All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · शूद्रवर्गः
इति वैश्यवर्गः ।
शूद्रो जघन्यजः पज्जो वृषलोऽवरवर्णकौ(कः) ।पद्योऽन्त्यवर्णोऽप्युक्तोऽथ ग्रामकूटो महत्तरः ॥ १ ॥
2.4.1 · p. 295
अनुष्टुप्
ते तु मूर्धावसिक्तादा रथकृन्मिश्रजातयः ।क्षत्रियायां द्विजान्मूर्धावसिक्तोऽम्बष्ठकः पुनः ॥ २ ॥
2.4.2 · p. 295
अनुष्टुप्
वैश्यायां स्तः पारशव-निषादौ शूद्रयोषिति ।माहिष्यो विट्स्त्रियां क्षत्रादुग्रस्तु वृषलस्त्रियाम् ॥ ३ ॥
2.4.3 · p. 295
अनुष्टुप्
शूद्र्यां तु करणो वैश्यात्सूतः क्षत्राद्द्विजस्त्रियाम् ।[143b] वैश्याद्वैदेहिकस्तस्यां चाण्डालः शूद्रतोऽपि च ॥ ४ ॥
2.4.4 · p. 295
अनुष्टुप्
क्षत्र्यां वैश्यान्मागधः स्यात्क्षत्ता स्याच्छूद्रतः सुतः ।वैश्यायां शूद्रजन्मायोगवोऽमी द्वादश स्मृताः ॥ ५ ॥
2.4.5 · p. 295
अनुष्टुप्
[माहिष्याद्रथकारः] स्यात्करण्यां यस्य संभवः ।कारिः कारुश्च कृत्नुश्च शिल्पी च प्रकृतिः स्त्रियाम् ॥ ६ ॥
2.4.6 · p. 295
अनुष्टुप्
द्वयोः श्रेणिस्तद्गणः स्यादाम्बष्ठ्याम्बष्ठनन्दनः ।कुलजस्तु कुलश्रेष्ठी कला-विज्ञान-शिल्पकाः ॥ ७ ॥
2.4.7 · p. 295
अनुष्टुप्
लेखाधिकारी कायस्थः पञ्जिकाकार इत्यपि ।मालाकारो मालिकः स्यात्पुष्पाजीवस्तु पुष्पलूः ।पुष्पलावी कुलालस्तु मृत्करो भरटोऽपि सः ॥ ८ ॥
2.4.8 · p. 295
अनुष्टुप्
कुम्भकारो दण्डभृच्च स्तो दार्दुरिक-चाक्रिकौ ।कुलालचक्रं दण्डारः पलगण्डस्तु लेपकः ॥ ९ ॥
2.4.9 · p. 295
अनुष्टुप्
तन्तुवायः कुविन्दः स्यात्तन्तुवापः स्थविस्तथा ।तसर-त्रसरौ सूत्रवेष्टे तर्क्कुस्तु कर्त्तकः ॥ १० ॥
2.4.10 · p. 295
अनुष्टुप्
सल्लोल-तर्क्कौ तर्क्काटी तर्क्कला च सहापि सा ।साधनं यत्कर्तनस्य नर्त्तना तर्क्कु[144a]पीठिका ॥ ११ ॥
2.4.11 · p. 295
अनुष्टुप्metre not read in every line
स्यात्पिञ्जनं विहननं तूलस्फोटनकार्मुकम् ।वाणिर्व्यूतिः स्त्रियौ न स्त्री पुस्तं लेप्यादिकर्म च ॥न स्त्री वेमा वानदण्डस्तन्तुकाष्ठं तुरी स्त्रियाम् ।तुन्नवायस्तन्तुवायः सौचिकश्च स्थविश्च सः ॥ १३ ॥
2.4.13 · p. 296
अनुष्टुप्
द्रव्यं तु तन्तुवायस्य कृविर्नरि निगद्यते ।कृपाणी कर्त्तरी कल्पन्यपि सूची तु सेवनी ।सूचिसूत्रं पिप्पलकं सेवनं सीवनं समे ॥ १४ ॥
2.4.14 · p. 296
अनुष्टुप्metre not read in every line
स्त्रियां स्यूतिरथो तैली धूसरश्चाक्रिकोऽपि सः ।परञ्जं तैलयन्त्रं स्यात्षण्डाली तैलमानिका ॥ १५ ॥
2.4.15 · p. 296
अनुष्टुप्
तैलपात्रं कूपकः स्याद्रङ्गाजीवस्तु चित्रकृत् ।भवेत्तौलिकिकश्चाथ शस्त्रमार्जोऽसिधावकः ॥ १६ ॥
2.4.16 · p. 296
अनुष्टुप्
शाणाजीवो भ्रमासक्तः क्ष्णवनं तेजनं समम् ॥ १७ ॥
2.4.17 · p. 296
व्योकारो लोहकारः स्यात्कर्मारो लोहघातकः ।गुहेरोऽथास्त्रियां कूटमयोघनक इत्यपि ॥ १८ ॥
2.4.18 · p. 296
अनुष्टुप्
व्रश्चनः पत्रपरशुरिषीका तूलिकेषिके ।इषीकतूलं द्वंद्वे स्यादिषीकातूलयोरपि ॥ १९ ॥
2.4.19 · p. 296
अनुष्टुप्
नाडिं[144b]धमः स्वर्णकारः कलादः पश्यतोहरः ।हेमलो मुष्टिकृत्स्वर्णकारोऽथ निकषः कषः ॥ २० ॥
2.4.20 · p. 296
अनुष्टुप्metre not read in every line
आकषो हेमलं शाणो द्वंद्वे स्यान्निकषोपलः ।आकषे कुशलो भेद्यलिङ्ग आकषकः स्मृतः ॥ २१ ॥
2.4.21 · p. 296
अनुष्टुप्
तैजसावर्तनी मूषा कुन्दं तर्क-भ्रमौ नरि ।आस्फोटनी वेधनिका संदंशः कङ्कवक्त्रकः ॥ २२ ॥
2.4.22 · p. 296
अनुष्टुप्
मणिकारो वैकटिकोऽथो काम्बविक-शाङ्खिकौ ।करंधमी कांस्यकारः शौल्बिकस्ताम्रकुट्टकः ॥ २३ ॥
2.4.23 · p. 296
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।स्थपतिर्ग्रामतक्षस्तु ग्रामाधीनो हि वर्धकिः ॥ २४ ॥
2.4.24 · p. 297
अनुष्टुप्
स्वतन्त्रः कौटतक्षोऽथ वासी वाशी च तक्षणी ।वृक्षभित्क्रकचस्त्वस्त्री करपत्रकमन्तिमे ।अयानयीनः शारा स्याद्द्वयोः साफलयौलिगः ॥ २५ ॥
2.4.25 · p. 297
अनुष्टुप्
स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते ।वृक्षादनो वृक्षभेदी टङ्कोऽस्त्री ग्रावदारकः ॥ २६ ॥
2.4.26 · p. 297
अनुष्टुप्
निर्णेजकः स्याद्रजको धावकः कर्मकीलकः ।[145a] मर्जूरथ स्याद्विट्सारी विट्किरः कुणपश्च सः ।क्षुरमर्द्दी क्षुरी मुण्डी चण्डिलान्तावसायिनौ ॥ २७ ॥
2.4.27 · p. 297
अनुष्टुप्
दिवाकीर्तिपितश्च क्षुरो नापितशस्त्रकम् ।वपनं मुण्डनं क्षौरं तथैव परिवापणम् ॥ २८ ॥
2.4.28 · p. 297
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नखलु स्यान्नखच्छेदि नाराची त्वेषणी स्त्रियाम् ।अपत्ये कुम्भकारादेः कौम्भकार्यो भवेत्तथा ॥कौम्भकारिस्तान्तुवाय्यस्तान्तुवायिरिमौ समौ ।सदृशौ ताक्ष्ण-ताक्षण्यौ नापिन्यो नापितायनिः ॥देवाजीवो देवलको देवागारिक इत्यपि ।जाबालः स्यादजाजीवः सोऽजपालश्च कीर्त्तितः ॥जीवान्तकः शाकुनिकः पाक्षिकोऽप्यथ सौनिकः ॥ ३१ ॥
2.4.31 · p. 297
अनुष्टुप्
वैतंसिकः कौटिकश्च मांसिको मांसविक्रयी ।स्यान्मार्गिको हारिणिकोऽथैवं सौकरिकादयः ॥ ३२ ॥
2.4.32 · p. 297
अनुष्टुप्
उन्माथः कूटयन्त्रं स्याद्वागुरा मृगजालिका ।जालिकः स्याद्वागुरिकोऽथावपातावटौ समौ ॥ ३३ ॥
2.4.33 · p. 297
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
पाशकश्चैव पाशो यस्तथाकर्ष[145b]श्च ईरितः ।आकर्षकस्तत्कुशलः पाश्या स्त्री पाशसंहतौ ॥पाशाकर्षौ बन्ध-वल्गे शुल्ब-शुम्बे बटारकः ।गुणः स्त्रियौ रज्जु-तन्त्र्यौ वटी त्रिष्वथ सा यदि ॥ ३४ ॥
2.4.34 · p. 298
अनुष्टुप्metre not read in every line
पाणिभ्यां सृज्यते पाणिसर्या संकीर्त्तिता तदा ।वार्त्तावहो वीवधिको भवेद्विवधिकश्च सः ॥ ३५ ॥
2.4.35 · p. 298
अनुष्टुप्
तथा वैवधिकः स्त्री तु तादृग्वीवधिकी मता ।बद्धशिक्ये तूभयतः स्कन्धवाह्ये हि दारुणि ॥ ३६ ॥
2.4.36 · p. 298
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
वीवधो विवधश्चोभौ पर्याहारे समार्थकौ ।विहंगिका भा*[ र ]यष्टिः कथिता च विहंगमा ॥ ३७ ॥
2.4.37 · p. 298
अनुष्टुप्
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
2.4.39 · p. 298
अनुष्टुप्
निर्वेशः स्त्री तु भृत्या स्याद्भर्मण्या च भृतिर्विधा ॥ ३३ ॥
2.4.33 · p. 298
प्रैष्य-दासेर-दासेय-नियोज्य-परिचारकाः ।पराचित-परिस्कन्द-भुजिष्य-परिकर्मिणः ॥ ४१ ॥
2.4.41 · p. 298
अनुष्टुप्
डिङ्गरः किंकरो गोप्य-परजात-परैधिताः ।प्रेष्यः श्लिकुश्चाथ नीचो विवर्णश्च पृथग्जनः ॥ ४२ ॥
2.4.42 · p. 298
अनुष्टुप्
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
2.4.44 · p. 298
अनुष्टुप्
समौ चाण्डाल-चण्डालौ निषादश्च निषादिवत् ।चाण्डालकिस्तु चण्डालपुत्रो नैषादकिस्तथा ॥ ४६ ॥
2.4.46 · p. 299
अनुष्टुप्
पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः ।मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥
2.4.47 · p. 299
अनुष्टुप्
पादूकृच्चर्मकारः स्यात्स्त्री तूपानच्च पादुका ।पन्नद्धा स्यात्प्राणिहिता पादूः पादत्रमित्यपि ॥ ४८ ॥
2.4.48 · p. 299
अनुष्टुप्
आबद्धा तु पदं सानुपदीना परिकीर्तिता ।नध्री नर्ध्रा वरत्रा च*[व] ध्री वर्ध्रा च नध्र[146b]कः ॥ ४९ ॥
2.4.49 · p. 299
अनुष्टुप्metre not read in every line
सनंगव्या तदर्था सा सनंगुश्चर्मणोत्रि(भि?)दि ।स्याच्चर्मभेदिनी ह्यारा द्वयोश्चर्मप्रभेदिका ॥ ५० ॥
2.4.50 · p. 299
अनुष्टुप्
व्याधो मृगवधाजीवो लुब्धको मृगयुः पुमान् ।पालिशं मृगहिंसा भूः श्यैनंपाता पुनः स्त्रियाम् ।पापर्द्धिर्मृगयाऽऽखेटो मृगव्या क्लीबयोषितोः ॥ ४८ ॥
2.4.48 · p. 299
अनुष्टुप्
आच्छोदनं कुक्कुरस्तु कुकुरः कूकुरः शुनः ।शुनिश्च शुनकः श्वानश्चास्थिभुग्भुग्नवालधिः ॥ ४९ ॥
2.4.49 · p. 299
अनुष्टुप्
कौलेयकः सारमेयो मण्डली रात्रिजागरः ।रथ्यामृगश्च भषको रतशायी रतान्दुकः ॥ ५० ॥
2.4.50 · p. 299
अनुष्टुप्
रतकीलो ललज्जिह्वो जिह्वालिट् च रतव्रणः ।शालावृको दृतिहरिर्वाताण्डो मृगदंशकः ॥ ५१ ॥
2.4.51 · p. 299
अनुष्टुप्
उन्मत्तोऽसावलर्कः स्याद्विश्वकद्रुर्मृगव्यवित् ।सरमा तु शुनी प्रोक्ता शुनारोऽस्त्री शुनीपयः ॥ ५४ ॥
2.4.54 · p. 299
अनुष्टुप्
शुनःपुच्छादयो नाम्नि शुनीं पाता शुनिंधयः ।शौवः कुक्कुरसंकोचः शून्यं शुन्यं शुने हितम् ।शुनःपुच्छादयस्त्रय्यां कपाटघ्नः पुनर्मतः ।चोरश्चौरस्त[147a]स्करः स्यादैकागारिक-मोषकौ ।प्रतिरोधि-परास्कन्दि-पाटच्चर- मलिम्लुचाः ॥ ५५ ॥
2.4.55 · p. 299
अनुष्टुप्metre not read in every line
स्यात्पारिपन्थिकः कम्बूः कुम्भिलः शङ्कितोऽपि सः ।सुरङ्गादिचरः स्त्येनः स्तेनश्चोभौ न योषिति ॥ ५६ ॥
2.4.56 · p. 300
अनुष्टुप्
तद्भावे चौरिका चौर्यं स्तेयं स्तैन्यं च चौरिकम् ।लोप्त्रं त्वपहृतं द्रव्यं चौरी चोरी च तत्स्त्रियाम् ॥ ५७ ॥
2.4.57 · p. 300
अनुष्टुप्
पानध्वजी पानवणिक् शौण्डिको मण्डहारकः ।पानध्वजो वारिवास-कल्यपालासुतीवलाः ॥ ५८ ॥
2.4.58 · p. 300
अनुष्टुप्
सुराजीवोऽपि मद्यं तु कश्यं स्यात्कापिशायनम् ।मधु कल्यं न ना हाला वारुणी च हलिप्रिया ॥ ५९ ॥
2.4.59 · p. 300
अनुष्टुप्
मदयित्नुश्च मदना मदिष्ठा मदिरा इरा ।परिप्लुता कामसखी परिस्रुद्देवनिर्मिता ॥ ६० ॥
2.4.60 · p. 300
अनुष्टुप्
गन्धोत्तमा स्वादुरसा प्रसन्नाम्भोधिजा न ना ।कादम्बरी द्वयोः शुण्डानुतर्षे मण्डमस्त्रियाम् ।द्राक्षाकृते तु मद्ये स्याद्धारहूरं च कापिशम् ॥ ६१ ॥
2.4.61 · p. 300
अनुष्टुप्
मार्द्वीकं चाथ न स्त्री स्यात्सीधु मैरेयमासवम् ॥ ४३ ॥
2.4.43 · p. 300
शार्करो माधवो गौडः सितो मधुगुडादियुक् ।जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ६३ ॥
2.4.63 · p. 300
अनुष्टुप्
नग्नहुश्च पुमांसौ द्वौ मद्यबीजं नपुंसके ।आसुतिर्मद्यसंधा * [न]मासवोऽभिषवः समौ ॥ ६४ ॥
2.4.64 · p. 300
अनुष्टुप्
कारोत्तमः सुरामण्डो व्यापानं पानगोष्ठिका ।स्त्रियामरिष्टः क्वथितैर्यन्मद्यं भेषजैः कृतम् ॥ ६५ ॥
2.4.65 · p. 300
अनुष्टुप्
सरकश्चषकश्चास्त्री गल्वर्कोऽप्यनुतर्षणम् ।शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ६६ ॥
2.4.66 · p. 300
अनुष्टुप्
उपदंशावदंशौ द्वौ चक्षणं मद्यपाशनम् ।सुरापः स्यान्मद्यपिबो मत्तस्तूत्कट-शौण्डकौ ॥ ६७ ॥
2.4.67 · p. 300
अनुष्टुप्
क्षीबश्चामी विशेष्यघ्ना मद्यरोगो मदात्ययः ।पणो ना स्यादक्षवती कैतवं च दुरोदरम् ।दरोदरं द्यूतमस्त्री * * * * * * * * ॥ ६८ ॥
2.4.68 · p. 301
अनुष्टुप्metre not read in every line
दूरोदरं च न स्त्री स्यात्पाशक-प्रासकौ पुनः ।आकर्ष-देवनाक्षाश्च तत्पणस्तु ग्लहो नरि ॥ ६९ ॥
2.4.69 · p. 301
अनुष्टुप्
बिन्दुत्रिकद्वये तु स्यादक्षाणां दुन्दुभिः स्त्रियाम् ।आकर्षो ना शारिफलाष्टापदे च न योषिति ।शारिः[148a] पुमान्द्वयोः शारा खेलन्यासां समन्ततः ॥ ७० ॥
2.4.70 · p. 301
अनुष्टुप्metre not read in every line
नयने परिणायः स्यात्प्राणिद्यूतं समाह्वयः ।वञ्चुली तु स्त्रियां द्यूतक्रीडा स्यादम्लिकास्थिभिः ॥ ७१ ॥
2.4.71 · p. 301
अनुष्टुप्
धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो-ऽक्षद्यूश्च देवा च तथाक्षकृत्सः ।स्याद्द्यूतकारी सभिकोऽथ भेद्य-लिङ्गा मता योगभवा हि शब्दाः ॥ ७२ ॥
2.4.72 · p. 301
इन्द्रवज्रा
इति शूद्रवर्गः
कोषकल्पतरावस्मिन्विश्वनाथकवेः कृतौ ।द्वैतीयीको धराकाण्डो वर्गैर्दशभिरीरितः ॥ ७३ ॥
2.4.73 · p. 301
अनुष्टुप्