All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (5/9)
लोहे घण्टास्वनं लिङ्गसमासाद्यत्र पूर्ववत् ।चराचरं क्ली भुवने जङ्गमे तु त्रिषु स्मृतम् ॥ २१५ ॥
6.215 · p. 44
अनुष्टुप्
चरस्याप्यचरस्यापि समासाद्यत्र तर्क्यताम् ।चतुरन्ता स्त्रियां भूमौ समासादिकमूह्यताम् ॥ २१६ ॥
6.216 · p. 44
अनुष्टुप्
अथो चतुर्दशानां त्रिः पूरणे स्याच्चतुर्दशः ।स्त्रियां तु वीणाभेदे स्याद् यस्य तन्त्र्यश्चतुर्दश ॥ २१७ ॥
6.217 · p. 44
अनुष्टुप्
चतुर्दशी सा तत्रासौ महेशस्य तिथावपि ।चतुष्पथं क्ली शृङ्गाटे ब्राह्मणे तु पुमानयम् ॥ २१८ ॥
6.218 · p. 44
अनुष्टुप्
चतुर्वर्गः पुमान् धर्मकामार्थादिचतुष्टये ।समासादिकमुन्नेयं चक्रपादस्तु ना रथे ॥ २१९ ॥
6.219 · p. 45
अनुष्टुप्
गजे द्वे चक्रवालस्तु लोकालोकगिरौ पुमान् ।क्ली तु दिङ्मण्डलेऽथ क्ली चतुःसममिति ध्वनिः ॥ २२० ॥
6.220 · p. 45
अनुष्टुप्
चन्दनागरुकर्पूरकुङ्कुमैः कृतकर्दमे ।अर्थलिङ्गसमासाश्च कल्प्यन्तामत्र पूर्ववत् ॥ २२१ ॥
6.221 · p. 45
अनुष्टुप्
चतुर्गतिर्द्वयोः कूर्मे समासाद्यत्र पूर्ववत् ।चक्रवर्ती तु ना सार्वभौमे स्त्री चक्रवर्तिनी ॥ २२२ ॥
6.222 · p. 45
अनुष्टुप्
स्थावरे जन्तुकृत्संज्ञे समासाद्यत्र पूर्ववत् ।चन्द्रभागस्तु ना शैलविशेषेंऽशे च शीतगोः ॥ २२३ ॥
6.223 · p. 45
अनुष्टुप्
स्त्रियां तु देवताभेदे चन्द्रभागाथ केचन ।चन्द्रभागा चन्द्रभागीत्येवं द्वैरूप्यमभ्यधुः ॥ २२४ ॥
6.224 · p. 45
अनुष्टुप्
अवृद्धप्रातिपदिकान्नदीभेदे च केचन ।चान्द्रभागा चान्द्रभागीत्येवं वृद्धाद्द्विरूपताम् ॥ २२५ ॥
6.225 · p. 45
अनुष्टुप्
नदीभेदे विदुश्चान्द्रभागं तु त्रिषु भूभृतः ।चन्द्रभागस्य सम्बन्धिन्यत्राप्यर्थादि पूर्ववत् ॥ २२६ ॥
6.226 · p. 45
अनुष्टुप्
चाटुकारस्तु ना हारभेदे हेमगुडैः कृते ।यष्टिमात्रे त्रिषु त्वेष विज्ञेयः स्यात् प्रियंवदे ॥ २२७ ॥
6.227 · p. 45
अनुष्टुप्
चारुनालं रक्तपद्मे क्ली समासादि पूर्ववत् ।मत्स्यभेदे चिलिचिमो द्वयोर्हैमवते तु ना ॥ २२८ ॥
6.228 · p. 45
अनुष्टुप्
वृक्षभेदे तस्य पुष्पफलयोः स्यान्नपुंसकम् ।चन्द्रे चित्ररथः पुंसि राजभेदे चिरन्तने ॥ २२९ ॥
6.229 · p. 45
अनुष्टुप्
पूर्ववत् स्यात् समासादि चित्रपर्णी पुनः स्त्रियाम् ।लताजात्यन्तरे पृश्निपर्ण्याख्येऽर्थादि पूर्ववत् ॥ २३० ॥
6.230 · p. 46
अनुष्टुप्
चित्रपक्षः पक्षिभेदे द्वे कपिञ्जलसंज्ञके ।पूर्ववत् स्यात् समासादि चिरजीवी विरिञ्चने ॥ २३१ ॥
6.231 · p. 46
अनुष्टुप्
पुंसि द्वयोस्तु काके स्यात् समासाद्यत्र पूर्ववत् ।चिरमेही गर्दभे द्वे समासाद्यत्र पूर्ववत् ॥ २३२ ॥
6.232 · p. 46
अनुष्टुप्
चुडामणिः स्त्री गुञ्जायां पुंस्त्रियोस्तु शिरोमणौ ।उद्याने राजराजस्य क्लीबं चैत्ररथं विदुः ॥ २३३ ॥
6.233 · p. 46
अनुष्टुप्
अहीनक्रतुभेदे तु द्विरात्रे मन्मथे च ना ।त्रि तु चित्ररथस्य स्यात् सम्बन्धिन्यथ ना भवेत् ॥ २३४ ॥
6.234 · p. 46
अनुष्टुप्
छायाकरश्छत्रधारे समासाद्यत्र पूर्ववत् ।जलाशयमुशीरे क्ली जलाधारे तु पुंस्ययम् ॥ २३५ ॥
6.235 · p. 46
अनुष्टुप्
जडाभिप्रायके तु त्रिरथ द्वे स्याज्जलप्रियः ।वराहेऽत्र समासादि पूर्ववत् स्यादथ स्त्रियाम् ॥ २३६ ॥
6.236 · p. 46
अनुष्टुप्
गवेथौ स्याज्जतुफला पुंसि तूदुम्बरद्रुमे ।अथ जन्तुरथः क्षुद्रमृगभेदे द्वयोरपि ॥ २३७ ॥
6.237 · p. 46
अनुष्टुप्
कोद्रङ्ग इति विख्याते समासादीह पूर्ववत् ।जघन्यजस्तु द्वे शूद्रे त्रि तु स्यादनुजे तथा ॥ २३८ ॥
6.238 · p. 46
अनुष्टुप्
जाते जघन्यादथ ना ताते जनयिता तथा ।जनयित्री मातरि स्त्री त्रि तुत्पादकमात्रके ॥ २३९ ॥
6.239 · p. 46
अनुष्टुप्
जातरूपं सुवर्णे क्ली रूप्ये चार्थादि पूर्ववत् ।जालपादो द्वयोर्हंसे राजहंसे तु दत्तकः ॥ २४० ॥
6.240 · p. 46
अनुष्टुप्
कुक्कुटे वैजयन्त्यां तु तं पठत्यम्बुकुक्कुटे ।जालाकारस्तु पादोऽस्ति येषां त्रिस्तेषु पक्षिषु ॥ २४१ ॥
6.241 · p. 47
अनुष्टुप्
जारद्गवी तु स्त्री योगियानमार्गस्य दक्षिणा ।या वीथिस्तत्र मार्गस्य पुनस्तस्यान्तरिक्षगे ॥ २४२ ॥
6.242 · p. 47
अनुष्टुप्
स्थाने जारद्गवं क्लीबं त्रिर्जरद्गवयोगिनि ।जीवनीया तु जीवन्तीसंज्ञशाकलतान्तरे ॥ २४३ ॥
6.243 · p. 47
अनुष्टुप्
काकाङ्गीसंज्ञके च स्त्री जीवितव्ये जले च नप् ।जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ २४४ ॥
6.244 · p. 47
अनुष्टुप्
पुल्लिँङ्गोऽत्राप्यर्थलिङ्गसमासाः पूर्ववत् स्मृताः ।जुहुराणस्तु ना वह्नावध्वर्यावनडुह्यपि ॥ २४५ ॥
6.245 · p. 47
अनुष्टुप्
अश्वे द्वे कुटिले तु त्रिरथ जैवातृकः पुमान् ।चन्द्रे च परिखायां च परिघेऽथ द्वयोः शुके ॥ २४६ ॥
6.246 · p. 47
अनुष्टुप्
धने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः ।तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥
6.247 · p. 47
अनुष्टुप्
तप्तव्ये त्रिरथो तन्तुवायो लूताक्रिमौ द्वयोः ।कुविन्देऽप्यथ कामस्य तिथौ स्त्री स्यात् त्रयोदशी ॥ २४८ ॥
6.248 · p. 47
अनुष्टुप्
स्यात् त्रयोदशतन्त्रीके वीणाभेदेऽप्यथ त्रिषु ।त्रयोदशानां वस्तूनां पूरणेऽथाह यादवः ॥ २४९ ॥
6.249 · p. 47
अनुष्टुप्
तरवारिः स्त्रियां यष्टिनामधेयायुधान्तरे ।पुमांसं सायके प्राह शैषिकोऽथोष्णदीधितेः ॥ २५० ॥
6.250 · p. 47
अनुष्टुप्
त्रसरेणुः प्रभाख्यायां (पत्न्यां) स्त्री रजसि त्वयम् ।जालसूर्यमरीचिस्थे त्रिरथो तालपर्ण्यसौ ॥ २५१ ॥
6.251 · p. 47
अनुष्टुप्metre not read in every line
स्त्री मुरासंज्ञभैषज्ये समासाद्यत्र पूर्ववत् ।तालपत्री स्त्रियां वाद्यविशेषे तालसंज्ञके ॥ २५२ ॥
6.252 · p. 47
अनुष्टुप्
कर्णाभरणसंज्ञे तु नप्स्त्रियोः सादि पूर्ववत् ।स्थावरे त्रायमाणा स्त्री त्रायन्तीसंज्ञके त्रिषु ॥ २५३ ॥
6.253 · p. 48
अनुष्टुप्
रक्षके ताम्रचूडस्तु द्वयोः कुक्कुटपक्षिणि ।पूर्ववच्चात्र लिङ्गादि ताम्रवृन्तस्तु पुंस्ययम् ॥ २५४ ॥
6.254 · p. 48
अनुष्टुप्
कुलत्थेऽत्र समासादि पूर्ववच्चात्र(?)तर्कयेत् ।तिन्दिडीका स्त्रियां पुंसि चिञ्चासंज्ञकपादपे ॥ २५५ ॥
6.255 · p. 48
अनुष्टुप्
क्लीबे तु वैजयन्त्याह वृक्षे तस्मात् त्रिलिङ्गता ।क्ली तु वृक्षाम्लसंज्ञेऽस्य फले स्याच्चाम्बुवेतसे ॥ २५६ ॥
6.256 · p. 48
अनुष्टुप्
त्रिसुगन्धं तु जानीयादेलात्वक्पत्रकत्रये ।नपुंसकं समासाद्यलिङ्गान्यत्रापि पूर्ववत् ॥ २५७ ॥
6.257 · p. 48
अनुष्टुप्
त्रिविक्रमस्तु ना विष्णोरवतारान्तरेऽत्र च ।पूर्ववत् स्यात् समासादि पुल्लिँङ्गस्तु त्रिकण्टकः ॥ २५८ ॥
6.258 · p. 48
अनुष्टुप्
शृङ्गाटक इति ख्याते जलजस्थावरान्तरे ।गोक्षुरेऽपि स्त्रियां स्नुह्यामत्राप्यर्थादि पूर्ववत् ॥ २५९ ॥
6.259 · p. 48
अनुष्टुप्
त्रिवलीकं गुदे क्लीबमत्राप्यर्थादि पूर्ववत् ।तिर्यग्गामी तु ना शुक्रग्रहेऽर्थाद्यत्र पूर्ववत् ॥ २६० ॥
6.260 · p. 48
अनुष्टुप्
तीक्ष्णगन्धस्तु ना शिग्रौ तथा श्वेतकठिञ्जरे ।अत्रापि पूर्ववत् सादि तुलाकोटिस्तु नूपुरे ॥ २६१ ॥
6.261 · p. 48
अनुष्टुप्
पुमानत्रापि लिङ्गादि पूर्ववत् स्यादथो पुमान् ।वसुभट्ट इति ख्याते तूलपुष्पो द्रुमान्तरे ॥ २६२ ॥
6.262 · p. 48
अनुष्टुप्
अत्रापि पूर्ववत् सादि तृणराजस्तु पुस्ययम् ।हिन्ताले तालवृक्षे च समासाद्यत्र पूर्ववत् ॥ २६३ ॥
6.263 · p. 48
अनुष्टुप्
तृणशून्यं मल्लिकायां क्ली समासादि पूर्ववत् ।पुंसि त्वम्लगुणे दन्तशठो भव्यकपित्थयोः ॥ २६४ ॥
6.264 · p. 49
अनुष्टुप्
जम्बीरे च स्त्रियां तु स्याच्चाङ्गेरीतिन्तिडीकयोः ।इथं दन्तशरेऽमीषां वृक्षाणां स्यात् फले नपि ॥ २६५ ॥
6.265 · p. 49
अनुष्टुप्
त्रिषु त्वम्लगुणोपेतद्रव्ये दधिमुखस्तु ना ।सुग्रीवानुचरे क्वापि कपिमात्रेऽपि स द्वयोः ॥ २६६ ॥
6.266 · p. 49
अनुष्टुप्
स्त्रियां तु स्याद्दधिमुखी कालरात्र्यामथो नपि ।दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २६७ ॥
6.267 · p. 49
अनुष्टुप्
दक्षिणस्थः सारथौ ना समासाद्यत्र पूर्ववत् ।दन्दशूको द्वयोः सर्पे दंशके तु त्रिषु स्मृतः ॥ २६८ ॥
6.268 · p. 49
अनुष्टुप्
दर्वीकरोद्वयोः सर्पे सर्पजात्यन्तरेऽपि च ।अत्रापि पूर्ववत् सादि दाक्षायणपदं पुनः ॥ २६९ ॥
6.269 · p. 49
अनुष्टुप्
दक्षापत्ये द्वयोः स्त्री तु पार्वत्यामवनौ स्त्रियाम् ।दाक्षायणी स्यादश्विन्याद्युडौ च क्ली तु हाटके ॥ २७० ॥
6.270 · p. 49
अनुष्टुप्
दाक्षिणात्यस्तु ना नालिकेरसंज्ञमहीरुहे ।दक्षिणापथजातादिष्वेष त्रि स्यादथ स्त्रियाम् ॥ २७१ ॥
6.271 · p. 49
अनुष्टुप्
द्राक्षायां स्याद्दारुफला समासाद्यत्र पूर्ववत् ।दिवाचरस्तु ना शुक्रे समासादि च पूर्ववत् ॥ २७२ ॥
6.272 · p. 49
अनुष्टुप्
दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे ।त्रिस्तु चोरे व्यवहितेऽप्यथ दिव्येलको द्वयोः ॥ २७३ ॥
6.273 · p. 49
अनुष्टुप्
त्रयोदशसु भेदेषु राजिलाख्यफणाभृतः ।एकत्र भेदे सर्पस्य वैकरञ्जाह्वयस्य च ॥ २७४ ॥
6.274 · p. 49
अनुष्टुप्
एकत्र त्रिषु भेदेषु द्विजपोतः पुनर्द्वयोः ।शूद्रे पक्षिशिशौ चात्र समासार्थादि पूर्ववत् ॥ २७५ ॥
6.275 · p. 50
अनुष्टुप्
चण्डाले नापिते चापि दिवाकीर्त्तिर्द्वयोर्मतः ।अत्रापि पूर्ववत् सादि दीर्घवृन्तस्तु पुंस्ययम् ॥ २७६ ॥
6.276 · p. 50
अनुष्टुप्
टुण्डुसंज्ञद्रुमेऽत्रापि समासार्थादि पूर्ववत् ।अथो पुनर्नवाजातिभेदेऽल्पे दीर्घपत्त्र्यसौ ॥ २७७ ॥
6.277 · p. 50
अनुष्टुप्
कदल्यां च स्त्रियां ना तु दीर्घपत्त्रः पलण्डुके ।दशस्वेकत्र लिङ्गार्थसमासाश्चात्र पूर्ववत् ॥ २७८ ॥
6.278 · p. 50
अनुष्टुप्
दीर्घपादो द्वयोः कङ्कसमाख्ये विहगान्तरे ।अत्रापि पूर्ववत् सादि दीर्घनादो द्वयोः शुनि ॥ २७९ ॥
6.279 · p. 50
अनुष्टुप्
अत्रापि पूर्ववत् सादि दीर्घनिद्रा मृतौ स्त्रियाम् ।अत्रापि पूर्ववत् सादि दीर्घरोमा पुनर्द्वयोः ॥ २८० ॥
6.280 · p. 50
अनुष्टुप्
ऋक्षाख्यश्वापदेऽत्रापि समासार्थादि पूर्ववत् ।दुरोदरस्तु नृनपोः पणे द्यूते नपुंसकम् ॥ २८१ ॥
6.281 · p. 50
अनुष्टुप्
ना तु द्यूतकरेऽथाग्नौ पुल्लिङ्गः स्याद्दुरासदः ।दुष्प्रापे त्रिरथो पुंसि शिशिरर्तौ द्रुमार्दनः ॥ २८२ ॥
6.282 · p. 50
अनुष्टुप्
अत्रापि पूर्ववत् सादि दूरदर्शी पुनर्द्वयोः ।गृध्रसंज्ञखगे त्रिस्तु (दूर)दर्शमनीषिणोः ॥ २८३ ॥
6.283 · p. 50
अनुष्टुप्metre not read in every line
स्त्रियां दृढदला तालीपादपे बल्बजेषु च ।अत्रापि पूर्ववत् सादि देशरूपस्तु पुन्नपोः ॥ २८४ ॥
6.284 · p. 50
अनुष्टुप्
न्यासे पूर्ववदत्रापि देवभिन्नस्त्वयं द्वयोः ।षड्विंशतौ स्याद्भेदेषु मण्डलाह्वयभोगिनः ॥ २८५ ॥
6.285 · p. 50
अनुष्टुप्
एकत्र भेदे विद्यात् तु समासाद्यत्र पूर्ववत् ।देवदण्डस्तु नृनपोर्दण्डाकारायुधान्तरे ॥ २८६ ॥
6.286 · p. 50
अनुष्टुप्
अरत्निमात्रे लिङ्गादि पूर्ववत् स्यादिहापि च ।ना तु देवमणिर्घोटगलदेशसमुद्भवे ॥ २८७ ॥
6.287 · p. 51
अनुष्टुप्
रोमावर्ते समासादि पूर्ववत् स्यादथ स्त्रियाम् ।स्याद्देवसिन्धुर्गङ्गायां समासाद्यत्र पूर्ववत् ॥ २८८ ॥
6.288 · p. 51
अनुष्टुप्
अष्टाङ्गुलप्रमाणे तु पुल्लिँङ्गः स्याद्धनुर्ग्रहः ।चापस्य ग्रहणे चाथ त्रिर्ग्रहीतरि धन्वनः ॥ २८९ ॥
6.289 · p. 51
अनुष्टुप्
चतुर्हस्तप्रमाणे तु धनुर्दण्डः पुमानयम् ।पूर्ववत् स्यात् समासादि धर्मपाल तु खड्गके ॥ २९० ॥
6.290 · p. 51
अनुष्टुप्
पुल्लिँङ्गः स्यात् समासादि पूर्वत्रेवात्र कल्पयेत् ।त्रिराढ्ये स्याद्धनपती राजराजे तु पुंस्ययम् ॥ २९१ ॥
6.291 · p. 51
अनुष्टुप्
धार्तराष्ट्रो द्वयोश्चञ्चूचरणैरसितैः सिते ।हंसभेदेऽप्यपत्ये च धृतराष्ट्रस्य ना पुनः ॥ २९२ ॥
6.292 · p. 51
अनुष्टुप्
नागराजे सुरे त्रिस्तु धृतराष्ट्रस्य योगिनि ।धामार्गवस्त्वपामार्गे कोशातक्यां च पुंस्ययम् ॥ २९३ ॥
6.293 · p. 51
अनुष्टुप्
तत्प्रसूने तु शण्डः स्यात् पुंसि तु स्याद्धुरन्धरः ।धवसंज्ञद्रुमे त्रिस्तु धूर्वहे स्यादथो पुमान् ॥ २९४ ॥
6.294 · p. 51
अनुष्टुप्
विन्यासभेदे वेश्मादेर्नन्द्यावर्तोऽपि नामभिः ।तगराद्यैः प्रसिद्धे च पुष्पगुल्मे नपि त्वयम् ॥ २९५ ॥
6.295 · p. 51
अनुष्टुप्
तत्पुष्पे नन्दयन्तस्तु पुमान् राज्ञि स्त्रियां पुनः ।नन्दयन्ती मृडान्यां स्यात् सुवर्णेऽपि सुखेऽपि च ॥ २९६ ॥
6.296 · p. 51
अनुष्टुप्
त्रि तु नन्दयितर्येष क्लीबे तु स्यान्नदीभवम् ।लवणे सैन्धवाभिख्ये समासाद्यत्र पूर्ववत् ॥ २९७ ॥
6.297 · p. 51
अनुष्टुप्
नवनीतं तु शण्डे स्याद् घृतप्रकृतिवस्तुनि ।अत्रापि पूर्ववत् सादि नमस्कारी पुनः स्त्रियाम् ॥ २९८ ॥
6.298 · p. 51
अनुष्टुप्
खदिरीसंज्ञके शाके नमस्कारस्तु ना नतौ ।नक्तञ्चर उलूके द्वे राक्षसे च त्रिषु त्वयम् ॥ २९९ ॥
6.299 · p. 52
अनुष्टुप्
स्याद्रात्रिचरमात्रे च नकूबारस्तु देवरे ।पुमान्निराश्रये तु त्रिर्ना तु नारायणो हरौ ॥ ३०० ॥
6.300 · p. 52
अनुष्टुप्
तस्यावतारभेदे च नरस्य सहचारिणि ।स्त्री तु नारायणी लक्ष्म्यां पार्वत्यां चाथ पठ्यते ॥ ३०१ ॥
6.301 · p. 52
अनुष्टुप्
सुपार्श्वस्थानवासिन्यां पार्वत्यां च विशेषतः ।महेश्वरस्यायतनं सुपार्श्वख्यं प्रतीयताम् ॥ ३०२ ॥
6.302 · p. 52
अनुष्टुप्
नारायणी शतावर्यामपि नागोदरी पुनः ।स्त्रियां भटानामुदरत्राणसन्नाह ईरिता ॥ ३०३ ॥
6.303 · p. 52
अनुष्टुप्
अत्रापि पूर्ववत् सादि नागदन्तस्तु पुंस्ययम् ।निर्यूहसंज्ञके वेश्मभित्तिशङ्कौ तथा दरे ॥ ३०४ ॥
6.304 · p. 52
अनुष्टुप्
नागस्य क्लीबलिङ्गं तु जानीयादासनान्तरे ।लक्षणं चोक्तमूर्ध्वज्ञोर्जानुस्थौ प्रसृतौ भुजौ ॥ ३०५ ॥
6.305 · p. 52
अनुष्टुप्
इत्येवं नागदन्ती तु स्त्री निकुम्भादिनामभिः ।प्रसिद्धे भेषजस्तम्बे द्वयोस्तु स्यान्निशाचरः ॥ ३०६ ॥
6.306 · p. 52
अनुष्टुप्
सर्पे च राक्षसे चापि स्त्रियां तु स्यान्निशाचरी ।सृगालजातिभेदे च शिवाख्ये दुष्टयोषिति ॥ ३०७ ॥
6.307 · p. 52
अनुष्टुप्
स्यान्निशाचारिमात्रे त्रि स्त्रियां तु स्यान्निरञ्जना ।एकत्र शक्तौ शक्तीनां नवानामपि शार्ङ्गिणः ॥ ३०८ ॥
6.308 · p. 52
अनुष्टुप्
पौर्णमास्यां द्वयोस्तु स्यात् कृष्णसाराह्वये मृगे ।त्रिर्निर्गताञ्जनादौ स्यादथ निर्भर्त्सनं नपि ॥ ३०९ ॥
6.309 · p. 52
अनुष्टुप्
अलक्तकेऽथ सीत्कारे न ना निर्भर्त्सनाथ वै ।बहुव्याकरणज्ञेन शाश्वतेनेदमीरितम् ॥ ३१० ॥
6.310 · p. 53
अनुष्टुप्
दर्शनेऽपि च मित्संज्ञामङ्गीकृत्य शमेर्यथा ।दर्शने श्रवणे चापि नता निशमनेत्यथ ॥ ३११ ॥
6.311 · p. 53
अनुष्टुप्
रज्जुत्रयप्रमाणे स्यात् क्लीबलिङ्गं निवर्तनम् ।उक्ताष्टहस्ता रज्जुश्च निवृत्तौ च निवर्तनम् ॥ ३१२ ॥
6.312 · p. 53
अनुष्टुप्
निवर्तना तु न पुमान् निवर्तयतिकर्मणि ।नियामकस्तु ना पोतवाहे त्रि तु नियन्तरि ॥ ३१३ ॥
6.313 · p. 53
अनुष्टुप्
निघातिका त्वयस्कारैर्यत्र निक्षिप्य हन्यते ।कूटेन लोहं तत्र स्त्री त्रिषु तु स्यान्निहन्तरि ॥ ३१४ ॥
6.314 · p. 53
अनुष्टुप्
निदेशनस्तु पुंसि स्याद् दशहस्ते प्रमाणके ।क्ली त्वाज्ञायां च दाने च न तु ना ण्यन्तकर्मणि ॥ ३१५ ॥
6.315 · p. 53
अनुष्टुप्
निषद्वरस्तु ना पङ्के वह्नाविन्द्रे च मन्मथे ।निषद्वरी तु स्त्री दृश्या प्रभायां रजनावपि ॥ ३१६ ॥
6.316 · p. 53
अनुष्टुप्
निरूपणा तु न पुमान् विचारे दर्शनेऽपि च ।निश्चारकस्तु पुल्लिँङ्गः पुरीषोत्सर्जिमारुते ॥ ३१७ ॥
6.317 · p. 53
अनुष्टुप्
निर्गन्तरि तु स त्रि स्यादथ निर्वाषणा न ना ।तापप्रशमनायां च वधे चाप्यपुमान् पुनः ॥ ३१८ ॥
6.318 · p. 53
अनुष्टुप्
निर्वासना वधे चापि पुरादेश्च बहिष्कृतौ ।अत्रापि पूर्ववत् सादि निर्यातनपदं पुनः ॥ ३१९ ॥
6.319 · p. 53
अनुष्टुप्
न्यासद्रव्यार्पणे दाने वैरशुद्धावथापरे ।आहुः प्रतीकारमात्रे नानार्थाद्यत्र पूर्ववत् ॥ ३२० ॥
6.320 · p. 53
अनुष्टुप्
क्ली तु निर्व्यथनं रन्ध्रे समासाद्यत्र पूर्ववत् ।त्रिर्निराकृतिराकृत्या हीने स्वाध्यायवर्जिते ॥ ३२१ ॥
6.321 · p. 53
अनुष्टुप्
स्त्री निराकरणे नित्यशङ्की तु स्याद्द्वयोर्मृगे ।नित्यं यः शङ्कते तत्र त्रिरथो नीलकण्ठवाक् ॥ ३२२ ॥
6.322 · p. 54
अनुष्टुप्
पुमान् हरे मूलकाख्यशाके च द्वे तु बर्हिणे ।अत्रापि पूर्ववत् सादि नीलग्रीवस्तु ना हरे ॥ ३२३ ॥
6.323 · p. 54
अनुष्टुप्
अत्रापि पूर्ववत् सादि नीलशीर्षः पुनर्द्वयोः ।गोलाङ्गूलाह्वयकपौ समासाद्यत्र पूर्ववत् ॥ ३२४ ॥
6.324 · p. 54
अनुष्टुप्
नीलकेशी स्त्रियां नील्यां समासाद्यत्र पूर्ववत् ।नीलवासास्तु पुंस्येव बलभद्रे शनैश्चरे ॥ ३२५ ॥
6.325 · p. 54
अनुष्टुप्
अत्रापि पूर्ववत् सादि स्त्रियां तु स्यान्नृपात्मजा ।कटुतुम्ब्यां पुमांस्तु स्यात् कूश्माण्डे द्वे तु भूपतेः ॥ ३२६ ॥
6.326 · p. 54
अनुष्टुप्
पुत्रे प्रतिसरस्तु स्याद्धस्तसूत्रे नृशण्डयोः ।स्याच्चमूजघने चापि ना त्वारक्षे च मण्डने ॥ ३२७ ॥
6.327 · p. 54
अनुष्टुप्
व्रणशुद्धौ च केचित् तु स्त्रियां प्रतिसरां विदुः ।असतीच्छद्मदूत्यामप्येकदेशे च वेश्मनः ॥ ३२८ ॥
6.328 · p. 54
अनुष्टुप्
भेद्यवत् तु नियोज्ये स्यात् त्रिषु तु स्यात् प्रतिष्कशः ।प्रतिगन्तरि प्रष्ठे च सहायेऽप्यथ पुंस्ययम् ॥ ३२९ ॥
6.329 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रि (wrong syllable)
वैजयन्ती समाम्नासीद् द्यूते प्रतिभयं पुनः ।भये नपुंसकं विद्यात् त्रिषु तु स्याद्भयानके ॥ ३३० ॥
6.330 · p. 54
अनुष्टुप्
प्रतिहारो द्वारपाले द्वारे प्रतिहृतावपि ।साम्नस्तृतीयभक्तौ च ना स्त्री तु प्रतिहार्यसौ ॥ ३३१ ॥
6.331 · p. 54
अनुष्टुप्
तत्र या स्त्री महीपालं सम्भावयति सर्वदा ।अत्रापि पूर्ववत् सादि प्रत्याहारस्त्वणादिषु ॥ ३३२ ॥
6.332 · p. 54
अनुष्टुप्
अप्यक्षरसमाम्नाये प्रत्यानयनकर्मणि ।वाद्यवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ३३३ ॥
6.333 · p. 54
अनुष्टुप्
विषयेभ्यः समाहृत्यामिन्द्रियाणामथेह च ।पूर्ववत् स्यात् समासादि प्रचलाकः पुनः पुमान् ॥ ३३४ ॥
6.334 · p. 55
अनुष्टुप्