कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

देवकाण्डः (1/3)

इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवाधिदेवकाण्डः प्रथमः ॥ १ ॥

स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
2.1 · p. 7
आर्या
तेषां यानं विमानोऽन्धः पीयूषममृतं सुधा ॥ ८९ ॥
2.89 · p. 7
अनुष्टुप्
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
2.90 · p. 7
आर्या
स्युः पिशाचा भूता यक्षा राक्षसाः किंनरा अपि ।किंपुरुषा महोरगा गन्धर्वाश्चान्तरा अमी ॥ ९१ ॥
2.91 · p. 7
metre not recognised
ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः ।
2.5 · p. 7
अनुष्टुप्
वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी ॥ ९२ ॥सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः ।शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ ९३ ॥कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः ।निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥ ९४ ॥
2.94 · p. 7
आर्याmetre not read in every line
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
2.98 · p. 7
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
2.100 · p. 8
रथोद्धता
प्रकाशस्तेज उद्योत आलोको वर्च आतपः ।
2.9 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ ॥परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः ।अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ १०२ ॥
2.102 · p. 8
अनुष्टुप्metre not read in every line
रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः ।
2.11 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ॥ १०३ ॥
2.103 · p. 8
अनुष्टुप्metre not read in every line
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः ।कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ १०४ ॥जैवातृकोऽब्जश्च कलाशशैणच्छायाभृदिन्दुर्विधुरत्रिदृग्जः ।राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिर्ग्लौः ॥ १०५ ॥
2.105 · p. 8
रथोद्धता
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
2.14 · p. 8
अनुष्टुप्
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
2.108 · p. 8
अनुष्टुप्
कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी ।
2.16 · p. 8
अनुष्टुप्
मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ ॥
2.109 · p. 8
अनुष्टुप्
इल्वलास्तु मृगशिरःशिरस्थाः पञ्च तारकाः ।
2.18 · p. 8
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable); pāda 4, syllable 3 र्व (wrong syllable)
आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० ॥आदित्यौ च पुष्पस्तिष्यः सिध्यश्च गुरुदैवतः ।
2.19 · p. 8
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
सार्प्यऽश्लेषा मघा पित्र्या फल्गुनी योनिदेवता ॥ १११ ॥
2.111 · p. 8
अनुष्टुप्metre not read in every line
सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः ।
2.21 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२ ॥
2.112 · p. 8
अनुष्टुप्metre not read in every line
राधानुराधा तु मैत्त्री ज्येष्ठैन्द्री मूल आस्रपः ।
2.23 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 त्त (wrong syllable)
पूर्वाषाढा तु सोत्तरा स्याद्वैश्वी श्रवणः पुनः ॥ ११३ ॥हरिदेवः श्रविष्ठा तु धनिष्ठा वसुदेवता ।
2.24 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ॥ ११४ ॥पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः ।
2.25 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पौ (wrong syllable)
रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥ ११५ ॥
2.115 · p. 9
अनुष्टुप्metre not read in every line
राशीनामुदयो लग्नं मेषप्रभृतयस्तु ते ।
2.27 · p. 9
अनुष्टुप्
आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ११६ ॥आषाढाभूर्नवार्चिश्च बुधः सौम्यः प्रहर्षुलः ।ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः ॥ ११७ ॥
2.117 · p. 9
अनुष्टुप्
बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।वाचस्पतिर्द्वादशार्चिर्धिषणः फाल्गुनीभवः ॥ ११८ ॥गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः ।
2.29 · p. 9
अनुष्टुप्
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
2.121 · p. 9
अनुष्टुप्metre not read in every line
अश्लेषाभूः शिखी केतुर्ध्रुवस्तूत्तानपादजः ।
2.31 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तिः (wrong syllable)
अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड्घटोद्भवः ॥ १२२ ॥मैत्त्रावरुणिराग्नेय और्वशेयाग्निमारुतौ ।
2.32 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ १२३ ॥
2.123 · p. 9
अनुष्टुप्metre not read in every line
मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः ।
2.34 · p. 9
अनुष्टुप्
पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥ १२४ ॥
2.124 · p. 9
अनुष्टुप्
राहुग्रासोऽर्केन्द्वोर्ग्रह उपराग उपप्लवः ।
2.36 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्द्वो (wrong syllable)
उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ १२५ ॥अजन्यमीतिरुत्पातो वह्न्युत्पात उपाहितः ।
2.37 · p. 9
अनुष्टुप्metre not read in every line
स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ १२६ ॥
2.126 · p. 9
अनुष्टुप्
कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः ।सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ १२७ ॥
2.127 · p. 9
metre not recognised
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ १२८ ॥
2.128 · p. 9
आर्याmetre not read in every line
तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः ।सागराणां सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ १२९ ॥
2.129 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable); pāda 3, syllable 6 ष (wrong syllable)
सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः ।सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥ १३० ॥
2.130 · p. 9
अनुष्टुप्metre not read in every line
अथ दुःषमैकविंशतिरब्दसहस्राणि तावती तु स्यात् ।
2.43 · p. 9
गीतिः
एकान्तदुःषमापि ह्येतत्संख्याः परेऽपि विपरीताः ॥ १३१ ॥प्रथमेऽरत्रये मर्त्यास्त्रिद्व्येकपल्यजीविताः ।त्रिद्व्येकगव्यूत्युच्छ्रायास्त्रिद्व्येकदिनभोजनाः ॥ १३२ ॥कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः ।पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥ १३३ ॥पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः ।षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥ १३४ ॥एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः ।पञ्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥ १३५ ॥
2.135 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
अष्टादश निमेषास्तु काष्ठा काष्ठाद्वयं लवः ।
2.45 · p. 9
अनुष्टुप्
कला तैः पञ्चदशभिर्लेशस्तद्द्वितयेन च ॥ १३६ ॥
2.136 · p. 9
अनुष्टुप्
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका ।सा धारिका च घटिका मुहूर्तस्तद्द्वयेन च ॥ १३७ ॥
2.137 · p. 9
अनुष्टुप्
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
2.139 · p. 9
अनुष्टुप्
दिनावसानमुत्सूरो विकालसबली अपि ।सायं संध्या तु पितृसूस्त्रिसंध्यं तूपवैणवम् ॥ १४० ॥
2.140 · p. 9
अनुष्टुप्
श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः ।
2.50 · p. 9
अनुष्टुप्
निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ ॥त्रियामा यामिनी भौती तमी तमा विभावरी ।रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२ ॥उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी ।
2.51 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
ज्यौत्स्नी तु पूर्णिमारात्रिर्गणरात्रो निशागणः ॥ १४३ ॥
2.143 · p. 10
अनुष्टुप्
पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा ।
2.53 · p. 10
अनुष्टुप्
गर्भकं रजनीद्वन्द्वं प्रदोषो रजनीमुखम् ॥ १४४ ॥
2.144 · p. 10
अनुष्टुप्
यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा ।
2.55 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ १४५ ॥ध्वान्तं भूछायान्धकारं तमसं समवान्धतः ।
2.56 · p. 10
metre not recognised
तुल्यनक्तंदिने काले विषुवद्विषुवं च तत् ॥ १४६ ॥
2.146 · p. 10
अनुष्टुप्
पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः ।
2.58 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ञ्च (wrong syllable)
तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे ॥ १४७ ॥
2.147 · p. 10
metre not recognised
पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि ।
2.60 · p. 10
अनुष्टुप्
तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥ १४८ ॥
2.148 · p. 10
अनुष्टुप्
स पर्व संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
2.62 · p. 10
अनुष्टुप्
पूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे ॥ १४९ ॥
2.149 · p. 10
अनुष्टुप्
कलाहीने त्वनुमतिर्मार्गशीर्ष्याग्रहायणी ।
2.64 · p. 10
अनुष्टुप्
अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः ॥ १५० ॥अमावास्यामावासी च सा नष्टेन्दुः कुहुः कुहूः ।
2.65 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
दृष्टेन्दुस्तु सिनीवाली भूतेष्टा तु चतुर्दशी ॥ १५१ ॥
2.151 · p. 10
अनुष्टुप्metre not read in every line
पक्षो मासो वत्सरादिर्मार्गशीर्षः सहः सहाः ।आग्रहायणिकश्चाथ पौषस्तैषः सहस्यवत् ॥ १५२ ॥
2.152 · p. 10
अनुष्टुप्
माघस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् ।
2.68 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
चैत्रो मधुश्चैत्रिकश्च वैशाखे राधमाधवौ ॥ १५३ ॥
2.153 · p. 10
metre not recognised
ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः ।श्रावणिकोऽथ नभस्यः प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः ।कार्तिकिको बाहुलोर्जौ द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥
2.155 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)
हेमन्तः प्रसलो रौद्रोऽथ शैषशिशिरौ समौ ।
2.71 · p. 10
अनुष्टुप्
वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः ॥ १५६ ॥
2.156 · p. 10
अनुष्टुप्
उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः ।
2.73 · p. 10
अनुष्टुप्
वर्षास्तपात्ययः प्रावृण्मेघकालागमौ क्षरी ॥ १५७ ॥
2.157 · p. 10
अनुष्टुप्
शरद्घनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः ।
2.75 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 य (wrong syllable)
अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १५८ ॥
2.158 · p. 10
अनुष्टुप्metre not read in every line
स संपर्यनूद्भ्यो वर्षं हायनोऽब्दं समाः शरत् ।
2.77 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नू (wrong syllable)
भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् ॥ १५९ ॥
2.159 · p. 10
अनुष्टुप्metre not read in every line
दैवे युगसहस्रे द्वे ब्राह्मं कल्पौ तु तौ नृणाम् ।
2.79 · p. 10
अनुष्टुप्
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ १६० ॥
2.160 · p. 10
अनुष्टुप्
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः ।संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ ॥
2.161 · p. 10
अनुष्टुप्
तत्कालस्तु तदात्वं स्यात्तज्जं सांदृष्टिकं फलम् ।
2.82 · p. 10
अनुष्टुप्
आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम् ॥ १६२ ॥
2.162 · p. 10
अनुष्टुप्
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
2.164 · p. 10
upajati mixed
कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः ।
2.86 · p. 10
अनुष्टुप्
आसारो वेगवान्वर्षो वातास्तं वारिशीकरः ॥ १६५ ॥
2.165 · p. 10
अनुष्टुप्
वृष्ट्यां वर्षणवर्षे तद्विघ्ने ग्राहग्रहाववात् ।
2.88 · p. 10
अनुष्टुप्
घनोपलस्तु करकः काष्ठाशा दिग्धरित्ककुप् ॥ १६६ ॥
2.166 · p. 10
अनुष्टुप्
दिश्यं दिग्भववस्तुन्यपागपाचीनमुदगुदीचीनम् ।
2.91 · p. 10
आर्या
प्राक्प्राचीनं च समे प्रत्यक्तु स्यात्प्रतीचीनम् ॥ १६८ ॥
2.168 · p. 10
आर्या
तिर्यग्दिशां तु पतय इन्द्राग्नियमर्नैरृताः ।वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९ ॥
2.169 · p. 11
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 म (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १७० ॥
2.170 · p. 11
अनुष्टुप्
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
2.95 · p. 11
इन्द्रवंशा
द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ॥ १७४ ॥जम्भः प्रिया शचीन्द्राणी पौलोमी जयवाहिनी ।
2.96 · p. 11
अनुष्टुप्
तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ १७५ ॥
2.175 · p. 11
अनुष्टुप्
सुता जयन्ती तविषी ताविष्युच्चैःश्रवा हयः ।
2.98 · p. 11
अनुष्टुप्
मातलिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ॥ १७६ ॥
2.176 · p. 11
अनुष्टुप्
ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः ।ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः ॥ १७७ ॥
2.177 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती ।
2.101 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
सरो नन्दीसरः पर्षत्सुधर्मा नन्दनं वनम् ॥ १७८ ॥
2.178 · p. 11
अनुष्टुप्metre not read in every line
वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः ।संतानश्च धनुर्देवायुधं तदृजु रोहितम् ॥ १७९ ॥
2.179 · p. 11
अनुष्टुप्
दीर्घर्ज्वैरावतं वज्रं त्वशनिर्ह्रादिनी स्वरुः ।शतकोटिः पविः शम्बो दम्भोलिर्भिदुरं भिदुः ॥ १८० ॥व्याधामः कुलिशोऽस्यार्चिरतिभीः स्फूर्जथुर्ध्वनिः ।
2.104 · p. 11
अनुष्टुप्
स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥ १८१ ॥नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ ।
2.105 · p. 11
अनुष्टुप्
विश्वकर्मा पुनस्त्वष्टा विश्वकृद्देववर्धकिः ॥ १८२ ॥
2.182 · p. 11
अनुष्टुप्
स्वःस्वर्गिवध्वोऽप्सरसः स्वर्वेश्या उर्वशीमुखाः ।
2.107 · p. 11
अनुष्टुप्
हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः ॥ १८३ ॥
2.183 · p. 11
अनुष्टुप्
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
2.185 · p. 11
उपजातिः
पुरी पुनः संयमनी प्रतीहारस्तु वैध्यतः ।
2.110 · p. 11
अनुष्टुप्
दासौ चण्डमहाचण्डौ चित्रगुप्तश्च लेखकः ॥ १८६ ॥
2.186 · p. 11
अनुष्टुप्
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
2.188 · p. 11
metre not recognised
श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिर ऐलबिलैकपिङ्गाः ।पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥ १८९ ॥कैलासौका यक्षधननिधिकिंपुरुषेश्वराः ।
2.113 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभा ॥ १९० ॥अलका वस्वोकसारा सुतोऽस्य नलकूबरः ।
2.114 · p. 11
अनुष्टुप्metre not read in every line
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
2.192 · p. 12
अनुष्टुप्
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १९३ ॥
2.193 · p. 12
अनुष्टुप्
यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि ।
2.117 · p. 12
अनुष्टुप्metre not read in every line
किंनरस्तु किंपुरुषस्तुरंगवदनो मयुः ॥ १९४ ॥
2.194 · p. 12
अनुष्टुप्metre not read in every line
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
2.119 · p. 12
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः ॥ २०० ॥
2.200 · p. 12
अनुष्टुप्