कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · क्षत्रियाध्यायः (2/2)

अथ धौरितकं धौर्यं धौरितं धौरणं च तत् ।तच्च कंकशिखिक्रोडनकुलानां गतैः समम् ॥ १२१ ॥
3.7.121 · p. 114
अनुष्टुप्
रेचितं स्याद्भारवहं तच्चावक्रगतिर्द्रुता ।वल्गितं वल्गनं पद्भिर्भेदाश्चाष्टौ यमादयः ॥ १२२ ॥
3.7.122 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्भा (wrong syllable)
प्लुतं तु लंघनं पक्षिमृगधर्मेण भिद्यते ।यानं सांयात्रिकं युग्यं वाहनं वाह्यधोरणे ॥ १२३ ॥
3.7.123 · p. 114
अनुष्टुप्
योग्यं चास्मिंश्चक्रयुते शतांगः स्यन्दनो रथः ।वहित्रं वहनं चास्मिंश्चतुरश्रे सकूबरे ॥ १२४ ॥
3.7.124 · p. 114
अनुष्टुप्
दीर्घद्विपक्षवहनमनः क्ली शकटोऽस्त्रियाम् ।प्रवाहिर्ना वृत्तमध्ये पक्षकूबरवर्जिते ॥ १२५ ॥
3.7.125 · p. 114
अनुष्टुप्
देवतार्थो देवरथो युद्धार्थः सांपरायिकः ।क्रीडार्थः स्यात् पुष्यरथः कृतः कर्णीरथो मृदा ॥ १२६ ॥
3.7.126 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
कर्णीरथं प्रवहणं हयनं रथगर्भके ।गन्त्री स्त्री कूबरं न स्त्री रथे कंबलिवाह्यके ॥ १२७ ॥
3.7.127 · p. 114
अनुष्टुप्
रथस्तु जयकृज्जैत्रो यात्रार्थः पारियाणिकः ।रथेऽत्र द्वैपवैयाघ्रौ प्रावृते व्याघ्रचर्मणा ॥ १२८ ॥
3.7.128 · p. 114
अनुष्टुप्
वृते रथे पाण्डुभिः स्यात्कंबलैः पाण्डुकंबली ।एवं कांबलवास्त्राद्याः कंबलादिभिरावृते ॥ १२९ ॥
3.7.129 · p. 114
अनुष्टुप्
योग्यारथो वैनयिको जैत्रप्रभृतयस्त्रिषु ।धूः स्त्री धुर्वी यानमुखं युगमीषान्तबन्धनम् ॥ १३० ॥
3.7.130 · p. 114
अनुष्टुप्
कस्तंभि युगमध्येऽस्त्री स्यादक्षश्चक्रधारणम् ।अक्षकीले त्वणिर्न क्ली ध्रुवः कीलोऽप्यनिर्न षण् ॥ १३१ ॥
3.7.131 · p. 114
अनुष्टुप्
रथनीडो रथस्यान्तं बन्धुरा तनुकूबरम् ।रथगुप्तिर्वरूथो ना कूबरो ना युगन्धरः ॥ १३२ ॥
3.7.132 · p. 115
अनुष्टुप्
अनुकर्षो रथस्याधोधरणन्दार्वथानसः ।युगो द्वितीयः प्रासंगः पताका तु ध्वजोऽस्त्रियाम् ॥ १३३ ॥
3.7.133 · p. 115
अनुष्टुप्
अस्योच्चूडावचूडौ द्वावूर्ध्वाधोमुखचूडकौ ।अरि चक्रं रथपदं रथांगं केशवायुधम् ॥ १३४ ॥
3.7.134 · p. 115
अनुष्टुप्
स्त्री नेमिर्ना प्रधिश्चक्रप्रान्ते तुंबा तु नाभिका ।अरास्तयोः स्थिता मध्ये रथांगानि त्वपस्कराः ॥ १३५ ॥
3.7.135 · p. 115
अनुष्टुप्
शिबिका याप्ययानं स्याद्दोला हेलार्थरूपणम् ।प्रेंखोलनं तु प्रेंखोलं प्रेंखो रिङ्खोलनाद्यपि ॥ १३६ ॥
3.7.136 · p. 115
अनुष्टुप्
आन्दोलनं स्यादान्दोलो दोला स्याद्दोलिकापि च ।परंपरावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ १३७ ॥
3.7.137 · p. 115
अनुष्टुप्
नियन्ता प्राजिता क्षत्ता यन्ता सूतश्च सारथिः ।सव्येष्ठो दक्षिणेस्थश्च स्यन्दने पार्ष्णिसारथिः ॥ १३८ ॥
3.7.138 · p. 115
अनुष्टुप्
सेवका युधि योद्धॄणां भटा यौधाश्च यौधकाः ।पदातिपत्तिपादातपदातिकपदाजयः ॥ १३९ ॥
3.7.139 · p. 115
अनुष्टुप्
पातिकः पादिकः पद्गो रथिको रथिनो रथी ।सेनास्थाः सैनिकाः सैन्याः सेनारक्षास्तु सैनिकाः ॥ १४० ॥
3.7.140 · p. 115
अनुष्टुप्
पार्ष्णिग्राहास्तु पृष्ठस्थाः साहस्रास्तु सहस्रिणः ।परिधिस्थाः परिचराः सेनानीर्वाहिनीपतिः ॥ १४१ ॥
3.7.141 · p. 115
अनुष्टुप्
दंशिते स्युः कवचितसज्जसन्नद्धवर्मिताः ।आबद्धः पुनरामुक्तः प्रतिमुक्तः पिनद्धवत् ॥ १४२ ॥
3.7.142 · p. 115
अनुष्टुप्
काण्डपृष्ठस्त्वायुधिक आयुधीयोऽस्त्रजीवनः ।धन्वी धनुष्मान् धानुष्को निषंग्यस्त्री धनुर्धरः ॥ १४३ ॥
3.7.143 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
चर्मी शाक्तीकयाष्टीकपारश्वधिककौन्तिकाः ।काण्डीरखाड्गिकाद्याश्च चर्मशक्त्यादिधारिणः ॥ १४४ ॥
3.7.144 · p. 116
अनुष्टुप्
छायाकरश्छत्रधरः पताकी वैजयन्तिकः ।पुरस्सरः पुरोगोऽग्रेसरः प्रष्ठोऽग्रतः सरः ॥ १४५ ॥
3.7.145 · p. 116
अनुष्टुप्
पुरोगमः पुरोगामी यस्त्वलं यात्यरीन् प्रति ।सोऽभ्यमित्र्योऽभ्यमित्रीणोऽप्यभ्यमित्रीय इत्यपि ॥ १४६ ॥
3.7.146 · p. 116
अनुष्टुप्
शूरो वीरश्च विक्रान्तः पटुश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयिजित्वरौ ॥ १४७ ॥
3.7.147 · p. 116
अनुष्टुप्
शक्ये तु जेतुं जय्यः स्याज्जेयो जेतव्यमात्रके ।जैत्रो जेता जितो भग्नः कृतहस्तस्तु शिक्षितः ॥ १४८ ॥
3.7.148 · p. 116
अनुष्टुप्
लघुहस्तः सुहस्तश्च कृतास्त्रः कृतपुंखकः ।सांयुगीनो रणे साधुरत्यंतीनो भृशंगते ॥ १४९ ॥
3.7.149 · p. 116
अनुष्टुप्
कामंगाम्यनुकामीनो जवी तु जवनो जवः ।जंघालोऽतिजवे धीरमन्थरौ मन्दगामिनि ॥ १५० ॥
3.7.150 · p. 116
अनुष्टुप्
स्यादुरस्वानुरसिल ऊर्जस्व्यूर्जस्वलोर्जितौ ।बली प्रबल ओजस्वी वाच्यवद्रथिकादयः ॥ १५१ ॥
3.7.151 · p. 116
अनुष्टुप्
संशप्तकास्तु संग्रामात् समयेनानिवर्तिनः ।त्वत्क्रन्तु दंशनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १५२ ॥
3.7.152 · p. 116
अनुष्टुप्
माठिः स्त्री जागरो वक्षश्छदः सन्नाहकंकटौ ।तत्सूत्रकं सूत्रमयं जालिका स्यादयोमयी ॥ १५३ ॥
3.7.153 · p. 116
अनुष्टुप्
नागोदर्युदरत्राणं जंघात्राणं तु मत्कुणम् ।पट्टस्तु लिपिसन्नाहः प्रकोष्ठादौ कृतो यथा ॥ १५४ ॥
3.7.154 · p. 116
अनुष्टुप्
बाहुलं बाहुरक्षा च मर्दनी पादरक्षणी ।गोधा तला च न नरौ हस्तघ्नो ज्यानिवारणे ॥ १५५ ॥
3.7.155 · p. 116
अनुष्टुप्
अंगुलित्रे कपी शीर्षत्राणे शीर्षण्यशीर्षके ।अधिकांगं सारसनं मध्ये धार्यं सकंकटैः ॥ १५६ ॥
3.7.156 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ।न क्ली हेतिः शस्त्रमस्त्रमायुच्छत्रुघ्नमायुधम् ॥ १५७ ॥
3.7.157 · p. 117
अनुष्टुप्
ऋष्टिः खङ्गः प्रचारोऽसिर्धर्मपालः प्रजागरः ।धर्मो विशसनो देवो मनुष्येष्टः शिवंकरः ॥ १५८ ॥
3.7.158 · p. 117
अनुष्टुप्
श्रीगर्भो विजयः शास्ता कृपाणासंगरिष्टयः ।कौक्षेयको भद्रसुतो ह्रस्वनिर्वंशकस्त्वसिः ॥ १५९ ॥
3.7.159 · p. 117
अनुष्टुप्
स्नुहीदलाभो निस्त्रिंशो मण्डलाग्रोऽन्वितार्थकः ।चन्द्रहासोऽर्धचन्द्राग्र इली तु करवालिका ॥ १६० ॥
3.7.160 · p. 117
अनुष्टुप्
जंबूगर्तस्तु खड्गांबु न्यस्ततैलरुचिर्यदि ।वराभोऽनिल एरण्डबीजाभपुलकावलिः ॥ १६१ ॥
3.7.161 · p. 117
अनुष्टुप्
हुष्टुतः पुलकैरण्डः सितदीर्घानवस्थितैः ।हरकस्तरवारिः स्त्री यष्टिश्चापि मृदौ पृथौ ॥ १६२ ॥
3.7.162 · p. 117
अनुष्टुप्
कुण्डलो दीर्घनिर्वंशे पुलकास्त्वणुराजयः ।अथासिपुत्री क्षुरिका शस्त्रिका चासिधेनुका ॥ १६३ ॥
3.7.163 · p. 117
अनुष्टुप्
सातिदीर्घा पत्रफला कुट्टन्ती हुलमात्रिका ।पट्टसो लोहदण्डो यस्तीक्ष्णधारः खुरोपमः ॥ १६४ ॥
3.7.164 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
कण्टकच्छेदनोऽप्येवं द्विमुखश्च भवत्यसौ ।प्रासः कुन्तो हाटकस्तु स त्रिकण्टकसंत्थितः ॥ १६५ ॥
3.7.165 · p. 117
अनुष्टुप्
भिण्डिपालः क्षेपणीयः सृगो दीर्घे महाफले ।तोमरोऽस्त्री लोहहुलदण्डे कासूश्च सर्वला ॥ १६६ ॥
3.7.166 · p. 117
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
कणयो लोहमात्रोऽथ शंकुर्ना शल्यमस्त्रियाम् ।वराहकर्णकोऽन्वर्थः क्षुरिकाद्या हुलाग्रकाः ॥ १६७ ॥
3.7.167 · p. 117
अनुष्टुप्
हुलं द्विफलपत्राग्रं मुनयोऽस्त्र्यस्य शेखरम् ।प्रत्याकारपरीवारौ कोशो मुष्टौ त्सरुः पुमान् ॥ १६८ ॥
3.7.168 · p. 118
अनुष्टुप्
शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ।अयःकण्टकसंच्छन्ना शतघ्न्येव महाशिला ॥ १६९ ॥
3.7.169 · p. 118
अनुष्टुप्
भुसुण्ठी स्याद्दारुमयी वृत्तायःकीलसंचिता ।हस्तिचारो गजत्रासहेतुः शरभसन्निभः ॥ १७० ॥
3.7.170 · p. 118
अनुष्टुप्
देवदण्डोऽरत्निमात्रो दीर्घो मुसलयष्टिकः ।द्रुघणे मुद्गरघनौ परिघः परिघातनः ॥ १७१ ॥
3.7.171 · p. 118
अनुष्टुप्
अस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् ।कार्मुकं धन्व कोदण्डमायुधाग्र्यं शरासनम् ॥ १७२ ॥
3.7.172 · p. 118
अनुष्टुप्
कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यंगुलं विना ।कार्मुकात्तु क्रमात् पंच विद्धायुधशरायुधे ॥ १७३ ॥
3.7.173 · p. 118
अनुष्टुप्
गोतमं रथायुधकं कोसलं गाण्डिवोऽस्त्रियाम् ।पातनं मार्गणं चेति द्विगुणानि यथोत्तरम् ॥ १७४ ॥
3.7.174 · p. 118
अनुष्टुप्metre not read in every line
उच्चलं ब्रह्मदण्डश्च वैशिखं बिंबसारकम् ।द्विगुणानि क्रमादाद्यं त्वष्टोत्तरशतांगुलम् ॥ १७५ ॥
3.7.175 · p. 118
अनुष्टुप्
केतनं पंचविंशत्या पलैर्द्वे द्विगुणे परे ।करीरपृष्ठं व्यासं च सहितं तु शतैस्त्रिभिः ॥ १७६ ॥
3.7.176 · p. 118
अनुष्टुप्
पलानां पंचभिस्त्वेषां शतैः स्यात्सहितोत्तरम् ।लस्तको धनुषो मध्यमग्रं लुस्तमटन्यपि ॥ १७७ ॥
3.7.177 · p. 118
अनुष्टुप्
अर्तिरार्तिः किरिः कोटी ज्या जीवा मौर्विका द्रुणा ।तूणी तूण उपासंगतूणीरौ विशिखाश्रयः ॥ १७८ ॥
3.7.178 · p. 118
अनुष्टुप्
निषंग इषुधिर्न क्ली पत्री तु विशिखः खगः ।पृषत्को रोपणो बाणः कलंबो मर्मभेदनः ॥ १७९ ॥
3.7.179 · p. 118
अनुष्टुप्
चित्रपुंखो वीरशंकुः शरो रोध इषुर्न षण् ।प्रक्ष्वेलनस्तु नाराच एषणश्चायसे शरे ॥ १८० ॥
3.7.180 · p. 119
अनुष्टुप्
अर्धशल्योऽर्धनाराचः कंकपत्रः शिलीमुखः ।त्रिभागशल्यनाराचे द्वौ दण्डासनदण्डिकौ ॥ १८१ ॥
3.7.181 · p. 119
अनुष्टुप्
अर्धचन्द्रः क्षुरप्रः स्याद्विकर्णिः कर्णिकारलः ।स्नुहीदलफलो भल्लश्चिपाटोऽल्पस्तदाकृतिः ॥ १८२ ॥
3.7.182 · p. 119
अनुष्टुप्
पाददण्डोऽन्वितार्थः स्यात् बाणस्तु गतपत्रणः ।तीरी त्वल्पा वेगवती त्वग्बलाः शरजालकाः ॥ १८३ ॥
3.7.183 · p. 119
अनुष्टुप्
अयः शलाका कूटोऽस्त्री पत्रकूटः सपत्रणः ।द्विद्वाविंशत्यंगुलिः स्यान्निचोटे द्व्यंगुलोत्तरा ॥ १८४ ॥
3.7.184 · p. 119
अनुष्टुप्
स्युश्चोटलिंगकस्तालः कुलिको बिंबसारकः ।कर्तरी पुंख आराग्रं त्वग्रं वाजश्छदावलिः ॥ १८५ ॥
3.7.185 · p. 119
अनुष्टुप्
पत्रणा पक्षरचना धारा शस्त्रमुखं फलम् ।स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् ॥ १८६ ॥
3.7.186 · p. 119
अनुष्टुप्
त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृती ।अन्वर्थं स्यात्समपदमालीढं तु ततेऽग्रतः ॥ १८७ ॥
3.7.187 · p. 119
अनुष्टुप्
दक्षिणे वाममाकुंच्य प्रत्यालीढं विपर्यये ।वैहायसं च वेधे तु योगावाप उपक्रमः ॥ १८८ ॥
3.7.188 · p. 119
अनुष्टुप्
हस्तावापः शरादानं प्रमाथो लस्तकग्रहः ।मुष्ट्यायोजनमादानमिषोर्ज्यायां समूहनम् ॥ १८९ ॥
3.7.189 · p. 119
अनुष्टुप्
वितानं संहितस्येषोः किंचिदेव विकर्षणम् ।निमित्तग्रहणं लक्ष्यग्रहो बुद्धिदृगादिना ॥ १९० ॥
3.7.190 · p. 119
अनुष्टुप्
आकर्णकर्षणं पूर्णमायामं त्वंगुलाधिकम् ।ततोऽप्यर्धांगुलाकृष्टसंधानं तेजनं न ना ॥ १९१ ॥
3.7.191 · p. 119
अनुष्टुप्
मुष्टिमान्द्यं निर्हरणं व्यवच्छेदस्तु मोक्षणम् ।कैराती गतिरूर्ध्वाथ प्रकर्षस्तु गतेर्लयः ॥ १९२ ॥
3.7.192 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
दृढदुष्करचित्राणि कर्माणि हरणानि च ।मुचुटी सिंहकर्णी च पताका चेति मुष्टयः ॥ १९३ ॥
3.7.193 · p. 120
अनुष्टुप्
लक्षं तु लक्षणं लक्ष्यमभिसन्धानमासिकम् ।वेध्यं शरव्यं न नरि श्रमस्थानं खलूरिका ॥ १९४ ॥
3.7.194 · p. 120
अनुष्टुप्
योग्याभ्यासः परिचयो बाणाभ्यास उपासनम् ।शक्त्याद्यस्त्रं पाणिमुक्तं यन्त्रमुक्तं शरादिकम् ॥ १९५ ॥
3.7.195 · p. 120
अनुष्टुप्
मुक्तामुक्तं धृतं मुक्तं नागपाशादिदीर्घकम् ।अमुक्तं छुरिकादि स्यादिति शस्त्रं चतुर्विधम् ॥ १९६ ॥
3.7.196 · p. 120
अनुष्टुप्
धौते निशातन्निशितं क्ष्णुतं तेजितमर्थवत् ।फलं चर्ममयं चर्म फलकं खेटकं समम् ॥ १९७ ॥
3.7.197 · p. 120
अनुष्टुप्
अन्तर्लोहेन बद्धान्ते फलान्ते स्याद्वलाहका ।हस्तिकर्णः परोवण्टः फली फलकिकाल्पिका ॥ १९८ ॥
3.7.198 · p. 120
अनुष्टुप्
कावाटो लघुकाष्ठः स्यात्सयष्टिर्यष्टिवारणः ।कटिका सूत्रसंस्यूता शलाकाः परिमण्डलाः ॥ १९९ ॥
3.7.199 · p. 120
अनुष्टुप्
अड्डनं सैव वेत्राद्यैः संग्राहो मुष्टिरेषु या ।लोहाभिहार उद्योगे राज्ञां नीराजनाविधिः ॥ २०० ॥
3.7.200 · p. 120
अनुष्टुप्
यत्सेनयाभिनिर्याणं पत्युस्तदभिषेणनम् ।आसारस्तु प्रसरणी प्रचक्रं चलितार्थकम् ॥ २०१ ॥
3.7.201 · p. 120
अनुष्टुप्
विरतं तु भटोद्योगोऽभिक्रमो यानमभ्यरीन् ।वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे ॥ २०२ ॥
3.7.202 · p. 120
अनुष्टुप्
नासीरोऽस्त्र्यग्रयानं स्यादवस्कन्दस्तु सौप्तिकः ।मृधमास्कन्दनं युद्धं समिकं सांपरायिकम् ॥ २०३ ॥
3.7.203 · p. 120
अनुष्टुप्
आयोधनं रणं संख्यं प्रथनं प्रविदारणम् ।संप्रहारसमाघातकलिसंस्फोटसंयुगाः ॥ २०४ ॥
3.7.204 · p. 121
अनुष्टुप्
अभिमर्दाभिसंपातप्रघाताभ्यागमाहवाः ।समुदायः समुदयः सम्मर्दः संगरः स्पशः ॥ २०५ ॥
3.7.205 · p. 121
अनुष्टुप्
संग्रामः समरोऽस्त्री स्त्री संयदायुच्च युत् समित् ।वीराशंसनमाजेर्भूर्घोरा लोलो महारणम् ॥ २०६ ॥
3.7.206 · p. 121
अनुष्टुप्
नियुद्धं बाहुयुद्धं स्यादवमर्दस्तु पीडनम् ।अभ्यवस्कन्दनं त्वभ्यासादनं स्खलितं चलम् ॥ २०७ ॥
3.7.207 · p. 121
अनुष्टुप्
अविषादो धृतिर्धैर्यमवष्टंभस्तु सौष्ठवम् ।वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका ॥ २०८ ॥
3.7.208 · p. 121
अनुष्टुप्
प्रसभोऽस्त्री बलात्कारो हठश्च विजयो जयः ।प्रतीकारो वैरशुद्धिरपदानं पराक्रमः ॥ २०९ ॥
3.7.209 · p. 121
अनुष्टुप्
शौर्यं वीर्यमथ स्थाम बलं शुष्म तरः सहः ।नाशस्त्वपक्रमोऽपायो विप्रयाणं पलायनम् ॥ २१० ॥
3.7.210 · p. 121
अनुष्टुप्
सन्द्रवोद्द्रावसन्द्रावप्रद्रावद्रवविद्रवाः ।विशस्तु घात उन्मन्थो विशरः प्रमथो वधः ॥ २११ ॥
3.7.211 · p. 121
अनुष्टुप्
निर्वासनं निहननं निबर्हणनिषूदने ।निस्तर्हणं निशरणं निकारणनिशुम्भने ॥ २१२ ॥
3.7.212 · p. 121
अनुष्टुप्
निर्वापणं निरसनं निर्ग्रन्थननिहिंसने ।प्रमापणं प्रमथनं प्रवासनमपासनम् ॥ २१३ ॥
3.7.213 · p. 121
अनुष्टुप्
परासनं विशसनं मारणं प्रतिघातनम् ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २१४ ॥
3.7.214 · p. 121
अनुष्टुप्
उज्जासनं संज्ञपनं क्वाथनं प्रविसारणम् ।व्यापादनञ्च हिंसा च कदनं संकुलो वधः ॥ २१५ ॥
3.7.215 · p. 121
अनुष्टुप्
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपस्तु शवोऽस्त्रियाम् ।शवयानं कटः खाटिश्चिता चित्या चितिः स्त्रियाम् ॥ २१६ ॥
3.7.216 · p. 122
अनुष्टुप्
अरुः क्षतं ना क्षणितुर्व्रणोऽपीर्मोऽपि न स्त्रियौ ।किणो रूढं व्रणस्थाने तुमुलं रणसंकुलम् ॥ २१७ ॥
3.7.217 · p. 122
अनुष्टुप्
जितकाशी जितरणः कान्दिशीको भयद्रुतः ।अपराद्धशरोऽसौ स्याद्यस्य लक्षाच्च्युतः शरः ॥ २१८ ॥
3.7.218 · p. 122
अनुष्टुप्
पराजितः पराभूतः प्रणष्टस्त्वगृहीतदिक् ।प्रस्कन्नपतितौ ध्वस्ते मूढे मूर्च्छालमूर्छितौ ॥ २१९ ॥
3.7.219 · p. 122
अनुष्टुप्
परासुरुपसंपन्नः प्रमीतः संस्थितो मृतः ।जीवो जीवनं कीनादूर्ध्वं त्रिषु जीवस्तु जीवितम् ॥ २२० ॥
3.7.220 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आयुर्जीवितकाले क्ली जीवातुर्जीवितागदः ॥ २२०.५ ॥
3.7.221 · p. 122