टुप्
कदम्ब[38b]स्तु कलम्बः स्यात्प्रावृषेण्यो हलिप्रियः ॥ ७६ ॥
2.3.76 · p. 157
पुलकी कुत्सिताम्बश्च प्रियकः पर्वताधिपः ।कादम्बर्यश्च सूराक्षोऽप्यथ नीपो वसन्तजः ॥ ७७ ॥
2.3.77 · p. 157
अनुष्टुप्
धूलीकदम्बको वृत्तपुष्पो हारिद्र इत्यपि ।सुवासो गदितो धाराकदम्बोऽस्य तु केसरः ॥ ७८ ॥
2.3.78 · p. 157
अनुष्टुप्
पार्परं करुणस्तु स्यात्कृ(?)स्ताहः कण्टकद्रुमः ।बृहत्पुष्प *[श्च] नीचश्च मल्लिकापुष्प-कुब्जकौ ॥ ७९ ॥
2.3.79 · p. 157
अनुष्टुप्
स्याद्भद्रतरुणी चाथ समौ बन्धू [क]-बन्धुकौ ।रक्तकः शारदो बन्धुजीवो माध्यं तु न द्वयोः ॥ ८१ ॥
2.3.81 · p. 157
अनुष्टुप्
करवीरः शतप्रासः प्रतीहासोऽश्वमारकः ।मीनकाक्षः शातकुम्भः स बीजकुसुमोद्भवः ॥ ८२ ॥
2.3.82 · p. 157
अनुष्टुप्
रक्तपुष्पस्तु लगुडश्चण्डातो गुल्मकस्तथा ।गणेरुका स्वर्णपुष्पी गणेरुर्गणकारिका ॥कर्णाङ्कश्च करेणुश्च कोको वर्णमनोहरः ।द्रुमोत्पलः कर्णिकारः परिव्याधः ससौरभः ॥ ८३ ॥
2.3.83 · p. 157
अनुष्टुप्
सिन्दुकः स्याच्छीतसहः सि[39a]न्दुवारश्च सिद्धकः ।श्वेतपुष्पेन्द्रसुरसौ तिलपुष्पक इत्यपि ॥ ८४ ॥
2.3.84 · p. 157
अनुष्टुप्metre not read in every line
निर्गुण्डी द्राणिका चाथ नीलिका नीलमञ्जरी ।शेफालिका च सुवहा निर्गुण्डी वनजा च सा ॥ ८५ ॥
2.3.85 · p. 157
अनुष्टुप्
कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः ।भूपदी श्वेतसुरसा सुगन्धा तत(?)वेशिका ॥तिलकश्छत्रकुसुमः क्षुरकः खुरकोऽपि सः ।मुचिलिन्दो विचित्रश्च स्त्रीनिरीक्षणदोहदः ॥ ८६ ॥
2.3.86 · p. 159
अनुष्टुप्
लक्ष्मीवान्पूर्णको रेची मुखसंहननो विटः ।अम्लानस्त्वमिलातः स्याद्वर्णपुष्पो महासहा ॥ ८७ ॥
2.3.87 · p. 159
अनुष्टुप्
परिम्लानश्चोरटोऽथ रक्तः कुरवकश्च सः ।पीतपुष्पः किंकिरातः किंकिरीटश्च पीतकः ॥ ८८ ॥
2.3.88 · p. 159
अनुष्टुप्
पीतभद्रो हेमगौरो विप्रलोभ्यलितोषदः ।कुरण्टकः कुरण्ठश्च नीलस्त्वार्तगलश्च सः ॥ ८९ ॥
2.3.89 · p. 159
अनुष्टुप्
राजसैरेयकः केशरञ्जकः शाणकस्तथा ।झिण्टी दासी द्वयोर्बाणा भवेदोदनपा[39b]क्यपि ।सैर्यको युग्भवन कुरण्टकभेदाः सहचरः । (corrupt)******** सैरेयश्च सहाचरः ॥ ९० ॥
2.3.90 · p. 159
अनुष्टुप्metre not read in every lineLatin letters: corrupt
अर्जको मृदुपुष्पश्च तत्र झिण्टी स्त्रियां भवेत् ।अरुणोऽसौ कुरुवकः पीत्तस्त्वेष कुरण्टकः ॥ ९१ ॥
2.3.91 · p. 159
अनुष्टुप्
द्वयोः सहचरी चाथ नील आर्त्तगलो भवेत् ।जपा जवा ओड्रपुष्पं वज्रपुष्पं तिलस्य तत् ॥ ९२ ॥
2.3.92 · p. 159
अनुष्टुप्
मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी ।मदनीया गवाक्षी च भूपद्यष्टपुटी तथा ॥ ९३ ॥
2.3.93 · p. 159
अनुष्टुप्
भद्रवल्ली चन्द्रवल्ली सुगन्धा माधवी च सा ।मुकुटस्तृणशूल्यं वा अस्ना त्वेषा च वार्षिकी ॥ ९४ ॥
2.3.94 · p. 159
अनुष्टुप्
त्रिपुटा च सुरूपा च स्याद्वर्षा मुक्तबन्धना ।वनोद्भवा तु सास्फोटा सैव स्याद्गिरिमल्लिका ॥ ९५ ॥
2.3.95 · p. 159
अनुष्टुप्
मागधी गणिकाम्बष्ठा यूथिका बलि(बाल?)पुष्पिका ।गुणोज्ज्व(?)ला पुण्यगन्धा हसन्ती च शिखण्डिनी ॥ ९६ ॥
2.3.96 · p. 159
अनुष्टुप्
शङ्खपुष्पी श्वेतयूथी पीतासौ हेमपुष्पिका ।हरिणी पीतिका चाथ वारमोटातिशोणका ॥ ९७ ॥
2.3.97 · p. 159
अनुष्टुप्
अति[40a]मुक्तो मुद्गु(द्ग?)रः स्यान्मण्डको भ्रमरोत्सवः ।पुण्ड्रकः स्याद्विचकिलः सुगन्धश्चापि कामुकः ॥ ९८ ॥
2.3.98 · p. 160
अनुष्टुप्metre not read in every line
स्याद्वेलाकेतकी सा च वासन्ती माधवी लता ।मालती सुमना जाती राजपुत्री प्रियंवदा ॥ ९९ ॥
2.3.99 · p. 160
अनुष्टुप्
मनोज्ञा हृद्यगन्धा च चेतकी तैलभाविनी ।प्रहसन्ती रात्रिपुष्पी कुन्दाह्वा मरुबान्धवी ॥सुवसन्ता शीतवासा सरणी दन्तनिर्मला ।सप्तला तु सुगन्धा स्याद्गैष्मिका नवमालिनी ॥ ३०० ॥
2.3.300 · p. 160
अनुष्टुप्
नेपाली शिग्रुगन्धा चाम्लायिनी वटपत्रिका ।मोदिनी सुकुमारा च कान्ता च शिखरिण्यपि ॥ १ ॥
2.3.1 · p. 160
अनुष्टुप्
सिन्दूरी तु त्रिसंध्या स्याद्रक्तपुष्पा सुकोमला ।तरणी रामतरणी कर्णिका चारुकेसरा ॥ २ ॥
2.3.2 · p. 160
अनुष्टुप्
कूर्पिका च सुगन्धाढ्या कुमारी कुञ्जवल्लिका ।बृहत्पुष्पा सहा भृङ्गसंगता कण्टकावृता ॥ ३ ॥
2.3.3 · p. 160
अनुष्टुप्
महाकु*[मा]रिका चाथ जलजा जलकुब्जिका ।केतकी जम्बुकाह्वः स्यात्सूचीपुष्पो हलानकः [40b] ॥ ४ ॥
2.3.4 · p. 160
अनुष्टुप्
करशून्यं करतृणं सुगन्धं क्रकचच्छदः ।स्यात्स्वर्णकेतकी राजकेतकी कुसुमोत्तमा ॥ ५ ॥
2.3.5 · p. 160
अनुष्टुप्
दलामलो दमनको दान्तः स्यात्पाण्डुरागकः ।गन्धोत्कटं पुण्डरीकं मुनिर्ब्रह्मजटा तथा ॥ ६ ॥
2.3.6 · p. 160
अनुष्टुप्
भवेन्मरुवको बीजपुष्पः खुरबुकः सुखः ।रूपिकार्कः क्षीरपर्णो गणरूपो विकीरणः ॥ ७ ॥
2.3.7 · p. 160
अनुष्टुप्
आस्फोतश्च सदापुष्पः खरवङ्कफलस्तथा ।राजार्कस्त्वेष रक्तः स्यात्तत्फलं क्ष्वेडमुच्यते ॥ ८ ॥
2.3.8 · p. 160
अनुष्टुप्
सितस्त्वलर्को मन्दारो वसुकश्च प्रतापसः ।विकीर्णकः सदापुष्पः क्षतक्षीरो गणप्रियः ॥ ९ ॥
2.3.9 · p. 160
अनुष्टुप्
धूर्त्तो धत्तूर उन्मत्तो देविता तरलः शठः ।घाण्टिकः कनकाह्वश्च काहलापुष्प-मातुलौ ॥ १० ॥
2.3.10 · p. 161
अनुष्टुप्
धुर्त्तरो मदनस्तूरी फलं मातुलपुत्रकः ।शङ्खिनी चोरपुष्पी स्याद्बहुफेना सुकेशिनी ॥ ११ ॥
2.3.11 · p. 161
अनुष्टुप्
यशस्करी वेत्रमूला ग्रन्थिका चन्द्रनन्दिनी ।चौरी निशाचरी चण्डा नाकुली च विसर्पिणी [41a] ॥ १२ ॥
2.3.12 · p. 161
अनुष्टुप्
दृढपादाथ महती भवेत्सा कम्बुपुष्पिका ।शिवब्रध्ना कम्बुलता शङ्खिनी * [क]म्बुमालिका ॥ १३ ॥
2.3.13 · p. 161
अनुष्टुप्
मङ्गल्यपुष्पी मङ्गल्या क्षीरपुष्पी मनोरमा ।रक्तपुष्पा सुभद्रासौ सर्पाक्षी सूक्ष्मपत्रिका ॥ १४ ॥
2.3.14 · p. 161
अनुष्टुप्
विष्णुक्रान्ता नीलपुष्पा सफला चापराजिता ।मत्स्याक्षबीजोऽर्कसुतो विषबीजो विषोदरः ॥ १५ ॥
2.3.15 · p. 161
अनुष्टुप्
मण्डूकपर्णी मण्डूकी रविवल्ली वरौषधी ।सुवर्चलार्कभक्ता च वरदा मूलपर्ण्यपि ॥ १६ ॥
2.3.16 · p. 161
अनुष्टुप्
अर्ककान्ता सत्यनामा सूर्यावर्त्ता सुनागरिका ।अर्क*[पु]ष्पी तु सा पृथ्वी पार्था ब्रह्मसुवर्चला ॥ १७ ॥
2.3.17 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कपोतवक्रा ब्राह्मी तु ब्रह्मसोमा सरस्वती ।मेध्या सत्यवती दिव्या वयःस्था सोमवल्ल्यपि ॥ १८ ॥
2.3.18 · p. 161
अनुष्टुप्
कपोतवङ्का मण्डूकी ब्राह्मणी दर्दुरच्छदा ।मण्डूकपर्णी मत्स्याक्षी लावण्या च महौषधी ।हिलमोची शङ्खधरा जलब्रह्मी झषाण्डिका ॥ १९ ॥
2.3.19 · p. 161
अनुष्टुप्metre not read in every line
हयुषा विद्युषा विस्रा मत्स्यगन्धा वि[41b]षापहा ।तथाश्वत्थफला ध्वाङ्क्षनाशिका कच्छुनाशिनी ॥ २० ॥
2.3.20 · p. 161
अनुष्टुप्metre not read in every line
श्रावणी श्रवणा मुण्डी भिक्षुकी श्रुतिशीर्षिका ।अलम्बुसा श्रीमती च महामुण्डी तु मुण्डिनी ॥ २१ ॥
2.3.21 · p. 161
अनुष्टुप्
कदम्बपुष्पी गोशाला भवेद्ग्रन्थिनिकारुणा ।वृद्धः कुलहलो बोटो भूकदम्बस्तपोधनः ॥ २२ ॥
2.3.22 · p. 161
अनुष्टुप्
अन्यो देवकदम्बः स्यात्त्र्यहा द्रोणाथ कुम्भिका ।द्रोणपुष्पा कुम्भयोनिर्द्रोणा सैव कुरंबकः ॥ २३ ॥
2.3.23 · p. 161
अनुष्टुप्
स्यात्कौण्डिन्य * * * * छिन्ना छिन्नरुहामृता ॥ २३ ॥
2.3.23 · p. 161
वत्सादनी गुडूची च जीवन्ती सोमवल्ल्यपि ।चन्द्रहासा लता सोमा वयःस्था चक्रलक्षणा ॥ २४ ॥
2.3.24 · p. 161
अनुष्टुप्
तन्त्रिकामृतवल्ली च विशल्या मधुपर्ण्यपि ।छिन्नोद्भवा वरा च स्यात्कुण्डली मण्डली तथा ॥ २५ ॥
2.3.25 · p. 161
अनुष्टुप्
पिण्डामृता त्वतिच्छिन्ना शच्याभा कन्दरोहिणी ।अटरूषा त्वाटरूषः सिंहास्यो वाजिदन्तकः ॥ २६ ॥
2.3.26 · p. 161
अनुष्टुप्
वाशको मातृका वाशा सिंहिका सिंहपर्ण्यपि ।शीतवल्ली भिषङ्मा[42a]ता वृषः स्त्रीपुंसयोरपि ॥ २७ ॥
2.3.27 · p. 161
अनुष्टुप्metre not read in every line
वार्त्ताकी बृहती सिंही भण्टाकी स्थूलकण्टिका ।;l[3720}कुली कण्टकिनी क्रान्ता राष्ट्रिका दुःप्रधर्षिणी ॥ २८ ॥
2.3.28 · p. 161
अनुष्टुप्Latin letters: l
महोटिका च भण्टाकी बहुपत्रा विधानिका ।क्षुद्रा तु कण्टकी व्याघ्री कण्टाली कण्टकारिका ॥ २९ ॥
2.3.29 · p. 161
अनुष्टुप्
प्रचोदनी धावनी च दुःस्पर्शा राष्ट्रिका स्पृशी ।निदिग्धिका च बृहती कासघ्नी दुःप्रधर्षिणी ॥ ३० ॥
2.3.30 · p. 161
अनुष्टुप्
श्वेतसिंही तु चन्द्राह्वा लक्ष्मणा चन्द्रपुष्पिका ।विन्ना स्नेहफला रामा पुत्रदात्री प्रियंकरी ॥ ३१ ॥
2.3.31 · p. 161
अनुष्टुप्
स्यात्पुत्रिणी जयन्ती च रक्तबिन्दुच्छदा च सा ।नागिनी मूलिनी नागाप्यथ सर्वानुकारिणी ।शालिपर्णी दीर्घपर्णी कुमुदा शोथनाशिनी ॥ ३२ ॥
2.3.32 · p. 161
अनुष्टुप्metre not read in every line
विदारिगन्धांशुमती त्रिपर्ण्यतिगुहा स्थिरा ।अंशुपर्णी पीतनी च तन्त्रीः सैव ध्रुवाभिधा ॥ ३३ ॥
2.3.33 · p. 161
अनुष्टुप्
दीर्घमूला पर्णिनी च[42b] महाक्लीतनिकापि सा ।पृश्निपर्णी पृथक्पर्णी क्रोष्टुविन्ना च पर्णिनी ॥ ३५ ॥
2.3.35 · p. 161
अनुष्टुप्metre not read in every line
लाङ्गूली धृतिका दीर्घा क्लीतनी क्रोष्टुमेखला ।गोकण्टको गोक्षुरको भूक्षुरो व्यालदंष्ट्रकः ॥ ३६ ॥
2.3.36 · p. 163
अनुष्टुप्
त्रिकटश्च त्रिकण्टश्च वनशृङ्गाटकस्त्रिकः ।भक्षटः स्थलशृङ्गाटः श्वदंष्ट्रः स्वादुकण्टकः ॥ ३७ ॥
2.3.37 · p. 163
अनुष्टुप्
क्षुरः पलंकषा च स्याच्छ्वदंष्ट्रा चेक्षुगन्धिका ।पञ्चमूलं लघुबृहत्पादपो लक्ष्मणा विना (?) ॥ ३८ ॥
2.3.38 · p. 163
अनुष्टुप्
दशमूलं लघुबृहत्पञ्चमूलद्वयेन च ।वायसोली तु काकोली काका स्यात्स्वादुमांसिका ॥ ३८ ॥
2.3.38 · p. 163
अनुष्टुप्
वयःस्था मेदुरा वीरा धीरा स्वा * * * [दुरसा]पि सा ।क्षीरिणी क्षीरकाकोली क्षीरशुक्ला विषाणिका ॥ ३९ ॥
2.3.39 · p. 163
अनुष्टुप्
क्षीरा विकारिका चोक्ता वयःस्था जीववल्ल्यपि ।मेदा मेदोभवा विद्या तथा पुरुषदन्तिका ॥ ४० ॥
2.3.40 · p. 163
अनुष्टुप्
अल्पपर्णी धरा श्यामा मधुरा जीवनी च सा ।महामेदा देवमेदा महापुरुषदन्तिका ॥ ४१ ॥
2.3.41 · p. 163
अनुष्टुप्
मणिच्छिद्रा देवमणि[43a]र्मधुरा वसुरन्ध्रिका ।माषपर्णी सूर्यपर्णी पाण्डुरा हयपुच्छिका ॥ ४२ ॥
2.3.42 · p. 163
metre not recognised
हंसमाषा स्वादुमाषा मांसमाषा महा * *[सहा] ।काम्बोजिका सिंहवृत्ता मुद्गला च पिशाचिका ॥ ४३ ॥
2.3.43 · p. 163
अनुष्टुप्
अपुष्पी शालिपर्णी च कृष्णवृन्ताथ सापरा ।कुरङ्गिका मुद्गपर्णी शिम्बिपर्णी च शिम्बिका ॥ ४४ ॥
2.3.44 · p. 163
अनुष्टुप्
काकमुद्गा क्षुद्रसहा महामार्जारगन्धिका ।रिङ्गिणी वनजा सिंही मृगगन्धापि सा भवेत् ॥ ४५ ॥
2.3.45 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षु (wrong syllable)
जीवको जीवदः क्षोदी मङ्गल्यो मधुरप्रियः ।कूर्चकः कूर्चशीर्षश्च शृङ्गकश्चिरजीव्यपि ॥ ४६ ॥
2.3.46 · p. 163
अनुष्टुप्
ह्रस्वाङ्गः प्राणदः श्रेयान्दीर्घायुः स्वरदः शमी ।ऋषभो वृषभः शृङ्गी ककुद्मान्पृषतीपतिः ॥ ४७ ॥
2.3.47 · p. 163
अनुष्टुप्
धूर्धरो मातृको द्राक्षो बन्धुरो वृषलीपतिः ।रसोनपत्रसदृशौ दीर्घकन्दौ ससौरभौ ॥ ४८ ॥
2.3.48 · p. 164
अनुष्टुप्
जीवकर्षभकावेतौ हिमाद्रिशिखरोद्भवौ ।जीवन्ती जीवनी जीवा जीवनीया यशस्करी ॥ ४९ ॥
2.3.49 · p. 164
अनुष्टुप्
जीवभद्रा पुत्रभद्रा म[43b]ङ्गल्या च मधुश्रवा ।शाकश्रेष्ठा जीवपृष्ठा देवपुष्पी सुखाकरी ॥ ५० ॥
2.3.50 · p. 164
metre not recognised
* * * * * * * * * धुरा शृङ्गरीटिका ।ऋद्धिः सिद्धिस्तुष्टिराशीश्चेतना च यशस्विनी ॥ ५१ ॥
2.3.51 · p. 164
metre not recognised
आश्वासनी महामूर्धा श्रावणी शोधना प्रिया ।लक्ष्मीर्योग्यं च सुसुखं मङ्गलं युगनामकम् ॥ ५२ ॥
2.3.52 · p. 164
अनुष्टुप्
सर्वलोकप्रिया वृद्धिर्गर्भदाप्यृद्धिनामिका ।जीवनीयो गणः सोऽयं भवेन्मधुकसंयुतः ॥ ५३ ॥
2.3.53 · p. 164
अनुष्टुप्
अष्टवर्गो विनाजीवा यष्टीभ्यां समुदीरितः ।बला भद्रौदनी वाटी समङ्गा शीतकूर्चिका ॥ ५४ ॥
2.3.54 · p. 164
अनुष्टुप्