कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · शूद्रादिप्रकाण्डः

इति वैश्यप्रकाण्डः ।

शून्यस्कन्धातकौ शूद्रे यज्रो दासो महत्तरः ।ग्रामकूटोऽवरवर्णो वृषलश्च जघन्यजः ॥ १ ॥
1.8.1 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
आचण्डालं तु संकीर्णा अनुलोमविलोमजाः ।त्रिष्वङ्कपाशन्यायेन नखस्था अनुलोमजाः ॥ २ ॥
1.8.2 · p. 202
अनुष्टुप्
विलोमजास्तु तावन्त ऐक्येन नवयास्तु ते ।ब्रह्माज्ञया कर्मकरा विहिता विश्वकर्मणा ॥ ३ ॥
1.8.3 · p. 202
अनुष्टुप्
एषां परस्परोत्पत्त्या बहुभिर्भूरियं वृता ।अनूढायां ब्राह्मणस्य क्षत्रियोदरसम्भवः ॥ ४ ॥
1.8.4 · p. 202
अनुष्टुप्
पुत्रो मूर्द्धावसिक्ताख्योम्बष्ठो वैश्योदरोद्भवः ।शूद्रोदर्यः पारशवः क्षत्रियस्य विशोदरात् ॥ ५ ॥
1.8.5 · p. 202
अनुष्टुप्
महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् ।वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥ ६ ॥
1.8.6 · p. 202
अनुष्टुप्
षडेते षड्विलोमोत्थाः क्षत्रियाद्ब्राह्मणीभवः ।सूतो वैश्याद्ब्राह्मणीजः स्याद्वैदेहिक इत्यपि ॥ ७ ॥
1.8.7 · p. 202
अनुष्टुप्
मागधः क्षत्रियायां स्याच्छूद्राद्वैश्यातनूभवः ।आयोगवः क्षत्रियायां क्षत्ताथ ब्राह्मणीभवः ॥ ८ ॥
1.8.8 · p. 203
अनुष्टुप्
चण्डालोऽपि च चाण्डालोऽधमः सर्वाधमेषु सः ।माहिष्यात्करणीजातो रथकार इतीह दिक् ॥ ९ ॥
1.8.9 · p. 203
अनुष्टुप्
अथ पारशवो भिल्लो निषादः पर्वताश्रयः ।त्रिष्वितः पुष्करान्ताः स्युः शिल्पी कारुश्च कारुकः ॥ १० ॥
1.8.10 · p. 203
अनुष्टुप्
स्त्रियां प्रकृतिः श्रेणिस्तु द्वयोः स्थाने सजातिभिः ।कुलकश्च कुलश्रेष्ठी कुलबीजः कुलोद्भवः ॥ ११ ॥
1.8.11 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तिः (wrong syllable)
स च स्यात्कुलमित्रो ना मालाकारस्तु मालिकः ।आरामिकः पुष्पलावः कुम्भकारश्च मृत्करः ॥ १२ ॥
1.8.12 · p. 203
अनुष्टुप्
दण्डभृच्चक्रजीवोऽपि कुलालोप्यथ लेपकः ।पुलगण्डः सुधाजीवी तन्तुवायः कुविन्दकः ॥ १३ ॥
1.8.13 · p. 203
अनुष्टुप्
कुपिन्दो वायोथ पुनस्तुन्नवायस्तु सौचिकः ।रङ्गाजीवः कृणुश्चित्रकारश्चित्रकरोऽपि च ॥ १४ ॥
1.8.14 · p. 203
अनुष्टुप्
शस्त्रमार्जः शस्त्रमार्गः शाणजीवोऽसिधावकः ।भ्रमासक्तोऽथ पादूकृच्चर्मकारश्च चर्मरुः ॥ १५ ॥
1.8.15 · p. 203
अनुष्टुप्
कुरटो लोहकारस्तु व्योकारोप्यथ मुष्टिकः ।स्वर्णपर्यायतः कारस्तालो गोजिक इत्यपि ॥ १६ ॥
1.8.16 · p. 203
अनुष्टुप्
नाडिंधमः कलादः स्याच्छौल्बिकस्ताम्रकुट्टकः ।कायस्थः कूटकृत्पञ्जीकरः करण इत्यपि ॥ १७ ॥
1.8.17 · p. 204
अनुष्टुप्
स्याच्छांखिकः काम्बविकस्तेली धूसरचाक्रिकौ ।तिलादिपर्यायतुदः स्नेहकारक इत्यपि ॥ १८ ॥
1.8.18 · p. 204
अनुष्टुप्
मणिकारो नैकटिको रथकारस्तु वर्द्धकिः ।काष्ठतट् स्थपतिस्त्वष्टा तक्षाथ ग्रामगृह्यके ॥ १९ ॥
1.8.19 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नै (wrong syllable)
ग्रामतक्षोऽथ स्वच्छन्दे कौटतक्षोऽथ नापितः ।वात्सीपुत्रो दिवाकीर्त्तिर्मुण्डकोन्तावसाय्यपि ॥ २० ॥
1.8.20 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ (wrong syllable)
तण्डिवाहो ग्रामणीर्वाश्चौरिको भाण्डिकः पुनः ।नखकुट्टः क्षुरी मुण्डी चण्डिलः क्षुरमर्द्यथ ॥ २१ ॥
1.8.21 · p. 204
अनुष्टुप्
निर्णेजकः कर्मकीलो रजकः पवनिश्च सः ।पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥ २२ ॥
1.8.22 · p. 204
अनुष्टुप्
मण्डहारः कल्पपालो मानपर्यायतो वणिक् ।अजाजीवस्तु जाबालो देवाजीवस्तु देवलः ॥ २३ ॥
1.8.23 · p. 204
अनुष्टुप्
अधमद्विजपर्यायो मायिकः प्रतिहारकः ।प्रतीहारः कामलोऽपि कर्मार प्रतिहारकः ॥ २४ ॥
1.8.24 · p. 204
अनुष्टुप्
कारावी जङ्गमकुटी सा स्याद्भ्रमकुटीत्यपि ।वारित्रा खर्परी मूर्द्धखोलं पत्रपिशाचिका ॥ २५ ॥
1.8.25 · p. 204
अनुष्टुप्
मायाकारः शाम्बरी स्यान्मायी च शाम्बरीत्यपि ।शैलालयस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥ २६ ॥
1.8.26 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
भरताश्च नटाश्चापि चारणाश्च कुशीलवाः ।मार्दङ्गिका मौरजिकाः पाणिघाः पाणिवादकाः ॥ २७ ॥
1.8.27 · p. 205
अनुष्टुप्
स्याद्वेणुध्मा वैणविको वीणावादी तु वैणिकः ।जीवान्तकः शाकुनिको वागुरी जालिकः समौ ॥ २८ ॥
1.8.28 · p. 205
अनुष्टुप्
वैतंसिको हिंसकः स्यान्मांसिको मांसविक्रयी ।भृतिभुग्भृतिकः कर्मकरो वैतनिकश्च सः ॥ २९ ॥
1.8.29 · p. 205
अनुष्टुप्
वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ।भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥
1.8.30 · p. 205
अनुष्टुप्
प्राकृतोऽपसदो जाल्मो निहीनश्च पृथग्जनः ।क्षुल्लकप्रैष्यदासेयदासदासेरचेटकाः ॥ ३१ ॥
1.8.31 · p. 205
अनुष्टुप्
नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः ।पराचितपरिस्कन्नपरजातपरैधिताः ॥ ३२ ॥
1.8.32 · p. 205
अनुष्टुप्
भृत्यः कडारो मन्दस्तु तुन्दोनुष्णोलसोपि च ।आलस्यः स्यात्परिमृजः शीतो दक्षस्तु पेलवः ॥ ३३ ॥
1.8.33 · p. 205
अनुष्टुप्
सूत्थान उष्णश्चतुरः पेशलः पेसलः पटुः ।चण्डालोऽपि च चाण्डालः श्वपाचः श्वपचः श्वपक् ॥ ३४ ॥
1.8.34 · p. 205
अनुष्टुप्
अन्तेवासी दिवाकीर्तिर्मातङ्गोपि च पुल्कसः ।जनंगमः पुल्कशोऽपि निषादश्च निषत्प्लवः ॥ ३५ ॥
1.8.35 · p. 206
अनुष्टुप्
पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः ।माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥ ३६ ॥
1.8.36 · p. 206
अनुष्टुप्
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।कौलेयकः सारमेयः शुनको रात्रिजागरः ॥ ३७ ॥
1.8.37 · p. 206
अनुष्टुप्
शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः ।व्रणोर्वुको स्थिभुक्कीषो रसनालिड्रतव्रणः ॥ ३८ ॥
1.8.38 · p. 206
अनुष्टुप्
वान्ताशी दीर्घसुरतः शयालुररतत्रपः ।कुर्कुरः शुनकोऽपि स्याद्भषोपि च शुनिः शुनः ॥ ३९ ॥
1.8.39 · p. 206
अनुष्टुप्
मुहुःक्रोधी रसायायी शिवारिः सूचको रुरुः ।वनन्तपः स्वजातिद्विड् दीर्घनादश्च मण्डलः ॥ ४० ॥
1.8.40 · p. 206
अनुष्टुप्
कृतज्ञः स्यात्पुरोगामी स्यादिन्द्रमहकामुकः ।कपिलो भषको यक्षो ग्रामार्थेभ्यो मृगार्थकः ॥ ४१ ॥
1.8.41 · p. 206
अनुष्टुप्
श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि ।विश्वकद्रुस्तु मृगयापर्यायकुशलार्थकः ॥ ४२ ॥
1.8.42 · p. 206
अनुष्टुप्
तत्र रोगिण्यलर्कः स्याद्विविधा देशदेशजाः ।शुन्यं शुनीरं द्वे तुल्ये स्त्रियां शुन्या समूहके ॥ ४३ ॥
1.8.43 · p. 206
अनुष्टुप्
एषां माता तु सरमा तज्जातिः स्त्री शुनिः शुनी ।भषी श्वानी कुक्कुरी च कुर्क्कुरी भषणीत्यपि ॥ ४४ ॥
1.8.44 · p. 207
अनुष्टुप्
श्वसंकोचे तु शौनः स्याच्छौवनोऽन्यत्र कथ्यते ।स्याच्छुनः सविधं यत्तत्स्थलं ह्युपशुनं पुनः ॥ ४५ ॥
1.8.45 · p. 207
अनुष्टुप्
आच्छोटनं न ना क्लीबे मृगव्यं मृगया स्त्रियाम् ।पापर्द्धिः पुंसि चाखेटो लुब्धैर्यो दक्षिणे हतः ॥ ४६ ॥
1.8.46 · p. 207
अनुष्टुप्
दक्षिणेर्मा दक्षिणारुर्लुब्धपर्याययोगवान् ।चोरः पटच्चरो दक्षश्चौरः पाटच्चरः परः ॥ ४७ ॥
1.8.47 · p. 207
अनुष्टुप्
मोषकस्तस्करः स्तेन ऐकागारिककुम्भिलौ ।पुंसि क्लीबे स्तेनमपि खनिकाखनिकौ समौ ॥ ४८ ॥
1.8.48 · p. 207
अनुष्टुप्
रात्रिंचरो रात्रिचरप्रतिरोधिमलिम्लुचाः ।शङ्किताक्षर आस्कन्दी वन्दीकारस्तु माचलः ॥ ४९ ॥
1.8.49 · p. 207
अनुष्टुप्
कुजम्भिलः सुरङ्गार्हे चिल्लभो हठमोषके ।काव्यचोरे चन्द्ररेणुः स्त्रीचोरे रतहिण्डकः ॥ ५० ॥
1.8.50 · p. 207
अनुष्टुप्
सन्धिः सुरङ्गा खानिः स्त्री सन्धिवेलाथ तद्भिदः ।श्रीवत्सगोमुखाद्याः स्युः क्लीबे स्तैन्यं तु चौरिका ॥ ५१ ॥
1.8.51 · p. 207
अनुष्टुप्
चुरा चौरी च चौर्यं षण् स्तेयं लोप्त्रं तु तद्धनम् ।कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः ॥ ५२ ॥
1.8.52 · p. 207
अनुष्टुप्
करण्टको धौर्त्यमार्गस्तेयशास्त्रप्रवर्तकः ।भ्राता शशोस्य भृत्यस्तु विपुलश्चाचलस्तथा ॥ ५३ ॥
1.8.53 · p. 208
अनुष्टुप्
वीतंसो स्त्री पक्षिमृगबन्धोपकरणे पुमान् ।उन्माथः कूटयन्त्रं स्याद्वागुरा च द्वयोः स्त्रियाम् ॥ ५४ ॥
1.8.54 · p. 208
अनुष्टुप्
मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः ।रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥ ५५ ॥
1.8.55 · p. 208
अनुष्टुप्
स्त्रियां तन्त्री घटीयन्त्रं स्यादुद्घाटनमित्यपि ।कूपाज्जलोद्वाहनं स्यादरघट्टः पुमानयम् ॥ ५६ ॥
1.8.56 · p. 208
अनुष्टुप्
करणी लेपनी वेमा वायदण्डश्च पुंस्युभौ ।सूत्राणि तन्तवः पुंसि वाणिर्व्यूतिरुभे स्त्रियौ ॥ ५७ ॥
1.8.57 · p. 208
अनुष्टुप्
वानी च वानं क्लीबे स्यात्तूलिस्तूली तुरिस्तुरी ।स्त्रियः स्युस्तन्त्रकाष्ठेऽपि स्त्रियां सूची तु सेवनी ॥ ५८ ॥
1.8.58 · p. 208
अनुष्टुप्
वायदण्डे पुंसि वेमो न वा वेमाथ तत्र तु ।तन्त्रवायशलाकायां प्रवाणं च प्रवाण्यपि ॥ ५९ ॥
1.8.59 · p. 208
अनुष्टुप्
सेवनं सीवनं स्यूतिस्त्रिषु स्यूतप्रसेवकौ ।त्रसरः सूत्रवेष्टे स्याच्चूची सूत्रं तु पिप्पलम् ॥ ६० ॥
1.8.60 · p. 208
अनुष्टुप्
पाञ्चालिका पुत्रिका या वस्त्रदन्तादिनिर्मिता ।सालभञ्जी लेप्यमयी या सैवाञ्जलिकारिका ॥ ६१ ॥
1.8.61 · p. 208
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ले (wrong syllable)
स्त्रियः पादूस्तु पन्नध्री मोची प्राणहिता पुनः ।उपानत्पादुका पादात्सैवं वीथी रथी हिता ॥ ६२ ॥
1.8.62 · p. 209
अनुष्टुप्
विरजा रक्षिणी तद्वदायता पादुरित्यपि ।स्त्रियां क्लीबे पादपीठपर्यायमथ तद्भिदः ॥ ६३ ॥
1.8.63 · p. 209
अनुष्टुप्
चर्मवल्कलवस्त्रत्वक्तृणकाष्ठादिनिर्मिताः ।नध्री वध्री वरत्री स्यादुपनीनो पदायता ॥ ६४ ॥
1.8.64 · p. 209
अनुष्टुप्
नद्ध्री वद्ध्री वरत्राथ प्रतिष्कषप्रतिष्कशौ ।कशाश्वादेस्ताडनी स्यादथारा चर्मवेधिका ॥ ६५ ॥
1.8.65 · p. 209
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
स्यात्संदंशः कङ्कमुखं यन्त्रं कुन्दं भ्रमुः पुमान् ।तैजसावर्त्तनी मूषा मूषिका मूष इत्यपि ॥ ६६ ॥
1.8.66 · p. 209
अनुष्टुप्
स्त्रियामावर्त्तनी चाथ भस्त्राका भस्त्रिका पुनः ।प्रसेविका सेविका च चर्मणो वारिपूरणी ॥ ६७ ॥
1.8.67 · p. 209
अनुष्टुप्
आस्फोटनी वेधनिका कृपाणी कर्त्तरी समे ।दक्षिणोत्तरधारस्तु काष्ठपर्यायतक्षकः ॥ ६८ ॥
1.8.68 · p. 209
अनुष्टुप्
वंशोथ वेधनी तु स्याच्छेदन्यथ शरारिका ।रन्ध्रकारिण्यथ पुनरारिका करपत्रिका ॥ ६९ ॥
1.8.69 · p. 209
अनुष्टुप्
स्यादीषीका तूलिकापि शाणस्तु निकषः कषः ।पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥ ७० ॥
1.8.70 · p. 209
अनुष्टुप्
तूलस्फोटनधन्वर्थं पिञ्जनी तूलशोधिनी ।पिचुः पुंस्यस्त्रियां तूलं वादरं तन्तुकारणम् ॥ ७१ ॥
1.8.71 · p. 210
अनुष्टुप्
कपाललासिका तूललासिका पितिकापि च ।तर्कुः स्त्रियां पुनः क्लीबं तद्वत् कर्त्तनसाधनम् ॥ ७२ ॥
1.8.72 · p. 210
अनुष्टुप्
वर्त्तनी तूलपीठी च तर्कुशाणस्तु जामिकः ।त्रिषु द्वारायणं सूत्रपर्णं यत्तेन वेष्ट्यते ॥ ७३ ॥
1.8.73 · p. 210
अनुष्टुप्
निर्वेष्टनं नाडिनीरमेकाष्ठी तूलशर्करा ।नाराच्येषणिकाथ स्यात् संपुटस्तु समुद्गकः ॥ ७४ ॥
1.8.74 · p. 210
अनुष्टुप्
त्रिषु पेटा पेटिका स्त्री पेटिकः पेटकोऽस्त्रियाम् ।स्यान्मञ्जूषा मञ्जुषिका पेडा पेडिरुभे समे ॥ ७५ ॥
1.8.75 · p. 210
अनुष्टुप्
मञ्जूषापि स्त्रियां चाथ द्वयोर्विवधवीवधौ ।पर्याहारो भरो भारोप्यथापि स्याद्विहङ्गमा ॥ ७६ ॥
1.8.76 · p. 210
अनुष्टुप्
विहङ्गिका भारयष्टिस्तदालम्बिनि जालके ।शिक्यं क्लीबे पुंसि काचष्टङ्कोऽस्त्री ग्रावदारणः ॥ ७७ ॥
1.8.77 · p. 210
अनुष्टुप्
वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् ।करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥ ७८ ॥
1.8.78 · p. 210
अनुष्टुप्
स्यादयः प्रतिमा सूर्मी शूर्मी स्वर्णविनिर्मिता ।हरिताथ प्रतिच्छाया प्रतिमा प्रतियातना ॥ ७९ ॥
1.8.79 · p. 210
अनुष्टुप्
उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् ।प्रतिबिम्बं प्रतिमानमुपमानं नपुंसकम् ॥ ८० ॥
1.8.80 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ।साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥ ८१ ॥
1.8.81 · p. 211
अनुष्टुप्
निभसंकाशनीकाशप्रतीकाशोपमादयः ।कर्मण्या तु विधा भृत्या भृतिः स्त्री कर्मवेतनम् ॥ ८२ ॥
1.8.82 · p. 211
अनुष्टुप्
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ।स्त्रियां कुटी तु तरला परिस्रुन्मादिनीवती ॥ ८३ ॥
1.8.83 · p. 211
अनुष्टुप्
वाल्कली कपिशा वीरा काहला कालवाब्धिजा ।शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥ ८५ ॥
1.8.85 · p. 211
अनुष्टुप्
कत्तोयं हारहूरं च कापिशायनमित्यपि ।चषको रसकः सीधुरस्त्रियां कापिशं च षण् ॥ ८६ ॥
1.8.86 · p. 211
अनुष्टुप्
हालाहलोऽस्त्रियां चापि माधवी माधवोपि च ।मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥ ८७ ॥
1.8.87 · p. 211
अनुष्टुप्
कपिनाशनमाध्वीके स्यादिरा गन्धमादनी ।आसवोलिः पुमान् क्लीबे कल्पमासुतिकृन्मधु ॥ ८८ ॥
1.8.88 · p. 211
अनुष्टुप्
अरिष्टं कश्यं तत्रैव शालिपिष्टकृता सुरा ।मैरेयमस्त्रियां क्लीबे माध्वं माधूकमस्त्रियाम् ॥ ८९ ॥
1.8.89 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्यं (wrong syllable)
मधूकपुष्परसजा माध्वी साथ गुडोद्भवा ।गौडी न ना शर्करोत्थं शार्करं स्यात्तदैक्षवम् ॥ ९० ॥
1.8.90 · p. 212
अनुष्टुप्
मृद्वीभवं स्यान्मार्द्वीकं तत्फालमक्षवल्कजम् ।आक्षं सर्वे सीधवः स्युः शीतोष्णादिविभेदतः ॥ ९१ ॥
1.8.91 · p. 212
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
पक्वापक्वविभेदेन चतुर्द्धा तद्भिदा अथ ।कादम्बरी नारिकेलतालखर्जूरसम्भवा ॥ ९२ ॥
1.8.92 · p. 212
अनुष्टुप्
एवं बहुविधं मद्यं देशदेशसमुद्भवम् ।कैलातादि समुन्नेयमथ भक्षणचक्षणे ॥ ९३ ॥
1.8.93 · p. 212
अनुष्टुप्
उपदंशोवदंशः स्यान्मद्यपायनमित्यपि ।शुण्डापानं मदस्थानं मधुवारा अनुक्रमाः ॥ ९४ ॥
1.8.94 · p. 212
अनुष्टुप्
जाङ्गलो जगलः पङ्के मद्यसन्धानमासुतिः ।आसवो भिषवोऽपि स्यात् किण्वं तु मद्यबीजकम् ॥ ९५ ॥
1.8.95 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
नग्नहुर्नग्नहूः पुंसि सुरामण्डाग्रभागके ।क्वापि कारोत्तरः कारोत्तमः स्यात्पुनरित्यपि ॥ ९६ ॥
1.8.96 · p. 212
अनुष्टुप्
स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् ।स्युर्गल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥ ९७ ॥
1.8.97 · p. 212
अनुष्टुप्
पानार्थात्पात्रपर्यायमनुतर्षोनुतर्षणम् ।वेश्यापतिः पल्लवका भुजङ्गश्च विटश्च सः ॥ ९८ ॥
1.8.98 · p. 213
अनुष्टुप्
उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः ।धूर्तोक्षदेवी कितवो द्यूतकृत् कृष्णकोहलः ॥ ९९ ॥
1.8.99 · p. 213
अनुष्टुप्
तथैव द्यूतकारश्च दुरोदरदरोदरौ ।अक्षधूर्तो देवसभ्यः सभिकः साभिकोऽपि च ॥ १०० ॥
1.8.100 · p. 213
अनुष्टुप्
लग्नकः प्रतिभूर्द्यूतकारकस्तृणमत्कुणः ।द्यूतोस्त्रियामक्षवती दरोदरदुरोदरे ॥ १०१ ॥
1.8.101 · p. 213
अनुष्टुप्
द्यूतबीजं वटी वा ना हिरण्यं च वराटकः ।द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥ १०२ ॥
1.8.102 · p. 213
अनुष्टुप्
श्वेता कपर्दिका श्वेती चूर्णिः षण् कितवं पणः ।परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥ १०३ ॥
1.8.103 · p. 213
अनुष्टुप्
शारिर्द्वयोः स्त्रियां शारी शारोना पाशकः पुनः ।अक्षविन्दुत्रिकद्वन्द्वे दुन्दुभी दुन्दुभिः स्त्रियौ ॥ १०४ ॥
1.8.104 · p. 213
अनुष्टुप्
अपि स्यात्फलकः पुंसि ततः क्लीबे तु पुंसि वा ।अष्टापदं सारिफलं पणद्यूतं समाह्वयः ॥ १०५ ॥
1.8.105 · p. 213
अनुष्टुप्
कृतं द्वापरमित्याद्यास्तद्भेदाः स्युरनेककाः ।स्याच्चञ्चुरी तिन्तिडी च पञ्चमीसारि शृङ्खला ॥ १०६ ॥
1.8.106 · p. 213
अनुष्टुप्
अष्टनागं नयवटी नयः स्याज्जतुपुत्रकः ।अग्लहं चतुरङ्गं स्यान्नयपर्यायतो बलम् ॥ १०७ ॥
1.8.107 · p. 214
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ।प्रकाण्डः सप्तमः शूद्रसंज्ञः सिद्धिमुपागतः ॥ १०८ ॥
1.8.108 · p. 214
अनुष्टुप्