लता
latāस्त्री · fem.In 23 kośas: 69 synonym verses, 8 as a nānārtha head word, 28 as a meaning of another word.
उत्तरौ कर्णपूरेऽपि पत्त्रलेखा तु पत्त्रतः ॥ ६५४ ॥भङ्गिवल्लीलताङ्गुल्यः पत्त्रपाश्या ललाटिका ।
अनुष्टुप्
genderस्त्रीfem.
हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तः (wrong syllable)
genderस्त्रीfem.
क्षुपो ह्रस्वशिफाशाखः प्रततिर्व्रततिर्लता ॥ १११७ ॥वल्ल्यस्यां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ।
अनुष्टुप्
genderस्त्रीfem.
स्यात्प्ररोहोऽङ्कुरोऽङ्कूरो रोहश्च स तु पर्वणः ॥ १११८ ॥समुत्थितः स्याद्बलिशं शिखाशाखालताः समाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderस्त्रीfem.
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।
अनुष्टुप्
genderस्त्रीfem.
लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
समे शाखालते स्कन्धशाखाशाले शिफाजटे ।
अनुष्टुप्
genderस्त्रीfem.
पाटलिः पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया ।लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ।
अनुष्टुप्
genderस्त्रीfem.
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ।
अनुष्टुप्
genderस्त्रीfem.
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
फलपाकावसानास्तु बुधैरोषधयः स्मृताः ।लता प्रतानिनी वल्ली प्रततिर्व्रततिस्तथा ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
वार्क्षिकं कानने तु स्याद्वृक्षे तु वसुविष्टिका ।लतायां वल्लरी वल्ली पुष्पे सूनं मणीचकम् ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
तुलसी भारती सेव्या द्रोणो वैकुण्ठ ईश्वरः ।लतायां वल्लिका वल्ली वल्लरीति च कथ्यते ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
एला लता चन्द्रबाला सूक्ष्मेला तूपकुम्भिका ।उर्वारौ ककरी भीरुः कूष्माण्डे तु नृपात्मजः ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि ।स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्द्धं रश्मिकलापोस्य दशभिश्चार्द्धमाणवः ।द्विर्द्वादशोर्द्धगुच्छः स्यात्पञ्चहारफलं लता ॥ २६१ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिर्लता ।वल्ली च वल्लिर्व्रतती स्त्रियां वीरुत् प्रतानिनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
समे शाखालते स्कन्धशाखाशाले शिफाजटे ।अर्वाग्भागोऽस्य बुध्नः स्यान्नितम्बः स पृथुः पुनः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके ।स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
लता गीतिस्रुचो भेदे ध्रुवाविटः प्रजाविशोः ।घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderस्त्रीfem.
त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया ।लूता लता च लिखिता वार्ता सीता सिता तथा ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि ।वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्वोऽर्थो बलिशं(?)स्युस्तु शिखा-शाखा-लताः स्त्रियः ।अस्त्री स्याद्विटपश्चाथ शाख्यं शाखेव यत्त्रिषु ॥वातावर्जितशाखायां भवेद्योषिद्वकेरुका ।शाला साला स्कन्धशाखाथाशाखं मूलतस्तरोः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
वत्सादनी गुडूची च जीवन्ती सोमवल्ल्यपि ।चन्द्रहासा लता सोमा वयःस्था चक्रलक्षणा ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
चण्डा धनहरी चौरी राक्षसी गणहासकः ।लता कस्तूरिका कट्वी भवेत्स्वादुफला च सा ।कर्चूरको गन्धमूलो द्राविडो वेधमुख्यकः ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मणिः स्यात्तरलो मध्यनायकोऽथ सरोलता ।सरिका यष्टिका देवच्छन्दस्तु शतयष्टिकः ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
तृणता त्रिवृतामृता लतालिखिता सातिसिता तपताथ ।व्रततिः प्रसृता च मार्जितारसवत्यक्षवतीति रंहतिः ॥ ५३ ॥
वियोगिनीmetre not read in every line
genderस्त्रीfem.
पराश्रयः सुवसन्तः कामुको माधवी लता ।पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderस्त्रीfem.
लङ्कोयिका कोटिवर्षा देवी पङ्कजमुष्टिका ।गोमी स्वर्णलतेन्द्राणी मरुन्माला लता लघुः ॥ १७१ ॥
अनुष्टुप्
genderस्त्रीfem.
सा तु शुक्ला भूतवेशी सत्यनाम्ना बहुक्षमा ।प्रियङ्गौ प्रियकः कङ्गुः प्रियवल्ली प्रिया लता ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियंवदा हृद्यगन्धा मनोज्ञा सुमना लता ।तस्यास्तु कलिकायां स्यात्पत्त्री सौमनसायिनी ॥ २३६ ॥
अनुष्टुप्
genderस्त्रीfem.
गर्दभशाकब्राह्मण्यौ हञ्जी ब्राह्मणयष्टिका ।आवर्तक्या चर्मरङ्गा विभाण्डी पीठिका लता ॥ २७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्द (wrong syllable)
genderस्त्रीfem.
शारिवायां गोपकन्या गोपवल्ली प्रतानिका ।गोप्यास्फोता लता श्वेता शारदी काष्ठशारिवा ॥ ३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
चिर्भिट्यां त्रपुसी वालुङ्क्येर्वारुर्व्याडपत्रिका ।ऊर्वारुः कर्कटी मूत्रफला राजादनी लता ॥ ३६३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्वेतदूर्वा तु गोलोमी शीतवीर्या सिता लता ।गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः ॥ ३८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
genderस्त्रीfem.
तद्वती विसिनी ज्ञेया व्रततीर्वल्लरी लता ।वल्लीनामानि योज्यानि वारिधिर्वर्ण्यतेऽधुना ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
व्रततिः प्रततिस्तुल्ये लता वल्ली स्त्रियामुभे ।लतायां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्ररोहोऽङ्कुराङ्कूरावृक्तो रोहस्तु[31] पर्वणः ।शिखाशाखालतास्तुल्याः साला स्कन्धस्य शाखिका ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
सीता गीता लता त्रेता लूतानन्तामृता मता ।प्रसृता मार्जिता मुक्ता वार्ता कन्था कथा प्रथा ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा ।अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
वल्ली प्रतानिनी वीरुद्व्रततिर्वल्लरी लता ।पुष्पं प्रसूनं कुसुमं सूनं सुमनसः सुमम् ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रततिर्व्रततिर्वल्ली वल्लिर्लताऽपि कथ्यते ॥ १९६२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शाखा शिखा लता नाम वृक्षाङ्गे च लघौ स्मृतम् ।शाला साला स्कन्धशाखा बृहद्भागस्तरोर्भवेत् ॥ १९६५ ॥
अनुष्टुप्
genderस्त्रीfem.
वासन्ती माधवी चापि पुण्ड्रकस्तथाऽतिमुक्तकः ।लता चेति हि नामानि वासन्त्याः सम्भवन्ति वै ॥ २०४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
विश्वक्सेना च कारम्भा लता च महिलाह्वया ।गन्धफली फली नाम गणनायां फलिनी पुनः ॥ २०४६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वल्लिर्वल्ली च व्रततिवेल्ली स्यात् प्रतति लता ।शाखादिरहितायान्तु गुडुच्यादौ प्रकाशिता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
स्यात् प्रियङ्गुः फली श्यामा गुन्द्रा गोबन्दनी लता ।विश्वक्सेना च करम्भा फलिनी महिलाह्वया ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderस्त्रीfem.
वसन्तदूती वासन्ती माधवी माधवीलता ।लता लतामाधवी स्यादतिमुक्तश्च पुण्ड्रकः ॥
अनुष्टुप्
genderस्त्रीfem.
पृक्का दैवीलता पृक्का समुद्रान्ता लघुर्वधूः ।कोटीवर्षा कोटिवर्षा मरुन्माला लता मरुत् ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योतिष्मती च ज्योतिष्कापिण्या तेजस्विनी लता ।पण्या पारावताङ्घ्रिश्च कटभी तेजनीति च ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रालपत्रिका भद्रा भद्राली भलभा लता ॥
genderस्त्रीfem.
तरलस्तु भवेदेष मणिश्चेत् हारमध्यगः ।हारो मुक्ताबली हारा यष्टिर्यष्टी लतापि च ॥
अनुष्टुप्
genderस्त्रीfem.
क्षुपो ह्रस्वशिफाशाखे क्षुपको, व्रततिर्लता ।प्रततिर्व्रतती तद्वत् वल्लि-वल्ल्यौ च वेल्लिवत् ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
प्ररोहे रोहेऽप्यङ्कुराङ्कुरौ शाखा शिखा लता ।स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः ॥ १२७ ॥
metre not recognised
genderस्त्रीfem.
सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि ।सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वानस्पत्यः फली पुष्पात् फल्यपुष्पाद्वनस्पतिः ।फलपाकावसनाः स्युरोषध्यो व्रततिर्लता ॥ ४४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderस्त्रीfem.
क्लीतकी नीलिनी डोला कुणिका च महारसा ।पुण्ड्रकस्त्वतिमुक्तः स्याद्वासन्ती माधवी लता ॥ ५२९ ॥
अनुष्टुप्
genderस्त्रीfem.
द्रामिडी चाथ सारङ्गी त्रिपुटा चोपकुञ्चिका ।गोवन्दनी लता गुन्द्रा कारम्भी महिलाह्वया ॥ ५३२ ॥
अनुष्टुप्
genderस्त्रीfem.
वात्या बृहत्यां सुस्कन्धा धन्या प्रसहनी लता ।गोष्ठवातिङ्गने त्वेलागन्धिका जलजम्बुका ॥ ६३९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्पृक्का तु ब्राह्मणी देवी मरुन्माला लता लघुः ।समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिका मरुत् ॥
अनुष्टुप्
genderस्त्रीfem.
मुनिर्माल्यवती माला मोहना कुटिला लता ॥ ११९ ॥
genderस्त्रीfem.
अप्रकाण्डे स्तंबगुल्मावुलपस्तु प्रतानिनी ।गुल्मिन्यपि च वल्ली तु व्रततिर्व्रतती लता ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियके तु प्रियंग्वाख्या कारम्भा फलिनी फली ।विष्वक्सेना बला वृन्ता गुन्द्रा गोवन्दिनी लता ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
बृहत्यां प्रसहा काली वार्ताकी हिंगुदी कुली ।लताबृहत्यां मुस्निग्धा धन्या प्रसहनी लता ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्षा लंकायिका स्पृक्का मरुन्माला लता मरुत् ।कच्छूरके द्राविडकः काल्यको वेधमुख्यकः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
सितायां श्वेतसुरसा वासन्त्यां माधवी लता ।निस्संगजा कान्तनाला प्रहसन्ती कुटुंबिका ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
द्विर्द्वादशोऽर्धगुच्छोऽथ पञ्च हारफलं लता ।अर्धहारश्चतुष्पष्टिर्गुच्छमाणवमन्दराः ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
शारिबायामपि प्राह कश्चित् तन्न विरोचते ।लङ्का तु तरुशाखायां रावणस्य च पत्तने ॥ ९१ ॥
अनुष्टुप्
meaningsशारिबा
doubtful
लता ज्योतिष्मतीस्पृक्कालताकस्तूरिकासु च ।दूर्वायां च प्रियङ्गौ च माधव्यां च नखेऽपि च ॥ १८४ ॥
अनुष्टुप्
रीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके ।लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कि (wrong syllable)
लता as a meaning in nānārtha verses
- कोषकल्पतरु वल्लीउद्वर्तनस्यापि च वाससि स्या- द्वल्ली तु दीप्ये कुसुमे लतायाम् । पल्ली कुटीग्रामकयोः पुमांस्तु स्थलस्य दिष्टापि कुशूलके च ॥ ९१ ॥ Koṣakalpataru 6.28.91
- नानार्थार्णवसंक्षेप वीरुध्गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः । कृप्यादौ वर्तनेऽप्यारभट्यादिचतसृष्वपि ॥ ९९ ॥ Nānārthārṇavasaṃkṣepa 2.1.99
- नानार्थार्णवसंक्षेप क्ष्वेडलतायां स्यात् सुविख्याता राजकोशातकीति या । विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.282
- नानार्थार्णवसंक्षेप पाठापाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे । पाठा पार्श्वं तु न स्त्री स्यात् पर्शुवृन्दात्मके तनोः ॥ ७५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.756
- नानार्थार्णवसंक्षेप रोहित्अग्नेरश्वे तथा वर्णभेदे त्रिषु तु तद्वति । स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ११२३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1123
- नानार्थार्णवसंक्षेप वन्यावंशी वन्यस्तु पुंसि स्याद् धान्ये मर्कटकाह्वये । वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ ११८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1184
- नानार्थार्णवसंक्षेप शाखाआशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोर्लतायां देहस्य पादे बाहौ तथाङ्गुलौ ॥ १३४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1349
- नानार्थार्णवसंक्षेप श्वेताक्लीबं तु दध्नि रजतेऽप्यथ श्वेता सुरान्तरे । पैष्टिकीसंज्ञके स्त्री स्यान्नदीभेदे लतान्तरे ॥ १४१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1419
- नानार्थार्णवसंक्षेप वल्लरिवर्तनिस्तु भवेद्वृत्तौ मार्गे स्यात् तक्रपिण्डके । स्याद्वल्लरिस्तु मञ्जर्यां लतायां च धनञ्जयः ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.1.82
- नानार्थार्णवसंक्षेप कणीचिकणीचिः स्त्री लतायां स्यान्मनस्यपि धनञ्जयः । अन्ये तु केचिद्भाषन्ते तुरङ्गे स्याद्द्वयोरिति ॥ ४१९ ॥ Nānārthārṇavasaṃkṣepa 4.419
- नानार्थार्णवसंक्षेप तृफलकालेऽप्यजातशृङ्गे स्यात् पशौ शुष्कतृणे पुनः । तृफलं शुष्कपर्णे च क्ली लतायां तु सा स्त्रियाम् ॥ ८८५ ॥ Nānārthārṇavasaṃkṣepa 4.885
- नानार्थार्णवसंक्षेप दूषिकादूषिकं त्वक्षिजमले नप्स्त्रियोः स्यात् पुनः स्त्रियाम् । वीणाजातौ च वर्तौ च लतायां चापरः पुनः ॥ ९५५ ॥ Nānārthārṇavasaṃkṣepa 4.955
- नानार्थार्णवसंक्षेप रोहन्तीरोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् । लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥ Nānārthārṇavasaṃkṣepa 4.1535
- नानार्थार्णवसंक्षेप लवणीलवणद्रव्यसंसृष्टेऽप्यथ क्ली सैन्धवादिषु । लताभेदे तु लवणी स्त्रियां स्यादथ लक्षणम् ॥ १५५० ॥ Nānārthārṇavasaṃkṣepa 4.1550
- नानार्थार्णवसंक्षेप लक्ष्मणाअन्ये तु सारसस्यैनां प्रियायां लक्ष्मणां विदुः । स्त्रियां लतान्तरे पुत्रजननीनाम्नि लक्ष्मणा ॥ १५५३ ॥ Nānārthārṇavasaṃkṣepa 4.1553
- नानार्थार्णवसंक्षेप लाङ्गलिकस्त्रियामग्निशिखासंज्ञलतायां च पुमान् पुनः । शालिप्रभेदेऽथ क्लीबं लाङ्गूलं मेढ्रपुच्छयोः ॥ १५६३ ॥ Nānārthārṇavasaṃkṣepa 4.1563
- नानार्थार्णवसंक्षेप दीर्घवल्लीलतायामपि दीर्घायां देवसेना तु सैन्यके । देवानां षण्मुखस्यापि देव्यां देववधूः पुनः ॥ ३० ॥ Nānārthārṇavasaṃkṣepa 6.30
- नानार्थार्णवसंक्षेप श्यामवल्लीश्यामवल्ली लतायां च श्यामायामथ कथ्यते । मल्लिकायां (शेष ? श्लेष्म)घना केतक्यां चाजयेन हि ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 6.52
- नानार्थार्णवसंक्षेप अवरोहअवरोहोऽवतरणे पादपस्य लतोद्गमे । मूलादग्रं गतायां च लतायां किञ्च शाखिनः ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 6.15
- नानार्थार्णवसंक्षेप अर्धचन्द्रालताभेदे स्त्रियां ना तु क्षुरप्राख्यायुधान्तरे । चन्द्रस्यार्धेऽप्यथो अम्बुप्रियो ना वेतसद्रुमे ॥ ३० ॥ Nānārthārṇavasaṃkṣepa 6.30
- नानार्थार्णवसंक्षेप अस्थिसङ्घातअस्थिसङ्घात इत्येष समृहेऽस्थ्नां लतान्तरे । अस्थिमानिति विख्यातेऽप्यथ स्यादाशुशुक्षणिः ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 7.3
- परमानन्दीयनाममाला नदीकान्तानदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ । स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥ Paramānandīyanāmamālā 5.18.279
- शिवकोष तनुकातनुका स्फूर्जलतयोस्तनुकं तु गुडत्वचि । तिन्दुकी स्याद्द्वयोः कालस्कन्धे क्लीबं तु तिण्डिशे ॥ २९ ॥ Śivakoṣa 1.3.29
- शिवकोष ललनाअथ रोदनी त्रिदण्डीगुञ्जानन्तानिकुम्भासु । ललना लतात्मगुप्तासर्जे योषित् पियाले ना ॥ २६७ ॥ Śivakoṣa 16.1.267
- शिवकोष गुन्द्रागुन्द्रैरकालताभद्रमुस्ते गुन्द्रस्तु तेजने । गौरः करञ्जे सिद्धार्थे गौरं तालेऽब्जकेसरे ॥ ३७५ ॥ Śivakoṣa 22.2.375
- शिवकोष वृषाअश्वासिंह्योर्वृषा शृङ्गीलतागुप्ताजयासु च । Śivakoṣa 26.1.4
- शब्दरत्नाकर जगतीजगती भुवने भूमौ लताच्छन्दोविशेषयोः । अगलो मोदके मद्ये जरठः कठिनेऽपि च ॥ २०९१ ॥ Śabdaratnākara 4.1.2091
- शब्दरत्नाकर अवरोहक्षत्रिये त्वम्बरीषः स्यात् पुंसि भ्राष्ट्रे नपुंसके । अवताम्भो (अवरोहो?)ऽवतरणं मूलादग्रं गता [लता] ॥ २२०१ ॥ Śabdaratnākara 4.1.2201