कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

देवदण्ड

devadaṇḍaपुं · masc.

In 3 kośas: 2 synonym verses, 2 as a nānārtha head word.

शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1347 · p. 164
मुसलस्त्वायसो देवदण्डो रत्निप्रमाणकः ।प्रत्याकारः परीवारः कोशोऽथास्त्रस्य शेखरः ॥ १३४७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.171 · p. 118
देवदण्डोऽरत्निमात्रो दीर्घो मुसलयष्टिकः ।द्रुघणे मुद्गरघनौ परिघः परिघातनः ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.286 · p. 50
एकत्र भेदे विद्यात् तु समासाद्यत्र पूर्ववत् ।देवदण्डस्तु नृनपोर्दण्डाकारायुधान्तरे ॥ २८६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.287 · p. 51
अरत्निमात्रे लिङ्गादि पूर्ववत् स्यादिहापि च ।ना तु देवमणिर्घोटगलदेशसमुद्भवे ॥ २८७ ॥
अनुष्टुप्
doubtful