All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · शूद्रवर्गप्रक्लाशः
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां वैश्यवर्गप्रकाशः ॥
शूद्रो जघन्यजो दासः पादजोऽवरवर्णजः ।अन्त्यजन्मा च वृषलो जघन्यो द्विजसेवकः ॥
3.8.1 · p. 153
अनुष्टुप्
करणो वैश्यशूद्राजोऽम्बष्ठो वैश्याद्विजातिजः ।उग्रः शूद्रा क्षत्रियजः क्षत्ता वैश्यासु शूद्रजः ॥
3.8.3 · p. 153
अनुष्टुप्
माहिष्यः क्षत्रवैश्याजः वैश्यात् क्षत्रासु मागधः ।ब्राह्मणी क्षत्रजः सूतो वैदेहो ब्राह्मणीविशोः ॥
3.8.4 · p. 153
अनुष्टुप्
माहिष्यकरणीजातः रथकारः स उच्यते ।चाण्डालोऽपि च चण्डालो वृषलब्राह्मणी सुतः ॥
3.8.5 · p. 153
अनुष्टुप्
कारुः शिल्पी द्वयोः श्रेणिर्मिलितैस्तैः सजातिभिः ।कुलश्रेष्ठी च कुलिकः कुलकोऽपि च कुत्रचित् ॥
3.8.6 · p. 153
अनुष्टुप्
मालाकारः मालिकः स्यात् पुष्पलावक इत्यपि ।कुलालः कुम्भकारश्च दण्डभृत् मृत्करोऽपि च ॥
3.8.7 · p. 153
अनुष्टुप्
पलगण्डः सुधाजीवी लेपी लेपक इत्यपि ।तन्त्रवायस्तन्तुवायस्तन्त्रवायः कुविन्दवत् ॥
3.8.8 · p. 153
अनुष्टुप्
सौचिकः सूचिकः सौचिः तुन्नवायश्च सूत्रभित् ।रङ्गाजीवश्चित्रकरो रङ्गजीवक इत्यपि ॥
3.8.9 · p. 153
अनुष्टुप्
शस्त्रमार्जोऽसिमार्जः स्यादसिधावोऽसिधावकः ।पादूकृत् चर्मकारः स्यात् चर्मारः कुरटोऽपि च ॥
3.8.10 · p. 153
अनुष्टुप्
कर्मकारस्तु कर्मारो व्योकारो लोहकारके ।नाडिन्धमो रुक्मकारः कलादः स्वर्णकारकः ॥
3.8.11 · p. 153
अनुष्टुप्
शाङ्खिकः शङ्खकारः स्यात् तथा काम्बरिकोऽपि च ।ताम्रिकस्ताम्रकारः स्यात् शौल्विकस्ताम्रकुटुकः ॥
3.8.12 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
त्वष्टा तु वर्धकिस्तक्षा सूत्रधारोऽपि वर्धकी ।रथकारो रथकरः काष्टतट् काष्टतक्षकः ॥
3.8.13 · p. 154
अनुष्टुप्
ग्रामाधीने ग्रामतक्षः कौटतक्षोऽनधीनके ।नापितः स्यात् क्षुरी मुण्डी छत्री वात्सीसुतोऽपि च ॥
3.8.14 · p. 154
अनुष्टुप्
नखकुटुः दिवाकीर्ति-ग्रामण्यन्तावसायिनः ।निर्णेजकस्तु शौचेयो रजकः कर्मकीलकः ॥
3.8.15 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कु (wrong syllable)
शुण्डिकः शौण्डिकः शुण्डी शुण्डको मण्डहारकः ।अजाजीवस्तु जावालोऽप्यजापालक इत्यपि ॥
3.8.16 · p. 154
अनुष्टुप्
देवाजीवो देवलः स्यात् अमरद्विज इत्यपि ।साम्बरी शाम्बरी माया मायाकृत् प्रातिहारिकः ॥
3.8.17 · p. 154
अनुष्टुप्
कुशीलवश्चारणः स्यादस्थिरे भिक्षुके नटे ।मार्दङ्गिको मौरजिकस्त्वाक्षिकोऽप्यौद्घिकोऽपि च ॥
3.8.19 · p. 154
अनुष्टुप्
जीवान्तकः शाकुनिको द्वाविमौ पक्षिहन्तरि ।स्याज्जालिको वागुरिको मृगबन्धनजालिके ॥
3.8.22 · p. 154
अनुष्टुप्
वैतंसिकः कौटकिकः कौटिको मांसिकोऽपि च ।भृतिभुक् भृतकः कर्मकरो वैतनिकश्च सः ॥
3.8.23 · p. 154
अनुष्टुप्
वार्तावहो वैवधिको भवेत् वार्ताहरोऽपि च ।भारवाहो भारहरो भारहारस्तु भारिकः ॥
3.8.24 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
3.8.25 · p. 154
अनुष्टुप्
मन्दस्तुन्दपरिमृजः शीतलः शीतकोऽलसः ।आलस्यानुष्णकुण्टाश्च भवेन्मुखनिरीक्षकः ॥
3.8.27 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
चतुरः पेशलो दक्षः सूत्थानः पटुरुष्णकः ।अथ चण्डालमातङ्गप्लवान्तवासिपुक्कसाः ॥
3.8.28 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
दिवाकीर्तिर्निषादश्च श्वपचोऽपि च जनाङ्गमः ।पुक्कशो निषदोऽपि स्यात् तद्भेदाः शवरादयः ॥
3.8.29 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 श्वप (syllable split)
शवराश्च किराताश्च पुलिन्दाः म्लेच्छजातयः ।त एव पत्रशवरा दरदाः परदाश्च ते ॥
3.8.30 · p. 155
अनुष्टुप्
अथ व्याधो लुब्धकः स्यान्मृगयुर्मृगजीवकः ।तथा मृगवधाजीवो मृगावित् वनपांशुलः ॥
3.8.31 · p. 155
अनुष्टुप्
कुर्कुरो दीर्घसुरतः श्वणो ग्राम्यमृगोऽपि च ।वक्रपुच्छः शयालुः स्यात् शवकाम्यः तरत्रपः(?) ॥
3.8.33 · p. 155
अनुष्टुप्
औषधादियोगितः श्वा स्यादलकोऽप्यलर्ककः ।मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ।कुक्कुरी सरमा श्वाना सारमेयी शुनी भषी ॥
3.8.34 · p. 155
अनुष्टुप्metre not read in every line
युवापशुर्वर्करः स्याद् विट्चरो ग्राम्यशूकरः ।आच्छोदनं मृगव्यं स्त्री मृगयाऽखेटकः पुमान् ॥
3.8.35 · p. 155
अनुष्टुप्
दक्षिणशब्दादीर्घस्य व्याधयोगेन नान्तता ।दक्षिणाङ्गे व्रणं यस्य दक्षिणेर्मा मृगो भवेत् ॥
3.8.36 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क्षि (wrong syllable)
चौरो दस्युस्तस्करः स्यात् प्रतिरोधीमलिम्लुचः ।स्तेनैकागारिकः स्तन्यप्रच्छन्नजनमोषकाः ॥
3.8.37 · p. 155
अनुष्टुप्
पाटच्चरः परास्कन्दी कुम्भिलः खनकोऽपि च ।चोरः शङ्कितवर्णः स्यात्तथा खनिक इत्यपि ॥
3.8.38 · p. 155
अनुष्टुप्
कुजम्भिलः सुरङ्गाहिरधश्चौरः सुरुङ्गयुक् ।वन्दीकारः माचलः स्यात् चिल्लाभो हठचौरकः ॥
3.8.39 · p. 155
अनुष्टुप्
काव्यचौरश्चन्द्ररेणुः स्त्रीचौरः रतहिण्डकः ।भित्तिचौरः खानिलः स्यात् कुड्यच्छेद्यपि स स्मृतः ॥
3.8.40 · p. 155
अनुष्टुप्
सुरुङ्गा सन्धिला सन्धिस्तद्भेदा गोमुखादयः ।चौरी च चौरिका चौर्यं स्तैन्यं स्तेयञ्च वेत्यपि ॥
3.8.41 · p. 155
अनुष्टुप्
अथ चौरधने लोत्रं लोतं लोत्रञ्च लुप्तवत् ।वीतंसं मृगपक्ष्यादिबन्धोपकरणेऽपि च ।उन्माथः कूटयन्त्रं स्यादुन्मथः शूलयन्त्रके ॥
3.8.42 · p. 156
अनुष्टुप्
मृगबन्धनजाले तु वागुरा मृगबन्धनी ।रज्जुः स्त्रियां त्रिषु वटी गुणः शुल्ववरा स्त्रियाम् ॥
3.8.43 · p. 156
अनुष्टुप्
उद्घाटनं घटीयन्त्रं कूपायुद्धारपात्रके ।वापदण्डः पुंसि वेमा वेसो ना वेमनं द्वयोः ॥
3.8.44 · p. 156
अनुष्टुप्
सूत्रं क्लीबे च ना तन्तुः तर्कुः कपालनालिका ।तर्कुशानः झामरः स्यात् तर्कुपीठी च वर्तिनी ॥
3.8.45 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पिञ्जलस्तूलचापः स्यात् पञ्जिका तूलनालिका ।तन्तुकाष्ठं तुलिः तुली तुरिस्तुरी च सम्मता ॥
3.8.46 · p. 156
अनुष्टुप्metre not read in every line
तत्त्रञ्च तन्त्रवापोऽस्त्री तच्छलाका प्रवाणिका ।वाणिक्रियायां वाणिः स्त्री वाणी च व्यूतिरित्यपि ॥
3.8.47 · p. 156
अनुष्टुप्
स्याद्वस्त्रशृङ्गदण्डाद्यैः कृता पुत्तलिका हि या ।पञ्चालिका पुत्रिका सा पञ्चालीत्यपि कुत्रचित् ॥
3.8.48 · p. 156
अनुष्टुप्
पिटकः पेटकः पेटः पेटिका च तरिस्तरी ।मञ्जुषापि च मञ्जूषा पेटा च पेडिकेत्यपि ॥
3.8.49 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
विहङ्गिका भारयष्टिस्तथा विहङ्गमेत्यपि ।शिक्यं काचः पुमानेव शिक्या शिक् च भवेत् क्वचित् ॥
3.8.50 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
उपानत् पादुका पादूः स्त्रियामेव त्रयं भवेत् ।पन्नध्री स्यात् प्राणिहिता कोषी पादरथी च सा ॥
3.8.52 · p. 156
अनुष्टुप्
पदायता च सैवानुपदीना च भवेत् स्त्रियाम् ।जलत्रा जङ्गमकुटी भ्रमत् कुट्यातपत्रकम् ॥
3.8.53 · p. 156
अनुष्टुप्
नद्ध्री वद्ध्री वरत्रा च त्रयं चर्मादिरज्जुषु ।अश्वादेरपि ताडन्यां कश स्त्री ना प्रतिक्षणः ॥
3.8.54 · p. 156
अनुष्टुप्
चाण्डालिका च चण्डालवीणा चण्डालवल्लकी ।कटोलवीणा कण्डोली किन्नराह्वययन्त्रके ।नारचिका च नाराची भवेदेषनिकैषिणी ॥
3.8.55 · p. 157
अनुष्टुप्metre not read in every line
स्यात् पुंसि निकषः शासा आकषः कष इत्यपि ।व्रश्चनः पत्रपरशुः स्यात् पत्रपर्शुरित्यपि ।ईषिका तूलिका च स्यादेषिका च भवेत् स्त्रियाम् ॥
3.8.56 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
भस्त्राका भस्त्रका भस्त्रा भस्त्री चर्मप्रसेविका ।आस्फोटनी वेधनिका वेधनीत्यपि कुत्रचित् ॥
3.8.58 · p. 157
अनुष्टुप्
कृपानी कर्तरी कत्री तथा सन्दंशिकापि च ।वृक्षादनो वृक्षभेदी निहनीडत्याह्व्ये द्वयम् ॥
3.8.59 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्या (wrong syllable)
वासिर्वासी तक्षणी स्यात् कुङ्गचक्रभ्रमिः स्त्रियाम् ।स्याल्लोहप्रतिमा स्थूणा शूर्मी च शूर्मिकेत्यपि ॥
3.8.61 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
शिल्पं कलादिकं कर्म आरा चर्मप्रभेदिका ।प्रतिमानं प्रतिकृतिरर्ची प्रतिनिधिः पुमान् ॥
3.8.62 · p. 157
अनुष्टुप्
प्रतिबिम्बं प्रतिच्छाया प्रतिमा प्रतियातना ।उपमोपमितिः स्त्री स्यादुपमानं नपुंसकम् ॥
3.8.63 · p. 157
अनुष्टुप्
समः समानः सदृशस्तुल्यः साधारणः सदृक् ।सदृक्षश्चेति सप्तैते वाच्यलिङ्गाः समार्थकाः ॥
3.8.64 · p. 157
अनुष्टुप्
निभसङ्काशनीकाशप्रतीकाशप्रभोपमाः ।कल्पभूताभरूपाद्याः स्युरुत्तरपदे त्रिषु ॥
3.8.65 · p. 157
अनुष्टुप्
वेतनन्तु विधा भृत्या कर्मण्या भरणं भृतिः ॥
3.8.66 · p. 157
भरण्यं भर्म निर्वेशो मूल्यञ्च पण इत्यपि ।सुरा कादम्बरी हाला मदिरा च हलिप्रिया ॥
3.8.67 · p. 157
अनुष्टुप्
इरा गन्धोत्तमा मद्यं कश्यञ्च वरुणात्मजा ।मालिका च प्रसन्ना स्यात् परिस्रूच्च परिस्रूता ॥
3.8.68 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्रू (wrong syllable)
अवदंशः सुरापानं शुण्डापानं मदस्थलम् ।पुनः पुनः सुरापाने मधुवारा मधुक्रमाः ॥
3.8.69 · p. 157
अनुष्टुप्
गौडी यक्षरसो गोलं वाल्कली कापिशायनम् ।नारिकेली तु नलिनी तालजा या तु तालकी ॥
3.8.71 · p. 158
अनुष्टुप्
भेदाः स्मरासवो वीरा मेदको जगलो गलः ।सन्धानं स्यादभिषवः सन्धानी सन्धिकेत्यपि ॥
3.8.72 · p. 158
अनुष्टुप्
सुरावीजे तु किण्वं स्यात् नग्नहूश्च भवेत् पुमान् ।कारोत्तरो मद्यमण्ड आपानं पानगोष्टिका ॥
3.8.73 · p. 158
अनुष्टुप्
पानपात्रञ्च सरकोऽनुतर्षोऽनुतर्षणम् ।पारी स्त्रियान्तु पारीकं भवेत् चषकमस्त्रियाम् ॥
3.8.74 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धार्तो धूर्तोऽक्षधूर्तः स्यादक्षदेवी दुरोदरः ।द्यूतकृत् कितवो द्यूतकारः स्यात् कृष्णकोहलः ॥
3.8.75 · p. 158
अनुष्टुप्
लग्नकः प्रतिभूः पुंसि तुणमत्कु(ण) इत्यपि ।सभीकः सभिकोऽपि स्याद् द्यूतकारक इत्यपि ॥
3.8.76 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ ।पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥
3.8.77 · p. 158
अनुष्टुप्
सारिः शारिः सारशारौ पाशा इत्यपि कुत्रचित् ।नयने सर्वमारीणां परिणायस्तु सर्वतः ॥
3.8.78 · p. 158
अनुष्टुप्
अष्टापदं शारिफलं फलकस्त्रयमस्त्रियाम् ।चुञ्चुरी तिन्तिडी द्यूतं पञ्चनी शारिशृङ्खला ॥
3.8.79 · p. 158
अनुष्टुप्
नयपीठी चाष्टकाङ्गो नयः स्याज्जयपुत्रकः ।एते पाशकभेदाः स्युर्जयकोलाहलोऽपि च ॥
3.8.80 · p. 158
अनुष्टुप्
मेषादिप्राणिद्यूते स्यात् साह्वयश्च समाह्वयः ।भूम्यादिशूद्रवर्गान्ता दशैते सयुरिहोदिताः ॥
3.8.81 · p. 158
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 णि (wrong syllable)
शब्दरत्नावलीकोषे भूकाण्डोऽयं द्वितीयकः ॥
3.8.82 · p. 158