कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धारिका

dhārikāस्त्री · fem.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.137 · p. 9
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका ।सा धारिका च घटिका मुहूर्तस्तद्द्वयेन च ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.126 · p. 21
क्षणषट्केन घटिका नाडिका धारिकापि च ।घटिके द्वे मुहूर्तः स्यात्त्रिंशता तैरहर्निशम् ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.123 · p. 18
लेशस्तु तद्द्वयेनैव तैः पञ्चदशभिः क्षणः ।नाडिका तु क्षणैः षड्भिः धारिका घटिका च सा ॥ १२३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.54 · p. 21
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.